शान्तिपर्वम् अध्यायः 308-326

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

308-अध्यायः

सुलभाजनकसंवादः

युधिष्ठिर उवाच||

अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम |

कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ||१||

संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः |

परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ||२||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

जनकस्य च संवादं सुलभायाश्च भारत ||३||

संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा |

मैथिलो जनको नाम धर्मध्वज इति श्रुतः ||४||

स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः |

इन्द्रियाणि समाधाय शशास वसुधामिमाम् ||५||

तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् |

लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर ||६||

अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता |

महीमनुचचारैका सुलभा नाम भिक्षुकी ||७||

तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः |

तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ||८||

सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया |

दर्शने जातसङ्कल्पा जनकस्य बभूव ह ||९||

ततः सा विप्रहायाथ पूर्वरूपं हि योगतः |

अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ||१०||

चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी |

विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ||११||

सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम् |

भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् ||१२||

राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा |

केयं कस्य कुतो वेति बभूवागतविस्मयः ||१३||

ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् |

पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ||१४||

अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम् |

सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी ||१५||

सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया |

सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते ||१६||

नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः |

सा स्म सञ्चोदयिष्यन्तं योगबन्धैर्बबन्ध ह ||१७||

जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन् |

प्रतिजग्राह भावेन भावमस्या नृपोत्तमः ||१८||

तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम् |

छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके ||१९||

भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि |

कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः ||२०||

श्रुते वयसि जातौ च सद्भावो नाधिगम्यते |

एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे ||२१||

छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः |

स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे ||२२||

यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा |

यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु ||२३||

पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः |

भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ||२४||

साङ्ख्यज्ञाने तथा योगे महीपालविधौ तथा |

त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः ||२५||

स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् |

वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ||२६||

तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः |

श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः ||२७||

सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् |

मुक्तरागश्चराम्येकः पदे परमके स्थितः ||२८||

वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः |

ज्ञानादेव च वैराग्यं जायते येन मुच्यते ||२९||

ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् |

महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ||३०||

सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया |

इहैव गतमोहेन चरता मुक्तसङ्गिना ||३१||

यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा |

जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ||३२||

यथा चोत्तापितं बीजं कपाले यत्र तत्र वा |

प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ||३३||

तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा |

ज्ञानं कृतमबीजं मे विषयेषु न जायते ||३४||

नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे |

नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः ||३५||

यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् |

सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम ||३६||

सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः |

मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ||३७||

मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः |

ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ||३८||

ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः |

कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ||३९||

प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् |

तृतीयेयं समाख्याता निष्ठा तेन महात्मना ||४०||

यमे च नियमे चैव द्वेषे कामे परिग्रहे |

माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ||४१||

त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् |

छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ||४२||

येन येन हि यस्यार्थः कारणेनेह कस्यचित् |

तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे ||४३||

दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् |

उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ||४४||

आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि |

राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना ||४५||

अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् |

मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ||४६||

काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः |

लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः ||४७||

यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् |

निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ||४८||

अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः |

किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ||४९||

आकिञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम् |

कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ||५०||

तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे |

बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ||५१||

राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः |

मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया ||५२||

सोऽहमेवङ्गतो मुक्तो जातास्थस्त्वयि भिक्षुकि |

अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम ||५३||

सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः |

तवैतानि समस्तानि नियमश्चेति संशयः ||५४||

यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् |

मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः ||५५||

न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् |

न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ||५६||

मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः |

आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ||५७||

प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा |

कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम ||५८||

वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् |

नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम् ||५९||

वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे |

अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसङ्करः ||६०||

सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् |

सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः ||६१||

अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् |

अगम्या परभार्येति चतुर्थो धर्मसङ्करः ||६२||

सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि |

अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ||६३||

अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् |

यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ||६४||

इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् |

दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् ||६५||

न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः |

येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि ||६६||

तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि |

मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च ||६७||

सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता |

भूयः सृजसि योगास्त्रं विषामृतमिवैकधा ||६८||

इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः |

अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः ||६९||

मा स्प्राक्षीः सधु जानीष्व स्वशास्त्रमनुपालय |

कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ||७०||

एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् ||७०||

सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः |

तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् ||७१||

न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन |

न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ||७२||

राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् |

रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ||७३||

अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता |

आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ||७४||

सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः |

कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ||७५||

इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः |

प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ||७६||

उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना |

ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ||७७||

नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः |

अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ||७८||

सौक्ष्म्यं सङ्ख्याक्रमौ चोभौ निर्णयः सप्रयोजनः |

पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ||७९||

एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् |

शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः ||८०||

ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते |

तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ||८१||

दोषाणां च गुणानां च प्रमाणं प्रविभागशः |

कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् ||८२||

इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् |

क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ||८३||

धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः |

इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ||८४||

इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते |

तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ||८५||

तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप |

एकार्थसमवेतानि वाक्यं मम निशामय ||८६||

उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् |

नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ||८७||

न गुर्वक्षरसम्बद्धं पराङ्मुखमुखं न च |

नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ||८८||

न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च |

न शेषं नानुकल्पेन निष्कारणमहेतुकम् ||८९||

कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा |

ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन ||९०||

वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप |

सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ||९१||

वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते |

स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति ||९२||

अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः |

विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ||९३||

यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते |

श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ||९४||

तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा |

अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ||९५||

कासि कस्य कुतो वेति त्वयाहमभिचोदिता |

तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ||९६||

यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः |

सुश्लिष्टानि तथा राजन्प्राणिनामिह सम्भवः ||९७||

शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च |

पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् ||९८||

न चैषां चोदना काचिदस्तीत्येष विनिश्चयः |

एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ||९९||

न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते |

तथैव व्यभिचारेण न वर्तन्ते परस्परम् ||१००||

संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ||१००||

बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु |

रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ||१०१||

यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः ||१०१||

ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः |

विचारयति येनायं निश्चये साध्वसाधुनी ||१०२||

द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः |

येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ||१०३||

अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः |

महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते ||१०४||

क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः |

ममायमिति येनायं मन्यते न च मन्यते ||१०५||

अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः |

पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते ||१०६||

गुणस्त्वेवापरस्तत्र सङ्घात इति षोडशः |

आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ ||१०७||

सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये |

इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः ||१०८||

ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः |

इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ||१०९||

विंशकश्चैष सङ्घातो महाभूतानि पञ्च च |

सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ ||११०||

इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः |

विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ||१११||

एकविंशश्च दश च कलाः सङ्ख्यानतः स्मृताः |

समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ||११२||

अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति |

व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ||११३||

अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम् |

प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ||११४||

सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता |

अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः ||११५||

बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः |

यासामेव निपातेन कललं नाम जायते ||११६||

कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा |

पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ||११७||

सम्पूर्णे नवमे मासे जन्तोर्जातस्य मैथिल |

जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः ||११८||

जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि |

कौमाररूपमापन्नं रूपतो नोपलभ्यते ||११९||

कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् |

अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ||१२०||

कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे |

वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ||१२१||

न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च |

अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ||१२२||

तस्याप्येवम्प्रभावस्य सदश्वस्येव धावतः |

अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ||१२३||

कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः |

सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ||१२४||

यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः |

भवत्येवं समुदयात्कलानामपि जन्तवः ||१२५||

आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि |

एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि ||१२६||

यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि ||१२६||

अथ मां कासि कस्येति किमर्थमनुपृच्छसि |

इदं मे स्यादिदं नेति द्वंद्वैर्मुक्तस्य मैथिल ||१२७||

कासि कस्य कुतो वेति वचने किं प्रयोजनम् ||१२७||

रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे |

कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम् ||१२८||

त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु |

सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ||१२९||

प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि |

यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् ||१३०||

तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप |

सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः ||१३१||

तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम |

आत्मनात्मनि सम्पश्येत्किं तस्मिन्मुक्तलक्षणम् ||१३२||

इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् |

चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ||१३३||

य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह |

एकमेव स वै राजा पुरमध्यावसत्युत ||१३४||

तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति |

गृहे शयनमप्येकं निशायां यत्र लीयते ||१३५||

शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति |

तदनेन प्रसङ्गेन फलेनैवेह युज्यते ||१३६||

एवमेवोपभोगेषु भोजनाच्छादनेषु च |

गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति ||१३७||

परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते |

सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ||१३८||

स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता |

मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता ||१३९||

यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता |

अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ||१४०||

स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः |

शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ||१४१||

स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च |

वदस्व शृणु चापीति विवशः कार्यते परैः ||१४२||

अभिगम्याभिगम्यैनं याचन्ते सततं नराः |

न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् ||१४३||

दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः |

क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः ||१४४||

प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते |

भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते ||१४५||

यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया |

तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् ||१४६||

सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही |

निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ||१४७||

पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयः |

परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ||१४८||

हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः |

लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ||१४९||

अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः |

शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ||१५०||

द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः |

बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः ||१५१||

तदल्पसुखमत्यर्थं बहुदुःखमसारवत् |

को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् ||१५२||

ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे |

बलं कोशममात्यांश्च कस्यैतानि न वा नृप ||१५३||

मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः |

सप्ताङ्गश्चक्रसङ्घातो राज्यमित्युच्यते नृप ||१५४||

सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः |

अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ||१५५||

तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते |

येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ||१५६||

सप्ताङ्गश्चापि सङ्घातस्त्रयश्चान्ये नृपोत्तम |

सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ||१५७||

यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् |

स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ||१५८||

नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् |

राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ||१५९||

योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः |

पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ||१६०||

साहमेतानि कर्माणि राज्यदुःखानि मैथिल |

समर्था शतशो वक्तुमथ वापि सहस्रशः ||१६१||

स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे |

न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि ||१६२||

ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः |

सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः ||१६३||

तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः |

छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप ||१६४||

श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् |

अथ वा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया ||१६५||

अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसि |

अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो मया ||१६६||

सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया |

किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः ||१६७||

नियमो ह्येष धर्मेषु यतीनां शून्यवासिता |

शून्यमावासयन्त्या च मया किं कस्य दूषितम् ||१६८||

न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ |

न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप ||१६९||

कुले महति जातेन ह्रीमता दीर्घदर्शिना |

नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् ||१७०||

ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः |

त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ||१७१||

तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता |

स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ||१७२||

यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् |

तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल ||१७३||

यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कञ्चन |

ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ||१७४||

स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् |

उभयोरन्तराले च वर्तसे मोक्षवातिकः ||१७५||

न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः |

भावाभावसमायोगे जायते वर्णसङ्करः ||१७६||

वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः |

नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते ||१७७||

पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः |

आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् ||१७८||

न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः |

स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ||१७९||

पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च |

परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः ||१८०||

नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा |

तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता ||१८१||

प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः |

कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ||१८२||

द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः |

मम सत्रेषु पूर्वेषां चिता मघवता सह ||१८३||

साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे |

विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ||१८४||

नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी |

न धर्मसङ्करकरी स्वधर्मेऽस्मि धृतव्रता ||१८५||

नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी |

नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप ||१८६||

मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी |

तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ||१८७||

न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः |

मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति ||१८८||

यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत् |

तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ||१८९||

साहमासनदानेन वागातिथ्येन चार्चिता |

सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल ||१९०||

इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च |

श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम् ||१९१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

309-अध्यायः

यावकाध्यायः (द्वैपायनशुकसंवादः)

युधिष्ठिर उवाच||

कथं निर्वेदमापन्नः शुको वैयासकिः पुरा |

एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे ||१||

भीष्म उवाच||

प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् |

अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ||२||

धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ |

क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ||३||

सत्यमार्जवमक्रोधमनसूयां दमं तपः |

अहिंसां चानृशंस्यं च विधिवत्परिपालय ||४||

सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् |

देवतातिथिशेषेण यात्रां प्राणस्य संश्रय ||५||

फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते |

अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ||६||

अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु |

अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे ||७||

गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि |

जीविते शिष्यमाणे च किमुत्थाय न धावसि ||८||

ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् |

पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ||९||

धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः |

अपथा गच्छतां तेषामनुयातापि पीड्यते ||१०||

ये तु तुष्टाः सुनियताः सत्यागमपरायणाः |

धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ||११||

उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् |

नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ||१२||

अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः |

सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ||१३||

धर्मनिःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह |

कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ||१४||

नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् |

वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम् ||१५||

कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् |

नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ||१६||

मृत्युनाभ्याहते लोके जरया परिपीडिते |

अमोघासु पतन्तीषु धर्मयानेन सन्तर ||१७||

तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा |

निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः ||१८||

सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् |

वृकीवोरणमासाद्य मृत्युरादाय गच्छति ||१९||

क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान् |

अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ||२०||

सम्पतन्देहजालानि कदाचिदिह मानुषे |

ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ||२१||

ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते |

इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ||२२||

ब्राह्मण्यं बहुभिरवाप्यते तपोभि; स्तल्लब्ध्वा न परिपणेन हेडितव्यम् |

स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व ||२३||

अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा |

ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मांसाङ्गो द्रवति वयोहयो नराणाम् ||२४||

तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम् |

चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य ||२५||

येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसम्प्रयोगाः |

क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः ||२६||

राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् |

बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम् ||२७||

श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च सङ्घाः |

नरां कदने रुधिरपा गुरुवचन; नुदमुपरतं विशसन्ति ||२८||

मर्यादा नियताः स्वयम्भुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् |

निवसति भृशमसुखं पितृविषय; विपिनमवगाह्य स पापः ||२९||

यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् |

उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा ||३०||

उष्णां वैतरणीं महानदी; मवगाढोऽसिपत्रवनभिन्नगात्रः |

परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः ||३१||

महापदानि कत्थसे न चाप्यवेक्षसे परम् |

चिरस्य मृत्युकारिकामनागतां न बुध्यसे ||३२||

प्रयास्यतां किमास्यते समुत्थितं महद्भयम् |

अतिप्रमाथि दारुणं सुखस्य संविधीयताम् ||३३||

पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् |

तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु ||३४||

पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् |

तवेह जीवितं यमो न चास्ति तस्य वारकः ||३५||

पुरा विवाति मारुतो यमस्य यः पुरःसरः |

पुरैक एव नीयसे कुरुष्व साम्परायिकम् ||३६||

पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः |

पुरा च विभ्रमन्ति ते दिशो महाभयागमे ||३७||

स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक |

समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ||३८||

कृताकृते शुभाशुभे प्रमादकर्मविप्लुते |

स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम् ||३९||

पुरा जरा कलेवरं विजर्जरीकरोति ते |

बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ||४०||

पुरा शरीरमन्तको भिनत्ति रोगसायकैः |

प्रसह्य जीवितक्षये तपो महत्समाचर ||४१||

पुरा वृका भयङ्करा मनुष्यदेहगोचराः |

अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ||४२||

पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै |

पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ||४३||

पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः |

विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् ||४४||

धनस्य यस्य राजतो भयं न चास्ति चौरतः |

मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् ||४५||

न तत्र संविभज्यते स्वकर्मभिः परस्परम् |

यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते ||४६||

परत्र येन जीव्यते तदेव पुत्र दीयताम् |

धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् ||४७||

न यावदेव पच्यते महाजनस्य यावकम् |

अपक्व एव यावके पुरा प्रणीयसे त्वर ||४८||

न मातृपितृबान्धवा न संस्तुतः प्रियो जनः |

अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम् ||४९||

यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् |

तदेव तस्य यौतकं भवत्यमुत्र गच्छतः ||५०||

हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः |

न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः ||५१||

परत्रगामिकस्य ते कृताकृतस्य कर्मणः |

न साक्षिरात्मना समो नृणामिहास्ति कश्चन ||५२||

मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः |

प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः ||५३||

इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः |

त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ||५४||

यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु |

प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ||५५||

अनेकपारिपन्थिके विरूपरौद्ररक्षिते |

स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ||५६||

न तत्र संविभज्यते स्वकर्मणा परस्परम् |

यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् ||५७||

यथाप्सरोगणाः फलं सुखं महर्षिभिः सह |

तथाप्नुवन्ति कर्मतो विमानकामगामिनः ||५८||

यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः |

तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ||५९||

प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः |

व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ||६०||

सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे |

अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम् ||६१||

गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः |

कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते ||६२||

पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् |

यथागृहीतमुत्थितं त्वरस्व धर्मपालने ||६३||

यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि |

तथा गतिं गमिष्यतः किमात्मना परेण वा ||६४||

यदेकपातिनां सतां भवत्यमुत्र गच्छताम् |

भयेषु साम्परायिकं निधत्स्व तं महानिधिम् ||६५||

सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् |

न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् ||६६||

इदं निदर्शनं मया तवेह पुत्र संमतम् |

स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् ||६७||

दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् |

अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते ||६८||

श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः |

तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् ||६९||

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः |

छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ||७०||

किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि |

आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे ||७१||

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् |

को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते ||७२||

अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः |

अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ||७३||

नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् |

वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः ||७४||

एवमभ्याहते लोके कालेनोपनिपीडिते |

सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ||७५||

अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः |

सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते ||७६||

न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि |

धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति ||७७||

प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि |

निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः ||७८||

सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् |

तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा ||७९||

यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी |

तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ||८०||

यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते |

स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् ||८१||

तपोवनेषु ये जातास्तत्रैव निधनं गताः |

तेषामल्पतरो धर्मः कामभोगमजानताम् ||८२||

यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् |

न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम् ||८३||

मातापितृसहस्राणि पुत्रदारशतानि च |

अनागतान्यतीतानि कस्य ते कस्य वा वयम् ||८४||

न तेषां भवता कार्यं न कार्यं तव तैरपि |

स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति ||८५||

इह लोके हि धनिनः परोऽपि स्वजनायते |

स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ||८६||

सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः |

ततः क्लेशमवाप्नोति परत्रेह तथैव च ||८७||

पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा |

तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ||८८||

तदेतत्सम्प्रदृश्यैव कर्मभूमिं प्रविश्य ताम् |

शुभान्याचरितव्यानि परलोकमभीप्सता ||८९||

मासर्तुसञ्ज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन |

स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य ||९०||

धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते |

श्रुतेन किं येन न धर्ममाचरे; त्किमात्मना यो न जितेन्द्रियो वशी ||९१||

इदं द्वैपायनवचो हितमुक्तं निशम्य तु |

शुको गतः परित्यज्य पितरं मोक्षदेशिकम् ||९२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

310-अध्यायः

शुकचरितम्

युधिष्ठिर उवाच||

कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः |

सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ||१||

कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः |

न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः ||२||

कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः |

यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ||३||

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते |

न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ||४||

माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह |

यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ||५||

भीष्म उवाच||

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||६||

तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव |

तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ||७||

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् |

संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः ||८||

अश्वमेधसहस्रस्य वाजपेयशतस्य च |

योगस्य कलया तात न तुल्यं विद्यते फलम् ||९||

अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा |

शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ||१०||

मेरुशृङ्गे किल पुरा कर्णिकारवनायुते |

विजहार महादेवो भीमैर्भूतगणैर्वृतः ||११||

शैलराजसुता चैव देवी तत्राभवत्पुरा |

तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ||१२||

योगेनात्मानमाविश्य योगधर्मपरायणः |

धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ||१३||

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो |

वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ||१४||

सङ्कल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः |

वरयामास देवेशमास्थितस्तप उत्तमम् ||१५||

अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः |

आराधयन्महादेवं बहुरूपमुमापतिम् ||१६||

तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा |

लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ||१७||

आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ |

मरुतो मारुतश्चैव सागराः सरितस्तथा ||१८||

अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ |

विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ||१९||

तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् |

धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ||२०||

तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसङ्कुले |

आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः ||२१||

न चास्य हीयते वर्णो न ग्लानिरुपजायते |

त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ||२२||

जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः |

प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ||२३||

मार्कण्डेयो हि भगवानेतदाख्यातवान्मम |

स देवचरितानीह कथयामास मे सदा ||२४||

ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः |

अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ||२५||

एवंविधेन तपसा तस्य भक्त्या च भारत |

महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ||२६||

उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव |

एवंविधस्ते तनयो द्वैपायन भविष्यति ||२७||

यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् |

यथा च खं तथा शुद्धो भविष्यति सुतो महान् ||२८||

तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः |

तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ||२९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

311-अध्यायः

भीष्म उवाच||

स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः |

अरणीं त्वथ सङ्गृह्य ममन्थाग्निचिकीर्षया ||१||

अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा |

घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ||२||

ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः |

अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ||३||

सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् |

शुकी भूत्वा महाराज घृताची समुपागमत् ||४||

स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् |

शरीरजेनानुगतः सर्वगात्रातिगेन ह ||५||

स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः |

न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ||६||

भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ||६||

यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया |

अरण्यामेव सहसा तस्य शुक्रमवापतत् ||७||

सोऽविशङ्केन मनसा तथैव द्विजसत्तमः |

अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ||८||

शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः |

परमर्षिर्महायोगी अरणीगर्भसम्भवः ||९||

यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान् |

तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ||१०||

बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् |

बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् ||११||

तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर |

स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा ||१२||

अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह |

पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः ||१३||

जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः |

देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ||१४||

विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ |

हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसम्भवम् ||१५||

तत्र शक्रपुरोगाश्च लोकपालाः समागताः |

देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ||१६||

दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः |

जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ||१७||

तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः |

जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ||१८||

तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् |

ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ||१९||

हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः |

प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ||२०||

आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः |

तत्रैवोवास मेधावी व्रतचारी समाहितः ||२१||

उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः |

उपतस्थुर्महाराज यथास्य पितरं तथा ||२२||

बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् |

उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ||२३||

सोऽधीत्य वेदानखिलान्सरहस्यान्ससङ्ग्रहान् |

इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो ||२४||

गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः |

उग्रं तपः समारेभे ब्रह्मचारी समाहितः ||२५||

देवतानामृषीणां च बाल्येऽपि स महातपाः |

संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ||२६||

न त्वस्य रमते बुद्धिराश्रमेषु नराधिप |

त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

312-अध्यायः

भीष्म उवाच||

स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् |

प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ||१||

मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे |

यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो ||२||

श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् |

अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि ||३||

पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः |

योगशास्त्रं च निखिलं कापिलं चैव भारत ||४||

स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् |

मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् ||५||

उवाच गच्छेति तदा जनकं मिथिलेश्वरम् |

स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः ||६||

पितुर्नियोगादगमन्मैथिलं जनकं नृपम् |

प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ||७||

उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः |

न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ||८||

आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा |

नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ||९||

अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे |

स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ||१०||

स धर्मकुशलो राजा मोक्षशास्त्रविशारदः |

याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ||११||

एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः |

पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ||१२||

स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च |

बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा ||१३||

मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा |

क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत् ||१४||

स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् |

आर्यावर्तमिमं देशमाजगाम महामुनिः ||१५||

पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् |

अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव ||१६||

पत्तनानि च रम्याणि स्फीतानि नगराणि च |

रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति ||१७||

उद्यानानि च रम्याणि तथैवायतनानि च |

पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः ||१८||

सोऽचिरेणैव कालेन विदेहानाससाद ह |

रक्षितान्धर्मराजेन जनकेन महात्मना ||१९||

तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् |

पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान् ||२०||

स्फीतांश्च शालियवसैर्हंससारससेवितान् |

पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान् ||२१||

स विदेहानतिक्रम्य समृद्धजनसेवितान् |

मिथिलोपवनं रम्यमाससाद महर्द्धिमत् ||२२||

हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम् |

पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ||२३||

मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् |

आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ||२४||

तस्या द्वारं समासाद्य द्वारपालैर्निवारितः |

स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ||२५||

स राजमार्गमासाद्य समृद्धजनसङ्कुलम् |

पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ||२६||

तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् |

तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत ||२७||

न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः |

प्रताम्यति ग्लायति वा नापैति च तथातपात् ||२८||

तेषां तु द्वारपालानामेकः शोकसमन्वितः |

मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ||२९||

पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः |

प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ||३०||

तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् |

छायायामातपे चैव समदर्शी महाद्युतिः ||३१||

तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः |

प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः ||३२||

तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम् |

सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ||३३||

तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् |

अर्हमासनमादिश्य निश्चक्राम ततः पुनः ||३४||

तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः |

सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ||३५||

संलापोल्लापकुशला नृत्तगीतविशारदाः |

स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ||३६||

कामोपचारकुशला भावज्ञाः सर्वकोविदाः |

परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् ||३७||

पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च |

देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ||३८||

तस्य भुक्तवतस्तात तदन्तःपुरकाननम् |

सुरम्यं दर्शयामासुरेकैकश्येन भारत ||३९||

क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् |

उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा ||४०||

आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत् |

वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ||४१||

तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् |

स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः ||४२||

पादशौचं तु कृत्वैव शुकः सन्ध्यामुपास्य च |

निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ||४३||

पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः |

मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ||४४||

ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् |

स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ||४५||

अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः |

तां च रात्रिं नृपकुले वर्तयामास भारत ||४६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

313-अध्यायः

भीष्म उवाच||

ततः स राजा जनको मन्त्रिभिः सह भारत |

पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ||१||

आसनं च पुरस्कृत्य रत्नानि विविधानि च |

शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ||२||

स तदासनमादाय बहुरत्नविभूषितम् |

स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ||३||

पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः |

प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ||४||

तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् |

पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् ||५||

स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ||५||

प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः |

गां चैव समनुज्ञाय राजानमनुमान्य च ||६||

पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् |

अनामयं च राजेन्द्र शुकः सानुचरस्य ह ||७||

अनुज्ञातः स तेनाथ निषसाद सहानुगः |

उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ||८||

कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः |

किमागमनमित्येव पर्यपृच्छत पार्थिवः ||९||

शुक उवाच||

पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः |

विदेहराजो याज्यो मे जनको नाम विश्रुतः ||१०||

तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः |

प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ||११||

सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः |

तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ||१२||

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः |

कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ||१३||

जनक उवाच||

यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु |

कृतोपनयनस्तात भवेद्वेदपरायणः ||१४||

तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो |

देवतानां पितॄणां चाप्यनृणश्चानसूयकः ||१५||

वेदानधीत्य नियतो दक्षिणामपवर्ज्य च |

अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ||१६||

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् |

अनसूयुर्यथान्यायमाहिताग्निस्तथैव च ||१७||

उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् |

तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ||१८||

स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् |

निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ||१९||

शुक उवाच||

उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते |

किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ||२०||

एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति |

यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ||२१||

जनक उवाच||

न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् |

न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः ||२२||

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते |

विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ||२३||

अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् |

पूर्वैराचरितो धर्मश्चातुराश्रम्यसङ्कथः ||२४||

अनेन क्रमयोगेन बहुजातिषु कर्मणा |

कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ||२५||

भवितैः कारणैश्चायं बहुसंसारयोनिषु |

आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ||२६||

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः |

त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ||२७||

राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् |

सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ||२८||

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |

सम्पश्यन्नोपलिप्येत जले वारिचरो यथा ||२९||

पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते |

विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः ||३०||

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना |

धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ||३१||

ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् |

स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ||३२||

न बिभेति परो यस्मान्न बिभेति पराच्च यः |

यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ||३३||

यदा भावं न कुरुते सर्वभूतेषु पापकम् |

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||३४||

संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् |

त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ||३५||

यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् |

समो भवति निर्द्वंद्वो ब्रह्म सम्पद्यते तदा ||३६||

यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति |

काञ्चनं चायसं चैव सुखदुःखे तथैव च ||३७||

शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् |

जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा ||३८||

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः |

तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ||३९||

तमःपरिगतं वेश्म यथा दीपेन दृश्यते |

तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ||४०||

एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर |

यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ||४१||

ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः |

गुरोस्तव प्रसादेन तव चैवोपशिक्षया ||४२||

तस्यैव च प्रसादेन प्रादुर्भूतं महामुने |

ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ||४३||

अधिकं तव विज्ञानमधिका च गतिस्तव |

अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ||४४||

बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् |

उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ||४५||

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः |

विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ||४६||

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः |

व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ||४७||

नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा |

नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ||४८||

न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् |

पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ||४९||

अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः |

आस्थितं परमं मार्गमक्षयं तमनामयम् ||५०||

यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः |

तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ||५१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

314-अध्यायः

भीष्म उवाच||

एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः |

आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ||१||

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः |

शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ||२||

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा |

हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् ||३||

तमप्सरोगणाकीर्णं गीतस्वननिनादितम् |

किंनराणां समूहैश्च भृङ्गराजैस्तथैव च ||४||

मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः |

चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ||५||

राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ||५||

पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति |

चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ||६||

यत्र नित्यं समायान्ति लोकस्य हितकाम्यया ||६||

विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना |

यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ||७||

शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै |

यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ||८||

योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः |

यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ||९||

सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति |

तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ||१०||

अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् |

अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ||११||

किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ||११||

स नामृष्यत तं क्षेपमवैक्षत च पावकिम् |

स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ||१२||

कम्पयामास सव्येन पाणिना पुरुषोत्तमः ||१२||

शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा |

मेदिनी कम्पिता सर्वा सशैलवनकानना ||१३||

शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता |

रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना ||१४||

तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् |

पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ||१५||

सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः |

जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् ||१६||

नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि |

विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ||१७||

यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः |

तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः ||१८||

पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः |

आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः ||१९||

न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः |

दशयोजनविस्तारमग्निज्वालासमावृतम् ||२०||

भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् |

सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः ||२१||

दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः |

देवान्सन्तापयंस्तत्र महादेवो धृतव्रतः ||२२||

ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः |

विविक्ते पर्वततटे पाराशर्यो महातपाः ||२३||

वेदानध्यापयामास व्यासः शिष्यान्महातपाः ||२३||

सुमन्तुं च महाभागं वैशम्पायनमेव च |

जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ||२४||

एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः |

तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् ||२५||

आरणेयो विशुद्धात्मा नभसीव दिवाकरः ||२५||

अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् |

ददर्श सुतमायान्तं दिवाकरसमप्रभम् ||२६||

असज्जमानं वृक्षेषु शैलेषु विषमेषु च |

योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ||२७||

सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः |

यथोपजोषं तैश्चापि समागच्छन्महामुनिः ||२८||

ततो निवेदयामास पित्रे सर्वमशेषतः |

शुको जनकराजेन संवादं प्रीतमानसः ||२९||

एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् |

उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ||३०||

ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे |

वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः ||३१||

वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वतितपस्विनः |

अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ||३२||

महता श्रेयसा युक्ता यशसा च स्म वर्धिताः |

एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् ||३३||

इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह |

उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ||३४||

एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः |

पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ||३५||

ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् |

यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ||३६||

काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा |

षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ||३७||

चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः |

इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ||३८||

शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् |

पराशरात्मजो धीमान्परलोकार्थचिन्तकः ||३९||

उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ||३९||

ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् |

ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति ||४०||

भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् |

नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि ||४१||

एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः |

नापरीक्षितचारित्रे विद्या देया कथञ्चन ||४२||

यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः |

परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ||४३||

न नियोज्याश्च वः शिष्या अनियोगे महाभये |

यथामति यथापाठं तथा विद्या फलिष्यति ||४४||

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु |

श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ||४५||

वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् |

स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा ||४६||

यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् |

सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ||४७||

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति |

तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ||४८||

एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति |

उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

315-अध्यायः

भीष्म उवाच||

एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः |

अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ||१||

उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् |

तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ||२||

अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः |

विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ||३||

शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने |

वेदाननेकधा कर्तुं यदि ते रुचितं विभो ||४||

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः |

प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ||५||

क्षितिं वा देवलोकं वा गम्यतां यदि रोचते |

अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ||६||

तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना |

जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च ||७||

अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् |

संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ||८||

पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः |

याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ||९||

अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् |

तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ||१०||

तं ददर्शाश्रमपदे नारदः सुमहातपाः |

अथैनमब्रवीत्काले मधुराक्षरया गिरा ||११||

भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते |

एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ||१२||

ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते |

रजसा तमसा चैव सोमः सोपप्लवो यथा ||१३||

न भ्राजते यथापूर्वं निषादानामिवालयः |

देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः ||१४||

ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः |

विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ||१५||

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् |

महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ||१६||

एतन्मनोनुकूलं मे भवानर्हति भाषितुम् |

सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ||१७||

त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् |

तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ||१८||

यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर |

वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ||१९||

नारद उवाच||

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् |

मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् ||२०||

अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता |

विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ||२१||

भीष्म उवाच||

नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् |

तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः ||२२||

शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् |

स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव ||२३||

तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः |

वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ||२४||

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् |

शुको वारितमात्रस्तु कौतूहलसमन्वितः ||२५||

अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् |

आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ||२६||

शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः |

अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ||२७||

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः |

तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः ||२८||

आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना |

न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय ||२९||

देवयानचरो विष्णोः पितृयानश्च तामसः |

द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ||३०||

पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः |

सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ||३१||

तत्र देवगणाः साध्याः समभूवन्महाबलाः |

तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ||३२||

उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः |

अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् ||३३||

अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः |

पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ||३४||

प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् |

प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ||३५||

प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः |

प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ||३६||

अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः |

आवहो नाम संवाति द्वितीयः श्वसनो नदन् ||३७||

उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः |

अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः ||३८||

यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् |

उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ||३९||

योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति |

उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः ||४०||

समुह्यमाना बहुधा येन नीलाः पृथग्घनाः |

वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ||४१||

संहता येन चाविद्धा भवन्ति नदतां नदाः |

रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च ||४२||

योऽसौ वहति देवानां विमानानि विहायसा |

चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ||४३||

येन वेगवता रुग्णा रूक्षेणारुजता रसान् |

वायुना विहता मेघा न भवन्ति बलाहकाः ||४४||

दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् |

पञ्चमः स महावेगो विवहो नाम मारुतः ||४५||

यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा |

पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ||४६||

दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः |

योनिरंशुसहस्रस्य येन भाति वसुन्धरा ||४७||

यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च |

षष्ठः परिवहो नाम स वायुर्जवतां वरः ||४८||

सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति |

यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ||४९||

सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया |

ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ||५०||

यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे |

दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ||५१||

येन सृष्टः पराभूतो यात्येव न निवर्तते |

परावहो नाम परो वायुः स दुरतिक्रमः ||५२||

एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः |

अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः ||५३||

एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः |

कम्पितः सहसा तेन वायुनाभिप्रवायता ||५४||

विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः |

सहसोदीर्यते तात जगत्प्रव्यथते तदा ||५५||

तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति |

वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ||५६||

एतावदुक्त्वा वचनं पराशरसुतः प्रभुः |

उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा ||५७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

316-अध्यायः

भीष्म उवाच||

एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् |

शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् ||१||

देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् |

अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ||२||

नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर |

केन त्वां श्रेयसा तात योजयामीति हृष्टवत् ||३||

नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत |

अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि ||४||

नारद उवाच||

तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् |

सनत्कुमारो भगवानिदं वचनमब्रवीत् ||५||

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः |

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ||६||

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता |

सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ||७||

मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति |

नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् ||८||

सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी |

मोहजालावृतो दुःखमिह चामुत्र चाश्नुते ||९||

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः |

कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ||१०||

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् |

विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ||११||

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् |

आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ||१२||

सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् |

यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ||१३||

सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः |

येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ||१४||

इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह |

असज्जमानः शान्तात्मा निर्विकारः समाहितः ||१५||

आत्मभूतैरतद्भूतः सह चैव विनैव च |

स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ||१६||

अदर्शनमसंस्पर्शस्तथासम्भाषणं सदा |

यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ||१७||

न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् |

नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ||१८||

आकिञ्चन्यं सुसन्तोषो निराशीष्ट्वमचापलम् |

एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ||१९||

परिग्रहं परित्यज्य भव तात जितेन्द्रियः |

अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ||२०||

निरामिषा न शोचन्ति त्यजेहामिषमात्मनः |

परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे ||२१||

तपोनित्येन दान्तेन मुनिना संयतात्मना |

अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||२२||

गुणसङ्गेष्वनासक्त एकचर्यारतः सदा |

ब्राह्मणे नचिरादेव सुखमायात्यनुत्तमम् ||२३||

द्वंद्वारामेषु भूतेषु य एको रमते मुनिः |

विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ||२४||

शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् |

अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ||२५||

तत्र मृत्युजरादुःखैः सततं समभिद्रुतः |

संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ||२६||

अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः |

अनर्थे चार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे ||२७||

संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः |

कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ||२८||

अलं परिग्रहेणेह दोषवान्हि परिग्रहः |

कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ||२९||

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः |

सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ||३०||

महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् |

स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ||३१||

कुटुम्बं पुत्रदारं च शरीरं द्रव्यसञ्चयाः |

पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ||३२||

यदा सर्वं परित्यज्य गन्तव्यमवशेन ते |

अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि ||३३||

अविश्रान्तमनालम्बमपाथेयमदैशिकम् |

तमःकान्तारमध्वानं कथमेको गमिष्यसि ||३४||

न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति |

सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति ||३५||

विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् |

अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते ||३६||

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः |

छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ||३७||

रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् |

गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ||३८||

क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् |

त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् ||३९||

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज |

उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ||४०||

त्यज धर्ममसङ्कल्पादधर्मं चाप्यहिंसया |

उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ||४१||

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् |

चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ||४२||

जराशोकसमाविष्टं रोगायतनमातुरम् |

रजस्वलमनित्यं च भूतावासं समुत्सृज ||४३||

इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् |

महाभूतात्मकं सर्वं महद्यत्परमाणु यत् ||४४||

इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा |

इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ||४५||

सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः |

पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः ||४६||

एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते |

त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा ||४७||

य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ |

पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किञ्चन ||४८||

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः |

अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ||४९||

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते |

लोके विततमात्मानं लोकं चात्मनि पश्यति ||५०||

परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति |

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ||५१||

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते |

ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ||५२||

लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ||५२||

अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् |

अकर्तारममूर्तं च भगवानाह तीर्थवित् ||५३||

यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः |

स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ||५४||

ततः कर्म समादत्ते पुनरन्यन्नवं बहु |

तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ||५५||

अजस्रमेव मोहार्तो दुःखेषु सुखसञ्ज्ञितः |

बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ||५६||

ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह |

परिभ्रमति संसारं चक्रवद्बहुवेदनः ||५७||

स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः |

सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः ||५८||

संयमेन नवं बन्धं निवर्त्य तपसो बलात् |

सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ||५९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

317-अध्यायः

नारद उवाच||

अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् |

निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ||१||

शोकस्थानसहस्राणि भयस्थानशतानि च |

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||२||

तस्मादनिष्टनाशार्थमितिहासं निबोध मे |

तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ||३||

अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च |

मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ||४||

द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् |

ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ||५||

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते |

अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ||६||

नार्थो न धर्मो न यशो योऽतीतमनुशोचति |

अप्यभावेन युज्येत तच्चास्य न निवर्तते ||७||

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च |

सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ||८||

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति |

दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||९||

नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम् |

सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ||१०||

दुःखोपघाते शारीरे मानसे वाप्युपस्थिते |

यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् ||११||

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् |

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ||१२||

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः |

एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ||१३||

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः |

आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ||१४||

न जानपदिकं दुःखमेकः शोचितुमर्हति |

अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ||१५||

सुखाद्बहुतरं दुःखं जीविते नात्र संशयः |

स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ||१६||

परित्यजति यो दुःखं सुखं वाप्युभयं नरः |

अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः ||१७||

दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः |

दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ||१८||

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः |

अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ||१९||

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||२०||

अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् |

तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः ||२१||

निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति |

स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ||२२||

भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्वा तमसः परम् |

न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ||२३||

सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् |

व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति ||२४||

अथाप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे |

अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ||२५||

शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च |

नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा ||२६||

प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखमनामयम् |

विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ||२७||

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा |

चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ||२८||

प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च |

विचरेदसमुन्नद्धः स सुखी स च पण्डितः ||२९||

अध्यात्मरतिरासीनो निरपेक्षो निरामिषः |

आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

318-अध्यायः

नारद उवाच||

सुखदुःखविपर्यासो यदा समुपपद्यते |

नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ||१||

स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति |

जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ||२||

रुजन्ति हि शरीराणि रोगाः शारीरमानसाः |

सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ||३||

व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः |

अवशस्य विनाशाय शरीरमपकृष्यते ||४||

स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव |

आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ||५||

व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः |

जातं मर्त्यं जरयति निमेषं नावतिष्ठते ||६||

सुखदुःखानि भूतानामजरो जरयन्नसौ |

आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ||७||

अदृष्टपूर्वानादाय भावानपरिशङ्कितान् |

इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ||८||

यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् |

यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ||९||

संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः |

दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ||१०||

अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः |

आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः ||११||

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः |

वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ||१२||

अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति |

कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति ||१३||

अपराधं समाचक्ष्व पुरुषस्य स्वभावतः |

शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति ||१४||

तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा |

आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ||१५||

केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् |

सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ||१६||

गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव |

आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः ||१७||

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः |

दश मासान्परिधृता जायन्ते कुलपांसनाः ||१८||

अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् |

विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ||१९||

अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे |

उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ||२०||

शीर्णं परशरीरेण निच्छवीकं शरीरिणम् |

प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ||२१||

निर्दग्धं परदेहेन परदेहं चलाचलम् |

विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ||२२||

सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् |

केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ||२३||

अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः |

तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ||२४||

गर्भमूत्रपुरीषाणां स्वभावनियता गतिः |

धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः ||२५||

स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे |

आगमेन सहान्येषां विनाश उपपद्यते ||२६||

एतस्माद्योनिसम्बन्धाद्यो जीवन्परिमुच्यते |

प्रजां च लभते काञ्चित्पुनर्द्वंद्वेषु मज्जति ||२७||

शतस्य सहजातस्य सप्तमीं दशमीं दशाम् |

प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ||२८||

नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः |

व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ||२९||

व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् |

वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ||३०||

ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः |

व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ||३१||

ते पिबन्तः कषायांश्च सर्पींषि विविधानि च |

दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ||३२||

के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः |

श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ||३३||

घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः |

आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ||३४||

इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् |

स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ||३५||

न धनेन न राज्येन नोग्रेण तपसा तथा |

स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु ||३६||

न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः |

नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति ||३७||

उपर्युपरि लोकस्य सर्वो भवितुमिच्छति |

यतते च यथाशक्ति न च तद्वर्तते तथा ||३८||

ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च |

अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ||३९||

क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः |

स्वं स्वं च पुनरन्येषां न किञ्चिदभिगम्यते ||४०||

महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु |

वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ||४१||

सर्वेषामृद्धिकामानामन्ये रथपुरःसराः |

मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः ||४२||

द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः |

इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ||४३||

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज |

उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ||४४||

एतत्ते परमं गुह्यमाख्यातमृषिसत्तम |

येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ||४५||

भीष्म उवाच||

नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् |

सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ||४६||

पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः |

किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ||४७||

ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः |

परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ||४८||

कथं त्वहमसङ्क्लिष्टो गच्छेयं परमां गतिम् |

नावर्तेयं यथा भूयो योनिसंसारसागरे ||४९||

परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः |

सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ||५०||

तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति |

अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ||५१||

न तु योगमृते शक्या प्राप्तुं सा परमा गतिः |

अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते ||५२||

तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् |

वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ||५३||

न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा |

कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ||५४||

क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ||५४||

रविस्तु सन्तापयति लोकान्रश्मिभिरुल्बणैः |

सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ||५५||

अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् |

अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ||५६||

सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् |

ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् ||५७||

आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् |

देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ||५८||

लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः |

पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ||५९||

अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् |

तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति ||६०||

सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम् |

शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः ||६१||

श्रुत्वा ऋषिस्तद्वचनं शुकस्य; प्रीतो महात्मा पुनराह चैनम् |

भो भोः पुत्र स्थीयतां तावदद्य; यावच्चक्षुः प्रीणयामि त्वदर्थम् ||६२||

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः |

मोक्षमेवानुसञ्चिन्त्य गमनाय मनो दधे ||६३||

पितरं सम्परित्यज्य जगाम द्विजसत्तमः ||६३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

319-अध्यायः

भीष्म उवाच||

गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत |

समे देशे विविक्ते च निःशलाक उपाविशत् ||१||

धारयामास चात्मानं यथाशास्त्रं महामुनिः |

पादात्प्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ||२||

ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते |

पाणिपादं समाधाय विनीतवदुपाविशत् ||३||

न तत्र पक्षिसङ्घातो न शब्दो नापि दर्शनम् |

यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ||४||

स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् |

प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ||५||

स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये |

महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ||६||

ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा |

निवेदयामास तदा स्वं योगं परमर्षये ||७||

दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन |

त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ||८||

नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः |

अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ||९||

कैलासपृष्ठादुत्पत्य स पपात दिवं तदा |

अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ||१०||

तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् |

ददृशुः सर्वभूतानि मनोमारुतरंहसम् ||११||

व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् |

आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ||१२||

तमेकमनसं यान्तमव्यग्रमकुतोभयम् |

ददृशुः सर्वभूतानि जङ्गमानीतराणि च ||१३||

यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा |

पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ||१४||

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः |

ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ||१५||

अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः |

अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते ||१६||

ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः |

भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ||१७||

शब्देनाकाशमखिलं पूरयन्निव सर्वतः ||१७||

तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः |

सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः ||१८||

पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ||१८||

दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् |

सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ||१९||

ततः समतिचक्राम मलयं नाम पर्वतम् |

उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते ||२०||

ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ||२०||

अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे |

अचिरेणैव कालेन नभश्चरति चन्द्रवत् ||२१||

पितृशुश्रूषया सिद्धिं सम्प्राप्तोऽयमनुत्तमाम् ||२१||

पितृभक्तो दृढतपाः पितुः सुदयितः सुतः |

अनन्यमनसा तेन कथं पित्रा विवर्जितः ||२२||

उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् |

उदैक्षत दिशः सर्वा वचने गतमानसः ||२३||

सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् |

आलोकयामास तदा सरांसि सरितस्तथा ||२४||

ततो द्वैपायनसुतं बहुमानपुरःसरम् |

कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ||२५||

अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् |

पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ||२६||

ततः प्रतिवचो देयं सर्वैरेव समाहितैः |

एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ ||२७||

शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः |

समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ||२८||

यथाज्ञापयसे विप्र बाढमेवं भविष्यति |

ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ||२९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

320-अध्यायः

भीष्म उवाच||

इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः |

प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् ||१||

तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः |

ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् ||२||

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते |

ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ||३||

उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च |

प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ||४||

द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः |

निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह ||५||

न बभासे सहस्रांशुर्न जज्वाल च पावकः |

ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ||६||

ववर्ष वासवस्तोयं रसवच्च सुगन्धि च |

ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ||७||

स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसम्भवे |

संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ||८||

शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत |

उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह ||९||

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः |

ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ||१०||

अदृश्येतां महाराज तदद्भुतमिवाभवत् ||१०||

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः |

न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ||११||

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् |

गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ||१२||

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् |

साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ||१३||

स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा |

यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ||१४||

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः |

आसीत्किल महाराज शुकाभिपतने तदा ||१५||

ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् |

शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ||१६||

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः |

शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ||१७||

तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः |

उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ||१८||

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् |

दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ||१९||

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः |

निमेषान्तरमात्रेण शुकाभिपतनं ययौ ||२०||

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् |

शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा ||२१||

ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा |

स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै ||२२||

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः |

प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ||२३||

तत एकाक्षरं नादं भो इत्येव समीरयन् |

प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ||२४||

ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् |

गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति ||२५||

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा |

गुणान्सन्त्यज्य शब्दादीन्पदमध्यगमत्परम् ||२६||

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः |

निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ||२७||

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः |

आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः ||२८||

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे |

वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् ||२९||

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा |

सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ||३०||

तं देवगन्धर्ववृतो महर्षिगणपूजितः |

पिनाकहस्तो भगवानभ्यागच्छत शङ्करः ||३१||

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः |

पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा ||३२||

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह |

वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः ||३३||

स तथालक्षणो जातस्तपसा तव सम्भृतः |

मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः ||३४||

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः |

दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ||३५||

यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः |

तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ||३६||

छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा |

द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ||३७||

सोऽनुनीतो भगवता स्वयं रुद्रेण भारत |

छायां पश्यन्समावृत्तः स मुनिः परया मुदा ||३८||

इति जन्म गतिश्चैव शुकस्य भरतर्षभ |

विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि ||३९||

एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा |

व्यासश्चैव महायोगी सञ्जल्पेषु पदे पदे ||४०||

इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् |

धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

321-अध्यायः

नरनारायणीयम्

युधिष्ठिर उवाच||

गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः |

य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ||१||

कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् |

विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ||२||

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः |

स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ||३||

देवतानां च को देवः पितॄणां च तथा पिता |

तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ||४||

भीष्म उवाच||

गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ |

न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ||५||

ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा |

गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ||६||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादमृषेर्नारायणस्य च ||७||

नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः |

धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत ||८||

कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे |

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ||९||

तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ |

बदर्याश्रममासाद्य शकटे कनकामये ||१०||

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् |

तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ||११||

तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि |

यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ||१२||

नूनं तयोरनुमते हृदि हृच्छयचोदितः |

महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ||१३||

नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् |

तं देशमगमद्राजन्बदर्याश्रममाशुगः ||१४||

तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् |

इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ||१५||

सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः |

एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ||१६||

धर्मस्य कुलसन्तानो महानेभिर्विवर्धितः |

अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ||१७||

नरनारायणाभ्यां च कृष्णेन हरिणा तथा ||१७||

तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे |

स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ||१८||

एतौ हि परमं धाम कानयोराह्निकक्रिया |

पितरौ सर्वभूतानां दैवतं च यशस्विनौ ||१९||

कां देवतां नु यजतः पितॄन्वा कान्महामती ||१९||

इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य ह |

सहसा प्रादुरभवत्समीपे देवयोस्तदा ||२०||

कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः |

पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ||२१||

तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् |

उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ||२२||

नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना |

नमस्कृत्वा महादेवमिदं वचनमब्रवीत् ||२३||

वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे |

त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् ||२४||

प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ||२४||

चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः |

यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ||२५||

पिता माता च सर्वस्य जगतः शाश्वतो गुरुः |

कं त्वद्य यजसे देवं पितरं कं न विद्महे ||२६||

श्रीभगवानुवाच||

अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् |

तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ||२७||

यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् |

इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ||२८||

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते |

त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ||२९||

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ||२९||

अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया |

तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः ||३०||

आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ||३०||

नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः |

आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ||३१||

तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी |

दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ||३२||

ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः |

मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ||३३||

वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च |

कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ||३४||

एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः |

तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ||३५||

दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः |

आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ||३६||

स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः |

ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ||३७||

ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च |

कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ||३८||

मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः |

स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ||३९||

दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः |

एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ||४०||

तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः |

भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः ||४१||

ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः |

एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ||४२||

इति गुह्यसमुद्देशस्तव नारद कीर्तितः |

भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ||४३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

322-अध्यायः

भीष्म उवाच||

स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण |

जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम् ||१||

यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा |

तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ||२||

वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम् |

पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् ||३||

गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम् |

तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम् ||४||

एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम् ||४||

तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता |

गच्छेति तं नारदमुक्तवान्स; सम्पूजयित्वात्मविधिक्रियाभिः ||५||

ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम् |

खमुत्पपातोत्तमवेगयुक्त; स्ततोऽधिमेरौ सहसा निलिल्ये ||६||

तत्रावतस्थे च मुनिर्मुहूर्त; मेकान्तमासाद्य गिरेः स शृङ्गे |

आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम् ||७||

क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः |

मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ||८||

अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च |

श्वेताः पुमांसो गतसर्वपापा; श्चक्षुर्मुषः पापकृतां नराणाम् ||९||

वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः |

छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः ||१०||

षष्ट्या दन्तैर्युक्ताः शुक्लै; रष्टाभिर्दंष्ट्राभिर्ये |

जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् ||११||

भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः |

वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः ||१२||

युधिष्ठिर उवाच||

अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः |

कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ||१३||

ये विमुक्ता भवन्तीह नरा भरतसत्तम |

तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ||१४||

तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे |

त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ||१५||

भीष्म उवाच||

विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ |

सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ||१६||

राजोपरिचरो नाम बभूवाधिपतिर्भुवः |

आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ||१७||

धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः |

साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा ||१८||

सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् |

पूजयामास देवेशं तच्छेषेण पितामहान् ||१९||

पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः |

शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ||२०||

सर्वभावेन भक्तः स देवदेवं जनार्दनम् ||२०||

तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन |

एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् ||२१||

आत्मा राज्यं धनं चैव कलत्रं वाहनानि च |

एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ||२२||

काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः |

सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ||२३||

पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः |

प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ||२४||

तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः |

नानृता वाक्समभवन्मनो दुष्टं न चाभवत् ||२५||

न च कायेन कृतवान्स पापं परमण्वपि ||२५||

ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः |

तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ||२६||

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः |

वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ||२७||

सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः |

एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ||२८||

एकाग्रमनसो दान्ता मुनयः संयमे रताः |

इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ||२९||

लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ||२९||

तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः |

मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ||३०||

आराध्य तपसा देवं हरिं नारायणं प्रभुम् |

दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ||३१||

नारायणानुशास्ता हि तदा देवी सरस्वती |

विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया ||३२||

ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः |

शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ||३३||

आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम् |

ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ||३४||

ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः |

ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ||३५||

कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् |

लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ||३६||

प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति |

ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ||३७||

तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः |

रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ||३८||

सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च |

सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ||३९||

अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः |

सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ||४०||

भविष्यति प्रमाणं वै एतन्मदनुशासनम् |

अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् ||४१||

उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः |

तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ||४२||

स्वायम्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते |

बृहस्पतिमते चैव लोकेषु प्रविचारिते ||४३||

युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः |

बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ||४४||

स हि मद्भावितो राजा मद्भक्तश्च भविष्यति |

तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ||४५||

एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम् |

एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ||४६||

अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ |

स च राजा श्रिया युक्तो भविष्यति महान्वसुः ||४७||

संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् |

अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया ||४८||

एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः |

विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम् ||४९||

ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः |

प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ||५०||

उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते |

साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ||५१||

जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः |

धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

323-अध्यायः

भीष्म उवाच||

ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते |

बभूवुर्निर्वृता देवा जाते देवपुरोहिते ||१||

बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः |

एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ||२||

तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः |

अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ||३||

स राजा भावितः पूर्वं दैवेन विधिना वसुः |

पालयामास पृथिवीं दिवमाखण्डलो यथा ||४||

तस्य यज्ञो महानासीदश्वमेधो महात्मनः |

बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ||५||

प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः |

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ||६||

धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू |

ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ||७||

ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः |

कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ||८||

आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः |

कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ||९||

सम्भृताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ ||९||

न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् |

अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ||१०||

आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ||१०||

प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः |

साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ||११||

स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् |

अदृश्येन हृतो भागो देवेन हरिमेधसा ||१२||

बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः |

आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् ||१३||

उवाच चोपरिचरं मया भागोऽयमुद्यतः |

ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ||१४||

उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह |

किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ||१५||

ततः स तं समुद्धूतं भूमिपालो महान्वसुः |

प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ||१६||

ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि |

नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ||१७||

अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः |

न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ||१८||

यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ||१८||

एकतद्वितत्रिता ऊचुः||

वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः |

गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ||१९||

तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् |

एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ||२०||

मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः |

स देशो यत्र नस्तप्तं तपः परमदारुणम् ||२१||

कथं पश्येमहि वयं देवं नारायणं त्विति ||२१||

ततो व्रतस्यावभृथे वागुवाचाशरीरिणी |

सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ||२२||

यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् |

क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ||२३||

तत्र नारायणपरा मानवाश्चन्द्रवर्चसः |

एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ||२४||

ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् |

अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ||२५||

एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः |

गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ||२६||

अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् |

यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ||२७||

प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः |

ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् ||२८||

न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः |

ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ||२९||

न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा |

ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ||३०||

व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् |

श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ||३१||

नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् |

मानसो नाम स जपो जप्यते तैर्महात्मभिः ||३२||

तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ||३२||

या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये |

एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ||३३||

तेजोनिवासः स द्वीप इति वै मेनिरे वयम् |

न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ||३४||

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् |

सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ||३५||

सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् |

कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ||३६||

ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् |

बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ||३७||

वयं तु तेजसा तस्य सहसा हृतचेतसः |

न किञ्चिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः ||३८||

एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः |

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ||३९||

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज |

इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ||४०||

एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः |

दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ||४१||

तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः |

नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ||४२||

वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ||४२||

मारुते संनिवृत्ते च बलौ च प्रतिपादिते |

चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ||४३||

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु |

अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् ||४४||

तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः |

नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ||४५||

ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् |

उवाच खस्थं किमपि भूतं तत्राशरीरकम् ||४६||

दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः |

दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ||४७||

गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् |

न स शक्यो अभक्तेन द्रष्टुं देवः कथञ्चन ||४८||

कामं कालेन महता एकान्तित्वं समागतैः |

शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ||४९||

महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः |

इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ||५०||

वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः |

सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ||५१||

ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप |

तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ||५२||

एवं सुतपसा चैव हव्यकव्यैस्तथैव च |

देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ||५३||

नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ||५३||

भीष्म उवाच||

एवमेकतवाक्येन द्वितत्रितमतेन च |

अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ||५४||

समानीय ततो यज्ञं दैवतं समपूजयत् ||५४||

समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः |

ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ||५५||

अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः |

नारायणपरो भूत्वा नारायणपदं जगौ ||५६||

तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः |

महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ||५७||

परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ||५७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

324-अध्यायः

युधिष्ठिर उवाच||

यदा भक्तो भगवत आसीद्राजा महावसुः |

किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ऋषीणां चैव संवादं त्रिदशानां च भारत ||२||

अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् |

स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः ||३||

ऋषय ऊचुः||

बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः |

अजसञ्ज्ञानि बीजानि छागं न घ्नन्तुमर्हथ ||४||

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः |

इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ||५||

भीष्म उवाच||

तेषां संवदतामेवमृषीणां विबुधैः सह |

मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः ||६||

अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः ||६||

तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् |

ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् ||७||

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः |

कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः ||८||

एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा |

अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् ||९||

भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः |

एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः ||१०||

स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः |

कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ||११||

ऋषय ऊचुः||

धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप |

देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ||१२||

भीष्म उवाच||

देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् |

छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ||१३||

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः |

ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ||१४||

सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत |

अद्य प्रभृति ते राजन्नाकाशे विहता गतिः ||१५||

अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ||१५||

ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा |

अधो वै सम्बभूवाशु भूमेर्विवरगो नृपः ||१६||

स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया ||१६||

देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् |

चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ||१७||

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना |

अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ||१८||

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः |

ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा ||१९||

ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् |

कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ||२०||

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् |

अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ||२१||

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् |

एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम ||२२||

यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ |

भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि ||२३||

यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः ||२३||

प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् |

न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ||२४||

वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च |

स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ||२५||

एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः |

गताः स्वभवनं देवा ऋषयश्च तपोधनाः ||२६||

चक्रे च सततं पूजां विष्वक्सेनाय भारत |

जप्यं जगौ च सततं नारायणमुखोद्गतम् ||२७||

तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम |

अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ||२८||

ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः |

अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः ||२९||

वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् |

गरुत्मन्तं महावेगमाबभाषे स्मयन्निव ||३०||

द्विजोत्तम महाभाग गम्यतां वचनान्मम |

सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ||३१||

ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् |

मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम ||३२||

भूमेर्विवरसङ्गुप्तं गरुडेह ममाज्ञया |

अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् ||३३||

गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् |

विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः ||३४||

तत एनं समुत्क्षिप्य सहसा विनतासुतः |

उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ||३५||

तस्मिन्मुहूर्ते सञ्जज्ञे राजोपरिचरः पुनः |

सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः ||३६||

एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया |

प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना ||३७||

केवलं पुरुषस्तेन सेवितो हरिरीश्वरः |

ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च ||३८||

एतत्ते सर्वमाख्यातं ते भूता मानवा यथा |

नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः ||३९||

तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

325-अध्यायः

महापुरुषस्तवः

भीष्म उवाच||

प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः |

ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान् ||१||

पूजयामास शिरसा मनसा तैश्च पूजितः |

दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रधरः स्थितः ||२||

भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर्महामुनिः |

स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने ||३||

नारद उवाच||

नमस्ते देवदेव १ निष्क्रिय २ निर्गुण ३ लोकसाक्षिन् ४ क्षेत्रज्ञ ५

अनन्त ६=११६ पुरुष ७ महापुरुष ८ त्रिगुण ९ प्रधान १० अमृत ११

व्योम १२ सनातन १३ सदसद्व्यक्ताव्यक्त १४ ऋतधामन् १५ पूर्वादिदेव १६

वसुप्रद १७ प्रजापते १८ सुप्रजापते १९ वनस्पते २० महाप्रजापते २१

ऊर्जस्पते २२ वाचस्पते २३ मनस्पते २४ जगत्पते २५ दिवस्पते २६

मरुत्पते २७ सलिलपते २८ पृथिवीपते २९ दिक्पते ३० पूर्वनिवास ३१

ब्रह्मपुरोहित ३२ ब्रह्मकायिक ३३ महाकायिक ३४ महाराजिक ३५

चतुर्महाराजिक ३६ आभासुर ३७ महाभासुर ३८ सप्तमहाभासुर ३९ याम्य ४०

महायाम्य ४१ सञ्ज्ञासञ्ज्ञ ४२ तुषित ४३ महातुषित ४४ प्रतर्दन ४५

परिनिर्मित ४६ वशवर्तिन् ४७ अपरिनिर्मित ४८ यज्ञ ४९ महायज्ञ ५०

यज्ञसम्भव ५१ यज्ञयोने ५२ यज्ञगर्भ ५३ यज्ञहृदय ५४ यज्ञस्तुत ५५

यज्ञभागहर ५६ पञ्चयज्ञधर ५७ पञ्चकालकर्तृगते ५८

पञ्चरात्रिक ५९ वैकुण्ठ ६० अपराजित ६१ मानसिक ६२ परमस्वामिन् ६३

सुस्नात ६४ हंस ६५ परमहंस ६६ परमयाज्ञिक ६७ साङ्ख्ययोग ६८

अमृतेशय ६९ हिरण्येशय ७० वेदेशय ७१ कुशेशय ७२ ब्रह्मेशय ७३

पद्मेशय ७४ विश्वेश्वर ७५ त्वं जगदन्वयः ७६ त्वं जगत्प्रकृतिः ७७

तवाग्निरास्यम् ७८ वडवामुखोऽग्निः ७९ त्वमाहुतिः ८० त्वं सारथिः ८१

त्वं वषट्कारः ८२ त्वमोङ्कारः ८३ त्वं मनः ८४ त्वं चन्द्रमाः ८५

त्वं चक्षुराद्यम् ८६ त्वं सूर्यः ८७ त्वं दिशां गजः ८८ दिग्भानो ८९

हयशिरः ९० प्रथमत्रिसौपर्ण ९१ पञ्चाग्ने ९२ त्रिणाचिकेत ९३

षडङ्गविधान ९४ प्राग्ज्योतिष ९५ ज्येष्ठसामग ९६ सामिकव्रतधर ९७

अथर्वशिरः ९८ पञ्चमहाकल्प ९९ फेनपाचार्य १०० वालखिल्य १०१

वैखानस १०२ अभग्नयोग १०३ अभग्नपरिसङ्ख्यान १०४ युगादे १०५

युगमध्य १०६ युगनिधन १०७ आखण्डल १०८ प्राचीनगर्भ १०९

कौशिक ११० पुरुष्टुत १११ पुरुहूत ११२ विश्वरूप ११३ अनन्तगते ११४

अनन्तभोग ११५ अनन्त ११६=६ अनादे ११७ अमध्य ११८ अव्यक्तमध्य ११९

अव्यक्तनिधन १२० व्रतावास १२१ समुद्राधिवास १२२ यशोवास १२३

तपोवास १२४ लक्ष्म्यावास १२५ विद्यावास १२६ कीर्त्यावास १२७

श्रीवास १२८ सर्वावास १२९ वासुदेव १३० सर्वच्छन्दक १३१

हरिहय १३२ हरिमेध १३३ महायज्ञभागहर १३४ वरप्रद १३५=१५७

यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर १३६

निवृत्तधर्मप्रवचनगते १३७ प्रवृत्तवेदक्रिय १३८ अज १३९

सर्वगते १४० सर्वदर्शिन् १४१ अग्राह्य १४२ अचल १४३ महाविभूते १४४

माहात्म्यशरीर १४५ पवित्र १४६ महापवित्र १४७ हिरण्मय १४८ बृहत् १४९

अप्रतर्क्य १५० अविज्ञेय १५१ ब्रह्माग्र्य १५२ प्रजासर्गकर १५३

प्रजानिधनकर १५४ महामायाधर १५५ चित्रशिखण्डिन् १५६ वरप्रद १५७=१३५

पुरोडाशभागहर १५८ गताध्वन् १५९ छिन्नतृष्ण १६०

छिन्नसंशय १६१ सर्वतोनिवृत्त १६२ ब्राह्मणरूप १६३ ब्राह्मणप्रिय १६४

विश्वमूर्ते १६५ महामूर्ते १६६ बान्धव १६७ भक्तवत्सल १६८

ब्रह्मण्यदेव १६९ भक्तोऽहं त्वां दिदृक्षुः १७० एकान्तदर्शनाय नमो

नमः १७१ ||४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

326-अध्यायः

भीष्म उवाच||

एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः |

तं मुनिं दर्शयामास नारदं विश्वरूपधृक् ||१||

किञ्चिच्चन्द्रविशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान् |

कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः ||२||

शुकपत्रवर्णः किञ्चिच्च किञ्चित्स्फटिकसप्रभः |

नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ||३||

प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ |

क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् ||४||

नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् |

मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ||५||

एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः |

सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् ||६||

सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् |

ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् ||७||

शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु |

आरण्यकं जगौ देवो हरिर्नारायणो वशी ||८||

वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् |

अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् ||९||

धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ||९||

तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः |

वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् ||१०||

तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ||१०||

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः |

इमं देशमनुप्राप्ता मम दर्शनलालसाः ||११||

न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन |

ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः ||१२||

ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज |

तास्त्वं भजस्व सततं साधयस्व यथागतम् ||१३||

वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि |

प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः ||१४||

नारद उवाच||

अद्य मे तपसो देव यमस्य नियमस्य च |

सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया ||१५||

वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः |

भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः ||१६||

भीष्म उवाच||

एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् |

उवाच वचनं भूयो गच्छ नारद माचिरम् ||१७||

इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः |

एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति ||१८||

सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् |

तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ||१९||

न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च |

न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ||२०||

सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै |

यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ||२१||

भूतग्रामशरीरेषु नश्यत्सु न विनश्यति |

अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ||२२||

द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः |

पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते ||२३||

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम |

स वासुदेवो विज्ञेयः परमात्मा सनातनः ||२४||

पश्य देवस्य माहात्म्यं महिमानं च नारद |

शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ||२५||

सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते |

एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ||२६||

एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते |

निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः ||२७||

जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते |

ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ||२८||

खे वायुः प्रलयं याति मनस्याकाशमेव च |

मनो हि परमं भूतं तदव्यक्ते प्रलीयते ||२९||

अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते |

नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् ||३०||

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् |

ऋते तमेकं पुरुषं वासुदेवं सनातनम् ||३१||

सर्वभूतात्मभूतो हि वासुदेवो महाबलः ||३१||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

ते समेता महात्मानः शरीरमिति सञ्ज्ञितम् ||३२||

तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः |

उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ||३३||

न विना धातुसङ्घातं शरीरं भवति क्वचित् |

न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत ||३४||

स जीवः परिसङ्ख्यातः शेषः सङ्कर्षणः प्रभुः |

तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा ||३५||

यस्मिंश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षये |

स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ||३६||

तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च |

यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् ||३७||

सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ||३७||

यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः |

ज्ञेयः स एव भगवाञ्जीवः सङ्कर्षणः प्रभुः ||३८||

सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते |

प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहङ्कारो महेश्वरः ||३९||

मत्तः सर्वं सम्भवति जगत्स्थावरजङ्गमम् |

अक्षरं च क्षरं चैव सच्चासच्चैव नारद ||४०||

मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम |

अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ||४१||

निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः |

एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ||४२||

इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ||४२||

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद |

सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ||४३||

मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ||४३||

सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् |

तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ||४४||

अहं कर्ता च कार्यं च कारणं चापि नारद |

अहं हि जीवसञ्ज्ञो वै मयि जीवः समाहितः ||४५||

मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च ||४५||

अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः |

भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ||४६||

हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः |

ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ||४७||

पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् |

द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान् ||४८||

अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् |

नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ||४९||

सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि |

वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ||५०||

तपांसि नियमांश्चैव यमानपि पृथग्विधान् |

तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् ||५१||

श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् |

वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ||५२||

ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् |

अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ||५३||

मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम |

त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ||५४||

देवकार्यादपि मुने पितृकार्यं विशिष्यते |

देवानां च पितॄणां च पिता ह्येकोऽहमादितः ||५५||

अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे |

पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ||५६||

मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् |

ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् ||५७||

मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च |

अहङ्कारकृतं चैव नाम पर्यायवाचकम् ||५८||

त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन |

त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ||५९||

सुरासुरगणानां च ऋषीणां च तपोधन |

पितॄणां च महाभाग सततं संशितव्रत ||६०||

विविधानां च भूतानां त्वमुपास्यो भविष्यसि ||६०||

प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा |

अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ||६१||

एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे |

अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ||६२||

निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता |

तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ||६३||

विद्यासहायवन्तं मामादित्यस्थं सनातनम् |

कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः ||६४||

हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः |

सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ||६५||

एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः |

ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ||६६||

कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ||६६||

एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम |

ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ||६७||

अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् |

स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ||६८||

प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः |

अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः ||६९||

ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च |

एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ||७०||

यथा सूर्यस्य गगनादुदयास्तमयाविह |

नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः ||७१||

तथा बलादहं पृथ्वीं सर्वभूतहिताय वै ||७१||

सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् |

आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ||७२||

हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् |

नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः ||७३||

सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ||७३||

विरोचनस्य बलवान्बलिः पुत्रो महासुरः |

भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ||७४||

त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ |

अदित्यां द्वादशः पुत्रः सम्भविष्यामि कश्यपात् ||७५||

ततो राज्यं प्रदास्यामि शक्रायामिततेजसे |

देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद ||७६||

बलिं चैव करिष्यामि पातालतलवासिनम् ||७६||

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः |

क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ||७७||

सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च |

रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ||७८||

त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा |

प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी ||७९||

तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः |

ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ||८०||

ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् |

हनिष्ये रावणं सङ्ख्ये सगणं लोककण्टकम् ||८१||

द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके |

प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ||८२||

तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् |

कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ||८३||

वसानस्तत्र वै पुर्यामदितेर्विप्रियङ्करम् |

हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ||८४||

प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् |

कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ||८५||

शङ्करं च महासेनं बाणप्रियहितैषिणम् |

पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ ||८६||

ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् |

विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ||८७||

यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः |

भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ||८८||

जरासन्धश्च बलवान्सर्वराजविरोधकः |

भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ||८९||

मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ||८९||

समागतेषु बलिषु पृथिव्यां सर्वराजसु |

वासविः सुसहायो वै मम ह्येको भविष्यति ||९०||

एवं लोका वदिष्यन्ति नरनारायणावृषी |

उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ||९१||

कृत्वा भारावतरणं वसुधाया यथेप्सितम् |

सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ||९२||

करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् ||९२||

कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् |

कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ||९३||

हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम |

यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा ||९४||

सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ||९४||

अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् |

अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ||९५||

लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ||९५||

न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् |

यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना ||९६||

एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया |

पुराणं च भविष्यं च सरहस्यं च सत्तम ||९७||

एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः |

एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ||९८||

नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् |

नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् ||९९||

इदं महोपनिषदं चतुर्वेदसमन्वितम् |

साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ||१००||

नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः |

ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् ||१०१||

युधिष्ठिर उवाच||

एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः |

किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् ||१०२||

पितामहो हि भगवांस्तस्माद्देवादनन्तरः |

कथं स न विजानीयात्प्रभावममितौजसः ||१०३||

भीष्म उवाच||

महाकल्पसहस्राणि महाकल्पशतानि च |

समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ||१०४||

सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः |

जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ||१०५||

परमात्मानमीशानमात्मनः प्रभवं तथा ||१०५||

ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः |

तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ||१०६||

तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् |

आत्मानुगामिनां ब्रह्म श्रावयामास भारत ||१०७||

षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् |

सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः ||१०८||

तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ||१०८||

सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः |

मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् ||१०९||

देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः |

श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः ||११०||

मम चापि पिता तात कथयामास शन्तनुः |

ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत ||१११||

सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् |

सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ||११२||

इदमाख्यानमार्षेयं पारम्पर्यागतं नृप |

नावासुदेवभक्ताय त्वया देयं कथञ्चन ||११३||

मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै |

यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः ||११४||

सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् |

एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ||११५||

यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः |

एकान्तभावोपगत एकान्ते सुसमाहितः ||११६||

प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः |

स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः ||११७||

मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् |

जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ||११८||

त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः |

स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ||११९||

ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः |

युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः ||१२०||

वैशम्पायन उवाच||

श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय |

भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ||१२१||

जितं भगवता तेन पुरुषेणेति भारत |

नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् ||१२२||

यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः |

स जगौ परमं जप्यं नारायणमुदीरयन् ||१२३||

गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् |

पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् ||१२४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.