शान्तिपर्वम् अध्यायः 225-257

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

225-अध्यायः

व्यास उवाच||

पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च |

तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ||१||

ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा |

अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ||२||

भूमेरपि गुणं गन्धमाप आददते यदा |

आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ||३||

आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः |

सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ||४||

अपामपि गुणांस्तात ज्योतिराददते यदा |

आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च ||५||

यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः |

सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः ||६||

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा |

प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ||७||

ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः |

अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ||८||

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा |

प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ||९||

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः |

मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसञ्चरः ||१०||

तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः |

मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते ||११||

तं तु कालेन महता सङ्कल्पः कुरुते वशे |

चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम् ||१२||

कालो गिरति विज्ञानं कालो बलमिति श्रुतिः |

बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ||१३||

आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि |

तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् ||१४||

एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसञ्चरः ||१४||

यथावत्कीर्तितं सम्यगेवमेतदसंशयम् |

बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ||१५||

एवं विस्तारसङ्क्षेपौ ब्रह्माव्यक्ते पुनः पुनः |

युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

226-अध्यायः

व्यास उवाच||

भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया |

ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते ||१||

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् |

क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे ||२||

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः |

गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ||३||

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् |

आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ||४||

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः |

वने गुरुसकाशे वा यतिधर्मेण वा पुनः ||५||

गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते |

तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ||६||

प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः |

अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः ||७||

यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् |

यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ||८||

तपसा वा सुमहता विद्यानां पारणेन वा |

इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ||९||

यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी |

तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ||१०||

अध्यापयेदधीयीत याजयेत यजेत च |

न वृथा प्रतिगृह्णीयान्न च दद्यात्कथञ्चन ||११||

याज्यतः शिष्यतो वापि कन्यया वा धनं महत् |

यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथञ्चन ||१२||

गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात् |

देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ||१३||

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् |

द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि ||१४||

अर्हतामनुरूपाणां नादेयं ह्यस्ति किञ्चन |

उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः ||१५||

अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः |

स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ||१६||

रन्तिदेवश्च साङ्कृत्यो वसिष्ठाय महात्मने |

अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ||१७||

आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम् |

दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ||१८||

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् |

ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ||१९||

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके |

ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ||२०||

दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् |

छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम् ||२१||

साङ्कृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् |

उपदिश्य महातेजा गतो लोकाननुत्तमान् ||२२||

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् |

अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् ||२३||

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः |

ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ||२४||

सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः |

रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ||२५||

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम् |

ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ||२६||

अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् |

वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ||२७||

करन्धमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा |

कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ||२८||

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः |

निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ||२९||

राजा मित्रसहश्चापि वसिष्ठाय महात्मने |

मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ||३०||

सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः |

ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ||३१||

सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् |

मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ||३२||

नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् |

दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ||३३||

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् |

हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ||३४||

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः |

ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ||३५||

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् |

सवत्सानां महातेजा गतो लोकाननुत्तमान् ||३६||

एते चान्ये च बहवो दानेन तपसा च ह |

महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ||३७||

तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी |

दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

227-अध्यायः

व्यास उवाच||

त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः |

ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ||१||

वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये |

सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ||२||

एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् |

असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ||३||

सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः |

स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसङ्गरः ||४||

तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः |

पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च ||५||

धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् |

वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ||६||

दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः |

एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ||७||

धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः |

कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ||८||

अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च |

वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् ||९||

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते |

ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति ||१०||

पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् |

मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ||११||

काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् |

महता विधिदृष्टेन बलेनाप्रतिघातिना ||१२||

स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ||१२||

कालोदकेन महता वर्षावर्तेन सन्ततम् |

मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ||१३||

निमेषोन्मेषफेनेन अहोरात्रजवेन च |

कामग्राहेण घोरेण वेदयज्ञप्लवेन च ||१४||

धर्मद्वीपेन भूतानां चार्थकामरवेण च |

ऋतसोपानतीरेण विहिंसातरुवाहिना ||१५||

युगह्रदौघमध्येन ब्रह्मप्रायभवेन च |

धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ||१६||

एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः |

प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ||१७||

उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः |

दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ||१८||

संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः |

अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति ||१९||

अप्लवो हि महादोषमुह्यमानोऽधिगच्छति |

कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ||२०||

तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः |

एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ||२१||

त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् |

तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा ||२२||

संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः |

प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ||२३||

वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः |

पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ||२४||

सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् |

असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् ||२५||

श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः |

स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसङ्करः ||२६||

क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः |

धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् ||२७||

धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् |

वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ||२८||

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते |

ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति ||२९||

अधर्मं धर्मकामो हि करोतीहाविचक्षणः |

धर्मं चाधर्मसङ्काशं शोचन्निव करोति सः ||३०||

धर्मं करोमीति करोत्यधर्म; मधर्मकामश्च करोति धर्मम् |

उभे बालः कर्मणी न प्रजान; न्स जायते म्रियते चापि देही ||३१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

228-अध्यायः

व्यास उवाच||

अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा |

उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ||१||

प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः |

नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन ||२||

छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश |

दशकर्मसुखानर्थानुपायापायनिर्भयः ||३||

चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च |

यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ||४||

ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ||४||

एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः |

यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः ||५||

यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः |

यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता ||६||

तरत्येव महादुर्गं जरामरणसागरम् |

एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः ||७||

अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते ||७||

धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः |

अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः ||८||

चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् |

दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ||९||

प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः |

क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ||१०||

त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः |

जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ||११||

अथ सन्त्वरमाणस्य रथमेतं युयुक्षतः |

अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ||१२||

सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते |

पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः ||१३||

क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः |

ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः ||१४||

अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते |

विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ||१५||

अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः |

निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् ||१६||

शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः |

तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ||१७||

अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् |

जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ||१८||

अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते |

तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते ||१९||

ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते ||१९||

अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः |

अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै ||२०||

एतेष्वपि हि जातेषु फलजातानि मे शृणु |

जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते ||२१||

प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः |

अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ||२२||

पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः |

आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति ||२३||

वर्णतो गृह्यते चापि कामात्पिबति चाशयान् |

न चास्य तेजसा रूपं दृश्यते शाम्यते तथा ||२४||

अहङ्कारस्य विजितेः पञ्चैते स्युर्वशानुगाः |

षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ||२५||

निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते |

तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ||२६||

यतो निःसरते लोको भवति व्यक्तसञ्ज्ञकः |

तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे ||२७||

तथा व्यक्तमयीं चैव सङ्ख्यां पूर्वं निबोध मे ||२७||

पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् |

योगे साङ्ख्येऽपि च तथा विशेषांस्तत्र मे शृणु ||२८||

प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् |

जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ||२९||

विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् |

द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ||३०||

चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते |

व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् ||३१||

सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् ||३१||

द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः |

विषयात्प्रतिसंहारः साङ्ख्यानां सिद्धिलक्षणम् ||३२||

निर्ममश्चानहङ्कारो निर्द्वंद्वश्छिन्नसंशयः |

नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ||३३||

आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् |

वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ||३४||

समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते |

नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ||३५||

अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः |

नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः ||३६||

अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ||३६||

अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे |

योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ||३७||

इत्येषा भावजा बुद्धिः कथिता ते न संशयः |

एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति ||३८||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

229-अध्यायः

व्यास उवाच||

अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः |

उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् ||१||

शुक उवाच||

किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् |

प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ||२||

व्यास उवाच||

यस्तु पश्येत्स्वभावेन विना भावमचेतनः |

पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ||३||

येषां चैकान्तभावेन स्वभावः कारणं मतम् |

पूत्वा तृणबुसीकां वै ते लभन्ते न किञ्चन ||४||

ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः |

स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ||५||

स्वभावो हि विनाशाय मोहकर्ममनोभवः |

निरुक्तमेतयोरेतत्स्वभावपरभावयोः ||६||

कृष्यादीनि हि कर्माणि सस्यसंहरणानि च |

प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च ||७||

आक्रीडानां गृहाणां च गदानामगदस्य च |

प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ||८||

प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति |

राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ||९||

पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते |

विद्यया तात सृष्टानां विद्यैव परमा गतिः ||१०||

भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् |

जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत् ||११||

स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत् |

उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः ||१२||

आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च |

बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ||१३||

द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च |

पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ||१४||

पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च |

मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ||१५||

मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च |

धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ||१६||

धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च |

वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ||१७||

वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च |

प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ||१८||

विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः |

सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ||१९||

प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च |

आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ||२०||

धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् |

स त्यागी सत्यसङ्कल्पः स तु क्षान्तः स ईश्वरः ||२१||

धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः |

शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ||२२||

अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् |

जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ||२३||

तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् |

तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन ||२४||

आदिं ते निधनं चैव कर्म चातीत्य सर्वशः |

चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

230-अध्यायः

व्यास उवाच||

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते |

ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति ||१||

तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये |

किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः ||२||

तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति |

उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु ||३||

पौरुषं कारणं केचिदाहुः कर्मसु मानवाः |

दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः ||४||

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः |

त्रयमेतत्पृथग्भूतमविवेकं तु केचन ||५||

एवमेतन्न चाप्येवमुभे चापि न चाप्युभे |

कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः ||६||

त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः |

तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे ||७||

अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च |

कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते ||८||

तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः |

तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ||९||

तपसा तदवाप्नोति यद्भूत्वा सृजते जगत् |

तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः ||१०||

तदुक्तं वेदवादेषु गहनं वेददर्शिभिः |

वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ||११||

आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः |

परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ||१२||

परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् |

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ||१३||

त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा |

संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ||१४||

द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा |

दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः ||१५||

उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः |

गवां भूमेश्च ये चापामोषधीनां च ये रसाः ||१६||

अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः |

विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च ||१७||

यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति |

सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे ||१८||

विसृतं कालनानात्वमनादिनिधनं च यत् |

कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च ||१९||

धातेदं प्रभवस्थानं भूतानां संयमो यमः |

स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः ||२०||

सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम् |

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

231-अध्यायः

भीष्म उवाच||

इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् |

मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ||१||

शुक उवाच||

प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः |

अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ||२||

तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया |

साङ्ख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे ||३||

मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते |

येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि ||४||

व्यास उवाच||

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् |

नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन ||५||

महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः |

भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ||६||

भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते |

प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् ||७||

क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति |

कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ||८||

कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी |

दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ||९||

शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् |

इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत ||१०||

इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः |

मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ||११||

इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः |

नियमे च विसर्गे च भूतात्मा मनसस्तथा ||१२||

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः |

प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ||१३||

आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना |

सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन ||१४||

एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः |

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ||१५||

न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः |

मनसा सम्प्रदीप्तेन महानात्मा प्रकाशते ||१६||

अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् |

अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ||१७||

अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् |

योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ||१८||

विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि |

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||१९||

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च |

वसत्येको महानात्मा येन सर्वमिदं ततम् ||२०||

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |

यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ||२१||

यावानात्मनि वेदात्मा तावानात्मा परात्मनि |

य एवं सततं वेद सोऽमृतत्वाय कल्पते ||२२||

सर्वभूतात्मभूतस्य सर्वभूतहितस्य च |

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||२३||

शकुनीनामिवाकाशे जले वारिचरस्य वा |

यथा गतिर्न दृश्येत तथैव सुमहात्मनः ||२४||

कालः पचति भूतानि सर्वाण्येवात्मनात्मनि |

यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन ||२५||

न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः |

न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन ||२६||

सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किञ्चन |

यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः ||२७||

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः |

तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ||२८||

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् |

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||२९||

तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् |

तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ||३०||

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः |

क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् ||३१||

नवद्वारं पुरं गत्वा हंसो हि नियतो वशी |

ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ||३२||

हानिभङ्गविकल्पानां नवानां संश्रयेण च |

शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ||३३||

हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् |

तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

232-अध्यायः

व्यास उवाच||

पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः |

साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ||१||

योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु |

एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ||२||

आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ||२||

तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना |

आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ||३||

योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः |

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ||४||

क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् |

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ||५||

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा |

चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ||६||

अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् |

एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ||७||

अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च |

वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ||८||

ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः |

एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ||९||

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा |

शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ||१०||

एतैर्विवर्धते तेजः पाप्मानं चापकर्षति |

सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ||११||

समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् |

धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ||१२||

कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ||१२||

मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः |

प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ||१३||

जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् |

ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ||१४||

मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा |

ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ||१५||

तत एतानि संयम्य मनसि स्थापयेद्यतिः |

तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत् ||१६||

पञ्च ज्ञानेन सन्धाय मनसि स्थापयेद्यतिः |

यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ||१७||

प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ||१७||

विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् |

वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ||१८||

सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ||१८||

तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः |

धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ||१९||

एवं परिमितं कालमाचरन्संशितव्रतः |

आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ||२०||

प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने |

अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ||२१||

प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः |

तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ||२२||

कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः |

गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ||२३||

संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव |

एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ||२४||

येनोपायेन शक्येत संनियन्तुं चलं मनः |

तं तं युक्तो निषेवेत न चैव विचलेत्ततः ||२५||

शून्या गिरिगुहाश्चैव देवतायतनानि च |

शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ||२६||

नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा |

उपेक्षको यताहारो लब्धालब्धे समो भवेत् ||२७||

यश्चैनमभिनन्देत यश्चैनमपवादयेत् |

समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ||२८||

न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् |

समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ||२९||

एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः |

षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ||३०||

वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः |

एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ||३१||

अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी |

तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ||३२||

अजं पुराणमजरं सनातनं; यदिन्द्रियैरुपलभते नरोऽचलः |

अणोरणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् ||३३||

इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च |

अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः ||३४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

233-अध्यायः

शुक उवाच||

यदिदं वेदवचनं कुरु कर्म त्यजेति च |

कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ||१||

एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे |

एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः ||२||

भीष्म उवाच||

इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् |

कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ||३||

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा |

शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम् ||४||

अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् |

तस्य पक्षस्य सदृशमिदं मम भवेदथ ||५||

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः |

प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः ||६||

कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते |

तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ||७||

कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः |

विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः ||८||

कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः |

तेन ते देहजालानि रमयन्त उपासते ||९||

ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः |

न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ||१०||

कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ |

विद्यया तदवाप्नोति यत्र गत्वा न शोचति ||११||

यत्र गत्वा न म्रियते यत्र गत्वा न जायते |

न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ||१२||

यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम् |

अव्याहतमनायासममृतं चावियोगि च ||१३||

द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा |

समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ||१४||

विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः |

विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् ||१५||

तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते |

नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे ||१६||

एकादशविकारात्मा कलासम्भारसम्भृतः |

मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम् ||१७||

देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे |

क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम् ||१८||

तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् |

जीवमात्मगुणं विद्यादात्मानं परमात्मनः ||१९||

सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् |

ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

234-अध्यायः

शुक उवाच||

क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च |

बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् ||१||

भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् |

यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् ||२||

वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च |

कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ||३||

लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् |

कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः ||४||

व्यास उवाच||

यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् |

एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ||५||

ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः |

आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि ||६||

वने मूलफलाशी च तप्यन्सुविपुलं तपः |

पुण्यायतनचारी च भूतानामविहिंसकः ||७||

विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये |

काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ||८||

निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे |

अरण्ये विचरैकाकी येन केनचिदाशितः ||९||

शुक उवाच||

यदिदं वेदवचनं लोकवादे विरुध्यते |

प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ||१०||

इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे |

कर्मणामविरोधेन कथमेतत्प्रवर्तते ||११||

भीष्म उवाच||

इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् |

ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ||१२||

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |

यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ||१३||

एको य आश्रमानेताननुतिष्ठेद्यथाविधि |

अकामद्वेषसंयुक्तः स परत्र महीयते ||१४||

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता |

एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ||१५||

आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः |

गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ||१६||

कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता |

दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् ||१७||

जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि |

यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ||१८||

कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः |

किङ्करः सर्वकारी च सर्वकर्मसु कोविदः ||१९||

शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः |

चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ||२०||

नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् |

न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च ||२१||

उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् |

दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ||२२||

अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति |

इदं करिष्ये भगवन्निदं चापि कृतं मया ||२३||

इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् |

कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ||२४||

यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते |

सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ||२५||

ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः |

तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ||२६||

स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् |

आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा ||२७||

वेदव्रतोपवासेन चतुर्थे चायुषो गते |

गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि ||२८||

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः |

द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् ||२९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

235-अध्यायः

व्यास उवाच||

द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् |

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः ||१||

गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः |

कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम् ||२||

अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् |

तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ||३||

षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते |

द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ||४||

गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ||४||

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् |

प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति ||५||

न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः |

न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ||६||

नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः |

तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ||७||

वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः |

स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ||८||

तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ||८||

न खरैः सम्प्रयातस्य स्वधर्माज्ञानकस्य च |

अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः ||९||

संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते |

तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ||१०||

विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः |

अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् ||११||

भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् ||११||

स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः |

ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ||१२||

वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः |

मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ||१३||

दुहित्रा दासवर्गेण विवादं न समाचरेत् |

एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते ||१४||

एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः |

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ||१५||

अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः |

जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ||१६||

सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ |

वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः ||१७||

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः |

छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् ||१८||

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः |

गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ||१९||

न चार्थबद्धः कर्माणि धर्मं वा कञ्चिदाचरेत् |

गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ||२०||

परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् |

ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ||२१||

कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा |

यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ||२२||

दश पूर्वान्दश परान्पुनाति च पितामहान् |

गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः ||२३||

स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम् |

यतेन्द्रियाणामथ वा गतिरेषा विधीयते ||२४||

स्वर्गलोको गृहस्थानामुदारमनसां हितः |

स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः ||२५||

स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् |

ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते ||२६||

द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ||२६||

अतः परं परममुदारमाश्रमं; तृतीयमाहुस्त्यजतां कलेवरम् |

वनौकसां गृहपतिनामनुत्तमं; शृणुष्वैतत्क्लिष्टशरीरकारिणाम् ||२७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

236-अध्यायः

भीष्म उवाच||

प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् |

तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ||१||

क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् |

संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ||२||

श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् |

प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् ||३||

व्यास उवाच||

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः |

अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् ||४||

तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् |

तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ||५||

नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् |

तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ||६||

अकृष्टं वै व्रीहियवं नीवारं विघसानि च |

हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु ||७||

वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः |

सद्यःप्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः ||८||

वार्षिकं सञ्चयं केचित्केचिद्द्वादशवार्षिकम् |

कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये ||९||

अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः |

ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ||१०||

भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि |

स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते ||११||

दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे |

शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ||१२||

कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् |

मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ||१३||

वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः |

एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ||१४||

चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः |

वानप्रस्थो गृहस्थश्च ततोऽन्यः सम्प्रवर्तते ||१५||

अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः |

अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः ||१६||

साङ्कृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः |

अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः ||१७||

शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः |

एवन्धर्मसु विद्वांसस्ततः स्वर्गमुपागमन् ||१८||

तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः |

ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् ||१९||

अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः |

वैखानसा वालखिल्याः सिकताश्च तथापरे ||२०||

कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः |

गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ||२१||

अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः ||२१||

जरया च परिद्यूनो व्याधिना च प्रपीडितः |

चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ||२२||

सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ||२२||

आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः |

आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ||२३||

सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा |

सदैव याजिनां यज्ञादात्मनीज्या निवर्तते ||२४||

त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् |

प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् ||२५||

केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः |

आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः ||२६||

अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः |

लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ||२७||

सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते |

अरोषमोहो गतसन्धिविग्रहो; भवेदुदासीनवदात्मविन्नरः ||२८||

यमेषु चैवात्मगतेषु न व्यथे; त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः |

भवेद्यथेष्टा गतिरात्मयाजिनो; न संशयो धर्मपरे जीतेन्द्रिये ||२९||

ततः परं श्रेष्ठमतीव सद्गुणै; रधिष्ठितं त्रीनधिवृत्तमुत्तमम् |

चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम् ||३०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

237-अध्यायः

शुक उवाच||

वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा |

योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ||१||

व्यास उवाच||

प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् |

यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ||२||

कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु |

प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ||३||

तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा |

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ||४||

एकश्चरति यः पश्यन्न जहाति न हीयते |

अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ||५||

अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः |

लघ्वाशी नियताहारः सकृदन्ननिषेविता ||६||

कपालं वृक्षमूलानि कुचेलमसहायता |

उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ||७||

यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव |

न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ||८||

नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् |

ब्राह्मणानां विशेषेण नैव ब्रूयात्कथञ्चन ||९||

यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् |

तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ||१०||

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा |

शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ||११||

येन केनचिदाच्छन्नो येन केनचिदाशितः |

यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ||१२||

अहेरिव गणाद्भीतः सौहित्यान्नरकादिव |

कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ||१३||

न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः |

सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ||१४||

नाभिनन्देत मरणं नाभिनन्देत जीवितम् |

कालमेव प्रतीक्षेत निदेशं भृतको यथा ||१५||

अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा |

निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ||१६||

अभयं सर्वभूतेभ्यो भूतानामभयं यतः |

तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ||१७||

यथा नागपदेऽन्यानि पदानि पदगामिनाम् |

सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ||१८||

एवं सर्वमहिंसायां धर्मार्थमपिधीयते |

अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ||१९||

अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः |

शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ||२०||

एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः |

न मृत्युरतिगो भावः स मृत्युमधिगच्छति ||२१||

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् |

अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ||२२||

जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च |

अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ||२३||

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् |

अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ||२४||

सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति |

तेषां भयोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः ||२५||

दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्यधितिष्ठतीह |

तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ||२६||

उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा |

तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे ||२७||

प्रादेशमात्रे हृदि निश्रितं य; त्तस्मिन्प्राणानात्मयाजी जुहोति |

तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु ||२८||

दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च |

ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति ||२९||

वेदांश्च वेद्यं च विधिं च कृत्स्न; मथो निरुक्तं परमार्थतां च |

सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम् ||३०||

भूमावसक्तं दिवि चाप्रमेयं; हिरण्मयं योऽण्डजमण्डमध्ये |

पतत्रिणं पक्षिणमन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः ||३१||

आवर्तमानमजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व |

यस्येदमास्ये परियाति विश्वं; तत्कालचक्रं निहितं गुहायाम् ||३२||

यः सम्प्रसादं जगतः शरीरं; सर्वान्स लोकानधिगच्छतीह |

तस्मिन्हुतं तर्पयतीह देवां; स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ||३३||

तेजोमयो नित्यतनुः पुराणो; लोकाननन्तानभयानुपैति |

भूतानि यस्मान्न त्रसन्ते कदा चि; त्स भूतेभ्यो न त्रसते कदाचित् ||३४||

अगर्हणीयो न च गर्हतेऽन्या; न्स वै विप्रः परमात्मानमीक्षेत् |

विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च योऽर्थमृच्छति ||३५||

अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसन्धिविग्रहः |

अपेतनिन्दास्तुतिरप्रियाप्रिय; श्चरन्नुदासीनवदेष भिक्षुकः ||३६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

238-अध्यायः

व्यास उवाच||

प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः |

ते चैनं न प्रजानन्ति स तु जानाति तानपि ||१||

तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः |

सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ||२||

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः |

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ||३||

महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् |

अमृतान्न परं किञ्चित्सा काष्ठा सा परा गतिः ||४||

एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते |

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ||५||

अन्तरात्मनि संलीय मनःषष्ठानि मेधया |

इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् ||६||

ध्यानोपरमणं कृत्वा विद्यासम्पादितं मनः |

अनीश्वरः प्रशान्तात्म ततोऽर्छत्यमृतं पदम् ||७||

इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः |

आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ||८||

हित्वा तु सर्वसङ्कल्पान्सत्त्वे चित्तं निवेशयेत् |

सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ||९||

चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम् |

प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ||१०||

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् |

निवाते वा यथा दीपो दीप्यमानो न कम्पते ||११||

एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना |

सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि ||१२||

रहस्यं सर्ववेदानामनैतिह्यमनागमम् |

आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ||१३||

धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु |

दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ||१४||

नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च |

तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ||१५||

स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ||१५||

तदिदं नाप्रशान्ताय नादान्तायातपस्विने |

नावेदविदुषे वाच्यं तथा नानुगताय च ||१६||

नासूयकायानृजवे न चानिर्दिष्टकारिणे |

न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ||१७||

श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने |

इदं प्रियाय पुत्राय शिष्यायानुगताय च ||१८||

रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ||१८||

यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः |

इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ||१९||

अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् |

यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ||२०||

तत्तेऽहं सम्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

239-अध्यायः

शुक उवाच||

अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे |

यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम ||१||

व्यास उवाच||

अध्यात्मं यदिदं तात पुरुषस्येह विद्यते |

तत्तेऽहं सम्प्रवक्ष्यामि तस्य व्याख्यामिमां शृणु ||२||

भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च |

महाभूतानि भूतानां सागरस्योर्मयो यथा ||३||

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः |

तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ||४||

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् |

सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा ||५||

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् |

अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ||६||

शुक उवाच||

अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् |

इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ||७||

व्यास उवाच||

एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् |

शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् ||८||

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् |

प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ||९||

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते |

रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् ||१०||

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः |

एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ||११||

वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते |

आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ||१२||

मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः |

न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ||१३||

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते |

सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ||१४||

चक्षुरालोचनायैव संशयं कुरुते मनः |

बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ||१५||

रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः |

समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् ||१६||

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति |

एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ||१७||

यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति |

एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा ||१८||

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि |

मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ||१९||

तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् |

प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् ||२०||

यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् |

रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् ||२१||

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् |

अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ||२२||

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता |

अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः ||२३||

अभिमानो मृषावादो लोभो मोहस्तथाक्षमा |

लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ||२४||

तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता |

कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

240-अध्यायः

व्यास उवाच||

मनः प्रसृजते भावं बुद्धिरध्यवसायिनी |

हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना ||१||

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः |

मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ||२||

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका |

यदा विकुरुते भावं तदा भवति सा मनः ||३||

इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु |

शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ||४||

पश्यन्ती भवते दृष्टी रसती रसनं भवेत् |

जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ||५||

इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति |

तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ||६||

कदाचिल्लभते प्रीतिं कदाचिदपि शोचते |

न सुखेन न दुःखेन कदाचिदिह युज्यते ||७||

सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते |

सरितां सागरो भर्ता महावेलामिवोर्मिमान् ||८||

यदा प्रार्थयते किञ्चित्तदा भवति सा मनः |

अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् ||९||

इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः ||९||

सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते |

अविभागगता बुद्धिर्भावे मनसि वर्तते ||१०||

प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते ||१०||

ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु |

अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव ||११||

प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः |

निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ||१२||

एवंस्वभावमेवेदमिति विद्वान्न मुह्यति |

अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ||१३||

न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः |

प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः ||१४||

तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति |

तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् ||१५||

सर्वेषामेव भूतानां तमस्यपगते यथा ||१५||

यथा वारिचरः पक्षी न लिप्यति जले चरन् |

एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ||१६||

असज्जमानः सर्वेषु न कथञ्चन लिप्यते ||१६||

त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि |

सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः ||१७||

सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न |

न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ||१८||

परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् |

सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ||१९||

सृजते तु गुणानेक एको न सृजते गुणान् |

पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा ||२०||

यथा मत्स्योऽद्भिरन्यः सन्सम्प्रयुक्तौ तथैव तौ |

मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सह ||२१||

इषीका वा यथा मुञ्जे पृथक्च सह चैव च |

तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

241-अध्यायः

व्यास उवाच||

सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति |

गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ||१||

स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् |

ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ||२||

प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते |

एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ||३||

उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति |

अनेनैव विधानेन भवेद्गर्भशयो महान् ||४||

अनादिनिधनं नित्यमासाद्य विचरेन्नरः |

अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ||५||

इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् |

अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ||६||

तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः |

अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ||७||

न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् |

एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ||८||

एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् |

समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् ||९||

एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः |

आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ||१०||

एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् |

विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ||११||

न भवति विदुषां महद्भयं; यदविदुषां सुमहद्भयं भवेत् |

न हि गतिरधिकास्ति कस्य चि; द्भवति हि या विदुषः सनातनी ||१२||

लोकमातुरमसूयते जन; स्तत्तदेव च निरीक्ष्य शोचते |

तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं कृताकृतम् ||१३||

यत्करोत्यनभिसन्धिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् |

न प्रियं तदुभयं न चाप्रियं; तस्य तज्जनयतीह कुर्वतः ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

242-अध्यायः

शुक उवाच||

यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन |

यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे ||१||

व्यास उवाच||

धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिसंस्तुतम् |

विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु ||२||

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः |

सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् ||३||

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः |

तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ||४||

तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया |

आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् ||५||

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि |

तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम् ||६||

सर्वात्मानं महात्मानं विधूममिव पावकम् |

तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ||७||

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः |

आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ||८||

एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम् |

अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति ||९||

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना |

दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित् ||१०||

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः |

परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः ||११||

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् |

पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ||१२||

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् |

सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ||१३||

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः |

प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् ||१४||

संसारसागरगमां योनिपातालदुस्तराम् |

आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् ||१५||

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः |

तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः ||१६||

उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि |

सन्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः ||१७||

भूमिष्ठानीव भूतानि पर्वतस्थो निशामय |

अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा ||१८||

ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ ||१८||

एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः |

धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः ||१९||

आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् |

प्रयताय प्रवक्तव्यं हितायानुगताय च ||२०||

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् |

अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा ||२१||

नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् |

अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ||२२||

नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् |

अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते ||२३||

यथा मतानि सर्वाणि न चैतानि यथा तथा |

कथितानि मया पुत्र भवन्ति न भवन्ति च ||२४||

तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन |

पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत् ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

243-अध्यायः

व्यास उवाच||

गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालङ्कारांश्चाप्नुयात्तस्य तस्य |

मानं च कीर्तिं च यशश्च नेच्छे; त्स वै प्रचारः पश्यतो ब्राह्मणस्य ||१||

सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् |

ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः ||२||

ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् |

नाकामो म्रियते जातु न तेन न च ब्राह्मणः ||३||

इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् |

नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथञ्चन ||४||

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति |

यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ||५||

यदा न कुरुते भावं सर्वभूतेषु पापकम् |

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||६||

कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् |

कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ||७||

कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः |

विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ||८||

आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् |

स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही ||९||

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |

दमस्योपनिषद्दानं दानस्योपनिषत्तपः ||१०||

तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् |

सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः ||११||

क्लेदनं शोकमनसोः सन्तापं तृष्णया सह |

सत्त्वमिच्छसि सन्तोषाच्छान्तिलक्षणमुत्तमम् ||१२||

विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः |

षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ||१३||

षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः |

ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः ||१४||

अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् |

अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते ||१५||

निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः |

यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा ||१६||

येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् |

येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ||१७||

सङ्गोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् |

यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ||१८||

समाहितं परे तत्त्वे क्षीणकाममवस्थितम् |

सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ||१९||

सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः |

सुखेनापोह्यते दुःखं भास्करेण तमो यथा ||२०||

तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् |

ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ||२१||

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते |

इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ||२२||

कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् |

पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम् ||२३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

244-अध्यायः

व्यास उवाच||

द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः |

वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ||१||

आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी |

भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ||२||

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् |

तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् ||३||

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ |

स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ||४||

ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् |

तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् ||५||

प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते |

रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ||६||

सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च |

श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च ||७||

इन्द्रियं घ्राणसञ्ज्ञानं नासिकेत्यभिधीयते |

गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ||८||

उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः |

पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः ||९||

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता |

एकादशोऽन्तरात्मा च सर्वतः पर उच्यते ||१०||

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् |

कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसञ्ज्ञकः ||११||

एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम् |

पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते ||१२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

245-अध्यायः

व्यास उवाच||

शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् |

कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ||१||

यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः |

देहैर्विमुक्ता विचरन्ति लोकां; स्तथैव सत्त्वान्यतिमानुषाणि ||२||

प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते |

सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति ||३||

तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः |

स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः ||४||

स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् |

प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः ||५||

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि |

वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् ||६||

तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः |

सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ||७||

मनोबुद्धिपराभूतः स्वदेहपरदेहवित् |

स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ||८||

तत्रापि लभते दुःखं तत्रापि लभते सुखम् |

क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति ||९||

प्रीणितश्चापि भवति महतोऽर्थानवाप्य च |

करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ||१०||

तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् |

तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ||११||

शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः |

अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि ||१२||

पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु |

समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् ||१३||

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् |

प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति ||१४||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

246-अध्यायः

व्यास उवाच||

हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः |

क्रोधमानमहास्कन्धो विवित्सापरिमोचनः ||१||

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् |

सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् ||२||

संमोहचिन्ताविटपः शोकशाखो भयङ्करः |

मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः ||३||

उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः |

आयासैः संयतः पाशैः फलानि परिवेष्टयन् ||४||

यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति |

गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः ||५||

संरोहत्यकृतप्रज्ञः सन्तापेन हि पादपम् |

स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम् ||६||

तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात् |

त्यागाप्रमादाकृतिना साम्येन परमासिना ||७||

एवं यो वेद कामस्य केवलं परिकर्षणम् |

वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते ||८||

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते |

तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ||९||

इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः |

तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा ||१०||

यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः |

अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ||११||

तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते |

पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः ||१२||

यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति |

यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ||१३||

पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् |

तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते ||१४||

तन्मनः कुरुते सख्यं रजसा सह सङ्गतम् |

तं चादाय जनं पौरं रजसे सम्प्रयच्छति ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

247-अध्यायः

भीष्म उवाच||

भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय |

द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ ||१||

दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे |

ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ||२||

भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता |

गन्धो गुरुत्वं शक्तिश्च सङ्घातः स्थापना धृतिः ||३||

अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता |

जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा ||४||

अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् |

शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता ||५||

वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता |

बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः ||६||

आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च |

अनाश्रयमनालम्बमव्यक्तमविकारिता ||७||

अप्रतीघातता चैव भूतत्वं विकृतानि च |

गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः ||८||

चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा |

सदसच्चाशुता चैव मनसो नव वै गुणाः ||९||

इष्टानिष्टविकल्पश्च व्यवसायः समाधिता |

संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः ||१०||

युधिष्ठिर उवाच||

कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः |

एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ||११||

भीष्म उवाच||

आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः |

भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति ||१२||

तत्पुत्र चिन्ताकलितं यदुक्त; मनागतं वै तव सम्प्रतीह |

भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तबुद्धिः ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

248-अध्यायः

(अविकम्पनारदसंवादे) मृत्यूत्पत्तिः

युधिष्ठिर उवाच||

य इमे पृथिवीपालाः शेरते पृथिवीतले |

पृतनामध्य एते हि गतसत्त्वा महाबलाः ||१||

एकैकशो भीमबला नागायुतबलास्तथा |

एते हि निहताः सङ्ख्ये तुल्यतेजोबलैर्नरैः ||२||

नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा |

विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः ||३||

अथ चेमे महाप्राज्ञ शेरते हि गतासवः |

मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ||४||

इमे मृता नृपतयः प्रायशो भीमविक्रमाः |

तत्र मे संशयो जातः कुतः सञ्ज्ञा मृता इति ||५||

कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः |

हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ||६||

भीष्म उवाच||

पुरा कृतयुगे तात राजासीदविकम्पकः |

स शत्रुवशमापन्नः सङ्ग्रामे क्षीणवाहनः ||७||

तत्र पुत्रो हरिर्नाम नारायणसमो बले |

स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ||८||

स राजा शत्रुवशगः पुत्रशोकसमन्वितः |

यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् ||९||

स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः |

शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ||१०||

तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः |

आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ||११||

राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम् |

यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप ||१२||

प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः |

अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ||१३||

न ह्यन्तरमभूत्किञ्चित्क्वचिज्जन्तुभिरच्युत |

निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ||१४||

तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते |

चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ||१५||

तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत |

तेन सर्वा दिशो राजन्ददाह स पितामहः ||१६||

ततो दिवं भुवं खं च जगच्च सचराचरम् |

ददाह पावको राजन्भगवत्कोपसम्भवः ||१७||

तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च |

महता कोपवेगेन कुपिते प्रपितामहे ||१८||

ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः |

जगाद शरणं देवो ब्रह्माणं परवीरहा ||१९||

तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया |

अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ||२०||

करवाण्यद्य कं कामं वरार्होऽसि मतो मम |

कर्ता ह्यस्मि प्रियं शम्भो तव यद्धृदि वर्तते ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

249-अध्यायः

स्थाणुरुवाच||

प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो |

विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ||१||

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः |

ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ||२||

प्रजापतिरुवाच||

न कुप्ये न च मे कामो न भवेरन्प्रजा इति |

लाघवार्थं धरण्यास्तु ततः संहार इष्यते ||३||

इयं हि मां सदा देवी भारार्ता समचोदयत् |

संहारार्थं महादेव भारेणाप्सु निमज्जति ||४||

यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् |

संहारमासां वृद्धानां ततो मां क्रोध आविशत् ||५||

स्थाणुरुवाच||

संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर |

मा प्रजाः स्थावरं वैच जङ्गमं च विनीनशः ||६||

पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् |

स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ||७||

तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् |

प्रसीद भगवन्साधो वर एष वृतो मया ||८||

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन |

तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा ||९||

उपायमन्यं सम्पश्य प्रजानां हितकाम्यया |

यथेमे जन्तवः सर्वे निवर्तेरन्परन्तप ||१०||

अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः |

अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर ||११||

त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम् |

प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ||१२||

नारद उवाच||

श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः |

तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना ||१३||

ततोऽग्निमुपसङ्गृह्य भगवाँल्लोकपूजितः |

प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ||१४||

उपसंहरतस्तस्य तमग्निं रोषजं तदा |

प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ||१५||

कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा |

दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता ||१६||

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् |

ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ ||१७||

तामाहूय तदा देवो लोकानामादिरीश्वरः |

मृत्यो इति महीपाल जहि चेमाः प्रजा इति ||१८||

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च |

तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ||१९||

अविशेषेण चैव त्वं प्रजाः संहर भामिनि |

मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ||२०||

एवमुक्ता तु सा देवी मृत्युः कमलमालिनी |

प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि ||२१||

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः |

मानवानां हितार्थाय ययाचे पुनरेव च ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

250-अध्यायः

नारद उवाच||

विनीय दुःखमबला सा त्वतीवायतेक्षणा |

उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ||१||

त्वया सृष्टा कथं नारी मादृशी वदतां वर |

रौद्रकर्माभिजायेत सर्वप्राणिभयङ्करी ||२||

बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे |

त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ||३||

बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः |

प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ||४||

प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि |

अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ||५||

कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः |

तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ||६||

यमस्य भवने देव यात्यन्ते पापकर्मिणः |

प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ||७||

एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह |

इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ||८||

पितामह उवाच||

मृत्यो सङ्कल्पिता मे त्वं प्रजासंहारहेतुना |

गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ||९||

एतदेवमवश्यं हि भविता नैतदन्यथा |

क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ||१०||

नारद उवाच||

एवमुक्ता महाबाहो मृत्युः परपुरञ्जय |

न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ||११||

पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी |

तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ||१२||

प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् |

स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ||१३||

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते |

सा कन्यापजगामास्य समीपादिति नः श्रुतम् ||१४||

अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा |

त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ||१५||

सा तत्र परमं देवी तपोऽचरत दुश्चरम् |

समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ||१६||

तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् |

पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ||१७||

कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा |

तथैवैकपदे तात पुनरन्यानि सप्त सा ||१८||

तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद |

भूयः पद्मायुतं तात मृगैः सह चचार सा ||१९||

पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् |

अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ||२०||

ततो जगाम सा कन्या कौशिकीं भरतर्षभ |

तत्र वायुजलाहारा चचार नियमं पुनः ||२१||

ततो ययौ महाभागा गङ्गां मेरुं च केवलम् |

तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ||२२||

ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे |

तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ||२३||

तस्थौ पितामहं चैव तोषयामास यत्नतः ||२३||

ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः |

किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ||२४||

ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् |

न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ||२५||

तामधर्मभयत्रस्तां पुनरेव च याचतीम् |

तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ||२६||

अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे |

मया ह्युक्तं मृषा भद्रे भविता नेह किञ्चन ||२७||

धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते |

अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ||२८||

इममन्यं च ते कामं ददामि मनसेप्सितम् |

न त्वा दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः ||२९||

पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि |

स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ||३०||

सैवमुक्ता महाराज कृताञ्जलिरुवाच ह |

पुनरेव महात्मानं नेति देवेशमव्ययम् ||३१||

तामब्रवीत्तदा देवो मृत्यो संहर मानवान् |

अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ||३२||

यानश्रुबिन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात् |

ते व्याधयो मानवान्घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो ||३३||

सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजयेथाः |

एवं धर्मस्त्वामुपैष्यत्यमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः ||३४||

एवं धर्मं पालयिष्यस्यथोक्तं; न चात्मानं मज्जयिष्यस्यधर्मे |

तस्मात्कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून् ||३५||

सा वै तदा मृत्युसञ्ज्ञापदेशा; च्छापाद्भीता बाढमित्यब्रवीत्तम् |

अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति ||३६||

मृत्योर्ये ते व्याधयश्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् |

सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ||३७||

सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव |

एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह ||३८||

वायुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः |

नानावृत्तिर्देहिनां देहभेदे; तस्माद्वायुर्देवदेवो विशिष्टः ||३९||

सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टाः; सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः |

तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह ||४०||

एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् |

तस्याश्चैव व्याधयस्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

251-अध्यायः

युधिष्ठिर उवाच||

इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः |

कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ||१||

धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् |

उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह ||२||

भीष्म उवाच||

सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् |

चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ||३||

अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे |

लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ||४||

उभयत्र सुखोदर्क इह चैव परत्र च ||४||

अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति |

न च पापकृतः पापान्मुच्यन्ते केचिदापदि ||५||

अपापवादी भवति यदा भवति धर्मवित् |

धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ||६||

यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः |

रमते निर्हरन्स्तेनः परवित्तमराजके ||७||

यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति |

तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ||८||

अभीतः शुचिरभ्येति राजद्वारमशङ्कितः |

न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति ||९||

सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |

सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ||१०||

अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् |

अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ||११||

ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ||११||

न हर्तव्यं परधनमिति धर्मः सनातनः |

मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम् ||१२||

यदा नियतिदौर्बल्यमथैषामेव रोचते ||१२||

न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा |

तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन ||१३||

असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः |

न किञ्चित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ||१४||

सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् |

बहुधाचरितं पापमन्यत्रैवानुपश्यति ||१५||

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा |

न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति ||१६||

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः |

तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम् ||१७||

यदा नियतिकार्पण्यमथैषामेव रोचते |

न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ||१८||

यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः |

न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ||१९||

योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति |

यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ||२०||

जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् |

यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ||२१||

अतिरिक्तैः संविभजेद्भोगैरन्यानकिञ्चनान् |

एतस्मात्कारणाद्धात्रा कुसीदं सम्प्रवर्तितम् ||२२||

यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत् |

अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ||२३||

सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः |

पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ||२४||

लोकसङ्ग्रहसंयुक्तं विधात्रा विहितं पुरा |

सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ||२५||

धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम |

तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

252-अध्यायः

युधिष्ठिर उवाच||

सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् |

प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः ||१||

भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया |

इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव ||२||

इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च |

न धर्मः परिपाठेन शक्यो भारत वेदितुम् ||३||

अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः |

आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ||४||

सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः |

साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् ||५||

दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् |

धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ||६||

पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः |

वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम् ||७||

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे |

अन्ये कलियुगे धर्मा यथाशक्तिकृता इव ||८||

आम्नायवचनं सत्यमित्ययं लोकसङ्ग्रहः |

आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः ||९||

ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते |

प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ||१०||

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः |

या या विक्रियते संस्था ततः सापि प्रणश्यति ||११||

विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा |

अणीयान्क्षुरधाराया गरीयान्पर्वतादपि ||१२||

गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते |

अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् ||१३||

निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत |

स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते ||१४||

कामादन्ये क्षयादन्ये कारणैरपरैस्तथा |

असन्तो हि वृथाचारं भजन्ते बहवोऽपरे ||१५||

धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु |

अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत ||१६||

महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः |

न हि सर्वहितः कश्चिदाचारः सम्प्रदृश्यते ||१७||

तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः |

दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया ||१८||

येनैवान्यः प्रभवति सोऽपरानपि बाधते |

आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् ||१९||

चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः |

तेनाचारेण पूर्वेण संस्था भवति शाश्वती ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

253-अध्यायः

तुलाधारजाजलिसंवादः

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ||१||

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः |

सागरोद्देशमागम्य तपस्तेपे महातपाः ||२||

नियतो नियताहारश्चीराजिनजटाधरः |

मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ||३||

स कदाचिन्महातेजा जलवासो महीपते |

चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ||४||

स चिन्तयामास मुनिर्जलमध्ये कदाचन |

विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ||५||

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे |

अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ||६||

स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः |

अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि ||७||

तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः |

सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ||८||

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः |

पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ||९||

इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् |

अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम ||१०||

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा |

वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः ||११||

युधिष्ठिर उवाच||

किं कृतं सुकृतं कर्म तात जाजलिना पुरा |

येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि ||१२||

भीष्म उवाच||

अतीव तपसा युक्तो घोरेण स बभूव ह |

नद्युपस्पर्शनरतः सायं प्रातर्महातपाः ||१३||

अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः |

वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया ||१४||

सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत |

वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः ||१५||

वतातपसहो ग्रीष्मे न च धर्ममविन्दत |

दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ||१६||

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः |

अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः ||१७||

अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो |

अरण्यगमनान्नित्यं मलिनो मलसंयुताः ||१८||

स कदाचिन्निराहारो वायुभक्षो महातपाः |

तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ||१९||

तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत |

कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ||२०||

स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती |

कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः ||२१||

यदा स न चलत्येव स्थाणुभूतो महातपाः |

ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा ||२२||

अतीतास्वथ वर्षासु शरत्काल उपस्थिते |

प्राजापत्येन विधिना विश्वासात्काममोहितौ ||२३||

तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ |

तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ||२४||

बुद्ध्वा च स महातेजा न चचालैव जाजलिः |

धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् ||२५||

अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि |

आश्वासितौ वै वसतः सम्प्रहृष्टौ तदा विभो ||२६||

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः |

व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ||२७||

स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः |

तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ||२८||

ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः |

बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् ||२९||

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः |

बभूव परमप्रीतस्तदा मतिमतां वरः ||३०||

तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् |

शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ||३१||

जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् |

सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः ||३२||

कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम् |

त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः ||३३||

अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप |

उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ||३४||

कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः |

षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ||३५||

क्रमेण च पुनः सर्वे दिवसानि बहून्यपि |

नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा ||३६||

कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः |

नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ||३७||

ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः |

सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् ||३८||

स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः |

सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाभवन् ||३९||

स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् |

उदयन्तमथादित्यमभ्यगच्छन्महातपाः ||४०||

सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः |

आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै ||४१||

अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः |

धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ||४२||

वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः |

सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ||४३||

सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया |

पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः ||४४||

कालेन महतागच्छत्स तु वाराणसीं पुरीम् |

विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ||४५||

सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः |

समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ||४६||

तुलाधार उवाच||

आयानेवासि विदितो मम ब्रह्मन्न संशयः |

ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ||४७||

सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् |

न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन ||४८||

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः |

क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया ||४९||

जातपक्षा यदा ते च गताश्चारीमितस्ततः |

मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ||५०||

खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ||५०||

अमर्षवशमापन्नस्ततः प्राप्तो भवानिह |

करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ||५१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

254-अध्यायः

भीष्म उवाच||

इत्युक्तः स तदा तेन तुलाधारेण धीमता |

प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः ||१||

विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज |

वनस्पतीनोषधीश्च तेषां मूलफलानि च ||२||

अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम् |

एतदाचक्ष्व मे सर्वं निखिलेन महामते ||३||

एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना |

उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ||४||

जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप ||४||

वेदाहं जाजले धर्मं सरहस्यं सनातनम् |

सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ||५||

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः |

या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ||६||

परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् |

अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ||७||

रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून् |

क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ||८||

सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः |

कर्मणा मनसा वाचा स धर्मं वेद जाजले ||९||

नाहं परेषां कर्माणि प्रशंसामि शपामि वा |

आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम् ||१०||

नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये |

समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् ||११||

इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः |

तुला मे सर्वभूतेषु समा तिष्ठति जाजले ||१२||

इति मां त्वं विजानीहि सर्वलोकस्य जाजले |

समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ||१३||

यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा |

देवैरपिहितद्वाराः सोपमा पश्यतो मम ||१४||

यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति |

तथार्थकामभोगेषु ममापि विगता स्पृहा ||१५||

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति |

यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः ||१६||

यदा न कुरुते भावं सर्वभूतेषु पापकम् |

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||१७||

न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन |

योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ||१८||

यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव |

वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् ||१९||

यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् |

अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् ||२०||

प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः |

तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते ||२१||

आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् |

एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ||२२||

नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया |

यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित् ||२३||

तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः |

तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया ||२४||

एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ||२४||

यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन |

अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ||२५||

यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव |

क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ||२६||

सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा |

ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ||२७||

कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ||२७||

तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा |

प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ||२८||

लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् |

स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ||२९||

न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन ||२९||

यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन |

सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने ||३०||

यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव |

न स धर्ममवाप्नोति इह लोके परत्र च ||३१||

सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः |

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||३२||

दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् |

ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले ||३३||

स एव सुभगो भूत्वा पुनर्भवति दुर्भगः |

व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ||३४||

अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले |

भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ||३५||

सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः |

उपलभ्यान्तरा चान्यानाचारानवबुध्यते ||३६||

ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् |

वहन्ति महतो भारान्बध्नन्ति दमयन्ति च ||३७||

हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे |

मानुषा मानुषानेव दासभोगेन बुञ्जते ||३८||

वधबन्धविरोधेन कारयन्ति दिवानिशम् |

आत्मना चापि जानासि यद्दुःखं वधताडने ||३९||

पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् |

आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः ||४०||

तानि जीवानि विक्रीय का मृतेषु विचारणा |

का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा ||४१||

अदंशमशके देशे सुखं संवर्धितान्पशून् |

तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ||४२||

बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् ||४२||

वाहसम्पीडिता धुर्याः सीदन्त्यविधिनापरे |

न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा ||४३||

कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा |

भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ||४४||

तथैवानडुहो युक्तान्समवेक्षस्व जाजले ||४४||

अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति |

महच्चकाराकुशलं पृषध्रो गालभन्निव ||४५||

ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् |

गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् ||४६||

अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् ||४६||

शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् |

ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले ||४७||

भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः ||४७||

इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः |

ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् ||४८||

ईदृशानशिवान्घोरानाचारानिह जाजले |

केवलाचरितत्वात्तु निपुणान्नावबुध्यसे ||४९||

कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत् |

यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले ||५०||

समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये |

एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ||५१||

उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते |

सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

255-अध्यायः

जाजलिरुवाच||

यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया |

स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ||१||

कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि |

पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ||२||

यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि |

न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम् ||३||

तुलाधार उवाच||

वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः |

न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः ||४||

नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः |

स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः ||५||

लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः सम्प्रवर्तितम् |

वेदवादानविज्ञाय सत्याभासमिवानृतम् ||६||

इदं देयमिदं देयमिति नान्तं चिकीर्षति |

अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ||७||

तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः ||७||

नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा |

पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् ||८||

इष्टापूर्तादसाधूनां विषमा जायते प्रजा |

लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ||९||

यजमानो यथात्मानमृत्विजश्च तथा प्रजाः |

यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ||१०||

अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति |

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ||११||

तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे |

अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् ||१२||

न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किञ्चन ||१२||

शङ्कमानाः फलं यज्ञे ये यजेरन्कथञ्चन |

जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः ||१३||

स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा |

प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः ||१४||

पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ||१४||

कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् |

ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः ||१५||

विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम |

सर्वभूतोपघातश्च फलभावे च संयमः ||१६||

सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः |

उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ||१७||

क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः |

ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि ||१८||

अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् |

तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले ||१९||

यथा सर्वरसैस्तृप्तो नाभिनन्दति किञ्चन |

तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया ||२०||

धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा |

अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः ||२१||

ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः |

अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् ||२२||

यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च |

ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः ||२३||

नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः |

सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ||२४||

वनस्पतीनोषधीश्च फलमूलं च ते विदुः |

न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः ||२५||

स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः |

परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया ||२६||

प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै |

इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ||२७||

प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ |

तेन ते देवयानेन पथा यान्ति महामुने ||२८||

आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् |

उभौ तौ देवयानेन गच्छतो जाजले पथा ||२९||

स्वयं चैषामनडुहो युज्यन्ति च वहन्ति च |

स्वयमुस्राश्च दुह्यन्ते मनःसङ्कल्पसिद्धिभिः ||३०||

स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः |

यस्तथाभावितात्मा स्यात्स गामालब्धुमर्हति ||३१||

ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः |

बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते ||३२||

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् |

अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ||३३||

नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च |

ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले ||३४||

इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ||३४||

जाजलिरुवाच||

न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टमेतत् |

पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तमृषयः स्थापयन्ति ||३५||

अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् |

अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम् ||३६||

शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ||३६||

तुलाधार उवाच||

उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित् |

आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः ||३७||

वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् ||३७||

पत्नीं चानेन विधिना प्रकरोति नियोजयन् |

पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते ||३८||

सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः |

जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव ||३९||

एतानीदृशकान्धर्मानाचरन्निह जाजले |

कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् ||४०||

भीष्म उवाच||

एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति |

उपपत्त्या हि सम्पन्नान्नित्यं सद्भिर्निषेवितान् ||४१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

256-अध्यायः

तुलाधार उवाच||

सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः |

प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ||१||

एते शकुन्ता बहवः समन्ताद्विचरन्ति हि |

तवोत्तमाङ्गे सम्भूताः श्येनाश्चान्याश्च जातयः ||२||

आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः |

पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः ||३||

सम्भावयन्ति पितरं त्वया सम्भाविताः खगाः |

असंशयं पिता च त्वं पुत्रानाह्वय जाजले ||४||

भीष्म उवाच||

ततो जाजलिना तेन समाहूताः पतत्रिणः |

वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल ||५||

अहिंसादिकृतं कर्म इह चैव परत्र च |

स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम् ||६||

श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति |

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ||७||

शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः |

देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि ||८||

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः |

मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ||९||

प्रजापतिस्तानुवाच विषमं कृतमित्युत |

श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ||१०||

भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ||१०||

अश्रद्दधान एवैको देवानां नार्हते हविः |

तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ||११||

अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी |

जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ||१२||

ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह |

निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ||१३||

किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना |

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१४||

इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः |

वयं जिज्ञासमानास्त्वा सम्प्राप्ता धर्मदर्शनात् ||१५||

स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् |

श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः ||१६||

स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले ||१६||

एवं बहुमतार्थं च तुलाधारेण भाषितम् |

सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ||१७||

तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः |

तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ||१८||

ततोऽचिरेण कालेन तुलाधारः स एव च |

दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् ||१९||

स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् ||१९||

समानां श्रद्दधानानां संयतानां सुचेतसाम् |

कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ||२०||

श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप |

सावित्री प्रसवित्री च जीवविश्वासिनी तथा ||२१||

वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत |

यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ||२२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

257-अध्यायः

विचख्नुगीता

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ||१||

छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् |

गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ||२||

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् |

हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ||३||

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः |

संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ||४||

सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् |

कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ||५||

तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता |

अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ||६||

उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः |

आचार इत्यनाचाराः कृपणाः फलहेतवः ||७||

यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः |

वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ||८||

मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् |

धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ||९||

कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् |

विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ||१०||

पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ||१०||

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः |

यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ||११||

महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ||११||

युधिष्ठिर उवाच||

शरीरमापदश्चापि विवदन्त्यविहिंसतः |

कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ||१२||

भीष्म उवाच||

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा |

तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ||१३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.