शान्तिपर्वम् अध्यायः 258-283

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

258-अध्यायः

चिरकारिकोपाख्यानम्

युधिष्ठिर उवाच||

कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा |

सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले ||२||

चिरकारिक भद्रं ते भद्रं ते चिरकारिक |

चिरकारी हि मेधावी नापराध्यति कर्मसु ||३||

चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः |

चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते ||४||

चिरं सञ्चिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् |

चिरकार्याभिसम्पत्तेश्चिरकारी तथोच्यते ||५||

अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते |

बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ||६||

व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् |

पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ||७||

स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः |

विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ||८||

पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् |

कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ||९||

पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् |

अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् ||१०||

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् |

पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ||११||

अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् |

युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ||१२||

पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति |

शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ||१३||

सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः |

विज्ञानं मे कथं न स्याद्बुबुधे चात्मसम्भवम् ||१४||

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि |

पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ||१५||

गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः |

पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ||१६||

प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता |

शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ||१७||

तस्मात्पितुर्वचः कार्यं न विचार्यं कथञ्चन |

पातकान्यपि पूयन्ते पितुर्वचनकारिणः ||१८||

भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने |

भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ||१९||

पिता स्वर्गः पिता धर्मः पिता परमकं तपः |

पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ||२०||

आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता |

निष्कृतिः सर्वपापानां पिता यदभिनन्दति ||२१||

मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते |

क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति ||२२||

एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् |

पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् ||२३||

यो ह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः |

अस्य मे जननी हेतुः पावकस्य यथारणिः ||२४||

माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ||२४||

न च शोचति नाप्येनं स्थाविर्यमपकर्षति |

श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते ||२५||

पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः |

अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ||२६||

समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा |

रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ||२७||

तदा स वृद्धो भवति यदा भवति दुःखितः |

तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ||२८||

नास्ति मातृसमा छाया नास्ति मातृसमा गतिः |

नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ||२९||

कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता |

अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ||३०||

शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् |

चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ||३१||

दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल |

तं माता वा पिता वेद भूतार्थो मातरि स्थितः ||३२||

माता जानाति यद्गोत्रं माता जानाति यस्य सः |

मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ||३३||

पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च |

यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् ||३४||

भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः |

गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः ||३५||

एवं स्त्री नापराध्नोति नर एवापराध्यति |

व्युच्चरंश्च महादोषं नर एवापराध्यति ||३६||

स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् |

तस्यात्मना तु सदृशमात्मानं परमं ददौ ||३७||

सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ||३७||

यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये |

तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः ||३८||

यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् |

अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ||३९||

देवतानां समावायमेकस्थं पितरं विदुः |

मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ||४०||

एवं विमृशतस्तस्य चिरकारितया बहु |

दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता ||४१||

मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः |

विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ||४२||

सोऽब्रवीद्दुःखसन्तप्तो भृशमश्रूणि वर्तयन् |

श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ||४३||

आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः |

अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः ||४४||

समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः |

अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः ||४५||

परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च |

अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः ||४६||

एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः |

अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ||४७||

ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः |

ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ||४८||

हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् |

भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ||४९||

अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः |

यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ||५०||

चिरकारिक भद्रं ते भद्रं ते चिरकारिक |

यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ||५१||

त्राहि मां मातरं चैव तपो यच्चार्जितं मया |

आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ||५२||

सहजं चिरकारित्वं चिरप्राज्ञतया तव |

सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः ||५३||

चिरमाशंसितो मात्रा चिरं गर्भेण धारितः |

सफलं चिरकारित्वं कुरु त्वं चिरकारिक ||५४||

चिरायते च सन्तापाच्चिरं स्वपिति वारितः |

आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक ||५५||

एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा |

चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ||५६||

चिरकारी तु पितरं दृष्ट्वा परमदुःखितः |

शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ||५७||

गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि |

पत्नीं चैव निराकारां परामभ्यगमन्मुदम् ||५८||

न हि सा तेन सम्भेदं पत्नी नीता महात्मना |

विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ||५९||

हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते |

विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु ||६०||

बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् |

शस्त्रग्रहणचापल्यं संवृणोति भयादिति ||६१||

ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि |

चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ||६२||

एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः |

अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् ||६३||

चिरकारिक भद्रं ते चिरकारी चिरं भव |

चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः ||६४||

गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः |

चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् ||६५||

चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् |

चिरेण हि कृतं मित्रं चिरं धारणमर्हति ||६६||

रागे दर्पे च माने च द्रोहे पापे च कर्मणि |

अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ||६७||

बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च |

अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ||६८||

एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत |

कर्मणा तेन कौरव्य चिरकारितया तया ||६९||

एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः |

चिरेण निश्चयं कृत्वा चिरं न परितप्यते ||७०||

चिरं धारयते रोषं चिरं कर्म नियच्छति |

पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते ||७१||

चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् |

चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ||७२||

चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च |

चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ||७३||

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् |

चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते ||७४||

उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः |

समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ||७५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

259-अध्यायः

सत्यवद् द्युमत्सेनसंवादः

युधिष्ठिर उवाच||

कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापयेत् |

पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ||२||

अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् |

वधाय नीयमानेषु पितुरेवानुशासनात् ||३||

अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् |

वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ||४||

द्युमत्सेन उवाच||

अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् |

दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत् ||५||

ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे |

लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ||६||

सत्यवानुवाच||

सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः |

धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ||७||

यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः |

अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ||८||

तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः |

असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ||९||

दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः |

भार्या माता पिता पुत्रो हन्यते पुरुषे हते ||१०||

परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ||१०||

असाधुश्चैव पुरुषो लभते शीलमेकदा |

साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ||११||

न मूलघातः कर्तव्यो नैष धर्मः सनातनः |

अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ||१२||

उद्वेजनेन बन्धेन विरूपकरणेन च |

वधदण्डेन ते क्लेश्या न पुरोऽहितसम्पदा ||१३||

यदा पुरोहितं वा ते पर्येयुः शरणैषिणः |

करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ||१४||

तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् |

बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वाससम् ||१५||

गरीयांसो गरीयांसमपराधे पुनः पुनः |

तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ||१६||

द्युमत्सेन उवाच||

यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः |

स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ||१७||

अहन्यमानेषु पुनः सर्वमेव पराभवेत् |

पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ||१८||

मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः |

पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ||१९||

आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते |

वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ||२०||

नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः |

न गन्धर्वपितॄणां च कः कस्येह न कश्चन ||२१||

पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् |

तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ||२२||

सत्यवानुवाच||

तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया |

कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ||२३||

द्युमत्सेन उवाच||

राजानो लोकयात्रार्थं तप्यन्ते परमं तपः |

अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ||२४||

वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् |

सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ||२५||

श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते |

सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ||२६||

आत्मानमसमाधाय समाधित्सति यः परान् |

विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ||२७||

यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम् |

सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ||२८||

आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता |

दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ||२९||

यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति |

वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ||३०||

इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ||३०||

इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः |

आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ||३१||

एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् |

पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ||३२||

द्वापरे तु द्विपादेन पादेन त्वपरे युगे ||३२||

तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह |

भवेत्कालविशेषेण कला धर्मस्य षोडशी ||३३||

अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत् |

आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ||३४||

सत्याय हि यथा नेह जह्याद्धर्मफलं महत् |

भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत् ||३५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

260-अध्यायः

कपिलगोसंवादः

युधिष्ठिर उवाच||

अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः |

यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ||१||

गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः |

अदूरसम्प्रस्थितयोः किं स्विच्छ्रेयः पितामह ||२||

भीष्म उवाच||

उभौ धर्मौ महाभागावुभौ परमदुश्चरौ |

उभौ महाफलौ तात सद्भिराचरितावुभौ ||३||

अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः |

शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् ||४||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ||५||

आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् |

नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ||६||

तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः |

ज्ञानवान्नियताहारो ददर्श कपिलस्तदा ||७||

स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् |

स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् ||८||

तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् |

हंहो वेदा यदि मता धर्माः केनापरे मताः ||९||

तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः |

सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ||१०||

तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः |

का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः ||११||

कपिल उवाच||

नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् |

पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ||१२||

गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति |

गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ||१३||

देवयाना हि पन्थानश्चत्वारः शाश्वता मताः |

तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् ||१४||

एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् |

नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ||१५||

अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः |

एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ||१६||

यद्यत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम् |

ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ||१७||

स्यूमरश्मिरुवाच||

स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः |

फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ||१८||

अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये |

ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः ||१९||

तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते |

पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ||२०||

एतानि सह यज्ञेन प्रजापतिरकल्पयत् |

तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ||२१||

ते स्मान्योन्यञ्चराः सर्वे प्राणिनः सप्त सप्त च |

यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम् ||२२||

एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा |

को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ||२३||

पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह |

स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् ||२४||

ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि |

हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ||२५||

ऋचो यजूंषि सामानि यजमानश्च षोडशः |

अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ||२६||

अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः ||२६||

आज्येन पयसा दध्ना शकृतामिक्षया त्वचा |

वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् ||२७||

एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ||२७||

यज्ञं वहन्ति सम्भूय सहर्त्विग्भिः सदक्षिणैः |

संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ||२८||

यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः |

एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः ||२९||

न हिनस्ति ह्यारभते नाभिद्रुह्यति किञ्चन |

यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया ||३०||

यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः |

विधिना विधियुक्तानि तारयन्ति परस्परम् ||३१||

आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः |

तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ||३२||

ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च |

अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा ||३३||

ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् |

यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ||३४||

न तस्य त्रिषु लोकेषु परलोकभयं विदुः |

इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ||३५||

ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः |

यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः ||३६||

अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज |

यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः ||३७||

तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन् |

यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ||३८||

नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः |

वेदवादविदश्चैव प्रमाणमुभयं तदा ||३९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

261-अध्यायः

कपिल उवाच||

एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः |

नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ||१||

निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः |

विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ||२||

अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः |

ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ||३||

विशोका नष्टरजसस्तेषां लोकाः सनातनाः |

तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ||४||

स्यूमरश्मिरुवाच||

यद्येषा परमा निष्ठा यद्येषा परमा गतिः |

गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ||५||

यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः |

एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ||६||

गृहस्थ एव यजते गृहस्थस्तप्यते तपः |

गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेजते ||७||

प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने |

प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते ||८||

यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज |

ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ||९||

कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ||९||

अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः |

निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ||१०||

श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ||१०||

त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा |

ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ||११||

प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु |

अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ||१२||

दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् |

दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ||१३||

अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः |

मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ||१४||

एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् |

ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ||१५||

श्रिया विहीनैरलसैः पण्डितैरपलापितम् |

वेदवादापरिज्ञानं सत्याभासमिवानृतम् ||१६||

न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः |

ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; सन्तर्पितस्तर्पयते च कामैः ||१७||

न वेदानां परिभवान्न शाठ्येन न मायया |

महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ||१८||

कपिल उवाच||

दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् |

चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ||१९||

अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः |

ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ||२०||

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः |

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||२१||

चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा |

बाहुभ्यां वाच उदरादुपस्था; त्तेषां द्वारं द्वारपालो बुभूषेत् ||२२||

नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत् |

क्रुद्धो न चैव प्रहरेत धीमां; स्तथास्य तत्पाणिपादं सुगुप्तम् ||२३||

नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात् |

सत्यव्रतो मितभाषोऽप्रमत्त; स्तथास्य वाग्द्वारमथो सुगुप्तम् ||२४||

नानाशनः स्यान्न महाशनः स्या; दलोलुपः साधुभिरागतः स्यात् |

यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः ||२५||

न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत |

भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत ||२६||

द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः |

उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ||२७||

मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत |

किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ||२८||

अनुत्तरीयवसनमनुपस्तीर्णशायिनम् |

बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ||२९||

द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः |

परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ||३०||

येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या |

गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ||३१||

अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः |

सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ||३२||

नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् |

अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ||३३||

फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च |

विगुणानि च पश्यन्ति तथानैकान्तिकानि च ||३४||

गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः |

अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ||३५||

स्यूमरश्मिरुवाच||

यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा |

तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ||३६||

कपिल उवाच||

प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः |

प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ||३७||

स्यूमरश्मिरुवाच||

स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः |

श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ||३८||

इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ||३८||

प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः |

किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ||३९||

अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ||३९||

आगमो वेदवादस्तु तर्कशास्त्राणि चागमः |

यथागममुपासीत आगमस्तत्र सिध्यति ||४०||

सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ||४०||

नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना |

ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ||४१||

एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ||४१||

नैव त्यागी न सन्तुष्टो नाशोको न निरामयः |

न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ||४२||

भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् |

इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ||४३||

एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु |

एकमालम्बमानानां निर्णये किं निरामयम् ||४४||

कपिल उवाच||

यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु |

यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ||४५||

सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते |

ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ||४६||

भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः |

ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ||४७||

शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः |

कामद्वेषाभिभूतत्वादहङ्कारवशं गताः ||४८||

याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः |

ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ||४९||

वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते |

तेषां तमःशरीराणां तम एव परायणम् ||५०||

यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः |

तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ||५१||

नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः ||५१||

एतद्बुद्ध्यानुपश्यन्तः सन्त्यजेयुः शुभाशुभम् |

परां गतिमभीप्सन्तो यतयः संयमे रताः ||५२||

स्यूमरश्मिरुवाच||

सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् |

न ह्यविज्ञाय शात्रार्थं प्रवर्तन्ते प्रवृत्तयः ||५३||

यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः |

यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ||५४||

न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः |

यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ||५५||

शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः |

शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ||५६||

अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ||५६||

शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः |

पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् ||५७||

वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ||५७||

इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् |

दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम् ||५८||

यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् |

धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ||५९||

नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया |

एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ||६०||

तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः |

यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ||६१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

262-अध्यायः

कपिल उवाच||

वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः |

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ||१||

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ||१||

शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् |

कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः ||२||

आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते |

निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् ||३||

धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः |

उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः ||४||

धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ||४||

अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः |

मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ||५||

अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः |

ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ||६||

आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु |

राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ||७||

समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः |

प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ||८||

पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः |

चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः ||९||

संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् |

तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन ||१०||

सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः |

न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ||११||

य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह |

अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते ||१२||

दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः ||१२||

यत एवंविधा विप्राः पुराणा यज्ञवाहनाः |

त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ||१३||

यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः ||१३||

तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् |

आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम् ||१४||

अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् |

ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु ||१५||

सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः ||१५||

तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् |

स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् ||१६||

तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् |

अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् ||१७||

निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः |

सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः ||१८||

धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः |

तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् ||१९||

गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः |

गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः ||२०||

धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः |

आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः ||२१||

अत एवंविधा विप्राः पुराणा धर्मचारिणः |

त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः ||२२||

नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः |

आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ||२३||

यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः |

न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः ||२४||

एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् |

कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् ||२५||

एवं पक्वकषायाणामानन्त्येन श्रुतेन च |

सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः ||२६||

तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् |

चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः ||२७||

स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः |

सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते ||२८||

अपवर्गगतिर्नित्यो यतिधर्मः सनातनः |

साधारणः केवलो वा यथाबलमुपास्यते ||२९||

गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति |

ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ||३०||

स्यूमरश्मिरुवाच||

ये भुञ्जते ये ददते यजन्तेऽधीयते च ये |

मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः ||३१||

एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः |

एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः ||३२||

कपिल उवाच||

परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये |

न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ||३३||

स्यूमरश्मिरुवाच||

भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः |

आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ||३४||

एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते |

तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ||३५||

कपिल उवाच||

शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः |

पक्वे कषाये वमनै रसज्ञाने न तिष्ठति ||३६||

आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् |

अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा ||३७||

पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् |

तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् ||३८||

यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः |

गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ||३९||

वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति |

एवं वेदविदित्याहुरतोऽन्यो वातरेटकः ||४०||

सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् |

वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ||४१||

एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च |

एतदन्तं च मध्यं च सच्चासच्च विजानतः ||४२||

समस्तत्याग इत्येव शम इत्येव निष्ठितः |

सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् ||४३||

ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च |

सर्वं सुखं यच्छिवमुत्तमं च; ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च ||४४||

तेजः क्षमा शान्तिरनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् |

एतैः शब्दैर्गम्यते बुद्धिनेत्रै; स्तस्मै नमो ब्रह्मणे ब्राह्मणाय ||४५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

263-अध्यायः

कुण्डधारोपाख्यानम्

युधिष्ठिर उवाच||

धर्ममर्थं च कामं च वेदाः शंसन्ति भारत |

कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् |

कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ||२||

अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत |

यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ||३||

स निश्चयमथो कृत्वा पूजयामास देवताः |

भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः ||४||

ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् |

यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ||५||

अथ सौम्येन वपुषा देवानुचरमन्तिके |

प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ||६||

दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत |

अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ||७||

संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः |

एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ||८||

ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि |

बलिभिर्विविधैश्चापि पूजयामास तं द्विजः ||९||

ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा |

तस्योपकारे नियतामिमां वाचमुवाच ह ||१०||

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा |

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ||११||

आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः |

पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ||१२||

ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा |

अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ||१३||

शमेन तपसा चैव भक्त्या च निरुपस्कृतः |

शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ||१४||

मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् |

अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ||१५||

तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च |

शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ||१६||

पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः |

निष्पत्य पतितो भूमौ देवानां भरतर्षभ ||१७||

ततस्तु देववचनान्मणिभद्रो महायशाः |

उवाच पतितं भूमौ कुण्डधार किमिष्यते ||१८||

कुण्डधार उवाच||

यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम |

अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम् ||१९||

भीष्म उवाच||

ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् |

देवानामेव वचनात्कुण्डधारं महाद्युतिम् ||२०||

उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव |

यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव ||२१||

देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ||२१||

विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् |

तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ||२२||

कुण्डधार उवाच||

नाहं धनानि याचामि ब्राह्मणाय धनप्रद |

अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ||२३||

पृथिवीं रत्नपूर्णां वा महद्वा धनसञ्चयम् |

भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ||२४||

धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु |

धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ||२५||

मणिभद्र उवाच||

यदा धर्मफलं राज्यं सुखानि विविधानि च |

फलान्येवायमश्नातु कायक्लेशविवर्जितः ||२६||

भीष्म उवाच||

ततस्तदेव बहुशः कुण्डधारो महायशाः |

अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ||२७||

मणिभद्र उवाच||

प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च |

भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ||२८||

भीष्म उवाच||

ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर |

ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ||२९||

ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः |

पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ||३०||

ब्राह्मण उवाच||

अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् |

गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ||३१||

भीष्म उवाच||

निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः |

वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ||३२||

देवतातिथिशेषेण फलमूलाशनो द्विजः |

धर्मे चापि महाराज रतिरस्याभ्यजायत ||३३||

त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः |

पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ||३४||

वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् |

न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ||३५||

धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः |

कालेन महता तस्य दिव्या दृष्टिरजायत ||३६||

तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् |

तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ||३७||

ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः |

भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ||३८||

यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् |

स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ||३९||

तस्य साक्षात्कुण्डधारो दर्शयामास भारत |

ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ||४०||

समागम्य स तेनाथ पूजां चक्रे यथाविधि |

ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ||४१||

ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् |

पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ||४२||

ततो राज्ञां सहस्राणि मग्नानि निरये तदा |

दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ||४३||

कुण्डधार उवाच||

मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः |

कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ||४४||

पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः |

स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ||४५||

भीष्म उवाच||

ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् |

निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ||४६||

कुण्डधार उवाच||

एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् |

तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ||४७||

न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः |

एष शक्तोऽसि तपसा राज्यं दातुं धनानि च ||४८||

भीष्म उवाच||

ततः पपात शिरसा ब्राह्मणस्तोयधारिणे |

उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ||४९||

कामलोभानुबन्धेन पुरा ते यदसूयितम् |

मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ||५०||

क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् |

सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ||५१||

ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह |

कुण्डधारप्रसादेन तपसा योजितः पुरा ||५२||

विहायसा च गमनं तथा सङ्कल्पितार्थता |

धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ||५३||

देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः |

धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ||५४||

सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः |

धने सुखकला काचिद्धर्मे तु परमं सुखम् ||५५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

264-अध्यायः

उञ्छवृत्तेः पुरावृत्तम्

युधिष्ठिर उवाच||

बहूनां यज्ञतपसामेकार्थानां पितामह |

धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् |

उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह ||२||

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः |

उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे ||३||

श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला |

तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ||४||

उपगम्य वने पृथ्वीं सर्वभूतविहिंसया |

अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परन्तप ||५||

तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी |

यज्ञपत्नीत्वमानीता सत्येनानुविधीयते ||६||

सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी ||६||

मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम् |

अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः ||७||

शुक्रस्य पुनराजातिरपध्यानादधर्मवित् |

तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ||८||

वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम् ||८||

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः |

मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ||९||

ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत् |

निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ||१०||

एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम् |

किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ||११||

सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः |

सत्येन सम्परिष्वज्य संदिष्टो गम्यतामिति ||१२||

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत |

साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् ||१३||

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा |

विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ||१४||

ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा |

मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ||१५||

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने |

तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः ||१६||

तस्य तेन तु भावेन मृगहिंसात्मनस्तदा |

तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ||१७||

ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् |

समाधानं च भार्याया लेभे स तपसा परम् ||१८||

अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता |

सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् ||१९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

265-अध्यायः

युधिष्ठिर उवाच||

कथं भवति पापात्मा कथं धर्मं करोति वा |

केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ||१||

भीष्म उवाच||

विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि |

शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ||२||

विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते |

प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ ||३||

ततस्तदर्थं यतते कर्म चारभते पुनः |

इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ||४||

ततो रागः प्रभवति द्वेषश्च तदनन्तरम् |

ततो लोभः प्रभवति मोहश्च तदनन्तरम् ||५||

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च |

न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ||६||

व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते |

व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन ||७||

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति |

सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ||८||

उत्तरं न्यायसम्बद्धं ब्रवीति विधियोजितम् |

अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ||९||

पापं चिन्तयते चैव प्रब्रवीति करोति च |

तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ||१०||

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः |

स नेह सुखमाप्नोति कुत एव परत्र वै ||११||

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु |

यथा कुशलधर्मा स कुशलं प्रतिपद्यते ||१२||

य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति |

कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते ||१३||

तस्य साधुसमाचारादभ्यासाच्चैव वर्धते |

प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति ||१४||

सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः |

तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ||१५||

धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् |

स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति ||१६||

शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत |

प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः ||१७||

स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर |

अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ||१८||

प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति |

विरज्यते तदा कामान्न च धर्मं विमुञ्चति ||१९||

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् |

ततो मोक्षाय यतते नानुपायादुपायतः ||२०||

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च |

धर्मात्मा चैव भवति मोक्षं च लभते परम् ||२१||

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि |

पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत ||२२||

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर |

धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

266-अध्यायः

युधिष्ठिर उवाच||

मोक्षः पितामहेनोक्त उपायान्नानुपायतः |

तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ||१||

भीष्म उवाच||

त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् |

यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ ||२||

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ |

एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् ||३||

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् |

एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ||४||

क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात् |

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति ||५||

अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् |

इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ||६||

भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् |

निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ||७||

उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् |

लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् ||८||

अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया |

आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ||९||

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः |

कारुण्येनात्मनो मानं तृष्णां च परितोषतः ||१०||

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् |

मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् ||११||

यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा |

ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ||१२||

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा |

योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ||१३||

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् |

परित्यज्य निषेवेत तथेमान्योगसाधनान् ||१४||

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा |

शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ||१५||

एतैर्विवर्धते तेजः पाप्मानमपहन्ति च |

सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते ||१६||

धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः |

कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ||१७||

अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् |

अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ||१८||

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः |

तथा वाक्कायमनसां नियमः कामतोऽन्यथा ||१९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

267-अध्यायः

नारददेवलसंवादः

भीष्म उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादं देवलस्यासितस्य च ||१||

आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः |

नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ||२||

कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् |

प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ||३||

असित उवाच||

येभ्यः सृजति भूतानि कालो भावप्रचोदितः |

महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ||४||

तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः |

एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ||५||

विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् |

महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ||६||

आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ |

असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ||७||

नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् |

वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः ||८||

पञ्चैव तानि कालश्च भावाभावौ च केवलौ |

अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ||९||

अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि |

विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ||१०||

तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम् |

सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् ||११||

चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी |

इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ||१२||

दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा |

उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ||१३||

रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः |

इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ||१४||

रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् |

इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ||१५||

चित्तमिन्द्रियसङ्घातात्परं तस्मात्परं मनः |

मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ||१६||

पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् |

विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ||१७||

इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति ||१७||

चित्तमिन्द्रियसङ्घातं मनो बुद्धिं तथाष्टमीम् |

अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ||१८||

पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् |

इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ||१९||

जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते |

गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ||२०||

पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी |

विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ||२१||

बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् |

ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया ||२२||

इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा |

भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ||२३||

इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि |

सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ||२४||

सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः |

कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ||२५||

आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः |

सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ||२६||

जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः |

भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः ||२७||

इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः |

तेषामष्टादशो देही यः शरीरे स शाश्वतः ||२८||

अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् |

संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ||२९||

अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम् |

एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ||३०||

ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः ||३०||

महान्सन्धारयत्येतच्छरीरं वायुना सह |

तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ||३१||

यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा |

पुण्यपापविनाशान्ते पुण्यपापसमीरितम् ||३२||

देहं विशति कालेन ततोऽयं कर्मसम्भवम् ||३२||

हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः |

कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ||३३||

तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः |

कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः ||३४||

न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते |

भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ||३५||

नैव सञ्जायते जन्तुर्न च जातु विपद्यते |

याति देहमयं भुक्त्वा कदाचित्परमां गतिम् ||३६||

पुण्यपापमयं देहं क्षपयन्कर्मसञ्चयात् |

क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ||३७||

पुण्यपापक्षयार्थं च साङ्ख्यं ज्ञानं विधीयते |

तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

268-अध्यायः

माण्डव्यजनकसंवादः

युधिष्ठिर उवाच||

भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा |

अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ||१||

येयमर्थोद्भवा तृष्णा कथमेतां पितामह |

निवर्तयेम पापं हि तृष्णया कारिता वयम् ||२||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गीतं विदेहराजेन माण्डव्यायानुपृच्छते ||३||

सुसुखं बत जीवामि यस्य मे नास्ति किञ्चन |

मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ||४||

अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् |

असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ||५||

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् |

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ||६||

यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते |

तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ||७||

किञ्चिदेव ममत्वेन यदा भवति कल्पितम् |

तदेव परितापाय नाशे सम्पद्यते पुनः ||८||

न कामाननुरुध्येत दुःखं कामेषु वै रतिः |

प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् ||९||

विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् |

कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह ||१०||

उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये |

भयाभये च सन्त्यज्य सम्प्रशान्तो निरामयः ||११||

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||१२||

चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् |

धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ||१३||

राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः |

पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

269-अध्यायः

हारीतगीता

युधिष्ठिर उवाच||

किंशीलः किंसमाचारः किंविद्यः किम्परायणः |

प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ||१||

भीष्म उवाच||

मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः |

प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ||२||

स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः |

समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ||३||

न चक्षुषा न मनसा न वाचा दूषयेदपि |

न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ||४||

न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् |

नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ||५||

अतिवादांस्तितिक्षेत नाभिमन्येत्कथञ्चन |

क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ||६||

प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् |

भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः ||७||

अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् |

मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः ||८||

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |

अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ||९||

अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः |

अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ||१०||

लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः |

अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ||११||

न चान्नदोषान्निन्देत न गुणानभिपूजयेत् |

शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ||१२||

शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् |

अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् ||१३||

अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः |

सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ||१४||

वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् |

एतान्वेगान्विनयेद्वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात् ||१५||

मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः |

एतत्पवित्रं परमं परिव्राजक आश्रमे ||१६||

महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः |

अपूर्वचारकः सौम्यो अनिकेतः समाहितः ||१७||

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् |

अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् ||१८||

विजानतां मोक्ष एष श्रमः स्यादविजानताम् |

मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ||१९||

अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् |

लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

270-अध्यायः

वृत्रगीता

युधिष्ठिर उवाच||

धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत |

न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ||१||

लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम |

प्राप्य जातिं मनुष्येषु देवैरपि पितामह ||२||

कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् |

दुःखमेतच्छरीराणां धारणं कुरुसत्तम ||३||

विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः |

इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह ||४||

न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः |

कदा वयं भविष्यामो राज्यं हित्वा परन्तप ||५||

भीष्म उवाच||

नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् |

पुनर्भावोऽपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम् ||६||

न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः |

उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ||७||

ईशोऽयं सततं देही नृपते पुण्यपापयोः |

तत एव समुत्थेन तमसा रुध्यतेऽपि च ||८||

यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः |

अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ||९||

तथा कर्मफलैर्देही रञ्जितस्तमसावृतः |

विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ||१०||

ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः |

व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ||११||

अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः |

त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसङ्घाः ||१२||

अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप |

यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ||१३||

निर्जितेनासहायेन हृतराज्येन भारत |

अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ||१४||

भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् |

कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ||१५||

वृत्र उवाच||

सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् |

न शोचामि न हृष्यामि भूतानामागतिं गतिम् ||१६||

कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः |

परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ||१७||

क्षपयित्वा तु तं कालं गणितं कालचोदिताः |

सावशेषेण कालेन सम्भवन्ति पुनः पुनः ||१८||

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च |

निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ||१९||

एवं संसरमाणानि जीवान्यहमदृष्टवान् |

यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ||२०||

तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च |

सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ||२१||

कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते |

गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ||२२||

भीष्म उवाच||

कालसङ्ख्यानसङ्ख्यातं सृष्टिस्थितिपरायणम् |

तं भाषमाणं भगवानुशना प्रत्यभाषत ||२३||

भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ||२३||

वृत्र उवाच||

प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् |

मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ||२४||

गन्धानादाय भूतानां रसांश्च विविधानपि |

अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ||२५||

ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा |

अजेयः सर्वभूतानामासं नित्यमपेतभीः ||२६||

ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः |

धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ||२७||

युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना |

ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ||२८||

वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः |

मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ||२९||

नूनं तु तस्य तपसः सावशेषं ममास्ति वै |

यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ||३०||

ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् |

निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ||३१||

कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः |

किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ||३२||

केन वा कर्मणा शक्यमथ ज्ञानेन केन वा |

ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ||३३||

इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह |

मयोच्यमानं पुरुषर्षभ त्व; मनन्यचित्तः सह सोदरीयैः ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

271-अध्यायः

उशनोवाच||

नमस्तस्मै भगवते देवाय प्रभविष्णवे |

यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् ||१||

मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम |

तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ||२||

भीष्म उवाच||

तयोः संवदतोरेवमाजगाम महामुनिः |

सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ||३||

स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा |

निषसादासने राजन्महार्हे मुनिपुङ्गवः ||४||

तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् |

ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ||५||

सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् |

विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ||६||

शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् |

विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ||७||

सृजत्येष महाबाहो भूतग्रामं चराचरम् |

एष चाक्षिपते काले काले विसृजते पुनः ||८||

अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ||८||

नैष दानवता शक्यस्तपसा नैव चेज्यया |

सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ||९||

बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः |

निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ||१०||

यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् |

बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह ||११||

तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा |

यत्नेन महता चैवाप्येकजातौ विशुध्यते ||१२||

लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः |

बहु यत्नेन महता दोषनिर्हरणं तथा ||१३||

यथा चाल्पेन माल्येन वासितं तिलसर्षपम् |

न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ||१४||

तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः |

विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ||१५||

एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु |

बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ||१६||

कर्मणा स्वेन रक्तानि विरक्तानि च दानव |

यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ||१७||

यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो |

तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ||१८||

अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः |

स वै सृजति भूतानि स्थावराणि चराणि च ||१९||

एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च |

एकादशविकारात्मा जगत्पिबति रश्मिभिः ||२०||

पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च |

बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ||२१||

तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् |

बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ||२२||

भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम |

नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ||२३||

रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् |

सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ||२४||

अकर्मणः फलं चैव स एव परमव्ययः |

छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ||२५||

बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः |

स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ||२६||

श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः |

पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः ||२७||

मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा |

ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ||२८||

एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ||२८||

नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् |

जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ||२९||

संहारविक्षेपसहस्रकोटी; स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये |

प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य ||३०||

वाप्यः पुनर्योजनविस्तृतास्ताः; क्रोशं च गम्भीरतयावगाढाः |

आयामतः पञ्चशताश्च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः ||३१||

वाप्या जलं क्षिप्यति वालकोट्या; त्वह्ना सकृच्चाप्यथ न द्वितीयम् |

तासां क्षये विद्धि कृतं विसर्गं; संहारमेकं च तथा प्रजानाम् ||३२||

षड्जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलमथास्य मध्यम् |

रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् ||३३||

परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र |

गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिमुपैति जीवः ||३४||

गतिं च यां दर्शनमाह देवो; गत्वा शुभं दर्शनमेव चाह |

गतिः पुनर्वर्णकृता प्रजानां; वर्णस्तथा कालकृतोऽसुरेन्द्र ||३५||

शतं सहस्राणि चतुर्दशेह; परा गतिर्जीवगुणस्य दैत्य |

आरोहणं तत्कृतमेव विद्धि; स्थानं तथा निःसरणं च तेषाम् ||३६||

कृष्णस्य वर्णस्य गतिर्निकृष्टा; स मज्जते नरके पच्यमानः |

स्थानं तथा दुर्गतिभिस्तु तस्य; प्रजाविसर्गान्सुबहून्वदन्ति ||३७||

शतं सहस्राणि ततश्चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात् |

स चैव तस्मिन्निवसत्यनीशो; युगक्षये तमसा संवृतात्मा ||३८||

स वै यदा सत्त्वगुणेन युक्त; स्तमो व्यपोहन्घटते स्वबुद्ध्या |

स लोहितं वर्णमुपैति नीलो; मनुष्यलोके परिवर्तते च ||३९||

स तत्र संहारविसर्गमेव; स्वकर्मजैर्बन्धनैः क्लिश्यमानः |

ततः स हारिद्रमुपैति वर्णं; संहारविक्षेपशते व्यतीते ||४०||

हारिद्रवर्णस्तु प्रजाविसर्गा; न्सहस्रशस्तिष्ठति सञ्चरन्वै |

अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि ||४१||

गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव |

विमुक्तमेनं निरयाच्च विद्धि; सर्वेषु चान्येषु च सम्भवेषु ||४२||

स देवलोके विहरत्यभीक्ष्णं; ततश्च्युतो मानुषतामुपैति |

संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्नमृतत्वमेति ||४३||

सोऽस्मादथ भ्रश्यति कालयोगा; त्कृष्णे तले तिष्ठति सर्वकष्टे |

यथा त्वयं सिध्यति जीवलोक; स्तत्तेऽभिधास्याम्यसुरप्रवीर ||४४||

दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रोऽथ तथैव शुक्लः |

संश्रित्य सन्धावति शुक्लमेत; मष्टापरानर्च्यतमान्स लोकान् ||४५||

अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम् |

शुक्लस्य वर्णस्य परा गतिर्या; त्रीण्येव रुद्धानि महानुभाव ||४६||

संहारविक्षेपमनिष्टमेकं; चत्वारि चान्यानि वसत्यनीशः |

षष्ठस्य वर्णस्य परा गतिर्या; सिद्धा विशिष्टस्य गतक्लमस्य ||४७||

सप्तोत्तरं तेषु वसत्यनीशः; संहारविक्षेपशतं सशेषम् |

तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति ||४८||

तस्मादुपावृत्य ततः क्रमेण; सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् |

स सप्तकृत्वश्च परैति लोका; न्संहारविक्षेपकृतप्रवासः ||४९||

सप्तैव संहारमुपप्लवानि; सम्भाव्य सन्तिष्ठति सिद्धलोके |

ततोऽव्ययं स्थानमनन्तमेति; देवस्य विष्णोरथ ब्रह्मणश्च ||५०||

शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव ||५०||

संहारकाले परिदग्धकाया; ब्रह्माणमायान्ति सदा प्रजा हि |

चेष्टात्मनो देवगणाश्च सर्वे; ये ब्रह्मलोकादमराः स्म तेऽपि ||५१||

प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्येव सरन्ति जीवाः |

निःशेषाणां तत्पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः ||५२||

ये तु च्युताः सिद्धलोकात्क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या |

जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण ||५३||

स यावदेवास्ति सशेषभुक्ते; प्रजाश्च देव्यौ च तथैव शुक्ले |

तावत्तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपमेतत् ||५४||

शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन् |

ततोऽव्ययं स्थानमुपैति ब्रह्म; दुष्प्रापमभ्येति स शाश्वतं वै ||५५||

इत्येतदाख्यातमहीनसत्त्व; नारायणस्येह बलं मया ते ||५५||

वृत्र उवाच||

एवं गते मे न विषादोऽस्ति कश्चि; त्सम्यक्च पश्यामि वचस्तवैतत् |

श्रुत्वा च ते वाचमदीनसत्त्व; विकल्मषोऽस्म्यद्य तथा विपाप्मा ||५६||

प्रवृत्तमेतद्भगवन्महर्षे; महाद्युतेश्चक्रमनन्तवीर्यम् |

विष्णोरनन्तस्य सनातनं त; त्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ||५७||

स वै महात्मा पुरुषोत्तमो वै; तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ||५७||

भीष्म उवाच||

एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् |

योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ||५८||

युधिष्ठिर उवाच||

अयं स भगवान्देवः पितामह जनार्दनः |

सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ||५९||

भीष्म उवाच||

मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा |

तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः ||६०||

तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् |

तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ||६१||

अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते |

स शेते भगवानप्सु योऽसावतिबलः प्रभुः ||६२||

तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ||६२||

सर्वाण्यशून्यानि करोत्यनन्तः; सनत्कुमारः सञ्चरते च लोकान् |

स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत्सर्वमिदं विचित्रम् ||६३||

युधिष्ठिर उवाच||

वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः |

शुभा तस्मात्स सुखितो न शोचति पितामह ||६४||

शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ |

तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ||६५||

हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव |

तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ||६६||

वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे |

कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ||६७||

भीष्म उवाच||

शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः |

विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ||६८||

प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा |

सुखेन संयास्यथ सिद्धसङ्ख्यां; मा वो भयं भूद्विमलाः स्थ सर्वे ||६९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

272-अध्यायः

वृत्रवधः

युधिष्ठिर उवाच||

अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः |

यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ||१||

दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः |

कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ||२||

भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत |

भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ||३||

कथं विनिहतो वृत्रः शक्रेण भरतर्षभ |

धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ||४||

एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ |

वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ||५||

यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह |

विस्तरेण महाबाहो परं कौतूहलं हि मे ||६||

भीष्म उवाच||

रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा |

ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ||७||

योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम |

शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ||८||

तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् |

वृत्रस्य देवाः सन्त्रस्ता न शान्तिमुपलेभिरे ||९||

शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत |

भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ||१०||

ततो नादः समभवद्वादित्राणां च निस्वनः |

देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ||११||

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् |

न सम्भ्रमो न भीः काचिदास्था वा समजायत ||१२||

ततः समभवद्युद्धं त्रैलोक्यस्य भयङ्करम् |

शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ||१३||

असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः |

शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ||१४||

अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च |

देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ||१५||

पितामहपुरोगाश्च सर्वे देवगणास्तथा |

ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ||१६||

विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ |

गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ||१७||

ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः |

अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ||१८||

ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः |

अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ||१९||

वृत्रश्च कुरुशार्दूल महामायो महाबलः |

मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ||२०||

तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः |

रथन्तरेण तं तत्र वसिष्ठः समबोधयत् ||२१||

वसिष्ठ उवाच||

देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण |

त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ||२२||

एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः |

सोमश्च भगवान्देवः सर्वे च परमर्षयः ||२३||

मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा |

आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ||२४||

एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः |

निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ||२५||

एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः |

स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ||२६||

भीष्म उवाच||

एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना |

अतीव वासवस्यासीद्बलमुत्तमतेजसः ||२७||

ततो बुद्धिमुपागम्य भगवान्पाकशासनः |

योगेन महता युक्तस्तां मायां व्यपकर्षत ||२८||

ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः |

दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ||२९||

ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ||२९||

ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः |

समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ||३०||

विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः |

ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ||३१||

ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् |

वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ||३२||

ते समासाद्य वरदं वासवं लोकपूजितम् |

ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ||३३||

महेश्वर उवाच||

एष वृत्रो महाञ्शक्र बलेन महता वृतः |

विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ||३४||

तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् |

जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ||३५||

अनेन हि तपस्तप्तं बलार्थममराधिप |

षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ||३६||

महत्त्वं योगिनां चैव महामायत्वमेव च |

महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ||३७||

एतद्वै मामकं तेजः समाविशति वासव |

वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ||३८||

शक्र उवाच||

भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् |

वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ||३९||

भीष्म उवाच||

आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे |

देवतानामृषीणां च हर्षान्नादो महानभूत् ||४०||

ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः |

मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ||४१||

असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् |

प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ||४२||

तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा |

स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ||४३||

रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः |

ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ||४४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

273-अध्यायः

भीष्म उवाच||

वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः |

अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ||१||

ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् |

गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ||२||

रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप ||२||

शिवा चाशिवसङ्काशा तस्य वक्त्रात्सुदारुणा |

निष्पपात महाघोरा स्मृतिः सा तस्य भारत ||३||

उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ||३||

गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः |

वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ||४||

ततस्तं रथमास्थाय देवाप्यायितमाहवे |

वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ||५||

अमानुषमथो नादं स मुमोच महासुरः |

व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः ||६||

अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् ||६||

स वज्रः सुमहातेजाः कालाग्निसदृशोपमः |

क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् ||७||

ततो नादः समभवत्पुनरेव समन्ततः |

वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ ||८||

वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः |

वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् ||९||

अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता |

ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा ||१०||

करालदशना भीमा विकृता कृष्णपिङ्गला |

प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत ||११||

कपालमालिनी चैव कृशा च भरतर्षभ |

रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी ||१२||

साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा |

वज्रिणं मृगयामास तदा भरतसत्तम ||१३||

कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन |

स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया ||१४||

बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् |

कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा ||१५||

स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये |

नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून् ||१६||

अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया |

तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत ||१७||

तस्या व्यपोहने शक्रः परं यत्नं चकार ह |

न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् ||१८||

गृहीत एव तु तया देवेन्द्रो भरतर्षभ |

पितामहमुपागम्य शिरसा प्रत्यपूजयत् ||१९||

ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया |

ब्रह्मा सञ्चिन्तयामास तदा भरतसत्तम ||२०||

तामुवाच महाबाहो ब्रह्महत्यां पितामहः |

स्वरेण मधुरेणाथ सान्त्वयन्निव भारत ||२१||

मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि |

ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि ||२२||

ब्रह्महत्योवाच||

त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि |

कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे ||२३||

त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना |

स्थापना वै सुमहती त्वया देव प्रवर्तिता ||२४||

प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो |

शक्रादपगमिष्यामि निवासं तु विधत्स्व मे ||२५||

भीष्म उवाच||

तथेति तां प्राह तदा ब्रह्महत्यां पितामहः |

उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत ||२६||

ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना |

ब्रह्माणमुपसङ्गम्य ततो वचनमब्रवीत् ||२७||

प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम |

यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ||२८||

ब्रह्मोवाच||

बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् |

शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे ||२९||

अग्निरुवाच||

मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो |

एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ||३०||

ब्रह्मोवाच||

यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् |

बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ||३१||

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति |

ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः ||३२||

भीष्म उवाच||

इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् |

पितामहस्य भगवांस्तथा च तदभूत्प्रभो ||३३||

ततो वृक्षौषधितृणं समाहूय पितामहः |

इममर्थं महाराज वक्तुं समुपचक्रमे ||३४||

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् |

व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ||३५||

अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह |

स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ||३६||

वयमग्निं तथा शीतं वर्षं च पवनेरितम् |

सहामः सततं देव तथा छेदनभेदनम् ||३७||

ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् |

ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् ||३८||

ब्रह्मोवाच||

पर्वकाले तु सम्प्राप्ते यो वै छेदनभेदनम् |

करिष्यति नरो मोहात्तमेषानुगमिष्यति ||३९||

भीष्म उवाच||

ततो वृक्षौषधितृणमेवमुक्तं महात्मना |

ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम् ||४०||

आहूयाप्सरसो देवस्ततो लोकपितामहः |

वाचा मधुरया प्राह सान्त्वयन्निव भारत ||४१||

इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः |

चतुर्थमस्या भागं हि मयोक्ताः सम्प्रतीच्छत ||४२||

अप्सरस ऊचुः||

ग्रहणे कृतबुद्धीनां देवेश तव शासनात् |

मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह ||४३||

ब्रह्मोवाच||

रजस्वलासु नारीषु यो वै मैथुनमाचरेत् |

तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ||४४||

भीष्म उवाच||

तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः |

स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ ||४५||

ततस्त्रिलोककृद्देवः पुनरेव महातपाः |

अपः सञ्चिन्तयामास ध्यातास्ताश्चाप्यथागमन् ||४६||

तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् |

इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् ||४७||

इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिंदम |

शासनात्तव देवेश समाज्ञापय नो विभो ||४८||

ब्रह्मोवाच||

इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया |

ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत ||४९||

आप ऊचुः||

एवं भवतु लोकेश यथा वदसि नः प्रभो |

मोक्षं समयतोऽस्माकं सञ्चिन्तयितुमर्हसि ||५०||

त्वं हि देवेश सर्वस्य जगतः परमो गुरुः |

कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ||५१||

ब्रह्मोवाच||

अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः |

श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ||५२||

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति |

तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः ||५३||

भीष्म उवाच||

ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर |

यथानिसृष्टं तं देशमगच्छद्देवशासनात् ||५४||

एवं शक्रेण सम्प्राप्ता ब्रह्महत्या जनाधिप |

पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् ||५५||

श्रूयते हि महाराज सम्प्राप्ता वासवेन वै |

ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान् ||५६||

समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः |

प्रहर्षमतुलं लेभे वासवः पृथिवीपते ||५७||

वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे |

द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ||५८||

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु |

इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ||५९||

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः |

उपायपूर्वं निहतो वृत्रोऽथामिततेजसा ||६०||

एवं त्वमपि कौरव्य पृथिव्यामपराजितः |

भविष्यसि यथा देवः शतक्रतुरमित्रहा ||६१||

ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु |

विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् ||६२||

इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् |

कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ||६३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

274-अध्यायः

ज्वरोत्पत्तिः

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ सर्वशास्त्रविशारद |

अस्ति वृत्रवधादेव विवक्षा मम जायते ||१||

ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप |

निहतो वासवेनेह वज्रेणेति ममानघ ||२||

कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः |

ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ||३||

भीष्म उवाच||

शृणु राजञ्ज्वरस्येह सम्भवं लोकविश्रुतम् |

विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत ||४||

पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् |

ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ||५||

अप्रमेयमनाधृष्यं सर्वलोकेषु भारत ||५||

तत्र देवो गिरितटे हेमधातुविभूषिते |

पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ||६||

शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ |

तथा देवा महात्मानो वसवश्च महौजसः ||७||

तथैव च महात्मानावश्विनौ भिषजां वरौ |

तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ||८||

यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः |

अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे ||९||

विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ |

अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ||१०||

ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः |

सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः ||११||

तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः |

महादेवं पशुपतिं पर्युपासन्त भारत ||१२||

भूतानि च महाराज नानारूपधराण्यथ |

राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ||१३||

बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः |

देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ||१४||

नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः |

प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ||१५||

गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा |

पर्युपासत तं देवं रूपिणी कुरुनन्दन ||१६||

एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः |

देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत ||१७||

कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः |

पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ||१८||

ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः |

गमनाय समागम्य बुद्धिमापेदिरे तदा ||१९||

ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः |

देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ||२०||

प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा |

उवाच वचनं साध्वी देवं पशुपतिं पतिम् ||२१||

भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः |

ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ||२२||

महेश्वर उवाच||

दक्षो नाम महाभागे प्रजानां पतिरुत्तमः |

हयमेधेन यजते तत्र यान्ति दिवौकसः ||२३||

उमा उवाच||

यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि |

केन वा प्रतिषेधेन गमनं ते न विद्यते ||२४||

महेश्वर उवाच||

सुरैरेव महाभागे सर्वमेतदनुष्ठितम् |

यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ||२५||

पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि |

न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ||२६||

उमा उवाच||

भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः |

अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया ||२७||

अनेन ते महाभाग प्रतिषेधेन भागतः |

अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ||२८||

भीष्म उवाच||

एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् |

तूष्णीम्भूताभवद्राजन्दह्यमानेन चेतसा ||२९||

अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् |

स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ||३०||

ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः |

तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा ||३१||

सहसा घातयामास देवदेवः पिनाकधृक् ||३१||

केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे |

रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् ||३२||

केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः |

आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् ||३३||

ततः स यज्ञो नृपते वध्यमानः समन्ततः |

आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा ||३४||

तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः |

धनुरादाय बाणं च तदान्वसरत प्रभुः ||३५||

ततस्तस्य सुरेशस्य क्रोधादमिततेजसः |

ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह ||३६||

तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि |

प्रादुर्बभूव सुमहानग्निः कालानलोपमः ||३७||

तत्र चाजायत तदा पुरुषः पुरुषर्षभ |

ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः ||३८||

ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च |

करालः कृष्णवर्णश्च रक्तवासास्तथैव च ||३९||

तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः |

देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश ||४०||

तेन तस्मिन्विचरता पुरुषेण विशां पते |

पृथिवी व्यचलद्राजन्नतीव भरतर्षभ ||४१||

हाहाभूते प्रवृत्ते तु नादे लोकभयङ्करे |

पितामहो महादेवं दर्शयन्प्रत्यभाषत ||४२||

भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो |

क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ||४३||

इमा हि देवताः सर्वा ऋषयश्च परन्तप |

तव क्रोधान्महादेव न शान्तिमुपलेभिरे ||४४||

यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम |

ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ||४५||

एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो |

समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ||४६||

इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते |

भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ||४७||

परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् |

अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ||४८||

ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा |

शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ||४९||

शीर्षाभितापो नागानां पर्वतानां शिलाजतुः |

अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च ||५०||

खोरकः सौरभेयाणामूषरं पृथिवीतले |

पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ||५१||

रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् |

नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ||५२||

अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् |

शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ||५३||

शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते |

मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ||५४||

मरणे जन्मनि तथा मध्ये चाविशते नरम् ||५४||

एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः |

नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ||५५||

अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः |

व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् ||५६||

प्रविश्य वज्रो वृत्रं तु दारयामास भारत |

दारितश्च स वज्रेण महायोगी महासुरः ||५७||

जगाम परमं स्थानं विष्णोरमिततेजसः ||५७||

विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा |

तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ||५८||

इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया |

विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ||५९||

इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः |

विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान् ||६०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

275-अध्यायः

नारदसमङ्गसंवादः

युधिष्ठिर उवाच||

शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा |

उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादं समङ्गस्य च भारत ||२||

नारद उवाच||

उरसेव प्रणमसे बाहुभ्यां तरसीव च |

सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ||३||

उद्वेगं नेह ते किञ्चित्सुसूक्ष्ममपि लक्षये |

नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ||४||

समङ्ग उवाच||

भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद |

तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ||५||

उपक्रमानहं वेद पुनरेव फलोदयान् |

लोके फलानि चित्राणि ततो न विमना ह्यहम् ||६||

अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद |

अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ||७||

विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः |

बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय ||८||

सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा |

शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ||९||

यदा न शोचेमहि किं नु न स्या; द्धर्मेण वा नारद कर्मणा वा |

कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति ||१०||

यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः |

मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ||११||

मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः |

न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव ||१२||

भावात्मकं सम्परिवर्तमानं; न मादृशः सञ्ज्वरं जातु कुर्यात् |

इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा ||१३||

समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम् |

न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् ||१४||

न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् |

दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् ||१५||

नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् |

धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् ||१६||

प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः |

उत्सेको नरकायैव तस्मात्तं सन्त्यजाम्यहम् ||१७||

एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः |

पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ||१८||

अर्थकामौ परित्यज्य विशोको विगतज्वरः |

तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम् ||१९||

न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन |

पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम् ||२०||

एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् |

तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

276-अध्यायः

नारदगालवसंवादः

युधिष्ठिर उवाच||

अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः |

अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ||१||

भीष्म उवाच||

गुरुपूजा च सततं वृद्धानां पर्युपासनम् |

श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ||२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गालवस्य च संवादं देवर्षेर्नारदस्य च ||३||

वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् |

श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत् ||४||

यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु |

भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम् ||५||

भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति |

अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ||६||

ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः |

यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ||७||

भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः |

इदं श्रेय इदं श्रेय इति नानाप्रधाविताः ||८||

तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः |

स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे ||९||

शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा |

शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ||१०||

एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम् |

ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः ||११||

नारद उवाच||

आश्रमास्तात चत्वारो यथासङ्कल्पिताः पृथक् |

तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ||१२||

तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः |

नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् ||१३||

नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् ||१३||

ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् |

यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् ||१४||

अनुग्रहं च मित्राणाममित्राणां च निग्रहम् |

सङ्ग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः ||१५||

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता |

सद्भिश्च समुदाचारः श्रेय एतदसंशयम् ||१६||

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् |

वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् ||१७||

देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि |

असन्त्यागश्च भृत्यानां श्रेय एतदसंशयम् ||१८||

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् |

यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् ||१९||

अहङ्कारस्य च त्यागः प्रणयस्य च निग्रहः |

सन्तोषश्चैकचर्या च कूटस्थं श्रेय उच्यते ||२०||

धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च |

विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम् ||२१||

शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् |

नात्यर्थमुपसेवेत श्रेयसोऽर्थी परन्तप ||२२||

नक्तञ्चर्या दिवास्वप्नमालस्यं पैशुनं मदम् |

अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् ||२३||

कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया |

स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् ||२४||

निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविनो नराः |

दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ||२५||

अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् |

गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ||२६||

अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् |

विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः ||२७||

अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः |

तथैवाव्याहरन्भाति विमलो भानुरम्बरे ||२८||

एवमादीनि चान्यानि परित्यक्तानि मेधया |

ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ||२९||

न लोके दीप्यते मूर्खः केवलात्मप्रशंसया |

अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ||३०||

असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति |

दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ||३१||

मूढानामवलिप्तानामसारं भाषितं बहु |

दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ||३२||

एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् |

प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् ||३३||

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः |

ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् ||३४||

ततो वासं परीक्षेत धर्मनित्येषु साधुषु |

मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ||३५||

चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् |

न तत्र वासं कुर्वीत श्रेयोर्थी वै कथञ्चन ||३६||

निरारम्भोऽप्ययमिह यथालब्धोपजीवनः |

पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ||३७||

अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा |

तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः ||३८||

अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः |

भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् ||३९||

यत्रागमयमानानामसत्कारेण पृच्छताम् |

प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ||४०||

शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता |

यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ||४१||

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् |

आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः ||४२||

यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः |

प्रदीप्तमिव शैलान्तं कस्तं देशं न सन्त्यजेत् ||४३||

यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः |

चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ||४४||

धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः |

न ताननुवसेज्जातु ते हि पापकृतो जनाः ||४५||

कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः |

व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ||४६||

येन खट्वां समारूढः कर्मणानुशयी भवेत् |

आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ||४७||

यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः |

कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ||४८||

श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः |

याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ||४९||

स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः |

अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ||५०||

अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् |

त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ||५१||

प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः |

स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ||५२||

दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु |

चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ||५३||

उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु |

अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ||५४||

यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता |

अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ||५५||

तथाशीला हि राजानः सर्वान्विषयवासिनः |

श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते ||५६||

पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् |

न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः ||५७||

एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः |

तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ||५८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

277-अध्यायः

अरिष्टनेमिसगरसंवादः

युधिष्ठिर उवाच||

कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः |

नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् |

अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ||२||

सगर उवाच||

किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते |

कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ||३||

भीष्म उवाच||

एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः |

विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ||४||

सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति |

प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ||५||

सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् |

स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ||६||

स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम |

सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ||७||

सम्भाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च |

समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ||८||

भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् |

ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च ||९||

सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् |

इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ||१०||

कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् |

उपपत्त्योपलब्धेषु लाभेषु च समो भव ||११||

एष तावत्समासेन तव सङ्कीर्तितो मया |

मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु ||१२||

मुक्ता वीतभया लोके चरन्ति सुखिनो नराः |

सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ||१३||

आहारसञ्चयाश्चैव तथा कीटपिपीलिकाः |

असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ||१४||

स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना |

इमे मया विनाभूता भविष्यन्ति कथं त्विति ||१५||

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते |

सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ||१६||

भोजनाच्छादने चैव मात्रा पित्रा च सङ्ग्रहम् |

स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा ||१७||

धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् |

लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ||१८||

स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा |

को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः ||१९||

स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः |

कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ||२०||

जीवन्तमपि चैवैनं भरणे रक्षणे तथा |

असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ||२१||

यदा मृतश्च स्वजनं न ज्ञास्यसि कथञ्चन |

सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना ||२२||

मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः |

स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ||२३||

एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः |

मोक्षे निवेशय मनो भूयश्चाप्युपधारय ||२४||

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः |

क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः ||२५||

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः |

न प्रमाद्यति संमोहात्सततं मुक्त एव सः ||२६||

दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा |

भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ||२७||

आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः |

यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ||२८||

सम्भवं च विनाशं च भूतानां चेष्टितं तथा |

यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ||२९||

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु |

प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते ||३०||

मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् |

अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ||३१||

यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते |

यश्चाप्यल्पेन सन्तुष्टो लोकेऽस्मिन्मुक्त एव सः ||३२||

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति |

न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ||३३||

पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः |

शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः ||३४||

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च |

आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ||३५||

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति |

तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ||३६||

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ |

इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ||३७||

रक्तमूत्रपुरीषाणां दोषाणां सञ्चयं तथा |

शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते ||३८||

वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च |

कुब्जभावं च जरया यः पश्यति स मुच्यते ||३९||

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा |

बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ||४०||

गतानृषींस्तथा देवानसुरांश्च तथा गतान् |

लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ||४१||

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः |

ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ||४२||

अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा |

दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ||४३||

अपत्यानां च वैगुण्यं जनं विगुणमेव च |

पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ||४४||

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः |

असारमिव मानुष्यं सर्वथा मुक्त एव सः ||४५||

एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् |

गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा ||४६||

तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः |

मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ||४७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

278-अध्यायः

काव्योपाख्यानम्

युधिष्ठिर उवाच||

तिष्ठते मे सदा तात कौतूहलमिदं हृदि |

तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ||१||

कथं देवर्षिरुशना सदा काव्यो महामतिः |

असुराणां प्रियकरः सुराणामप्रिये रतः ||२||

वर्धयामास तेजश्च किमर्थममितौजसाम् |

नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ||३||

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः |

ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ||४||

न याति च स तेजस्वी मध्येन नभसः कथम् |

एतदिच्छामि विज्ञातुं निखिलेन पितामह ||५||

भीष्म उवाच||

शृणु राजन्नवहितः सर्वमेतद्यथातथम् |

यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ||६||

एष भार्गवदायादो मुनिः सत्यो दृढव्रतः |

असुराणां प्रियकरो निमित्ते करुणात्मके ||७||

इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च |

प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ||८||

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः |

रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ||९||

हृते धने ततः शर्म न लेभे धनदस्तथा |

आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् ||१०||

निवेदयामास तदा शिवायामिततेजसे |

देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ||११||

कुबेर उवाच||

योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु |

योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः ||१२||

भीष्म उवाच||

एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः |

संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ||१३||

क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् |

उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् ||१४||

स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः |

गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः ||१५||

सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम् |

उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ||१६||

विज्ञातरूपः स तदा तपःसिद्धेन धन्विना |

ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ||१७||

आनतेनाथ शूलेन पाणिनामिततेजसा |

पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ||१८||

पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः |

आस्यं विवृत्य ककुदी पाणिं सम्प्राक्षिपच्छनैः ||१९||

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः |

व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ||२०||

युधिष्ठिर उवाच||

किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः |

जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ||२१||

भीष्म उवाच||

पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः |

वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ||२२||

उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् |

ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत ||२३||

तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् |

तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ||२४||

तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः |

महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ||२५||

स तेनाढ्यो महायोगी तपसा च धनेन च |

व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ||२६||

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् |

उशना तु समुद्विग्नो निलिल्ये जठरे ततः ||२७||

तुष्टाव च महायोगी देवं तत्रस्थ एव च |

निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत ||२८||

उशना तु तदोवाच जठरस्थो महामुनिः |

प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ||२९||

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् |

इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुङ्गवः ||३०||

अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः |

पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ||३१||

स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् |

कार्येण तेन नभसो नागच्छत च मध्यतः ||३२||

निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा |

भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ||३३||

न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् |

पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः ||३४||

देव्युवाच||

हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः |

न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति ||३५||

भीष्म उवाच||

ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् |

गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ||३६||

ततः प्रणम्य वरदं देवं देवीमुमां तथा |

उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ||३७||

एतत्ते कथितं तात भार्गवस्य महात्मनः |

चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

279-अध्यायः

पराशरगीता

युधिष्ठिर उवाच||

अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे |

न तृप्याम्यमृतस्येव वचसस्ते पितामह ||१||

किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम |

श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ||२||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः |

पराशरं महात्मानं पप्रच्छ जनको नृपः ||३||

किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च |

यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ||४||

ततः स तपसा युक्तः सर्वधर्मविधानवित् |

नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ||५||

धर्म एव कृतः श्रेयानिह लोके परत्र च |

तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ||६||

प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते |

धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ||७||

तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ||७||

चतुर्विधा हि लोकस्य यात्रा तात विधीयते |

मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ||८||

सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः |

दशार्धप्रविभक्तानां भूतानां बहुधा गतिः ||९||

सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते |

तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः ||१०||

नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते |

सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ||११||

दैवं तात न पश्यामि नास्ति दैवस्य साधनम् |

स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ||१२||

प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः |

ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ||१३||

लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः |

शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ||१४||

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् |

कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ||१५||

निरन्तरं च मिश्रं च फलते कर्म पार्थिव |

कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ||१६||

कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति |

मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ||१७||

ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते |

सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ||१८||

दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता |

ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ||१९||

दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् |

नित्यं मनःसमाधाने प्रयतेत विचक्षणः ||२०||

नायं परस्य सुकृतं दुष्कृतं वापि सेवते |

करोति यादृशं कर्म तादृशं प्रतिपद्यते ||२१||

सुखदुःखे समाधाय पुमानन्येन गच्छति |

अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव ||२२||

परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः |

यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ||२३||

भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च |

विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ||२४||

रागी मुक्तः पचमानोऽऽत्महेतो; र्मूर्खो वक्ता नृपहीनं च राष्ट्रम् |

एते सर्वे शोच्यतां यान्ति राज; न्यश्चायुक्तः स्नेहहीनः प्रजासु ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

280-अध्यायः

पराशर उवाच||

मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः |

रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् ||१||

सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते |

द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ||२||

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते |

उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ||३||

वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति |

न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ||४||

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा |

दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ||५||

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् |

पापं हि कर्म फलति पापमेव स्वयं कृतम् ||६||

तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ||६||

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् |

न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ||७||

किङ्कष्टमनुपश्यामि फलं पापस्य कर्मणः |

प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ||८||

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते |

तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ||९||

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् |

प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ||१०||

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति |

प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ||११||

अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति |

ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ||१२||

तथा कामकृतं चास्य विहिंसैवापकर्षति |

इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ||१३||

अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् |

गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ||१४||

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् |

बुद्धियुक्तानि तानीह कृतानि मनसा सह ||१५||

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् |

अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ||१६||

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा |

नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ||१७||

सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः |

करोति यः शुभं कर्म स वै भद्राणि पश्यति ||१८||

नवे कपाले सलिलं संन्यस्तं हीयते यथा |

नवेतरे तथाभावं प्राप्नोति सुखभावितम् ||१९||

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते |

वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ||२०||

एवं कर्माणि यानीह बुद्धियुक्तानि भूपते |

नसमानीह हीनानि तानि पुण्यतमान्यपि ||२१||

राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम् |

अग्निश्चेयो बहुभिश्चापि यज्ञै; रन्ते मध्ये वा वनमाश्रित्य स्थेयम् ||२२||

दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत् |

गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

281-अध्यायः

पराशर उवाच||

कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति |

प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना ||१||

गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् |

सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ||२||

विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ |

तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ||३||

न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् |

संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ||४||

न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् |

शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ||५||

अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा |

शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ||६||

रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना |

फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ||७||

तैरेव फलपत्रैश्च स माठरमतोषयत् |

तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ||८||

देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा |

ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ||९||

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा |

पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च ||१०||

वाचः शेषावहार्येण पालनेनात्मनोऽपि च |

यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः ||११||

प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः |

सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ||१२||

विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् |

ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ||१३||

गतः शुक्रत्वमुशना देवदेवप्रसादनात् |

देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ||१४||

असितो देवलश्चैव तथा नारदपर्वतौ |

कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान् ||१५||

वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च |

भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः ||१६||

एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः |

लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ||१७||

अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह |

न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् ||१८||

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् |

धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ||१९||

आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः |

वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ||२०||

स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते |

श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ||२१||

अग्निरात्मा च माता च पिता जनयिता तथा |

गुरुश्च नरशार्दूल परिचर्या यथातथम् ||२२||

मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान्क्लीबः पश्यति प्रीतियोगात् |

दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

282-अध्यायः

पराशर उवाच||

वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना |

प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ||१||

वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा |

न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ||२||

सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः |

नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ||३||

यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते |

तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ||४||

यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् |

तादृशं कुरुते रूपमेतदेवमवैहि मे ||५||

तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन |

अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ||६||

सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः |

यश्चिनोति शुभान्येव स भद्राणीह पश्यति ||७||

धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् |

न तत्सेवेत मेधावी न तद्धितमिहोच्यते ||८||

यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता |

स शब्दमात्रफलभाग्राजा भवति तस्करः ||९||

स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् |

धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ||१०||

तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् |

रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ||११||

अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः |

शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ||१२||

अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः |

सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ||१३||

तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते |

अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ||१४||

यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः |

अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ||१५||

प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः |

न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ||१६||

सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप |

यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ||१७||

अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् |

याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ||१८||

अवज्ञया दीयते यत्तथैवाश्रद्धयापि च |

तदाहुरधमं दानं मुनयः सत्यवादिनः ||१९||

अतिक्रमे मज्जमानो विविधेन नरः सदा |

तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ||२०||

दमेन शोभते विप्रः क्षत्रियो विजयेन तु |

धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

283-अध्यायः

पराशर उवाच||

प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः |

वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ||१||

स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ||१||

नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते |

क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः ||२||

शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः ||२||

वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् |

शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ||३||

रङ्गावतरणं चैव तथा रूपोपजीवनम् |

मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः ||४||

अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् |

कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ||५||

संसिद्धः पुरुषो लोके यदाचरति पापकम् |

मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते ||६||

श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः |

दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ||७||

धर्म एव सदा नॄणामिह राजन्प्रशस्यते |

धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ||८||

तं धर्ममसुरास्तात नामृष्यन्त जनाधिप |

विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ||९||

तेषां दर्पः समभवत्प्रजानां धर्मनाशनः |

दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ||१०||

ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् |

ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ||११||

ततो मोहपरीतास्ते नापश्यन्त यथा पुरा |

परस्परावमर्देन वर्तयन्ति यथासुखम् ||१२||

तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् |

ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ||१३||

एतस्मिन्नेव काले तु देवा देववरं शिवम् |

अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ||१४||

तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ |

तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा ||१५||

तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः |

देवतानां भयकरः स हतः शूलपाणिना ||१६||

तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः |

प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ||१७||

ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् |

सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ||१८||

सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः |

राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ||१९||

महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये |

तेषामथासुरो भावो हृदयान्नापसर्पति ||२०||

तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः |

आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः ||२१||

प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च |

भजन्ते तानि चाद्यापि ये बालिशतमा नराः ||२२||

तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः |

संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ||२३||

न सङ्करेण द्रविणं विचिन्वीत विचक्षणः |

धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ||२४||

स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः |

प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ||२५||

इष्टानिष्टसमायोगो वैरं सौहार्दमेव च |

अथ जातिसहस्राणि बहूनि परिवर्तते ||२६||

तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन |

निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ||२७||

मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः |

न तथान्येषु भूतेषु मनुष्यरहितेष्विह ||२८||

धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा |

आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ||२९||

यदा व्यपेतहृल्लेखं मनो भवति तस्य वै |

नानृतं चैव भवति तदा कल्याणमृच्छति ||३०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.