शान्तिपर्वम् अध्यायः 01-30

श्रीः

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

001-अध्यायः -राजधर्मपर्व

वैशम्पायन उवाच||

कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः |

विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ||१||

तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः |

शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ||२||

कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् |

अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ||३||

द्वैपायनो नारदश्च देवलश्च महानृषिः |

देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||४||

अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः |

गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ||५||

अभिगम्य महात्मानः पूजिताश्च यथाविधि |

आसनेषु महार्हेषु विविशुस्ते महर्षयः ||६||

प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा |

पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ||७||

पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् |

आश्वासयन्तो राजानं विप्राः शतसहस्रशः ||८||

नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् |

विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ||९||

भवतो बाहुवीर्येण प्रसादान्माधवस्य च |

जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ||१०||

दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात् |

क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ||११||

कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप |

कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ||१२||

युधिष्ठिर उवाच||

विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् |

ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ||१३||

इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा |

कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ||१४||

सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् |

                                   जयोऽयमजयाकारो भगवन्प्रतिभाति मे ||१५||

किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् |

द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ||१६||

द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा |

अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ||१७||

इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद |

मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ||१८||

योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे |

सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ||१९||

आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः |

अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ||२०||

शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः |

गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ||२१||

तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् |

पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ||२२||

यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत |

स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ||२३||

अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः |

तन्मे दहति गात्राणि तूलराशिमिवानलः ||२४||

न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः |

नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ||२५||

गता किल पृथा तस्य सकाशमिति नः श्रुतम् |

अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ||२६||

पृथाया न कृतः कामस्तेन चापि महात्मना |

अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ||२७||

न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे |

अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ||२८||

युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव |

भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ||२९||

सोऽहं निर्जित्य समरे विजयं सहकेशवम् |

सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ||३०||

तमवोचत्किल पृथा पुनः पृथुलवक्षसम् |

चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ||३१||

सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः |

प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ||३२||

पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् |

सकर्णा वा हते पार्थे सार्जुना वा हते मयि ||३३||

तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् |

भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ||३४||

तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् |

सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ||३५||

न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने |

अथ शूरो महेष्वासः पार्थेनासौ निपातितः ||३६||

अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम |

पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ||३७||

तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः |

कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ||३८||

सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः |

सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ||३९||

यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः |

सभायां गदतो द्यूते दुर्योधनहितैषिणः ||४०||

तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह |

कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ||४१||

सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह |

कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् ||४२||

कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् |

कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ||४३||

श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् |

भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ||४४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

002-अध्यायः

वैशम्पायन उवाच||

स एवमुक्तस्तु मुनिर्नारदो वदतां वरः |

कथयामास तत्सर्वं यथा शप्तः स सूतजः ||१||

एवमेतन्महाबाहो यथा वदसि भारत |

न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे ||२||

गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप |

तन्निबोध महाराज यथा वृत्तमिदं पुरा ||३||

क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो |

सङ्घर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ||४||

स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः |

चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ||५||

स बलं भीमसेनस्य फल्गुनस्य च लाघवम् |

बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ||६||

सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः |

प्रजानामनुरागं च चिन्तयानो व्यदह्यत ||७||

स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै |

युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ||८||

विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् |

द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ||९||

ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् |

अर्जुनेन समो युद्धे भवेयमिति मे मतिः ||१०||

समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् |

त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ||११||

द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति |

दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ||१२||

ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः |

क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ||१३||

इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च |

जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ||१४||

स तु राममुपागम्य शिरसाभिप्रणम्य च |

ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ||१५||

रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः |

उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ||१६||

तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे |

गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ||१७||

स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि |

प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ||१८||

स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके |

एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ||१९||

सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः |

जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ||२०||

तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् |

कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ||२१||

अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव |

मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ||२२||

तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव |

दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ||२३||

येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् |

युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ||२४||

ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः |

पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ||२५||

यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम |

प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ||२६||

ततः प्रसादयामास पुनस्तं द्विजसत्तमम् |

गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ||२७||

नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा |

गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ||२८||

इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः |

राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ||२९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

003-अध्यायः

नारद उवाच||

कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च |

तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ||१||

तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् |

प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ||२||

विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः |

चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ||३||

ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् |

कर्णेन सहितो धीमानुपवासेन कर्शितः ||४||

सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः |

कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ||५||

अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः |

दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ||६||

स तस्योरुमथासाद्य बिभेद रुधिराशनः |

न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ||७||

संदश्यमानोऽपि तथा कृमिणा तेन भारत |

गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ||८||

कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् |

अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ||९||

यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः |

तदाबुध्यत तेजस्वी सन्तप्तश्चेदमब्रवीत् ||१०||

अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया |

कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ||११||

तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् |

ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ||१२||

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् |

रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ||१३||

स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् |

तस्मिन्नेवासृक्सङ्क्लिन्ने तदद्भुतमिवाभवत् ||१४||

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् |

राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ||१५||

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः |

स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ||१६||

मोक्षितो नरकादस्मि भवता मुनिसत्तम |

भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ||१७||

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् |

कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ||१८||

सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः |

पुरा देवयुगे तात भृगोस्तुल्यवया इव ||१९||

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् |

महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ||२०||

अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः |

मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ||२१||

शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् |

भविता भार्गवे राम इति मामब्रवीद्भृगुः ||२२||

सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा |

त्वया साधो समागम्य विमुक्तः पापयोनितः ||२३||

एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः |

रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ||२४||

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् |

क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ||२५||

तमुवाच ततः कर्णः शापभीतः प्रसादयन् |

ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ||२६||

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि |

प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ||२७||

पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः |

अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ||२८||

तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव |

भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ||२९||

यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया |

तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ||३०||

अन्यत्र वधकालात्ते सदृशेन समेयुषः |

अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ||३१||

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते |

न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ||३२||

एवमुक्तस्तु रामेण न्यायेनोपजगाम सः |

दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ||३३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

004-अध्यायः

नारद उवाच||

कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् |

दुर्योधनेन सहितो मुमुदे भरतर्षभ ||१||

ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे |

कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ||२||

श्रीमद्राजपुरं नाम नगरं तत्र भारत |

राजानः शतशस्तत्र कन्यार्थं समुपागमन् ||३||

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् |

रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ||४||

ततः स्वयंवरे तस्मिन्सम्प्रवृत्ते महोत्सवे |

समापेतुर्नृपतयः कन्यार्थे नृपसत्तम ||५||

शिशुपालो जरासन्धो भीष्मको वक्र एव च |

कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ||६||

सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः |

अशोकः शतधन्वा च भोजो वीरश्च नामतः ||७||

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः |

म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत ||८||

काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः |

सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः ||९||

ततः समुपविष्टेषु तेषु राजसु भारत |

विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता ||१०||

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत |

अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ||११||

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् |

प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ||१२||

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः |

रथमारोप्य तां कन्यामाजुहाव नराधिपान् ||१३||

तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान् |

कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ||१४||

ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर |

संनह्यतां तनुत्राणि रथान्योजयतामपि ||१५||

तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ |

शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ||१६||

कर्णस्तेषामापततामेकैकेन क्षुरेण ह |

धनूंषि सशरावापान्यपातयत भूतले ||१७||

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् |

कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा ||१८||

लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः |

हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ||१९||

ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः |

व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ||२०||

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा |

हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

005-अध्यायः

नारद उवाच||

आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः |

आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ||१||

तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः |

युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ||२||

क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ |

बाहुभिः समसज्जेतामुभावपि बलान्वितौ ||३||

बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः |

बिभेद सन्धिं देहस्य जरया श्लेषितस्य ह ||४||

स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः |

प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ||५||

प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ |

अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ||६||

पालयामास चम्पां तु कर्णः परबलार्दनः |

दुर्योधनस्यानुमते तवापि विदितं तथा ||७||

एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ |

त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ||८||

स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते |

सहजं कवचं चैव मोहितो देवमायया ||९||

विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा |

निहतो विजयेनाजौ वासुदेवस्य पश्यतः ||१०||

ब्राह्मणस्याभिशापेन रामस्य च महात्मनः |

कुन्त्याश्च वरदानेन मायया च शतक्रतोः ||११||

भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् |

शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ||१२||

रुद्रस्य देवराजस्य यमस्य वरुणस्य च |

कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ||१३||

अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना |

हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ||१४||

एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः |

न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

006-अध्यायः

वैशम्पायन उवाच||

एतावदुक्त्वा देवर्षिर्विरराम स नारदः |

युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ||१||

तं दीनमनसं वीरमधोवदनमातुरम् |

निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ||२||

कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना |

अब्रवीन्मधुराभाषा काले वचनमर्थवत् ||३||

युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि |

जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ||४||

यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव |

भास्करेण च देवेन पित्रा धर्मभृतां वर ||५||

यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता |

तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ||६||

न चैनमशकद्भानुरहं वा स्नेहकारणैः |

पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ||७||

ततः कालपरीतः स वैरस्योद्धुक्षणे रतः |

प्रतीपकारी युष्माकमिति चोपेक्षितो मया ||८||

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः |

उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ||९||

भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् |

शशाप च महातेजाः सर्वलोकेषु च स्त्रियः ||१०||

न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ||१०||

स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा |

स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ||११||

ततः शोकपरीतात्मा सधूम इव पावकः |

निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः ||१२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

007-अध्यायः

वैशम्पायन उवाच||

युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः |

शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ||१||

आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः |

दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ||२||

यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् |

ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ||३||

अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल |

आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ||४||

धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् |

धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ||५||

साधु क्षमा दमः शौचमवैरोध्यममत्सरः |

अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ||६||

वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः |

इमामवस्थामापन्ना राज्यलेशबुभुक्षया ||७||

त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् |

बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ||८||

ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् |

सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः ||९||

आमिषे गृध्यमानानामशुनां नः शुनामिव |

आमिषं चैव नो नष्टमामिषस्य च भोजिनः ||१०||

न पृथिव्या सकलया न सुवर्णस्य राशिभिः |

न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ||११||

संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः |

मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ||१२||

बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् |

तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ||१३||

उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः |

लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ||१४||

यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि |

सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम् ||१५||

इह चामुत्र चैवेति कृपणाः फलहेतुकाः ||१५||

तासामयं समारम्भो निवृत्तः केवलोऽफलः |

यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ||१६||

अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च |

पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ||१७||

यदैषामङ्ग पितरौ जातौ काममयाविव |

सञ्जातबलरूपेषु तदैव निहता नृपाः ||१८||

संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः |

न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ||१९||

पाञ्चालानां कुरूणां च हता एव हि येऽहताः |

ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ||२०||

वयमेवास्य लोकस्य विनाशे कारणं स्मृताः |

धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ||२१||

सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः |

मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ||२२||

अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् |

न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ||२३||

नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् |

न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ||२४||

ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः |

धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ||२५||

तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् |

अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ||२६||

असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ||२६||

अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् |

पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् ||२७||

इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः |

अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ||२८||

को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने |

यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ||२९||

आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः |

प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ||३०||

सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः |

दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ||३१||

अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ||३१||

कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् |

राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ||३२||

हताः शूराः कृतं पापं विषयः स्वो विनाशितः |

हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ||३३||

धनञ्जय कृतं पापं कल्याणेनोपहन्यते |

त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ||३४||

त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा |

प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा ||३५||

स धनञ्जय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः |

वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ||३६||

न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः |

परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ||३७||

मया निसृष्टं पापं हि परिग्रहमभीप्सता |

जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः ||३८||

स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च |

गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ||३९||

प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् |

न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ||४०||

एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः |

व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

008-अध्यायः

वैशम्पायन उवाच||

अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी |

अभिनीततरं वाक्यं दृढवादपराक्रमः ||१||

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |

स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः ||२||

अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् |

यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ||३||

शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् |

हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ||४||

क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः |

किमर्थं च महीपालानवधीः क्रोधमूर्छितः ||५||

यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् |

समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ||६||

सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ||६||

कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः |

सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ||७||

सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः |

कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ||८||

अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् |

धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ||९||

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः |

भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ||१०||

आकिञ्चन्यमनाशास्यमिति वै नहुषोऽब्रवीत् |

कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ||११||

अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् |

यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ||१२||

धर्मं संहरते तस्य धनं हरति यस्य यः |

ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ||१३||

अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् |

दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ||१४||

पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते |

विशेषं नाधिगच्छामि पतितस्याधनस्य च ||१५||

अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः |

क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ||१६||

अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप |

प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ||१७||

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः |

व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ||१८||

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः |

यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ||१९||

अधनेनार्थकामेन नार्थः शक्यो विवित्सता |

अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ||२०||

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः |

अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ||२१||

धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते |

नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ||२२||

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति |

धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ||२३||

यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः |

स वै राजन्कृशो नाम न शरीरकृशः कृशः ||२४||

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा |

राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ||२५||

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् |

एतावानेव वेदेषु निश्चयः कविभिः कृतः ||२६||

अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता |

सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ||२७||

द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः |

इति देवा व्यवसिता वेदवादाश्च शाश्वताः ||२८||

अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च |

कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः ||२९||

न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम् |

एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ||३०||

जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने |

राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ||३१||

यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश |

एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ||३२||

आसीदियं दिलीपस्य नृगस्य नहुषस्य च |

अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ||३३||

स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः |

तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ||३४||

येषां राजाश्वमेधेन यजते दक्षिणावता |

उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ||३५||

विश्वरूपो महादेवः सर्वमेधे महामखे |

जुहाव सर्वभूतानि तथैवात्मानमात्मना ||३६||

शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम |

महान्दाशरथः पन्था मा राजन्कापथं गमः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

009-अध्यायः

युधिष्ठिर उवाच||

मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि |

धारयित्वापि ते श्रुत्वा रोचतां वचनं मम ||१||

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः |

गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ||२||

क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् |

अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ||३||

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः |

अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ||४||

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् |

कृशः परिमिताहारश्चर्मचीरजटाधरः ||५||

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः |

तपसा विधिदृष्टेन शरीरमुपशोषयन् ||६||

मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः |

मुदितानामरण्येषु वसतां मृगपक्षिणाम् ||७||

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् |

नानारूपान्वने पश्यन्रमणीयान्वनौकसः ||८||

वानप्रस्थजनस्यापि दर्शनं कुलवासिनः |

नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ||९||

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् |

पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||१०||

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |

सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ||११||

अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |

चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ||१२||

पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः |

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||१३||

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |

निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ||१४||

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः |

अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् ||१५||

जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् |

प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ||१६||

न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |

प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ||१७||

अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् |

न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ||१८||

गमने निरपेक्षश्च पश्चादनवलोकयन् |

ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ||१९||

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि |

द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ||२०||

अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् |

अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ||२१||

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |

अतीतपात्रसञ्चारे काले विगतभिक्षुके ||२२||

एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च |

स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ||२३||

न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |

जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ||२४||

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः |

नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ||२५||

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः |

सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ||२६||

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः |

सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ||२७||

विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः |

न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||२८||

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् |

तृष्णया हि महत्पापमज्ञानादस्मि कारितः ||२९||

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः |

कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ||३०||

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् |

प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ||३१||

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् |

समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ||३२||

जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् |

असारमिममस्वन्तं संसारं त्यजतः सुखम् ||३३||

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु |

को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ||३४||

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् |

पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ||३५||

तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् |

तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ||३६||

एतया सततं वृत्त्या चरन्नेवम्प्रकारया |

देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

010-अध्यायः

भीम उवाच||

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः |

अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ||१||

आलस्ये कृतचित्तस्य राजधर्मानसूयतः |

विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ||२||

क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते |

क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ||३||

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् |

शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ||४||

भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् |

न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ||५||

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः |

स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ||६||

आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः |

हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ||७||

ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः |

तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ||८||

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् |

पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ||९||

यथारुह्य महावृक्षमपहृत्य ततो मधु |

अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ||१०||

यथा महान्तमध्वानमाशया पुरुषः पतन् |

स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ||११||

यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम |

आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ||१२||

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया |

कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ||१३||

वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः |

त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ||१४||

वयं हि बाहुबलिनः कृतविद्या मनस्विनः |

क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ||१५||

अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये |

कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ||१६||

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते |

जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ||१७||

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते |

धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ||१८||

कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः |

तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ||१९||

श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् |

वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ||२०||

शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना |

धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ||२१||

शक्यं पुनररण्येषु सुखमेकेन जीवितुम् |

अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ||२२||

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः |

अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ||२३||

यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् |

पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ||२४||

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः |

अपरिग्रहवन्तश्च सततं चात्मचारिणः ||२५||

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते |

तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||२६||

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः |

येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ||२७||

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् |

तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||२८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

011-अध्यायः

ऋषिशकुनिसंवादः

अर्जुन उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

तापसैः सह संवादं शक्रस्य भरतर्षभ ||१||

केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः |

अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ||२||

धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः |

त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ||३||

तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः |

सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ||४||

पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् |

संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ||५||

ऋषय ऊचुः||

अहो बतायं शकुनिर्विघसाशान्प्रशंसति |

अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ||६||

शकुनिरुवाच||

नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् |

उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ||७||

ऋषय ऊचुः||

इदं श्रेयः परमिति वयमेवाभ्युपास्महे |

शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ||८||

शकुनिरुवाच||

यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना |

ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ||९||

ऋषय ऊचुः||

शृणुमस्ते वचस्तात पन्थानो विदितास्तव |

नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ||१०||

शकुनिरुवाच||

चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् |

शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ||११||

मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते |

जीवतो यो यथाकालं श्मशाननिधनादिति ||१२||

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः |

अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ||१३||

आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते |

मासार्धमासा ऋतव आदित्यशशितारकम् ||१४||

ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् |

सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ||१५||

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः |

मूढानामर्थहीनानां तेषामेनस्तु विद्यते ||१६||

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् |

सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ||१७||

एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् |

तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ||१८||

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् |

संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ||१९||

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः |

तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ||२०||

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः |

कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ||२१||

एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः |

तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ||२२||

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः |

सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ||२३||

दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च |

अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ||२४||

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः |

लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ||२५||

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः |

वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ||२६||

ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् |

उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ||२७||

तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् |

प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ||२८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

012-अध्यायः

वैशम्पायन उवाच||

अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् |

राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ||१||

अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः |

व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ||२||

विशाखयूपे देवानां सर्वेषामग्नयश्चिताः |

तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ||३||

अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये |

तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ||४||

वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ||४||

न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु |

देवयानेन नाकस्य पृष्ठमाप्नोति भारत ||५||

अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः |

ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध जनाधिप ||६||

वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् |

कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ||७||

अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः |

आत्मत्यागी महाराज स त्यागी तामसः प्रभो ||८||

अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः |

अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ||९||

क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते |

विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ||१०||

आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः |

एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ||११||

समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत |

अयं पन्था महर्षीणामियं लोकविदां गतिः ||१२||

इति यः कुरुते भावं स त्यागी भरतर्षभ |

न यः परित्यज्य गृहान्वनमेति विमूढवत् ||१३||

यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः |

अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ||१४||

अभिमानकृतं कर्म नैतत्फलवदुच्यते |

त्यागयुक्तं महाराज सर्वमेव महाफलम् ||१५||

शमो दमस्तपो दानं सत्यं शौचमथार्जवम् |

यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ||१६||

पितृदेवातिथिकृते समारम्भोऽत्र शस्यते |

अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ||१७||

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |

त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ||१८||

असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः |

मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ||१९||

वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः |

पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ||२०||

गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् |

तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ||२१||

तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः |

न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ||२२||

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे |

अथापरे महायज्ञान्मनसैव वितन्वते ||२३||

एवं दानसमाधानं मार्गमातिष्ठतो नृप |

द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ||२४||

स रत्नानि विचित्राणि सम्भृतानि ततस्ततः |

मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ||२५||

कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ||२५||

राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः |

य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ||२६||

तैर्यजस्व महाराज शक्रो देवपतिर्यथा ||२६||

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् |

अशरण्यः प्रजानां यः स राजा कलिरुच्यते ||२७||

अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः |

ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ||२८||

अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः |

वयं ते राजकलयो भविष्यामो विशां पते ||२९||

अदातारोऽशरण्याश्च राजकिल्बिषभागिनः |

दुःखानामेव भोक्तारो न सुखानां कदाचन ||३०||

अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् |

तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ ||३१||

छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् |

लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ||३२||

अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् |

परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ||३३||

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते |

ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ||३४||

निहत्य शत्रूंस्तरसा समृद्धा; न्शक्रो यथा दैत्यबलानि सङ्ख्ये |

कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ||३५||

क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय |

नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

013-अध्यायः

सहदेव उवाच||

न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |

शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||१||

बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः |

यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ||२||

शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः |

यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ||३||

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |

ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||४||

ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ |

अदृश्यमानौ भूतानि योधयेतामसंशयम् ||५||

अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत |

भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ||६||

अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा |

नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ||७||

तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः |

पन्था निषेवितः सद्भिः स निषेव्यो विजानता ||८||

लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् |

न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ||९||

अथ वा वसतो राजन्वने वन्येन जीवतः |

द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ||१०||

बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत |

ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ||११||

भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः |

दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ||१२||

तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् |

तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

014-अध्यायः

वैशम्पायन उवाच||

अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे |

भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ||१||

महाभिजनसम्पन्ना श्रीमत्यायतलोचना |

अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा ||२||

आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् |

सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ||३||

अभिमानवती नित्यं विशेषेण युधिष्ठिरे |

लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ||४||

आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना |

भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् ||५||

इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव |

वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ||६||

नन्दयैतान्महाराज मत्तानिव महाद्विपान् |

उपपन्नेन वाक्येन सततं दुःखभागिनः ||७||

कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः |

भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ||८||

वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् |

सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ||९||

विरथांश्च रथान्कृत्वा निहत्य च महागजान् |

संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ||१०||

यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः |

वनवासकृतं दुःखं भविष्यति सुखाय नः ||११||

इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर |

कथमद्य पुनर्वीर विनिहंसि मनांस्युत ||१२||

न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते |

न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ||१३||

नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते |

नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत ||१४||

मित्रता सर्वभूतेषु दानमध्ययनं तपः |

ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम ||१५||

असतां प्रतिषेधश्च सतां च परिपालनम् |

एष राज्ञां परो धर्मः समरे चापलायनम् ||१६||

यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये |

निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ||१७||

न श्रुतेन न दानेन न सान्त्वेन न चेज्यया |

त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत ||१८||

यत्तद्बलममित्राणां तथा वीरसमुद्यतम् |

हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैर्महत्तरम् ||१९||

रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च |

तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् ||२०||

जम्बूद्वीपो महाराज नानाजनपदायुतः |

त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ||२१||

जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप |

अपरेण महामेरोर्दण्डेन मृदितस्त्वया ||२२||

क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप |

पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ||२३||

उत्तरेण महामेरोः शाकद्वीपेन संमितः |

भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ||२४||

द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः |

विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ||२५||

एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत |

न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ||२६||

स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत |

ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव ||२७||

अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः |

एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः ||२८||

किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः |

समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ||२९||

अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी |

युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ||३०||

हत्वा राजसहस्राणि बहून्याशुपराक्रमः |

तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप ||३१||

येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः |

तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः ||३२||

यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप |

बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् ||३३||

कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति |

धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ||३४||

भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ||३४||

साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम |

तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् ||३५||

एतेषां यतमानानामुत्पद्यन्ते तु सम्पदः |

त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् ||३६||

यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ |

मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ||३७||

प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् |

सपर्वतवनद्वीपां मा राजन्विमना भव ||३८||

यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च |

पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

015-अध्यायः

वैशम्पायन उवाच||

याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् |

अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ||१||

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति |

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ||२||

धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप |

कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ||३||

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते |

एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ||४||

राजदण्डभयादेके पापाः पापं न कुर्वते |

यमदण्डभयादेके परलोकभयादपि ||५||

परस्परभयादेके पापाः पापं न कुर्वते |

एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ||६||

दण्डस्यैव भयादेके न खादन्ति परस्परम् |

अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ||७||

यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि |

दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ||८||

वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् |

दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ||९||

असंमोहाय मर्त्यानामर्थसंरक्षणाय च |

मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशां पते ||१०||

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः |

प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ||११||

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः |

दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ||१२||

नाभीतो यजते राजन्नाभीतो दातुमिच्छति |

नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ||१३||

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् |

नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ||१४||

नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः |

इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ||१५||

य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् |

हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ||१६||

हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः |

वसवो मरुतः साध्या विश्वेदेवाश्च भारत ||१७||

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः |

न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ||१८||

मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् |

यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ||१९||

न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया |

सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ||२०||

नकुलो मूषकानत्ति बिडालो नकुलं तथा |

बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ||२१||

तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः |

प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ||२२||

विधानं देवविहितं तत्र विद्वान्न मुह्यति |

यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ||२३||

विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः |

विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ||२४||

उदके बहवः प्राणाः पृथिव्यां च फलेषु च |

न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ||२५||

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् |

पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ||२६||

ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः |

वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ||२७||

भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् |

मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ||२८||

दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः |

कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ||२९||

दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः |

शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||३०||

सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः |

पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; सन्तर्जिता दण्डभयाज्ज्वलन्ति ||३१||

अन्धं तम इवेदं स्यान्न प्रज्ञायेत किञ्चन |

दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ||३२||

येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः |

तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ||३३||

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः |

दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते ||३४||

चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च |

दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् ||३५||

यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च |

अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ||३६||

न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते |

न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ||३७||

विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः |

ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ||३८||

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः |

विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ||३९||

चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः |

न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ||४०||

न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः |

युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ||४१||

न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् |

तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ||४२||

दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः |

दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ||४३||

न तत्र कूटं पापं वा वञ्चना वापि दृष्यते |

यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ||४४||

हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् |

हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ||४५||

यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः |

कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ||४६||

सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः |

संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ||४७||

अर्थे सर्वे समारम्भाः समायत्ता न संशयः |

स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ||४८||

लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् |

अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः ||४९||

नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः |

उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ||५०||

पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् |

कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ||५१||

एवं पर्याकुले लोके विपथे जर्जरीकृते |

तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ||५२||

यज देहि प्रजा रक्ष धर्मं समनुपालय |

अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ||५३||

मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत |

न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत ||५४||

आततायी हि यो हन्यादाततायिनमागतम् |

न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ||५५||

अवध्यः सर्वभूतानामन्तरात्मा न संशयः |

अवध्ये चात्मनि कथं वध्यो भवति केनचित् ||५६||

यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् |

एवं जीवः शरीराणि तानि तानि प्रपद्यते ||५७||

देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते |

एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ||५८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

016-अध्यायः

वैशम्पायन उवाच||

अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |

धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ||१||

राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि |

उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ||२||

न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् |

अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ||३||

भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् |

विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ||४||

कथं हि राजा लोकस्य सर्वशास्त्रविशारदः |

मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ||५||

आगतिश्च गतिश्चैव लोकस्य विदिता तव |

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ||६||

एवं गते महाराज राज्यं प्रति जनाधिप |

हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ||७||

द्विविधो जायते व्याधिः शारीरो मानसस्तथा |

परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ||८||

शारीराज्जायते व्याधिर्मानसो नात्र संशयः |

मानसाज्जायते व्याधिः शारीर इति निश्चयः ||९||

शारीरमानसे दुःखे योऽतीते अनुशोचति |

दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||१०||

शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः |

तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ||११||

तेषामन्यतमोत्सेके विधानमुपदिष्यते |

उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ||१२||

सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः |

हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ||१३||

कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति |

कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||१४||

स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च |

न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ||१५||

स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् |

अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे ||१६||

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् |

मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ||१७||

प्रव्राजनं च नगरादजिनैश्च निवासनम् |

महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ||१८||

जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् |

सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ||१९||

पुनरज्ञातचर्यायां कीचकेन पदा वधम् ||१९||

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम |

मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ||२०||

यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः |

आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||२१||

तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे |

अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ||२२||

तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ |

एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ||२३||

एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |

पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||२४||

दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि |

द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ||२५||

यजस्व वाजिमेधेन विधिवद्दक्षिणावता |

वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

017-अध्यायः

युधिष्ठिर उवाच||

असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता |

बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ||१||

एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि |

निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ||२||

य इमामखिलां भूमिं शिष्यादेको महीपतिः |

तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ||३||

नाह्ना पूरयितुं शक्या न मासेन नरर्षभ |

अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ||४||

यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति |

अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ||५||

जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ||५||

मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि |

अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ||६||

योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ |

मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ||७||

एकोदरकृते व्याघ्रः करोति विघसं बहु |

तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः ||८||

विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः |

न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ||९||

पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा |

अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ||१०||

यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः |

तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ||११||

सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव |

विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ||१२||

निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् |

परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ||१३||

पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ |

ईजानाः पितृयानेन देवयानेन मोक्षिणः ||१४||

तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः |

विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ||१५||

आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् |

ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ||१६||

अपि गाथामिमां गीतां जनकेन वदन्त्युत |

निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता ||१७||

अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन |

मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ||१८||

प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् |

जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ||१९||

दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् |

अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते ||२०||

यस्तु वाचं विजानाति बहुमानमियात्स वै |

ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ||२१||

यदा भूतपृथग्भावमेकस्थमनुपश्यति |

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||२२||

ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः |

नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

018-अध्यायः

जनकोपाख्यानम्

वैशम्पायन उवाच||

तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् |

सन्तप्तः शोकदुःखाभ्यां राज्ञो वाक्षल्यपीडितः ||१||

कथयन्ति पुरावृत्तमितिहासमिमं जनाः |

विदेहराज्ञः संवादं भार्यया सह भारत ||२||

उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् |

विदेहराजं महिषी दुःखिता प्रत्यभाषत ||३||

धनान्यपत्यं मित्राणि रत्नानि विविधानि च |

पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ||४||

तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिञ्चनम् |

धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ||५||

तमुवाच समागम्य भर्तारमकुतोभयम् |

क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ||६||

कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् |

कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः ||७||

प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव |

यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ||८||

नैतेनातिथयो राजन्देवर्षिपितरस्तथा |

शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः ||९||

देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव |

सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ||१०||

यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः |

भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ||११||

श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे |

अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ||१२||

अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते |

त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ||१३||

ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि |

राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ||१४||

नैव तेऽस्ति परो लोको नापरः पापकर्मणः |

धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ||१५||

स्रजो गन्धानलङ्कारान्वासांसि विविधानि च |

किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः ||१६||

निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् |

आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे ||१७||

खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत |

बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ||१८||

य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् |

वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ||१९||

यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः |

यदानेन समं सर्वं किमिदं मम दीयते ||२०||

धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ||२०||

का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः |

प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ||२१||

प्रासादं शयनं यानं वासांस्याभरणानि च ||२१||

श्रिया निराशैरधनैस्त्यक्तमित्रैरकिञ्चनैः |

सौखिकैः सम्भृतानर्थान्यः सन्त्यजसि किं नु तत् ||२२||

योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि |

तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ||२३||

सदैव याचमानेषु सत्सु दम्भविवर्जिषु |

एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ||२४||

जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति |

सदैव याचमानो वै तथा शाम्यति न द्विजः ||२५||

सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा |

न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ||२६||

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |

अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ||२७||

गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः |

प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ||२८||

त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् |

ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ||२९||

असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः |

समः शत्रौ च मित्रे च स वै मुक्तो महीपते ||३०||

परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः |

सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ||३१||

त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये |

त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ||३२||

अनिष्कषाये काषायमीहार्थमिति विद्धि तत् |

धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ||३३||

काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् |

बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ||३४||

अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् |

ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ||३५||

तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते |

सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः ||३६||

एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः |

आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः ||३७||

पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः |

इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

019-अध्यायः

युधिष्ठिर उवाच||

वेदाहं तात शास्त्राणि अपराणि पराणि च |

उभयं वेदवचनं कुरु कर्म त्यजेति च ||१||

आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च |

निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ||२||

त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः |

शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ||३||

शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः |

तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ||४||

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया |

न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ||५||

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च |

न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ||६||

धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया |

धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि ||७||

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया |

समासविस्तरविदां न तेषां वेत्सि निश्चयम् ||८||

तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् |

परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ||९||

न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति |

अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ||१०||

तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः |

ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ||११||

अजातश्मश्रवो धीरास्तथान्ये वनवासिनः |

अनन्ता अधना एव स्वाध्यायेन दिवं गताः ||१२||

उत्तरेण तु पन्थानमार्या विषयनिग्रहात् |

अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ||१३||

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि |

एते क्रियावतां लोका ये श्मशानानि भेजिरे ||१४||

अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः |

तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ||१५||

अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः |

अपीह स्यादपीह स्यात्सारासारदिदृक्षया ||१६||

वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च |

विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ||१७||

अथैकान्तव्युदासेन शरीरे पञ्चभौतिके |

इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ||१८||

अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा |

कर्महेतुपुरस्कारं भूतेषु परिवर्तते ||१९||

कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च |

कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ||२०||

अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते |

कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ||२१||

पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत |

क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ||२२||

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः |

दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ||२३||

अमृतस्यावमन्तारो वक्तारो जनसंसदि |

चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ||२४||

यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति |

एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ||२५||

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् |

त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

020-अध्यायः

देवस्थानवाक्यम्

वैशम्पायन उवाच||

तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः |

अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ||१||

यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति |

अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ||२||

अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता |

तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ||३||

चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता |

तां क्रमेण महाबाहो यथावज्जय पार्थिव ||४||

तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः |

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ||५||

कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत |

वैखानसानां राजेन्द्र वचनं श्रूयते यथा ||६||

ईहते धनहेतोर्यस्तस्यानीहा गरीयसी |

भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ||७||

कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् |

धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ||८||

अनर्हते यद्ददाति न ददाति यदर्हते |

अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ||९||

यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च |

तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः ||१०||

यज्ञैरिन्द्रो विविधैरन्नवद्भि; र्देवान्सर्वानभ्ययान्महौजाः |

तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||११||

महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः |

विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः ||१२||

आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् |

यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ||१३||

हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः |

ऋद्ध्या शक्रं योऽजयन्मानुषः सं; स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

021-अध्यायः

देवस्थान उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ||१||

सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् |

तुष्टेर्न किञ्चित्परतः सुसम्यक्परितिष्ठति ||२||

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः |

तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति ||३||

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति |

कामद्वेषौ च जयति तदात्मानं प्रपश्यति ||४||

यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति |

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||५||

एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा |

तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत ||६||

अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा |

नैकं न चापरं केचिदुभयं च तथापरे ||७||

यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः |

दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् ||८||

केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ||८||

राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् |

हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ||९||

एतत्सर्वं समालोक्य बुधानामेष निश्चयः |

अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ||१०||

अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा |

प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ||११||

धनं धर्मप्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत् |

तस्मादेवं प्रयत्नेन कौन्तेय परिपालय ||१२||

यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः |

क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ||१३||

असाधुनिग्रहरतः साधूनां प्रग्रहे रतः |

धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ||१४||

पुत्रसङ्क्रामितश्रीस्तु वने वन्येन वर्तयन् |

विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ||१५||

य एवं वर्तते राजा राजधर्मविनिश्चितः |

तस्यायं च परश्चैव लोकः स्यात्सफलो नृप ||१६||

निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ||१६||

एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः |

आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ||१७||

प्रजानां पालने युक्ता दममुत्तममास्थिताः |

गोब्राह्मणार्थं युद्धेन सम्प्राप्ता गतिमुत्तमाम् ||१८||

एवं रुद्राः सवसवस्तथादित्याः परन्तप |

साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः ||१९||

अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ||१९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

022-अध्यायः

वैशम्पायन उवाच||

तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् |

विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ||१||

क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् |

जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ||२||

क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम् |

विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ||३||

ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः |

क्षत्रियाणां च विहितं सङ्ग्रामे निधनं विभो ||४||

क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः |

वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ||५||

ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः |

प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ||६||

न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर |

क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ||७||

स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ |

राजा मनीषी निपुणो लोके दृष्टपरावरः ||८||

त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि |

क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ||९||

जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् |

विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ||१०||

इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् |

ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ||११||

तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते |

तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ||१२||

स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः |

यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ||१३||

मा त्वमेवङ्गते किञ्चित्क्षत्रियर्षभ शोचिथाः |

गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ||१४||

भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ |

दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

023-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत |

नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ||१||

बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर |

शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ||२||

स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि |

न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ||३||

गृहस्थं हि सदा देवाः पितर ऋषयस्तथा |

भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ||४||

वयांसि पशवश्चैव भूतानि च महीपते |

गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ||५||

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः |

तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः ||६||

वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् |

पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ||७||

तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः |

ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ||८||

ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः |

क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः ||९||

यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति |

दण्डधारणमत्युग्रं प्रजानां परिपालनम् ||१०||

वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा |

द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ||११||

एतानि राज्ञां कर्माणि सुकृतानि विशां पते |

इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् ||१२||

तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते |

बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ||१३||

एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः |

अपि गाथामिमां चापि बृहस्पतिरभाषत ||१४||

भूमिरेतौ निगिरति सर्पो बिलशयानिव |

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||१५||

सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् |

प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

024-अध्यायः

शङ्खलिखितोपाख्यानम्

युधिष्ठिर उवाच||

भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः |

संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ||१||

व्यास उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ||२||

तयोरावसथावास्तां रमणीयौ पृथक्पृथक् |

नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ||३||

ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् |

यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ||४||

सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा |

फलानि शातयामास सम्यक्परिणतान्युत ||५||

तान्युपादाय विस्रब्धो भक्षयामास स द्विजः |

तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ||६||

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् |

कुतः फलान्यवाप्तानि हेतुना केन खादसि ||७||

सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च |

इत एव गृहीतानि मयेति प्रहसन्निव ||८||

तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः |

स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ||९||

गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ||९||

अदत्तादानमेवेदं कृतं पार्थिवसत्तम |

स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ||१०||

शीघ्रं धारय चौरस्य मम दण्डं नराधिप ||१०||

इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् |

अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ||११||

सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् |

अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ||१२||

तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् |

किमागमनमाचक्ष्व भगवन्कृतमेव तत् ||१३||

एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् |

प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि ||१४||

अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ |

भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ||१५||

सुद्युम्न उवाच||

प्रमाणं चेन्मतो राजा भवतो दण्डधारणे |

अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ||१६||

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः |

ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ||१७||

व्यास उवाच||

छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना |

नान्यं वै वरयामास तस्माद्दण्डादृते वरम् ||१८||

ततः स पृथिवीपालो लिखितस्य महात्मनः |

करौ प्रच्छेदयामास धृतदण्डो जगाम सः ||१९||

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् |

धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ||२०||

शङ्ख उवाच||

न कुप्ये तव धर्मज्ञ न च दूषयसे मम |

धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ||२१||

स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि |

देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ||२२||

व्यास उवाच||

तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा |

अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ||२३||

प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ |

ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ||२४||

ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया |

मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ||२५||

लिखित उवाच||

किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते |

यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ||२६||

शङ्ख उवाच||

एवमेतन्मया कार्यं नाहं दण्डधरस्तव |

स च पूतो नरपतिस्त्वं चापि पितृभिः सह ||२७||

व्यास उवाच||

स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा |

प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||२८||

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् |

उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ||२९||

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम |

दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

025-अध्यायः

हयग्रीवोपाख्यानम्

२५

वैशम्पायन उवाच||

पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् |

अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ||१||

अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् |

मनोरथा महाराज ये तत्रासन्युधिष्ठिर ||२||

तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः |

प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ||३||

अरण्ये दुःखवसतिरनुभूता तपस्विभिः |

दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ||४||

धर्ममर्थं च कामं च भ्रातृभिः सह भारत |

अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ||५||

अतिथीनां च पितॄणां देवतानां च भारत |

आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ||६||

सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन |

ततः पश्चान्महाराज गमिष्यसि परां गतिम् ||७||

भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः |

सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ||८||

विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन |

शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ||९||

आददानस्य च धनं निग्रहं च युधिष्ठिर |

समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ||१०||

देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः |

शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ||११||

आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति |

प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ||१२||

निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः |

निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ||१३||

कामक्रोधावनादृत्य पितेव समदर्शनः ||१३||

दैवेनोपहते राजा कर्मकाले महाद्युते |

प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ||१४||

तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः |

पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ||१५||

शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर |

गोमतो धनिनश्चैव परिपाल्या विशेषतः ||१६||

व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः |

गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ||१७||

अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः |

एनसा युज्यते राजा दुर्दान्त इति चोच्यते ||१८||

येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे |

तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ||१९||

सुमन्त्रिते सुनीते च विधिवच्चोपपादिते |

पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ||२०||

विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः |

कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ||२१||

अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् |

यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ||२२||

शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः |

असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ||२३||

यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् |

कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके ||२४||

सन्त्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः |

अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके ||२५||

धनुर्यूपो रशना ज्या शरः स्रु; क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् |

रथो वेदी कामगो युद्धमग्नि; श्चातुर्होत्रं चतुरो वाजिमुख्याः ||२६||

हुत्वा तस्मिन्यज्ञवह्नावथारी; न्पापान्मुक्तो राजसिंहस्तरस्वी |

प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके ||२७||

राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |

सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके ||२८||

दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च |

तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके ||२९||

विद्वांस्त्यागी श्रद्दधानः कृतज्ञ; स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा |

मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा ||३०||

सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा |

चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके ||३१||

जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् |

युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||३२||

वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः |

स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ||३३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

026-अध्यायः

सेनजिद् वाक्यम्

वैशम्पायन उवाच||

द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये |

व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ||१||

न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः |

प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ||२||

श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् |

परिदेवयमानानां शान्तिं नोपलभे मुने ||३||

इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः |

युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ||४||

न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित् |

पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ||५||

न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले |

मूर्खोऽपि प्राप्नोति कदाचिदर्था; न्कालो हि कार्यं प्रति निर्विशेषः ||६||

नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि |

तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले ||७||

कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति |

कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु ||८||

कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः |

नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति ||९||

नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च |

नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः ||१०||

नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः |

नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् ||११||

नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति |

नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली ||१२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ||१३||

सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः |

कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ||१४||

घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा |

सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ||१५||

हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे |

स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ||१६||

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते |

अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ||१७||

स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि |

पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ||१८||

आत्मापि चायं न मम सर्वापि पृथिवी मम |

यथा मम तथान्येषामिति पश्यन्न मुह्यति ||१९||

शोकस्थानसहस्राणि हर्षस्थानशतानि च |

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||२०||

एवमेतानि कालेन प्रियद्वेष्याणि भागशः |

जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ||२१||

दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते |

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ||२२||

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |

न नित्यं लभते दुःखं न नित्यं लभते सुखम् ||२३||

सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च |

तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ||२४||

यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः |

आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ||२५||

सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् |

प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ||२६||

ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् |

ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ||२७||

ये च मूढतमा लोके ये च बुद्धेः परं गताः |

त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ||२८||

इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् |

परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ||२९||

सुखी परस्य यो दुःखे न जातु स सुखी भवेत् |

दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ||३०||

सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च |

पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् ||३१||

दीक्षां यज्ञे पालनं युद्धमाहु; र्योगं राष्ट्रे दण्डनीत्या च सम्यक् |

वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् ||३२||

रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा |

सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा; प्यूर्ध्वं देहान्मोदते देवलोके ||३३||

जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च |

युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||३४||

सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा |

चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके ||३५||

यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः |

पौरजानपदामात्याः स राजा राजसत्तमः ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

027-अध्यायः

युधिष्ठिर उवाच||

अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च |

धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ||१||

वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे |

तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ||२||

न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् |

राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ||३||

यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् |

स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः ||४||

यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः |

कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ||५||

जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् |

कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ||६||

प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः |

घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ||७||

यः स बाणधनुष्पाणिर्योधयामास भार्गवम् |

बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ||८||

समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः |

कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ||९||

येन चोग्रायुधो राजा चक्रवर्ती दुरासदः |

दग्धः शस्त्रप्रतापेन स मया युधि घातितः ||१०||

स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् |

न बाणैः पातयामास सोऽर्जुनेन निपातितः ||११||

यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् |

तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ||१२||

येन संवर्धिता बाला येन स्म परिरक्षिताः ||१२||

स मया राज्यलुब्धेन पापेन गुरुघातिना |

अल्पकालस्य राज्यस्य कृते मूढेन घातितः ||१३||

आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः |

अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ||१४||

तन्मे दहति गात्राणि यन्मां गुरुरभाषत |

सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ||१५||

सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ||१५||

कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया |

सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ||१६||

सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे |

अश्वत्थामा हत इति कुञ्जरे विनिपातिते ||१७||

कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ||१७||

अघातयं च यत्कर्णं समरेष्वपलायिनम् |

ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ||१८||

अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु |

प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ||१९||

तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् |

कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ||२०||

द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् |

शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ||२१||

सोऽहमागस्करः पापः पृथिवीनाशकारकः |

आसीन एवमेवेदं शोषयिष्ये कलेवरम् ||२२||

प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् |

जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ||२३||

न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन |

शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ||२४||

यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः |

सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ||२५||

वैशम्पायन उवाच||

तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् |

मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ||२६||

अतिवेलं महाराज न शोकं कर्तुमर्हसि |

पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ||२७||

संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् |

बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ||२८||

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||२९||

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् |

भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ||३०||

नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः |

न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ||३१||

यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु |

अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

028-अध्यायः

अश्मजनकसंवादः

वैशम्पायन उवाच||

ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः |

ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ||१||

व्यास उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ||२||

अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः |

संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ||३||

जनक उवाच||

आगमे यदि वापाये ज्ञातीनां द्रविणस्य च |

नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ||४||

अश्मोवाच||

उत्पन्नमिममात्मानं नरस्यानन्तरं ततः |

तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ||५||

तेषामन्यतरापत्तौ यद्यदेवोपसेवते |

तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ||६||

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः |

इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ||७||

स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् |

परिक्षीणः परस्वानामादानं साधु मन्यते ||८||

तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् |

प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ||९||

ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः |

परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ||१०||

तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् |

सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ||११||

मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः |

अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ||१२||

एवमेतानि दुःखानि तानि तानीह मानवम् |

विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ||१३||

जरामृत्यू ह भूतानि खादितारौ वृकाविव |

बलिनां दुर्बलानां च ह्रस्वानां महतामपि ||१४||

न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः |

अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ||१५||

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् |

प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ||१६||

पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप |

अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ||१७||

सुप्रियैर्विप्रयोगश्च सम्प्रयोगस्तथाप्रियैः |

अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ||१८||

प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च |

प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ||१९||

गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः |

तथैव सुखदुःखानि विधानमनुवर्तते ||२०||

आसनं शयनं यानमुत्थानं पानभोजनम् |

नियतं सर्वभूतानां कालेनैव भवन्त्युत ||२१||

वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः |

स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ||२२||

कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च |

सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ||२३||

सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् |

बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ||२४||

व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् |

रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ||२५||

निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना |

दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ||२६||

दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः |

दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ||२७||

अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः |

समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ||२८||

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |

काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ||२९||

अहमेतत्करोमीति मन्यते कालचोदितः |

यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् ||३०||

स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः |

दृश्यन्ते चापि बहवः सम्प्रसक्ता बहुश्रुताः ||३१||

इति कालेन सर्वार्थानीप्सितानीप्सितानि च |

स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ||३२||

वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे |

ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ||३३||

शीतमुष्णं तथा वर्षं कालेन परिवर्तते |

एवमेव मनुष्याणां सुखदुःखे नरर्षभ ||३४||

नौषधानि न शास्त्राणि न होमा न पुनर्जपाः |

त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ||३५||

यथा काष्ठं च काष्ठं च समेयातां महोदधौ |

समेत्य च व्यतीयातां तद्वद्भूतसमागमः ||३६||

ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः |

ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ||३७||

मातृपितृसहस्राणि पुत्रदारशतानि च |

संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ||३८||

नैवास्य कश्चिद्भविता नायं भवति कस्यचित् |

पथि सङ्गतमेवेदं दारबन्धुसुहृद्गणैः ||३९||

क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः |

कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ||४०||

अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ||४०||

न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः |

आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ||४१||

कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् |

यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ||४२||

संनिमज्जज्जगदिदं गम्भीरे कालसागरे |

जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ||४३||

आयुर्वेदमधीयानाः केवलं सपरिग्रहम् |

दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ||४४||

ते पिबन्तः कषायांश्च सर्पींषि विविधानि च |

न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ||४५||

रसायनविदश्चैव सुप्रयुक्तरसायनाः |

दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ||४६||

तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः |

दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ||४७||

न ह्यहानि निवर्तन्ते न मासा न पुनः समाः |

जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ||४८||

सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः |

नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ||४९||

देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः |

पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ||५०||

नायमत्यन्तसंवासो लभ्यते जातु केनचित् |

अपि स्वेन शरीरेण किमुतान्येन केनचित् ||५१||

क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |

न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ||५२||

न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा |

आगमस्तु सतां चक्षुर्नृपते तमिहाचर ||५३||

चरितब्रह्मचर्यो हि प्रजायेत यजेत च |

पितृदेवमहर्षीणामानृण्यायानसूयकः ||५४||

स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः |

आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् ||५५||

सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत् |

प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ||५६||

व्यास उवाच||

इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः |

अश्मानमामन्त्र्य विशुद्धबुद्धि; र्ययौ गृहं स्वं प्रति शान्तशोकः ||५७||

तथा त्वमप्यच्युत मुञ्च शोक; मुत्तिष्ठ शक्रोपम हर्षमेहि |

क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ||५८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

029-अध्यायः

षोडशराजकीयोपाख्यानम्

वैशम्पायन उवाच||

अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे |

गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ||१||

ज्ञातिशोकाभिसन्तप्तो धर्मराजः परन्तपः |

एष शोकार्णवे मग्नस्तमाश्वासय माधव ||२||

सर्वे स्म ते संशयिताः पुनरेव जनार्दन |

अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ||३||

एवमुक्तस्तु गोविन्दो विजयेन महात्मना |

पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ||४||

अनतिक्रमणीयो हि धर्मराजस्य केशवः |

बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ||५||

सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् |

शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ||६||

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् |

व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ||७||

मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् |

न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ||८||

स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने |

एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ||९||

सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः |

नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ||१०||

सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे |

शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ||११||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ||१२||

सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय |

अविमुक्तं चरिष्यामस्तत्र का परिदेवना ||१३||

महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु |

गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ||१४||

मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् |

श्रुत्वापनय सन्तापं शृणु विस्तरशश्च मे ||१५||

आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि |

यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ||१६||

देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ||१६||

यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् |

शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ||१७||

संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ||१७||

यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम |

अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ||१८||

आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः |

मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ||१९||

मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते |

देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||२०||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||२१||

सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम |

यस्मै हिरण्यं ववृषे मगह्वान्परिवत्सरम् ||२२||

सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप |

हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ||२३||

कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि |

नदीष्वपातयद्राजन्मघवा लोकपूजितः ||२४||

हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् |

सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ||२५||

तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले |

ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||२६||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||२७||

अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ||२७||

अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय |

यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ||२८||

सहस्रं च सहस्राणां कन्या हेमविभूषिताः |

ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||२९||

शतं शतसहस्राणां वृषाणां हेममालिनाम् |

गवां सहस्रानुचरं दक्षिणामत्यकालयत् ||३०||

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ |

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||३१||

यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुनः |

देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||३२||

न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति |

यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ||३३||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||३४||

शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय |

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ||३५||

महता रथघोषेण पृथिवीमनुनादयन् |

एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ||३६||

यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह |

तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ||३७||

नोद्यन्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः |

न भूतं न भविष्यन्तं सर्वराजसु भारत ||३८||

अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ||३८||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||३९||

अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ||३९||

भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम |

शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ||४०||

यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु |

सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ||४१||

अश्वमेधसहस्रेण राजसूयशतेन च |

इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ||४२||

भरतस्य महत्कर्म सर्वराजसु पार्थिवाः |

खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ||४३||

परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च |

सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ||४४||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||४५||

रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय |

योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ||४६||

विधवा यस्य विषये नानाथाः काश्चनाभवन् |

सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ||४७||

कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च |

नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ||४८||

प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् |

न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ||४९||

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः |

अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ||५०||

नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् |

धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ||५१||

नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः |

सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ||५२||

स चतुर्दश वर्षाणि वने प्रोष्य महातपाः |

दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ||५३||

श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः |

दश वर्षसहस्राणि रामो राज्यमकारयत् ||५४||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||५५||

भगीरथं च राजानं मृतं शुश्रुम सृञ्जय |

यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ||५६||

असुराणां सहस्राणि बहूनि सुरसत्तमः |

अजयद्बाहुवीर्येण भगवान्पाकशासनः ||५७||

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः |

ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||५८||

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः |

रथे रथे शतं नागाः पद्मिनो हेममालिनः ||५९||

सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः |

गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ||६०||

उपह्वरे निवसतो यस्याङ्के निषसाद ह |

गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ||६१||

भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् |

त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ||६२||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||६३||

दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय |

यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ||६४||

इमां वै वसुसम्पन्नां वसुधां वसुधाधिपः |

ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ||६५||

तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः |

सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ||६६||

यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः |

तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ||६७||

चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये |

ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ||६८||

अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् |

सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ||६९||

एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे |

यत्स्त्रियो हेमसम्पन्नाः पथि मत्ताः स्म शेरते ||७०||

राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् |

येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ||७१||

त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने |

स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ||७२||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||७३||

मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय |

यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ||७४||

संवृद्धो युवनाश्वस्य जठरे यो महात्मनः |

पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ||७५||

यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् |

अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ||७६||

मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत |

मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ||७७||

ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः |

तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ||७८||

तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत |

स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ||७९||

तमियं पृथिवी सर्वा एकाह्ना समपद्यत |

धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ||८०||

य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् |

अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ||८१||

यौवनाश्वो यदाङ्गारं समरे समयोधयत् |

विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ||८२||

यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति |

सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ||८३||

अश्वमेधशतेनेष्ट्वा राजसूयशतेन च |

अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ||८४||

हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् |

अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ||८५||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||८६||

ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय |

य इमां पृथिवीं सर्वां विजित्य सहसागराम् ||८७||

शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप |

ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम् ||८८||

इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च |

तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ||८९||

व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् |

व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ||९०||

अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् |

पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ||९१||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||९२||

अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय |

यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ||९३||

यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् |

ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||९४||

नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे |

इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ||९५||

शतं राजसहस्राणि शतं राजशतानि च |

सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ||९६||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||९७||

शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय |

यस्य भार्यासहस्राणां शतमासीन्महात्मनः ||९८||

सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः |

हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ||९९||

शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः |

कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ||१००||

रथं रथं शतं चाश्वा देशजा हेममालिनः |

अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ||१०१||

एतद्धनमपर्यन्तमश्वमेधे महामखे |

शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ||१०२||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१०३||

गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय |

यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ||१०४||

यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः |

ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ||१०५||

मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन |

लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ||१०६||

दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः |

अयजत्स महातेजाः सहस्रं परिवत्सरान् ||१०७||

शतं गवां सहस्राणि शतमश्वशतानि च |

उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ||१०८||

तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि |

पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ||१०९||

सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् |

दक्षिणामददद्राजा वाजिमेधमहामखे ||११०||

यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ |

तावतीरेव गाः प्रादादामूर्तरयसो गयः ||१११||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||११२||

रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय |

सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ||११३||

अन्नं च नो बहु भवेदतिथींश्च लभेमहि |

श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ||११४||

उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् |

ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ||११५||

महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः |

ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ||११६||

ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः |

तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ||११७||

सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ||११७||

अन्वाहार्योपकरणं द्रव्योपकरणं च यत् |

घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ||११८||

न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ||११८||

साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे |

आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ||११९||

तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः |

सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ||१२०||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१२१||

सगरं च महात्मानं मृतं शुश्रुम सृञ्जय |

ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ||१२२||

षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः |

नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ||१२३||

एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा |

योऽश्वमेधसहस्रेण तर्पयामास देवताः ||१२४||

यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् |

पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ||१२५||

द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा |

यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ||१२६||

खानयामास यः कोपात्पृथिवीं सागराङ्किताम् |

यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ||१२७||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१२८||

राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय |

यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ||१२९||

प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः |

क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ||१३०||

पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् |

ततो राजेति नामास्य अनुरागादजायत ||१३१||

अकृष्टपच्या पृथिवी पुटके पुटके मधु |

सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ||१३२||

अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः |

यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ||१३३||

आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः |

सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ||१३४||

हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् |

ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ||१३५||

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया |

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१३६||

किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि |

न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् ||१३७||

सृञ्जय उवाच||

शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् |

राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् ||१३८||

न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः |

शुश्रूषे ते वचनं ब्रह्मवादि; न्न ते तृप्याम्यमृतस्येव पानात् ||१३९||

अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः |

मृतस्य सञ्जीवनमद्य मे स्या; त्तव प्रसादात्सुतसङ्गमश्च ||१४०||

नारद उवाच||

यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते |

पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ||१४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

030-अध्यायः

युधिष्ठिर उवाच||

स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् |

पर्वतेन किमर्थं च दत्तः केन ममार च ||१||

यदा वर्षसहस्रायुस्तदा भवति मानवः |

कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ||२||

उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् |

तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ||३||

वासुदेव उवाच||

अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर |

नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ||४||

मातुलो भागिनेयश्च देवलोकादिहागतौ |

विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू ||५||

हविःपवित्रभोज्येन देव भोज्येन चैव ह |

नारदो मातुलश्चैव भागिनेयश्च पर्वतः ||६||

तावुभौ तपसोपेताववनीतलचारिणौ |

भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ||७||

प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः |

यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||८||

अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ||८||

तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ |

सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ||९||

आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते |

यथावत्पृथिवीपाल आवयोः प्रगुणीभव ||१०||

तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ||१०||

ततः कदाचित्तौ राजा महात्मानौ तथागतौ |

अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ||११||

एकैव मम कन्यैषा युवां परिचरिष्यति |

दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ||१२||

सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ||१२||

परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् |

कन्ये विप्रावुपचर देववत्पितृवच्च ह ||१३||

सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी |

यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ||१४||

तस्यास्तथोपचारेण रूपेणाप्रतिमेन च |

नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ||१५||

ववृधे च ततस्तस्य हृदि कामो महात्मनः |

यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ||१६||

न च तं भागिनेयाय पर्वताय महात्मने |

शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ||१७||

तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् |

कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ||१८||

कृत्वा समयमव्यग्रो भवान्वै सहितो मया |

यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||१९||

अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् |

भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ||२०||

न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा |

सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ||२१||

ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् |

अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ||२२||

शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे |

सुकुमारी च ते भार्या भविष्यति न संशयः ||२३||

वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो |

संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ||२४||

स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा |

अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ||२५||

तपसा ब्रह्मचर्येण सत्येन च दमेन च |

युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ||२६||

तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ |

प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ||२७||

पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः |

पूज्यमानो यथान्यायं तेजसा स्वेन भारत ||२८||

अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् |

धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ||२९||

सा तु कन्या यथाशापं नारदं तं ददर्श ह |

पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ||३०||

सुकुमारी च देवर्षिं वानरप्रतिमाननम् |

नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ||३१||

उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् |

देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ||३२||

ततः कदाचिद्भगवान्पर्वतोऽनुससार ह |

वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ||३३||

ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा |

भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ||३४||

तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा |

कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ||३५||

त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि |

इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ||३६||

अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ||३६||

तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् |

निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ||३७||

श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् |

सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ||३८||

तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् |

अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ||३९||

ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः |

तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ||४०||

सानुनीता बहुविधं पर्वतेन महात्मना |

शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ||४१||

पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ||४१||

प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः |

एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ||४२||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.