शान्तिपर्वम् अध्यायः 140-167

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

140-अध्यायः

युधिष्ठिर उवाच||

यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् |

अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ||१||

संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः |

उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ||२||

भीष्म उवाच||

नैतच्छुद्धागमादेव तव धर्मानुशासनम् |

प्रज्ञासमवतारोऽयं कविभिः सम्भृतं मधु ||३||

बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः |

नैकशाखेन धर्मेण यात्रैषा सम्प्रवर्तते ||४||

बुद्धिसञ्जननं राज्ञां धर्ममाचरतां सदा |

जयो भवति कौरव्य तदा तद्विद्धि मे वचः ||५||

बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः |

धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ||६||

नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते |

दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ||७||

अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति |

बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ||८||

पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव |

जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा ||९||

सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे |

तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् ||१०||

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः |

वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते ||११||

आजिजीविषवो विद्यां यशस्कामाः समन्ततः |

ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः ||१२||

अपक्वमतयो मन्दा न जानन्ति यथातथम् |

सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः ||१३||

परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः |

विज्ञानमथ विद्यानां न सम्यगिति वर्तते ||१४||

निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये |

वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव ||१५||

तान्विद्यावणिजो विद्धि राक्षसानिव भारत ||१५||

व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते |

न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् ||१६||

इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् |

न त्वेव वचनं किञ्चिदनिमित्तादिहोच्यते ||१७||

स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे |

लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः ||१८||

समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः |

अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत ||१९||

शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् |

आगतागमया बुद्ध्या वचनेन प्रशस्यते ||२०||

अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते |

अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् ||२१||

दैतेयानुशनाः प्राह संशयच्छेदने पुरा |

ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् ||२२||

तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि |

अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात् ||२३||

उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे |

अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् ||२४||

यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते ||२४||

अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् |

तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति ||२५||

यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः |

एषैव खलु मर्यादा यामयं परिवर्जयेत् ||२६||

तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत |

अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ||२७||

यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव |

विहरन्ति परस्वानि स वै क्षत्रियपांसनः ||२८||

कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् |

प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ||२९||

विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः |

उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ||३०||

नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते |

उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ||३१||

कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम् |

उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ||३२||

अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् |

इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ||३३||

युधिष्ठिर उवाच||

अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत् |

पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ||३४||

भीष्म उवाच||

ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः |

श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ||३५||

या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा |

क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ||३६||

तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः |

प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम् ||३७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

141-अध्यायः

कपोतलुब्धकसंवादः

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ सर्वशास्त्रविशारद |

शरणं पालयानस्य यो धर्मस्तं वदस्व मे ||१||

भीष्म उवाच||

महान्धर्मो महाराज शरणागतपालने |

अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ||२||

नृगप्रभृतयो राजन्राजानः शरणागतान् |

परिपाल्य महाराज संसिद्धिं परमां गताः ||३||

श्रूयते हि कपोतेन शत्रुः शरणमागतः |

पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ||४||

युधिष्ठिर उवाच||

कथं कपोतेन पुरा शत्रुः शरणमागतः |

स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ||५||

भीष्म उवाच||

शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् |

नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ||६||

इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः |

भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ||७||

तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् |

इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ||८||

धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् |

शृणुष्वावहितो राजन्गदतो मे महाभुज ||९||

कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः |

चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ||१०||

काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः |

यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ||११||

नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवः |

स हि तैः सम्परित्यक्तस्तेन घोरेण कर्मणा ||१२||

स वै क्षारकमादाय द्विजान्हत्वा वने सदा |

चकार विक्रयं तेषां पतङ्गानां नराधिप ||१३||

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः |

अगमत्सुमहान्कालो न चाधर्ममबुध्यत ||१४||

तस्य भार्यासहायस्य रममाणस्य शाश्वतम् |

दैवयोगविमूढस्य नान्या वृत्तिररोचत ||१५||

ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः |

पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः ||१६||

मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम् |

सञ्छन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ||१७||

वारिधारासमूहैश्च सम्प्रहृष्टः शतक्रतुः |

क्षणेन पूरयामास सलिलेन वसुन्धराम् ||१८||

ततो धाराकुले लोके सम्भ्रमन्नष्टचेतनः |

शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ||१९||

नैव निम्नं स्थलं वापि सोऽविन्दत विहङ्गहा |

पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ||२०||

पक्षिणो वातवेगेन हता लीनास्तदाभवन् |

मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ||२१||

महता वातवर्षेण त्रासितास्ते वनौकसः |

भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ||२२||

स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् |

सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ||२३||

ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह |

मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ||२४||

दिशोऽवलोकयामास वेलां चैव दुरात्मवान् |

दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ||२५||

कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ||२५||

सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् |

शरणं यामि यान्यस्मिन्दैवतानीह भारत ||२६||

स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले |

दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

142-अध्यायः

भीष्म उवाच||

अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः |

दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ||१||

तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत |

प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ||२||

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया |

किं नु तत्कारणं येन साद्यापि न निवर्तते ||३||

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने |

तया विरहितं हीदं शून्यमद्य गृहं मम ||४||

यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा |

अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ||५||

पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी |

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ||६||

अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता |

यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ||७||

भार्या हि परमो नाथः पुरुषस्येह पठ्यते |

असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ||८||

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च |

नास्ति भार्यासमं किञ्चिन्नरस्यार्तस्य भेषजम् ||९||

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः |

नास्ति भार्यासमो लोके सहायो धर्मसाधनः ||१०||

एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै |

गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ||११||

न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति |

अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ||१२||

इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा |

कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ||१३||

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा |

शरणागतसन्त्राता भव कान्त विशेषतः ||१४||

एष शाकुनिकः शेते तव वासं समाश्रितः |

शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ||१५||

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् |

शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ||१६||

यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः |

सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ||१७||

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते |

स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ||१८||

स त्वं सन्तानवानद्य पुत्रवानपि च द्विज |

तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ||१९||

पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ||१९||

इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी |

अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ||२०||

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् |

हर्षेण महता युक्तो बाष्पव्याकुललोचनः ||२१||

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा |

पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ||२२||

उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् |

सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ||२३||

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि |

प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ||२४||

शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः |

पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ||२५||

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी |

तस्य नायं न च परो लोको भवति धर्मतः ||२६||

तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि |

तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ||२७||

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् |

बाधते खलु मा शीतं हिमत्राणं विधीयताम् ||२८||

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले |

यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ||२९||

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् |

ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ||३०||

सुसंदीप्तं महत्कृत्वा तमाह शरणागतम् |

प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ||३१||

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् |

अग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ||३२||

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् |

तद्वचः स प्रतिश्रुत्य वाक्यमाह विहङ्गमः ||३३||

न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् |

उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ||३४||

सञ्चयो नास्ति चास्माकं मुनीनामिव कानने |

इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ||३५||

कथं नु खलु कर्तव्यमिति चिन्तापरः सदा |

बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ||३६||

मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातकम् |

उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ||३७||

इत्युक्त्वा शुष्कपर्णैः स सम्प्रज्वाल्य हुताशनम् |

हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ||३८||

देवानां च मुनीनां च पितॄणां च महात्मनाम् |

श्रुतपूर्वो मया धर्मो महानतिथिपूजने ||३९||

कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते |

निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ||४०||

ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव |

तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ||४१||

अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् |

चिन्तयामास मनसा किमिदं नु कृतं मया ||४२||

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा |

अधर्मः सुमहान्घोरो भविष्यति न संशयः ||४३||

एवं बहुविधं भूरि विललाप स लुब्धकः |

गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ||४४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

143-अध्यायः

भीष्म उवाच||

ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः |

कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह ||१||

किमीदृशं नृशंसेन मया कृतमबुद्धिना |

भविष्यति हि मे नित्यं पातकं हृदि जीवतः ||२||

स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह |

धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ||३||

शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः ||३||

नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः |

दत्तः स्वमांसं ददता कपोतेन महात्मना ||४||

सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च |

उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा ||५||

अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् |

यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा ||६||

क्षुत्पिपासातपसहः कृशो धमनिसन्ततः |

उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ||७||

अहो देहप्रदानेन दर्शितातिथिपूजना |

तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ||८||

दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे ||८||

एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः |

महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ||९||

ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा |

तांश्च बद्धा कपोतान्स सम्प्रमुच्योत्ससर्ज ह ||१०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

144-अध्यायः

भीष्म उवाच||

ततो गते शाकुनिके कपोती प्राह दुःखिता |

संस्मृत्य भर्तारमथो रुदती शोकमूर्छिता ||१||

नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे |

सर्वा वै विधवा नारी बहुपुत्रापि खेचर ||२||

शोच्या भवति बन्धूनां पतिहीना मनस्विनी ||२||

लालिताहं त्वया नित्यं बहुमानाच्च सान्त्विता |

वचनैर्मधुरैः स्निग्धैरसकृत्सुमनोहरैः ||३||

कन्दरेषु च शैलानां नदीनां निर्झरेषु च |

द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय ||४||

आकाशगमने चैव सुखिताहं त्वया सुखम् |

विहृतास्मि त्वया कान्त तन्मे नाद्यास्ति किञ्चन ||५||

मितं ददाति हि पिता मितं माता मितं सुतः |

अमितस्य तु दातारं भर्तारं का न पूजयेत् ||६||

नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम् |

विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ||७||

न कार्यमिह मे नाथ जीवितेन त्वया विना |

पतिहीनापि का नारी सती जीवितुमुत्सहेत् ||८||

एवं विलप्य बहुधा करुणं सा सुदुःखिता |

पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् ||९||

ततश्चित्राम्बरधरं भर्तारं सान्वपश्यत |

विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ||१०||

चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् |

विमानशतकोटीभिरावृतं पुण्यकीर्तिभिः ||११||

ततः स्वर्गगतः पक्षी भार्यया सह सङ्गतः |

कर्मणा पूजितस्तेन रेमे तत्र स भार्यया ||१२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

145-अध्यायः

भीष्म उवाच||

विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह |

दृष्ट्वा तौ दम्पती दुःखादचिन्तयत सद्गतिम् ||१||

कीदृशेनेह तपसा गच्छेयं परमां गतिम् |

इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ||२||

महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः |

निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया ||३||

ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम् |

नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् ||४||

पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः ||४||

उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः |

उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् ||५||

महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह |

प्रविशन्नेव च वनं निगृहीतः स कण्टकैः ||६||

स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः |

बभ्राम तस्मिन्विजने नानामृगसमाकुले ||७||

ततो द्रुमाणां महतां पवनेन वने तदा |

उदतिष्ठत सङ्घर्षात्सुमहान्हव्यवाहनः ||८||

तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम् |

ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ||९||

सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः |

ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ||१०||

ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा |

अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा ||११||

ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः |

जगाम परमां सिद्धिं तदा भरतसत्तम ||१२||

ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः |

यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ||१३||

एवं खलु कपोतश्च कपोती च पतिव्रता |

लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ||१४||

यापि चैवंविधा नारी भर्तारमनुवर्तते |

विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ||१५||

एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः |

कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ||१६||

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् |

नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः ||१७||

युधिष्ठिर महानेष धर्मो धर्मभृतां वर |

गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ||१८||

निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम् ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

146-अध्यायः

इन्द्रोतशौनकपारिक्षितीयम्

युधिष्ठिर उवाच||

अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम |

मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे ||१||

भीष्म उवाच||

अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् |

इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ||२||

आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः |

अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम् ||३||

तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः |

जगाम स वनं राजा दह्यमानो दिवानिशम् ||४||

स प्रजाभिः परित्यक्तश्चकार कुशलं महत् |

अतिवेलं तपस्तेपे दह्यमानः स मन्युना ||५||

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् |

दह्यमानः पापकृत्या जगाम जनमेजयः ||६||

वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् |

समासाद्योपजग्राह पादयोः परिपीडयन् ||७||

ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा |

कर्ता पापस्य महतो भ्रूणहा किमिहागतः ||८||

किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथञ्चन |

गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम् ||९||

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् |

अशिवः शिवसङ्काशो मृतो जीवन्निवाटसि ||१०||

अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन् |

प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी ||११||

मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि |

पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे ||१२||

बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् |

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ||१३||

पितृवंशमिमं पश्य त्वत्कृते नरकं गतम् |

निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ||१४||

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम् |

तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः ||१५||

इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि |

अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ||१६||

अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः |

ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि ||१७||

यदिदं मन्यसे राजन्नायमस्ति परः कुतः |

प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

147-अध्यायः

भीष्म उवाच||

एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः |

गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् ||१||

धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये |

सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ||२||

स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः |

प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि ||३||

तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् |

सर्वमन्यून्विनीय त्वमभि मा वद शौनक ||४||

महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः |

अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ||५||

न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति |

श्रुतीरलभमानानां संविदं वेदनिश्चयात् ||६||

निर्विद्यमानः सुभृशं भूयो वक्ष्यामि साम्प्रतम् |

भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ||७||

अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव |

न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन ||८||

अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः |

ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ||९||

शौनक उवाच||

किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि साम्प्रतम् |

इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ||१०||

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् |

जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति ||११||

न चोपलभते तत्र न च कार्याणि पश्यति |

निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ||१२||

विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे |

कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते ||१३||

तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम् |

अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ||१४||

जनमेजय उवाच||

अनुतप्ये च पापेन न चाधर्मं चराम्यहम् |

बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ||१५||

शौनक उवाच||

छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप |

सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर ||१६||

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये |

तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह ||१७||

सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये |

क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ||१८||

वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः |

वाचस्ताः सुहृदः श्रुत्वा सञ्ज्वरिष्यन्ति मे भृशम् ||१९||

केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् |

जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत ||२०||

यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु |

प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ||२१||

जनमेजय उवाच||

नैव वाचा न मनसा न पुनर्जातु कर्मणा |

द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

148-अध्यायः

शौनक उवाच||

तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे |

श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे ||१||

पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ||१||

अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव |

कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ||२||

यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ||२||

हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः |

इत्येतदपि भूतानामद्भुतं जनमेजय ||३||

यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः |

अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ||४||

एतदेव हि कार्पण्यं समग्रमसमीक्षितम् |

तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ||५||

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते |

पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ||६||

तदेव राज्ञां परमं पवित्रं जनमेजय |

तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ||७||

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् |

अपि ह्युदाहरन्तीमा गाथा गीता ययातिना ||८||

यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः |

यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ||९||

पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् |

यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ||१०||

महासरः पुष्कराणि प्रभासोत्तरमानसे |

कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः ||११||

सरस्वतीदृषद्वत्यौ सेवमानोऽनुसञ्चरेः |

स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः ||१२||

त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत् |

अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ||१३||

यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् |

न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ||१४||

एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् |

त्यजतां जीवितं प्रायो विवृते पुण्यपातके ||१५||

यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते |

बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ||१६||

यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः |

ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ||१७||

यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय |

अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा ||१८||

आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः |

घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् ||१९||

हिमाग्निघोरसदृशो राजा भवति कश्चन |

लाङ्गलाशनिकल्पो वा भवत्यन्यः परन्तप ||२०||

न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः |

न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ||२१||

विकर्मणा तप्यमानः पादात्पापस्य मुच्यते |

नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ||२२||

चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ||२२||

कल्याणमनुमन्तव्यं पुरुषेण बुभूषता |

ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ||२३||

ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ||२३||

तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते |

संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ||२४||

त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ||२४||

यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः |

प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते ||२५||

अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् |

यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ||२६||

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा |

अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ||२७||

बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन् |

धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके ||२८||

उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात् |

आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः ||२९||

बृहस्पतिरुवाच||

कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम् |

स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या ||३०||

पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः |

चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ||३१||

छिद्राणि वसनस्येव साधुना विवृणोति यः |

यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ||३२||

यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति |

कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ||३३||

भीष्म उवाच||

एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् |

याजयामास विधिवद्वाजिमेधेन शौनकः ||३४||

ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया |

विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः ||३५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

149-अध्यायः

गृध्रजम्बुकसंवादः

भीष्म उवाच||

शृणु पार्थ यथावृत्तमितिहासं पुरातनम् |

गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा ||१||

दुःखिताः केचिदादाय बालमप्राप्तयौवनम् |

कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ||२||

बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः |

अङ्केनाङ्कं च सङ्क्रम्य रुरुदुर्भूतले तदा ||३||

तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् |

एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् ||४||

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि |

समानीतानि कालेन किं ते वै जात्वबान्धवाः ||५||

सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् |

संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ||६||

गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् |

तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ||७||

अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले |

कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे ||८||

न पुनर्जीवितः कश्चित्कालधर्ममुपागतः |

प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ||९||

सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता |

कृतान्तविहिते मार्गे को मृतं जीवयिष्यति ||१०||

कर्मान्तविहिते लोके चास्तं गच्छति भास्करे |

गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ||११||

ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप |

बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ||१२||

विनिश्चित्याथ च ततः सन्त्यजन्तः स्वमात्मजम् |

निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः ||१३||

ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः |

गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः ||१४||

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् |

बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ||१५||

यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः |

श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः ||१६||

न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि |

यस्य भाषितमात्रेण प्रसादमुपगच्छथ ||१७||

न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् |

न येषां धारयित्वा तान्कश्चिदस्ति फलागमः ||१८||

चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् |

परलोकगतिस्थानां मुनियज्ञक्रिया इव ||१९||

तेषां पुत्राभिरामाणामिह लोके परत्र च |

न गुणो दृश्यते कश्चित्प्रजाः सन्धारयन्ति च ||२०||

अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति |

न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ||२१||

मानुषाणां कुतः स्नेहो येषां शोको भविष्यति |

इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ ||२२||

चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत |

एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ||२३||

क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च |

बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते ||२४||

सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति |

तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ||२५||

त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् |

यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ||२६||

भीष्म उवाच||

जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः |

न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ||२७||

गृध्र उवाच||

अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा |

क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ||२८||

पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् |

कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ||२९||

तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् |

तपसा लभ्यते सर्वं विलापः किं करिष्यति ||३०||

अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः |

येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् ||३१||

धनं गाश्च सुवर्णं च मणिरत्नमथापि च |

अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ||३२||

यथाकृता च भूतेषु प्राप्यते सुखदुःखता |

गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ||३३||

न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा |

मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते ||३४||

धर्मं चरत यत्नेन तथाधर्मान्निवर्तत |

वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ||३५||

शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत |

त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ||३६||

यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् |

तत्कर्तैव समश्नाति बान्धवानां किमत्र हि ||३७||

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् |

स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ||३८||

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा |

सर्वः कालवशं याति शुभाशुभसमन्वितः ||३९||

किं करिष्यथ शोचित्वा मृतं किमनुशोचथ |

सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ||४०||

यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि |

सर्वानाविशते मृत्युरेवम्भूतमिदं जगत् ||४१||

जम्बुक उवाच||

अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा |

पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ||४२||

समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः |

यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् ||४३||

अहो पुत्रवियोगेन मृतशून्योपसेवनात् |

क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव ||४४||

अद्य शोकं विजानामि मानुषाणां महीतले |

स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् ||४५||

यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति |

दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ||४६||

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् |

प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः ||४७||

आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् |

पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ||४८||

अथ वास्तं गते सूर्ये सन्ध्याकाल उपस्थिते |

ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ||४९||

गृध्र उवाच||

अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः |

न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ||५०||

मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः |

विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे ||५१||

अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि |

जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते ||५२||

इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा |

दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा ||५३||

अनिष्टानां सहस्राणि तथेष्टानां शतानि च |

उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ||५४||

त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः |

अन्यदेहविषक्तो हि शावं काष्ठमुपासते ||५५||

भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ |

निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः ||५६||

न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते |

तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै ||५७||

मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः |

मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ||५८||

प्रज्ञाविज्ञानयुक्तेन बुद्धिसञ्ज्ञाप्रदायिना |

वचनं श्राविता रूक्षं मानुषाः संनिवर्तत ||५९||

जम्बुक उवाच||

इमं कनकवर्णाभं भूषणैः समलङ्कृतम् |

गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ||६०||

न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै |

मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ||६१||

श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः |

जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ||६२||

तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः |

श्वोऽभूते धर्मनित्येन मृतः सञ्जीवितः पुनः ||६३||

तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा |

कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ||६४||

भीष्म उवाच||

इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः |

अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ||६५||

गृध्र उवाच||

अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः |

धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः ||६६||

तपसापि हि संयुक्तो न काले नोपहन्यते |

सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् ||६७||

बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः |

दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ||६८||

अलं निर्बन्धमागम्य शोकस्य परिवारणम् |

अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ||६९||

नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् |

मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ||७०||

न वै मूर्तिप्रदानेन न जम्बुकशतैरपि |

शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि ||७१||

अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा |

वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः ||७२||

न च बाष्पविमोक्षेण न चाश्वासकृतेन वै |

न दीर्घरुदितेनेह पुनर्जीवो भविष्यति ||७३||

अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः |

धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ||७४||

अप्रियं परुषं चापि परद्रोहं परस्त्रियम् |

अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् ||७५||

सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् |

अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ||७६||

मातरं पितरं चैव बान्धवान्सुहृदस्तथा |

जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ||७७||

यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन |

तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ||७८||

भीष्म उवाच||

इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः |

दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् ||७९||

जम्बुक उवाच||

दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः |

इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् ||८०||

बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् |

इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् ||८१||

न मे मानुषलोकोऽयं मुहूर्तमपि रोचते |

अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः ||८२||

प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा |

कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च ||८३||

श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ||८३||

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |

सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् ||८४||

इमं क्षितितले न्यस्य बालं रूपसमन्वितम् |

कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ||८५||

रूपयौवनसम्पन्नं द्योतमानमिव श्रिया |

जीवन्तमेनं पश्यामि मनसा नात्र संशयः ||८६||

विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः |

पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् ||८७||

दुःखसम्भावनां कृत्वा धारयित्वा स्वयं सुखम् |

त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ||८८||

भीष्म उवाच||

तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना |

श्मशानवासिना नित्यं रात्रिं मृगयता तदा ||८९||

ततो मध्यस्थतां नीता वचनैरमृतोपमैः |

जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ||९०||

गृध्र उवाच||

अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः |

दारुणः काननोद्देशः कौशिकैरभिनादितः ||९१||

भीमः सुघोरश्च तथा नीलमेघसमप्रभः |

अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ||९२||

भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः |

तावदेनं परित्यज्य प्रेतकार्याण्युपासत ||९३||

नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः |

मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ||९४||

चिताधूमेन नीलेन संरज्यन्ते च पादपाः |

श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः ||९५||

सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः |

युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः ||९६||

दूराच्चायं वनोद्देशो भयमत्र भविष्यति |

त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ||९७||

यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च |

श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ||९८||

जम्बुक उवाच||

स्थीयतां नेह भेतव्यं यावत्तपति भास्करः |

तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत ||९९||

स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत |

स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः ||१००||

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च |

गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ||१०१||

भीष्म उवाच||

गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः |

मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ||१०२||

स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च |

क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ||१०३||

तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः |

वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च ||१०४||

शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा |

स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् ||१०५||

तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः |

बान्धवानां स्थितानां च उपातिष्ठत शङ्करः ||१०६||

ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् |

ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः ||१०७||

एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् |

पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ||१०८||

एवमुक्तः स भगवान्वारिपूर्णेन पाणिना |

जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै ||१०९||

तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम् |

वरं पिनाकी भगवान्सर्वभूतहिते रतः ||११०||

ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः |

कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो ||१११||

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च |

देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ||११२||

पश्य देवस्य संयोगं बान्धवानां च निश्चयम् |

कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् ||११३||

पश्य चाल्पेन कालेन निश्चयान्वेषणेन च |

प्रसादं शङ्करात्प्राप्य दुःखिताः सुखमाप्नुवन् ||११४||

ते विस्मिताः प्रहृष्टाश्च पुत्रसञ्जीवनात्पुनः |

बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै ||११५||

ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् |

विविशुः पुत्रमादाय नगरं हृष्टमानसाः ||११६||

एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता ||११६||

धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् |

श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते ||११७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

150-अध्यायः

शल्मलिपवनसंवादः

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च ||१||

हिमवन्तं समासाद्य महानासीद्वनस्पतिः |

वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् ||२||

तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः |

विश्रमन्ति महाबाहो तथान्या मृगजातयः ||३||

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः |

शुकशारिकसङ्घुष्टः फलवान्पुष्पवानपि ||४||

सार्थिका वणिजश्चापि तापसाश्च वनौकसः |

वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे ||५||

तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः |

अभिगम्याब्रवीदेनं नारदो भरतर्षभ ||६||

अहो नु रमणीयस्त्वमहो चासि मनोरमः |

प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले ||७||

सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः |

वसन्ति तव संहृष्टा मनोहरतरास्तथा ||८||

तव शाखा महाशाख स्कन्धं च विपुलं तथा |

न वै प्रभग्नान्पश्यामि मारुतेन कथञ्चन ||९||

किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत् |

त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् ||१०||

विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि |

पर्वतानां च शिखराण्याचालयति वेगवान् ||११||

शोषयत्येव पातालं विवान्गन्धवहः शुचिः |

ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह ||१२||

त्वां संरक्षेत पवनः सखित्वेन न संशयः |

तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि ||१३||

इदं च रमणीयं ते प्रतिभाति वनस्पते |

यदिमे विहगास्तात रमन्ते मुदितास्त्वयि ||१४||

एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः |

पुष्पसंमोदने काले वाशतां सुमनोहरम् ||१५||

तथेमे मुदिता नागाः स्वयूथकुलशोभिनः |

घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले ||१६||

तथैव मृगजातीभिरन्याभिरुपशोभसे |

तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम ||१७||

ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि |

त्रिविष्टपसमं मन्ये तवायतनमेव ह ||१८||

बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः |

पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ||१९||

न्यग्भावं परमं वायोः शल्मले त्वमुपागतः |

तवाहमस्मीति सदा येन रक्षति मारुतः ||२०||

न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम् |

यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः ||२१||

त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा |

वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ||२२||

शल्मलिरुवाच||

न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत् |

परमेष्ठी तथा नैव येन रक्षति मानिलः ||२३||

मम तेजोबलं वायोर्भीममपि हि नारद |

कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ||२४||

आगच्छन्परमो वायुर्मया विष्टम्भितो बलात् |

रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किञ्चन ||२५||

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः |

तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ||२६||

नारद उवाच||

शल्मले विपरीतं ते दर्शनं नात्र संशयः |

न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ||२७||

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः |

न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ||२८||

यद्धि किञ्चिदिह प्राणि शल्मले चेष्टते भुवि |

सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ||२९||

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः |

असम्यगायतो भूयश्चेष्टते विकृतो नृषु ||३०||

स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम् |

न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् ||३१||

असारश्चासि दुर्बुद्धे केवलं बहु भाषसे |

क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले ||३२||

मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति |

ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ||३३||

चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः |

वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः ||३४||

तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः |

ते हि जानन्ति वायोश्च बलमात्मन एव च ||३५||

तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः |

त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

151-अध्यायः

भीष्म उवाच||

एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः |

नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् ||१||

हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान् |

बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते ||२||

बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः |

न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो ||३||

जानामि त्वामहं वायो सर्वप्राणभृतां वरम् |

वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ||४||

एवं तु वचनं श्रुत्वा नारदस्य समीरणः |

शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ||५||

शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम् |

अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ||६||

नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम |

पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ||७||

तस्य विश्रमणादेव प्रसादो यः कृतस्तव |

रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम ||८||

यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा |

दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे ||९||

एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव |

पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ||१०||

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि |

न ते बिभेमि पवन यद्यपि त्वं स्वयम्प्रभुः ||११||

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः |

दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ||१२||

अथ निश्चित्य मनसा शल्मलिर्वातकारितम् |

पश्यमानस्तदात्मानमसमं मातरिश्वनः ||१३||

नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा |

असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ||१४||

मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत् |

अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ||१५||

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः |

तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् ||१६||

यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने |

अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ||१७||

तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः |

समीरयेत सङ्क्रुद्धो यथा जानाम्यहं तथा ||१८||

ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा |

शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ||१९||

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च |

प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः ||२०||

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् |

आजगामाथ तं देशं स्थितो यत्र स शल्मलिः ||२१||

तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः |

उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम् ||२२||

अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा |

आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् ||२३||

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान् |

आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः ||२४||

एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा |

अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् ||२५||

एवं यो राजशार्दूल दुर्बलः सन्बलीयसा |

वैरमासज्जते बालस्तप्यते शल्मलिर्यथा ||२६||

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः |

शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा ||२७||

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु |

शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ||२८||

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना |

बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः ||२९||

न हि बुद्ध्या समं किञ्चिद्विद्यते पुरुषे नृप |

तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् ||३०||

तस्मात्क्षमेत बालाय जडाय बधिराय च |

बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ||३१||

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते |

बलेन न समा राजन्नर्जुनस्य महात्मनः ||३२||

हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना |

चरता बलमास्थाय पाकशासनिना मृधे ||३३||

उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत |

विस्तरेण महाराज किं भूयः प्रब्रवीमि ते ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

152-अध्यायः

युधिष्ठिर उवाच||

पापस्य यदधिष्ठानं यतः पापं प्रवर्तते |

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ||१||

भीष्म उवाच||

पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप |

एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ||२||

अतः पापमधर्मश्च तथा दुःखमनुत्तमम् |

निकृत्या मूलमेतद्धि येन पापकृतो जनाः ||३||

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते |

लोभान्मोहश्च माया च मानस्तम्भः परासुता ||४||

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः |

अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते ||५||

अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः |

कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा ||६||

सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् |

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता ||७||

हरणं परवित्तानां परदाराभिमर्शनम् ||७||

वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च |

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ||८||

ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः |

रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः ||९||

कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता |

साहसानां च सर्वेषामकार्याणां क्रियास्तथा ||१०||

जातौ बाल्येऽथ कौमारे यौवने चापि मानवः |

न सन्त्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः ||११||

यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह |

नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ||१२||

न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति ||१२||

यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः |

ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ||१३||

स लोभः सह मोहेन विजेतव्यो जितात्मना ||१३||

दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा |

भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ||१४||

सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः |

छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ||१५||

द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः |

अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव ||१६||

धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ||१६||

कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः |

सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः ||१७||

धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः |

या या विक्रियते संस्था ततः साभिप्रपद्यते ||१८||

दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता |

तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ||१९||

एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् ||१९||

शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् |

येषु वृत्तिभयं नास्ति परलोकभयं न च ||२०||

नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च |

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ||२१||

सुखं दुःखं परं येषां सत्यं येषां परायणम् |

दातारो न गृहीतारो दयावन्तस्तथैव च ||२२||

पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च |

सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः ||२३||

सर्वभूतहिताश्चैव सर्वदेयाश्च भारत |

न ते चालयितुं शक्या धर्मव्यापारपारगाः ||२४||

न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् |

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ||२५||

ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता |

कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः ||२६||

सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च ||२६||

न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर |

अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा ||२७||

न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते |

न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः ||२८||

येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः |

तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः ||२९||

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च |

निर्ममा निरहङ्काराः सत्त्वस्थाः समदर्शिनः ||३०||

लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च |

समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वमवस्थितानाम् ||३१||

सुखप्रियैस्तान्सुमहाप्रतापा; न्यत्तोऽप्रमत्तश्च समर्थयेथाः |

दैवात्सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव ||३२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

153-अध्यायः

युधिष्ठिर उवाच||

अनर्थानामधिष्ठानमुक्तो लोभः पितामह |

अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः ||१||

भीष्म उवाच||

करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् |

प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ||२||

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् |

अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति ||३||

युधिष्ठिर उवाच||

अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ |

मूलं योगं गतिं कालं कारणं हेतुमेव च ||४||

श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव |

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ||५||

भीष्म उवाच||

रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता |

कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च ||६||

इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता |

अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः ||७||

एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि |

विस्तरेण महाबाहो शृणु तच्च विशां पते ||८||

उभावेतौ समफलौ समदोषौ च भारत |

अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव ||९||

लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते |

स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम् ||१०||

मूलं लोभस्य महतः कालात्मगतिरेव च |

छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि ||११||

तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च |

सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ||१२||

जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् |

लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ||१३||

प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना |

त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

154-अध्यायः

युधिष्ठिर उवाच||

स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह |

धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते ||१||

बहुधादर्शने लोके श्रेयो यदिह मन्यसे |

अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ||२||

महानयं धर्मपथो बहुशाखश्च भारत |

किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ||३||

धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः |

यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ||४||

भीष्म उवाच||

हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे |

पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ||५||

धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः |

स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ||६||

दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः |

ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ||७||

नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते |

दमो दानं तथा यज्ञानधीतं चातिवर्तते ||८||

दमस्तेजो वर्धयति पवित्रं च दमः परम् |

विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ||९||

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम |

दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ||१०||

प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् |

दमेन हि समायुक्तो महान्तं धर्ममश्नुते ||११||

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते |

सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ||१२||

अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते |

अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ||१३||

आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् |

तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ||१४||

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |

इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ||१५||

अकार्पण्यमसंरम्भः सन्तोषः प्रियवादिता |

अविवित्सानसूया चाप्येषां समुदयो दमः ||१६||

गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् |

जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् ||१७||

कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् |

मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते ||१८||

अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः |

समुद्रकल्पः स नरो न कदाचन पूर्यते ||१९||

अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् |

पूर्वसम्बन्धिसंयोगान्नैतद्दान्तो निषेवते ||२०||

सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः |

निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ||२१||

मैत्रोऽथ शीलसम्पन्नः सुसहायपरश्च यः |

मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् ||२२||

सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मविद्बुधः |

प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ||२३||

कर्म यच्छुभमेवेह सद्भिराचरितं च यत् |

तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते ||२४||

निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः |

कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते ||२५||

अभयं यस्य भूतेभ्यो भूतानामभयं यतः |

तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ||२६||

अवाचिनोति कर्माणि न च सम्प्रचिनोति ह |

समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ||२७||

शकुनीनामिवाकाशे जले वारिचरस्य वा |

यथा गतिर्न दृश्येत तथा तस्य न संशयः ||२८||

गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते |

लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ||२९||

संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः |

संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ||३०||

कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः |

प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ||३१||

यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् |

गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते ||३२||

ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः |

नावृत्तिभयमस्तीह परलोके भयं कुतः ||३३||

एक एव दमे दोषो द्वितीयो नोपपद्यते |

यदेनं क्षमया युक्तमशक्तं मन्यते जनः ||३४||

एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः |

क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ||३५||

दान्तस्य किमरण्येन तथादान्तस्य भारत |

यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः ||३६||

वैशम्पायन उवाच||

एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः |

अमृतेनेव सन्तृप्तः प्रहृष्टः समपद्यत ||३७||

पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् |

तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

155-अध्यायः

भीष्म उवाच||

सर्वमेतत्तपोमूलं कवयः परिचक्षते |

न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते ||१||

प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः |

तथैव वेदानृषयस्तपसा प्रतिपेदिरे ||२||

तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः |

त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ||३||

औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः |

तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् ||४||

यद्दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम् |

सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम् ||५||

सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः |

तपसैव सुतप्तेन नरः पापाद्विमुच्यते ||६||

तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः |

निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ||७||

अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः |

एतेभ्यो हि महाराज तपो नानशनात्परम् ||८||

न दुष्करतरं दानान्नातिमातरमाश्रमः |

त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः ||९||

इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये |

तस्मादर्थे च धर्मे च तपो नानशनात्परम् ||१०||

ऋषयः पितरो देवा मनुष्या मृगसत्तमाः |

यानि चान्यानि भूतानि स्थावराणि चराणि च ||११||

तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते |

इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् ||१२||

इमानीष्टविभागानि फलानि तपसा सदा |

तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात् ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

156-अध्यायः

युधिष्ठिर उवाच||

सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः |

सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह ||१||

सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते |

सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते ||२||

भीष्म उवाच||

चातुर्वर्ण्यस्य धर्माणां सङ्करो न प्रशस्यते |

अविकारितमं सत्यं सर्ववर्णेषु भारत ||३||

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः |

सत्यमेव नमस्येत सत्यं हि परमा गतिः ||४||

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् |

सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् ||५||

आचारानिह सत्यस्य यथावदनुपूर्वशः |

लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् ||६||

प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि |

सत्यं त्रयोदशविधं सर्वलोकेषु भारत ||७||

सत्यं च समता चैव दमश्चैव न संशयः |

अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ||८||

त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा |

अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ||९||

सत्यं नामाव्ययं नित्यमविकारि तथैव च |

सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ||१०||

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा |

इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा ||११||

दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च |

अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते ||१२||

अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् |

अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ||१३||

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च |

क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् ||१४||

कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् |

प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ||१५||

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते |

लोकसङ्ग्रहणार्थं तु सा तु धैर्येण लभ्यते ||१६||

त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च |

रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ||१७||

आर्यता नाम भूतानां यः करोति प्रयत्नतः |

शुभं कर्म निराकारो वीतरागत्वमेव च ||१८||

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् |

तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ||१९||

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च |

वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ||२०||

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |

अनुग्रहश्च दानं च सतां धर्मः सनातनः ||२१||

एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः |

भजन्ते सत्यमेवेह बृंहयन्ति च भारत ||२२||

नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत |

अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ||२३||

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् |

स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ||२४||

उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः |

व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ||२५||

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |

अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

157-अध्यायः

युधिष्ठिर उवाच||

यतः प्रभवति क्रोधः कामश्च भरतर्षभ |

शोकमोहौ विवित्सा च परासुत्वं तथा मदः ||१||

लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा |

एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ||२||

भीष्म उवाच||

त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः |

उपासते महाराज समस्ताः पुरुषानिह ||३||

एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि |

वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् ||४||

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते |

इति मर्त्यो विजानीयात्सततं भरतर्षभ ||५||

एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम |

हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु ||६||

लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते |

क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते ||७||

सङ्कल्पाज्जायते कामः सेव्यमानो विवर्धते |

अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम् ||८||

विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः |

विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते ||९||

प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः |

यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ||१०||

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते |

दयया सर्वभूतानां निर्वेदात्सा निवर्तते ||११||

सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते |

एतत्तु क्षीयते तात साधूनामुपसेवनात् ||१२||

कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् |

एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ||१३||

ईर्ष्या कामात्प्रभवति सङ्घर्षाच्चैव भारत |

इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति ||१४||

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसङ्गतैः |

कुत्सा सञ्जायते राजन्नुपेक्षाभिः प्रशाम्यति ||१५||

प्रतिकर्तुमशक्याय बलस्थायापकारिणे |

असूया जायते तीव्रा कारुण्याद्विनिवर्तते ||१६||

कृपणान्सततं दृष्ट्वा ततः सञ्जायते कृपा |

धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ||१७||

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश |

एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ||१८||

त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् ||१८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

158-अध्यायः

युधिष्ठिर उवाच||

आनृशंस्यं विजानामि दर्शनेन सतां सदा |

नृशंसान्न विजानामि तेषां कर्म च भारत ||१||

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः |

तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ||२||

नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत |

तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् ||३||

भीष्म उवाच||

स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा |

आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः ||४||

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः |

असम्भोगी च मानी च तथा सङ्गी विकत्थनः ||५||

सर्वातिशङ्की परुषो बालिशः कृपणस्तथा |

वर्गप्रशंसी सततमाश्रमद्वेषसङ्करी ||६||

हिंसाविहारी सततमविशेषगुणागुणः |

बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ||७||

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति |

आत्मशीलानुमानेन न विश्वसिति कस्यचित् ||८||

परेषां यत्र दोषः स्यात्तद्गुह्यं सम्प्रकाशयेत् |

समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् ||९||

तथोपकारिणं चैव मन्यते वञ्चितं परम् |

दत्त्वापि च धनं काले सन्तपत्युपकारिणे ||१०||

भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम् |

प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः ||११||

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते |

स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ||१२||

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः |

सदा विवर्जनीयो वै पुरुषेण बुभूषता ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

159-अध्यायः

भीष्म उवाच||

कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः |

आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा ||१||

एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः |

अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ||२||

अन्यत्र दक्षिणा या तु देया भरतसत्तम |

अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते ||३||

सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् |

ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः ||४||

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये |

अधिकं वापि विद्येत स सोमं पातुमर्हति ||५||

यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः |

ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ||६||

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः |

कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् ||७||

आहरेद्वेश्मतः किञ्चित्कामं शूद्रस्य द्रव्यतः |

न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः ||८||

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः |

तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ||९||

अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो |

तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः ||१०||

तथैव सप्तमे भक्ते भक्तानि षडनश्नता |

अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ||११||

खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते ||११||

आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा |

न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ||१२||

क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा |

श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ||१३||

अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ||१३||

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये |

अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् ||१४||

विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः |

आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः ||१५||

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते |

न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ||१६||

न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः |

अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् ||१७||

तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् |

मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ||१८||

तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् ||१८||

क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः |

धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ||१९||

न वै कन्या न युवतिर्नामन्त्रो न च बालिशः |

परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ||२०||

नरके निपतन्त्येते जुह्वानाः स च यस्य तत् ||२०||

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् |

अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ||२१||

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः |

अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ||२२||

प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः |

इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति ||२३||

उदक्या ह्यासते ये च ये च केचिदनग्नयः |

कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ||२४||

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः |

उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति ||२५||

अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम् |

अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः ||२६||

तथा स शुध्यते राजञ्शृणु चात्र वचो मम ||२६||

यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः |

स्थानासनाभ्यां विचरन्व्रती सं; स्त्रिभिर्वर्षैः शमयेदात्मपापम् ||२७||

न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले |

न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि ||२८||

श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत् |

सुवर्णमपि चामेध्यादाददीतेति धारणा ||२९||

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् |

अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः ||३०||

गोब्राह्मणहितार्थं च वर्णानां सङ्करेषु च |

गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः ||३१||

सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा |

अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ||३२||

सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम् |

विहरन्मद्यपानं चाप्यगम्यागमनं तथा ||३३||

पतितैः सम्प्रयोगाच्च ब्राह्मणैर्योनितस्तथा |

अचिरेण महाराज तादृशो वै भवत्युत ||३४||

संवत्सरेण पतति पतितेन सहाचरन् |

याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ||३५||

एतानि च ततोऽन्यानि निर्देश्यानीति धारणा |

निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ||३६||

अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते |

त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ||३७||

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः |

प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् ||३८||

अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् |

ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ||३९||

अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ||३९||

त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती |

यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् ||४०||

ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् |

वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ||४१||

सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत् |

तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् ||४२||

शोणितं यावतः पांसून्सङ्गृह्णीयाद्द्विजक्षतात् |

तावतीः स समा राजन्नरके परिवर्तते ||४३||

भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः |

आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति ||४४||

सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते |

तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति ||४५||

लोकांश्च लभते विप्रो नान्यथा लभते हि सः ||४५||

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः |

सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति ||४६||

अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम् |

नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः ||४७||

ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजेत्तेन शुध्यति |

अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः ||४८||

अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते ||४८||

तथैव द्वादश समाः कपाली ब्रह्महा भवेत् |

ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः ||४९||

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् |

एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति ||५०||

द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् ||५०||

सुरापो नियताहारो ब्रह्मचारी क्षमाचरः |

ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् ||५१||

ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् ||५१||

वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः |

शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः ||५२||

श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत् |

मार्जारचाषमण्डूकान्काकं भासं च मूषकम् ||५३||

उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात् |

प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ||५४||

तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत् |

त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते ||५५||

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् |

स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः ||५६||

एवमेव निराचान्तो यश्चाग्नीनपविध्यति ||५६||

त्यजत्यकारणे यश्च पितरं मातरं तथा |

पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः ||५७||

ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम् |

भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ||५८||

यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् ||५८||

श्रेयांसं शयने हित्वा या पापीयांसमृच्छति |

श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते ||५९||

पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे |

अप्यादधीत दारूणि तत्र दह्येत पापकृत् ||६०||

एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे |

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ||६१||

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः |

कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः ||६२||

परिवित्तिः परिवेत्ता यया च परिविद्यते |

पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः ||६३||

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् |

चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ||६४||

परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् |

ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् ||६५||

एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः ||६५||

अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति |

अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ||६६||

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् |

चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन् ||६७||

तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति |

चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति ||६८||

भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् |

दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् ||६९||

अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते ||६९||

श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च |

मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति ||७०||

ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः |

अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् ||७१||

त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ||७१||

एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम् |

ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते ||७२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

160-अध्यायः

खड्गोत्पत्तिः

वैशम्पायन उवाच||

कथान्तरमथासाद्य खड्गयुद्धविशारदः |

नकुलः शरतल्पस्थमिदमाह पितामहम् ||१||

धनुः प्रहरणं श्रेष्ठमिति वादः पितामह |

मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ||२||

विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु |

खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ||३||

शरासनधरांश्चैव गदाशक्तिधरांस्तथा |

एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ||४||

अत्र मे संशयश्चैव कौतूहलमतीव च |

किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ||५||

कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा |

पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ||६||

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः |

सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ||७||

ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् |

शिक्षान्यायोपसम्पन्नं द्रोणशिष्याय पृच्छते ||८||

उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः |

शरतल्पगतो भीष्मो नकुलाय महात्मने ||९||

तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि |

प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ||१०||

सलिलैकार्णवं तात पुरा सर्वमभूदिदम् |

निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ||११||

तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् |

निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ||१२||

सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् |

आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ||१३||

नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा |

संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ||१४||

ततः शरीरं लोकस्थं स्थापयित्वा पितामहः |

जनयामास भगवान्पुत्रानुत्तमतेजसः ||१५||

मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् |

वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ||१६||

प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् |

ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ||१७||

ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा |

गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ||१८||

पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः |

नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ||१९||

औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः |

जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ||२०||

भूतसर्गमिमं कृत्वा सर्वलोकपितामहः |

शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ||२१||

तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः |

आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ||२२||

भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः |

वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ||२३||

ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा |

घृताचाः सोमवायव्या वैखानसमरीचिपाः ||२४||

अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः |

वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ||२५||

दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् |

धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ||२६||

हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः |

शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ||२७||

एते चान्ये च बहवः सगणा दैत्यदानवाः |

धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ||२८||

सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् |

इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ||२९||

न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत |

त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ||३०||

न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ||३०||

अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः |

तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ||३१||

शतयोजनविस्तारे मणिमुक्ताचयाचिते |

तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ||३२||

तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ||३२||

ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः |

विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ||३३||

ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः |

मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः ||३४||

काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् |

वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ||३५||

तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् |

तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ||३६||

चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् |

विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ||३७||

नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् |

प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ||३८||

तस्मिन्नुत्पतमाने च प्रचचाल वसुन्धरा |

तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः ||३९||

पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः |

अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ||४०||

मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ||४०||

ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् |

महर्षिसुरगन्धर्वानुवाचेदं पितामहः ||४१||

मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् |

रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ||४२||

ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः |

विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ||४३||

ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे |

ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ||४४||

ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः |

प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ||४५||

चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् |

ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ||४६||

विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ||४६||

बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् |

नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ||४७||

शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ||४७||

ततो देवो महादेवः शूलपाणिर्भगाक्षिहा |

सम्प्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् ||४८||

त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् |

चचार विविधान्मार्गान्महाबलपराक्रमः ||४९||

विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ||४९||

तस्य नादं विनदतो महाहासं च मुञ्चतः |

बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ||५०||

तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः |

निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ||५१||

अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः |

घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ||५२||

ततस्तद्दानवानीकं सम्प्रणेतारमच्युतम् |

रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ||५३||

चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् |

तमेकमसुराः सर्वे सहस्रमिति मेनिरे ||५४||

छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि |

अचरद्दैत्यसङ्घेषु रुद्रोऽग्निरिव कक्षगः ||५५||

असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः |

सम्प्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ||५६||

अपरे दानवा भग्ना रुद्रघातावपीडिताः |

अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे ||५७||

भूमिं केचित्प्रविविशुः पर्वतानपरे तथा |

अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ||५८||

तस्मिन्महति संवृत्ते समरे भृशदारुणे |

बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ||५९||

दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः |

समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ||६०||

रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा |

रक्तार्द्रवसना श्यामा नारीव मदविह्वला ||६१||

स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् |

रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ||६२||

ततो महर्षयः सर्वे सर्वे देवगणास्तथा |

जयेनाद्भुतकल्पेन देवदेवमथार्चयन् ||६३||

ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् |

असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ||६४||

विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम् |

महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु ||६५||

महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक |

मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ||६६||

ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः |

असिना धर्मगर्भेण पालयस्व प्रजा इति ||६७||

धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् |

विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ||६८||

दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा |

व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ||६९||

असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत् |

असेरेव प्रमाणानि परिमाणव्यतिक्रमात् ||७०||

अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः |

मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ||७१||

क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः |

आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ||७२||

ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् |

आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ||७३||

भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् |

तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ||७४||

ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः |

धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ||७५||

मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः |

रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ||७६||

इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् |

हरिणाश्वादसिं लेभे शुनकः शुनकादपि ||७७||

उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः |

यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ||७८||

प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि |

रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ||७९||

ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ||७९||

कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् |

रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ||८०||

असेरष्टौ च नामानि रहस्यानि निबोध मे |

पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ||८१||

असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः |

श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ||८२||

अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत |

महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ||८३||

पृथुस्तूत्पादयामास धनुराद्यमरिंदम |

तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ||८४||

तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि |

असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ||८५||

इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः |

असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ||८६||

सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् |

लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ||८७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

161-अध्यायः

वैशम्पायन उवाच||

इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः |

पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् ||१||

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता |

तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ||२||

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै |

सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ||३||

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् |

जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ||४||

बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा |

भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ||५||

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः |

एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ||६||

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः |

धर्मेण देवा दिविगा धर्मे चार्थः समाहितः ||७||

धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते |

कामो यवीयानिति च प्रवदन्ति मनीषिणः ||८||

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ||८||

समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः |

पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः ||९||

कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते |

कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च ||१०||

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः |

न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ||११||

विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् |

कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ||१२||

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः |

अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ||१३||

उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः |

ब्रह्माणमिव भूतानि सततं पर्युपासते ||१४||

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः |

मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ||१५||

काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः |

विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ||१६||

अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः |

कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ||१७||

आस्तिका नास्तिकाश्चैव नियताः संयमे परे |

अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता ||१८||

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् |

एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ||१९||

अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ||१९||

ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् |

नकुलः सहदेवश्च वाक्यं जगदतुः परम् ||२०||

आसीनश्च शयानश्च विचरन्नपि च स्थितः |

अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ||२१||

अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये |

इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ||२२||

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः |

मध्विवामृतसंयुक्तं तस्मादेतौ मताविह ||२३||

अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः |

तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ||२४||

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना |

विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ||२५||

धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् |

ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ||२६||

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ |

भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ||२७||

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति |

नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ||२८||

कामेन युक्ता ऋषयस्तपस्येव समाहिताः |

पलाशफलमूलाशा वायुभक्षाः सुसंयताः ||२९||

वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः |

श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे ||३०||

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा |

दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ||३१||

समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः |

कामो हि विविधाकारः सर्वं कामेन सन्ततम् ||३२||

नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् |

एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ||३३||

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः |

श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः ||३४||

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः |

पुष्पतो मध्विव रसः कामात्सञ्जायते सुखम् ||३५||

सुचारुवेषाभिरलङ्कृताभि; र्मदोत्कटाभिः प्रियवादिनीभिः |

रमस्व योषाभिरुपेत्य कामं; कामो हि राजंस्तरसाभिपाती ||३६||

बुद्धिर्ममैषा परिषत्स्थितस्य; मा भूद्विचारस्तव धर्मपुत्र |

स्यात्संहितं सद्भिरफल्गुसारं; समेत्य वाक्यं परमानृशंस्यम् ||३७||

धर्मार्थकामाः सममेव सेव्या; यस्त्वेकसेवी स नरो जघन्यः |

द्वयोस्तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस्त्रिवर्गे ||३८||

प्राज्ञः सुहृच्चन्दनसारलिप्तो; विचित्रमाल्याभरणैरुपेतः |

ततो वचः सङ्ग्रहविग्रहेण; प्रोक्त्वा यवीयान्विरराम भीमः ||३९||

ततो मुहूर्तादथ धर्मराजो; वाक्यानि तेषामनुचिन्त्य सम्यक् |

उवाच वाचावितथं स्मयन्वै; बहुश्रुतो धर्मभृतां वरिष्ठः ||४०||

निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः |

विज्ञातुकामस्य ममेह वाक्य; मुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे ||४१||

इह त्ववश्यं गदतो ममापि; वाक्यं निबोधध्वमनन्यभावाः ||४१||

यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे |

विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः ||४२||

भूतानि जातीमरणान्वितानि; जराविकारैश्च समन्वितानि |

भूयश्च तैस्तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः ||४३||

स्नेहे नबद्धस्य न सन्ति तानी; त्येवं स्वयम्भूर्भगवानुवाच |

बुधाश्च निर्वाणपरा वदन्ति; तस्मान्न कुर्यात्प्रियमप्रियं च ||४४||

एतत्प्रधानं न तु कामकारो; यथा नियुक्तोऽस्मि तथा चरामि |

भूतानि सर्वाणि विधिर्नियुङ्क्ते; विधिर्बलीयानिति वित्त सर्वे ||४५||

न कर्मणाप्नोत्यनवाप्यमर्थं; यद्भावि सर्वं भवतीति वित्त |

त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं; तस्मादिदं लोकहिताय गुह्यम् ||४६||

ततस्तदग्र्यं वचनं मनोनुगं; समस्तमाज्ञाय ततोऽतिहेतुमत् |

तदा प्रणेदुश्च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुरञ्जलीन् ||४७||

सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम् |

निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुरेव ते ||४८||

पुनश्च पप्रच्छ सरिद्वरासुतं; ततः परं धर्ममहीनसत्त्वः ||४८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

162-अध्यायः

कृतघ्नगौतमोपाख्यानम्

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन |

प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ||१||

कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् |

आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ||२||

न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः |

तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ||३||

दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् |

एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ||४||

भीष्म उवाच||

सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः |

वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ||५||

लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च |

क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः ||६||

दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः |

व्यसने यः परित्यागी दुरात्मा निरपत्रपः ||७||

सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः |

सम्प्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् ||८||

असत्यो लोकविद्विष्टः समये चानवस्थितः |

पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ||९||

दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा |

मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः ||१०||

वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः |

अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ ||११||

अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते |

सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ||१२||

अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च |

कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप ||१३||

शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः |

न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ||१४||

पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा |

परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः ||१५||

कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन |

छिद्रान्वेषी न सन्धेयः सन्धेयानपि मे शृणु ||१६||

कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः |

मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः ||१७||

माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः |

व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः ||१८||

रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः |

दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह ||१९||

यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो |

नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ||२०||

विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः |

आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः ||२१||

न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् ||२१||

दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ |

न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः ||२२||

लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः |

ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ||२३||

सङ्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ||२३||

ईदृशैः पुरुषश्रेष्ठैः सन्धिं यः कुरुते नृपः |

तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव ||२४||

शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः |

क्षान्ताः शीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः ||२५||

ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ |

तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः ||२६||

त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः ||२६||

युधिष्ठिर उवाच||

विस्तरेणार्थसम्बन्धं श्रोतुमिच्छामि पार्थिव |

मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ||२७||

भीष्म उवाच||

हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् |

उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ||२८||

ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः |

ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया ||२९||

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् |

ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ||३०||

तस्य क्षयमुपागम्य ततो भिक्षामयाचत |

प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ||३१||

प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् |

नारीं चापि वयोपेतां भर्त्रा विरहितां तदा ||३२||

एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा |

तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ||३३||

कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् |

तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये ||३४||

बाणवेध्ये परं यत्नमकरोच्चैव गौतमः ||३४||

वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे |

जघान गौतमो राजन्यथा दस्युगणस्तथा ||३५||

हिंसापरो घृणाहीनः सदा प्राणिवधे रतः |

गौतमः संनिकर्षेण दस्युभिः समतामियात् ||३६||

तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा |

अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् ||३७||

ततः कदाचिदपरो द्विजस्तं देशमागमत् |

जटी चीराजिनधरः स्वाध्यायपरमः शुचिः ||३८||

विनीतो नियताहारो ब्रह्मण्यो वेदपारगः |

सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् ||३९||

तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ||३९||

स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः |

ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् ||४०||

ततः स गौतमगृहं प्रविवेश द्विजोत्तमः |

गौतमश्चापि सम्प्राप्तस्तावन्योन्येन सङ्गतौ ||४१||

वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् |

रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ||४२||

तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् |

अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च ||४३||

किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः |

मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ||४४||

पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् |

येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ||४५||

अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् |

अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ||४६||

एवमुक्तः स सुहृदा तदा तेन हितैषिणा |

प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् ||४७||

अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् |

वृत्त्यर्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम ||४८||

त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज |

आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् ||४९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

163-अध्यायः

भीष्म उवाच||

तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे |

निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत ||१||

सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि |

स तेन सार्थेन सह प्रययौ सागरं प्रति ||२||

स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे |

मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ||३||

स कथञ्चित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा |

कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ||४||

स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः |

एकाकी व्यद्रवत्तत्र वने किम्पुरुषो यथा ||५||

स पन्थानमथासाद्य समुद्राभिसरं तदा |

आससाद वनं रम्यं महत्पुष्पितपादपम् ||६||

सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम् |

नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् ||७||

शालतालधवाश्वत्थत्वचागुरुवनैस्तथा |

चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ||८||

गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु ||८||

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै |

मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः ||९||

भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् ||९||

स तान्यतिमनोज्ञानि विहङ्गाभिरुतानि वै |

शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ||१०||

ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते |

देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ||११||

श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् |

शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम् ||१२||

तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा |

दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ||१३||

तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम् |

मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ||१४||

तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् ||१४||

तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः |

पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः ||१५||

ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप ||१५||

स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना |

सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् ||१६||

ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते |

आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ||१७||

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा |

बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ||१८||

राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि |

देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः ||१९||

मृष्टहाटकसञ्छन्नो भूषणैरर्कसंनिभैः |

भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ||२०||

तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत् |

क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत ||२१||

राजधर्मोवाच||

स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् |

अस्तं च सविता यातः सन्ध्येयं समुपस्थिता ||२२||

मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः |

पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

164-अध्यायः

भीष्म उवाच||

गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा |

कौतूहलान्वितो राजन्राजधर्माणमैक्षत ||१||

राजधर्मोवाच||

भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे |

अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ ||२||

भीष्म उवाच||

तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा |

शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ||३||

भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान् |

ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ||४||

वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान् |

स गौतमायातिथये न्यवेदयत काश्यपः ||५||

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः |

क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ||६||

ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत |

सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत् ||७||

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् |

गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ||८||

अथोपविष्टं शयने गौतमं बकराट्तदा |

पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् ||९||

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते |

समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ||१०||

तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि |

कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ||११||

चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा |

पारम्पर्यं तथा दैवं कर्म मित्रमिति प्रभो ||१२||

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि |

सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ||१३||

ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम् |

गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि ||१४||

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् |

विरूपाक्ष इति ख्यातः सखा मम महाबलः ||१५||

तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः |

कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ||१६||

इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः |

फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः ||१७||

चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च |

तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ||१८||

ततो मेरुव्रजं नाम नगरं शैलतोरणम् |

शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ||१९||

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः |

प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः ||२०||

ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर |

गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ||२१||

ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः |

गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ||२२||

ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम् |

त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ||२३||

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः |

स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ||२४||

ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः |

गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः ||२५||

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् |

दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

165-अध्यायः

भीष्म उवाच||

ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् |

पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ||१||

पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् |

न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ||२||

ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च |

गोत्रमात्रविदो राजा निवासं समपृच्छत ||३||

क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते |

तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ||४||

गौतम उवाच||

मध्यदेशप्रसूतोऽहं वासो मे शबरालये |

शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ||५||

भीष्म उवाच||

ततो राजा विममृशे कथं कार्यमिदं भवेत् |

कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ||६||

अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः |

सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ||७||

तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा |

भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः ||८||

कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः |

तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ||९||

ततः सहस्रं विप्राणां विदुषां समलङ्कृतम् |

स्नातानामनुसम्प्राप्तमहतक्षौमवाससाम् ||१०||

तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते |

यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ||११||

बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् |

भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ||१२||

तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः |

व्यराजन्त महाराज नक्षत्रपतयो यथा ||१३||

ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः |

वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ||१४||

तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः |

ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ||१५||

विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः सम्प्रयच्छति |

शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ||१६||

सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् |

वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ||१७||

रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत |

ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ||१८||

गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः |

येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ||१९||

तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ||१९||

इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि |

यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ||२०||

ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः |

ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ||२१||

ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः |

नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ||२२||

अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् |

राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ||२३||

ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः |

गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ||२४||

कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् |

न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ||२५||

ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः |

स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ||२६||

तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः |

पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ||२७||

स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा |

हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ||२८||

गृहीतो लोभमोहाद्वै दूरं च गमनं मम ||२८||

न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम |

किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ||२९||

ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन |

कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ||३०||

अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम |

इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ||३१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

166-अध्यायः

भीष्म उवाच||

अथ तत्र महार्चिष्माननलो वातसारथिः |

तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ||१||

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा |

कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् ||२||

ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम् |

निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ||३||

स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा |

तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ||४||

ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् |

न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ||५||

स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा |

मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः ||६||

उभे द्विरात्रं सन्ध्ये वै नाभ्यगात्स ममालयम् |

तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् ||७||

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः |

तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ||८||

दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया |

निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः ||९||

गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम |

पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ||१०||

ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् ||१०||

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ |

न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः ||११||

स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः |

त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ||१२||

ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा |

राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् ||१३||

तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः |

राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः ||१४||

कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् ||१४||

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः |

आर्तनादश्च सुमहानभूत्तस्य निवेशने ||१५||

सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् |

अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति ||१६||

अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः |

पापाचारः पापकर्मा पापात्मा पापनिश्चयः ||१७||

हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ||१७||

इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः |

नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत ||१८||

दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः |

इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः ||१९||

शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम् |

न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ||२०||

एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् |

दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ||२१||

इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः |

छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ||२२||

दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् |

क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते ||२३||

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा |

निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ||२४||

मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः |

क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

167-अध्यायः

भीष्म उवाच||

ततश्चितां बकपतेः कारयामास राक्षसः |

रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलङ्कृताम् ||१||

तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् |

प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ||२||

तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा |

उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ||३||

तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ |

सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ||४||

ततः सञ्जीवितस्तेन बकराजस्तदानघ |

उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ||५||

ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा |

प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ||६||

श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् |

यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ||७||

यदा बकपती राजन्ब्रह्माणं नोपसर्पति |

ततो रोषादिदं प्राह बकेन्द्राय पितामहः ||८||

यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः |

तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ||९||

तदायं तस्य वचनान्निहतो गौतमेन वै |

तेनैवामृतसिक्तश्च पुनः सञ्जीवितो बकः ||१०||

राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् |

यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ||११||

सखायं मे सुदयितं गौतमं जीवयेत्युत ||११||

तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ |

सञ्जीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ||१२||

सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः |

सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः ||१३||

अथ तं पापकर्माणं राजधर्मा बकाधिपः |

विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ||१४||

यथोचितं च स बको ययौ ब्रह्मसदस्तदा |

ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ||१५||

गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम् |

शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ||१६||

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा |

कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ||१७||

निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ||१७||

एतत्प्राह पुरा सर्वं नारदो मम भारत |

संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ||१८||

मयापि भवते सर्वं यथावदुपवर्णितम् ||१८||

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् |

अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ||१९||

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः |

मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ||२०||

कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ |

मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ||२१||

सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ||२१||

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः |

मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ||२२||

एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव |

मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ||२३||

वैशम्पायन उवाच||

एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना |

युधिष्ठिरः प्रीतमना बभूव जनमेजय ||२४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.