शान्तिपर्वम् अध्यायः 327-353

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

327-अध्यायः

जनमेजय उवाच||

कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः |

यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ||१||

निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः |

प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ||२||

कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः |

कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ||३||

एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् |

त्वया नारायणकथा श्रुता वै धर्मसंहिता ||४||

इमे सब्रह्मका लोकाः ससुरासुरमानवाः |

क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ||५||

मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ||५||

ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः |

ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ||६||

अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः |

यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ||७||

किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः |

सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ||८||

आकाशं जगती चैव ये च शेषा दिवौकसः ||८||

प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् |

ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् ||९||

स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः |

दोषः कालपरीमाणे महानेष क्रियावताम् ||१०||

एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् |

छिन्धीतिहासकथनात्परं कौतूहलं हि मे ||११||

कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज |

किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ||१२||

ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम |

ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ||१३||

वैशम्पायन उवाच||

अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर |

नातप्ततपसा ह्येष नावेदविदुषा तथा ||१४||

नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ||१४||

हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः |

कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ||१५||

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः |

अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ||१६||

एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् |

शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ||१७||

वेदानध्यापयामास महाभारतपञ्चमान् |

मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ||१८||

तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् |

एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ||१९||

ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ||१९||

शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः |

पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह ||२०||

मया हि सुमहत्तप्तं तपः परमदारुणम् |

भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः ||२१||

तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च |

नारायणप्रसादेन क्षीरोदस्यानुकूलतः ||२२||

त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् |

तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् ||२३||

यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ||२३||

परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः |

महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा ||२४||

तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः |

अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ||२५||

अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते |

योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ||२६||

सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ||२६||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

अहङ्कारप्रसूतानि महाभूतानि भारत ||२७||

महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः |

भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ||२८||

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः |

वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा ||२९||

ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ||२९||

वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् |

निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ||३०||

अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ||३०||

रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् |

एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ||३१||

ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः |

उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ||३२||

वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना |

येन यस्मिन्नधीकारे वर्तितव्यं पितामह ||३३||

योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः |

परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ||३४||

प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः |

एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ||३५||

साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः |

ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ||३६||

लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः |

कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे ||३७||

इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् |

महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ||३८||

ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा |

क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ||३९||

ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् |

स महानियमो नाम तपश्चर्या सुदारुणा ||४०||

ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् |

एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ||४१||

दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् |

शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ||४२||

भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः |

स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ||४३||

विज्ञातं वो मया कार्यं तच्च लोकहितं महत् |

प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ||४४||

सुतप्तं वस्तपो देवा ममाराधनकाम्यया |

भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ||४५||

एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः |

यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ||४६||

सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः |

तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः ||४७||

श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः |

ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ||४८||

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् |

तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ||४९||

देवा देवर्षयश्चैव सर्वे भागानकल्पयन् ||४९||

ते कार्तयुगधर्माणो भागाः परमसत्कृताः |

प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ||५०||

बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ||५०||

ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् |

अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ||५१||

येन यः कल्पितो भागः स तथा समुपागतः |

प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ||५२||

एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् |

यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ||५३||

युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ||५३||

यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः |

कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ||५४||

यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ |

स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ||५५||

यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः |

सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ||५६||

याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः |

ताभिराप्यायितबला लोकान्वै धारयिष्यथ ||५७||

यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः |

मां ततो भावयिष्यध्वमेषा वो भावना मम ||५८||

इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह |

एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ||५९||

निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् |

मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति ||६०||

चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ||६०||

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः |

वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ||६१||

एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः |

प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ||६२||

अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः |

अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ||६३||

सनः सनत्सुजातश्च सनकः ससनन्दनः |

सनत्कुमारः कपिलः सप्तमश्च सनातनः ||६४||

सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः |

स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः ||६५||

एते योगविदो मुख्याः साङ्ख्यधर्मविदस्तथा |

आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ||६६||

यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् |

तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः ||६७||

सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ||६७||

यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि |

प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ||६८||

एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः |

एष माता पिता चैव युष्माकं च पितामहः ||६९||

मयानुशिष्टो भविता सर्वभूतवरप्रदः ||६९||

अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः |

ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ||७०||

गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि |

प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ||७१||

प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा |

परिनिर्मितकालानि आयूंषि च सुरोत्तमाः ||७२||

इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते |

अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा ||७३||

चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ||७३||

ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति |

प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ||७४||

तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ||७४||

ततो वै द्वापरं नाम मिश्रः कालो भविष्यति |

द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ||७५||

ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते |

एकपादस्थितो धर्मो यत्र तत्र भविष्यति ||७६||

देवा ऊचुः||

एकपादस्थिते धर्मे यत्रक्वचनगामिनि |

कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ||७७||

श्रीभगवानुवाच||

यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा |

अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ||७८||

स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ||७८||

व्यास उवाच||

तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा |

नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ||७९||

गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः |

दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ||८०||

तं देवो दर्शयामास कृत्वा हयशिरो महत् |

साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् ||८१||

ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् |

लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ||८२||

मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः |

स परिष्वज्य देवेन वचनं श्रावितस्तदा ||८३||

लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि |

धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ||८४||

त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ||८४||

यदा च सुरकार्यं ते अविषह्यं भविष्यति |

प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ||८५||

एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत |

तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ||८६||

एवमेष महाभागः पद्मनाभः सनातनः |

यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ||८७||

निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् |

प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ||८८||

स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् |

युगान्ते स सुप्तः सुसङ्क्षिप्य लोका; न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ||८९||

तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने |

अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ||९०||

महाभूताधिपतये रुद्राणां पतये तथा |

आदित्यपतये चैव वसूनां पतये तथा ||९१||

अश्विभ्यां पतये चैव मरुतां पतये तथा |

वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ||९२||

समुद्रवासिने नित्यं हरये मुञ्जकेशिने |

शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ||९३||

तपसां तेजसां चैव पतये यशसोऽपि च |

वाचश्च पतये नित्यं सरितां पतये तथा ||९४||

कपर्दिने वराहाय एकशृङ्गाय धीमते |

विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ||९५||

गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च |

एष देवः सञ्चरति सर्वत्रगतिरव्ययः ||९६||

एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा |

कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः ||९७||

क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः |

गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ||९८||

वैशम्पायन उवाच||

इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता |

सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् ||९९||

स चास्माकमुपाध्यायः सहास्माभिर्विशां पते |

चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ||१००||

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |

एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ||१०१||

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् |

नमो भगवते कृत्वा समाहितमना नरः ||१०२||

भवत्यरोगो द्युतिमान्बलरूपसमन्वितः |

आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ||१०३||

कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् |

ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ||१०४||

वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ||१०४||

अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् |

लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ||१०५||

वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ||१०५||

क्षेमेण गच्छेदध्वानमिदं यः पठते पथि |

यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ||१०६||

इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् |

समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते ||१०७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

328-अध्यायः

भगवन्नामनिर्वचनम्

जनमेजय उवाच||

अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् |

नामभिर्विविधैरेषां निरुक्तं भगवन्मम ||१||

वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः |

श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ||२||

वैशम्पायन उवाच||

शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः |

प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ||३||

नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः |

पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ||४||

अर्जुन उवाच||

भगवन्भूतभव्येश सर्वभूतसृगव्यय |

लोकधाम जगन्नाथ लोकानामभयप्रद ||५||

यानि नामानि ते देव कीर्तितानि महर्षिभिः |

वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ||६||

तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव |

न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ||७||

श्रीभगवानुवाच||

ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु |

पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ||८||

साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च |

बहूनि मम नामानि कीर्तितानि महर्षिभिः ||९||

गौणानि तत्र नामानि कर्मजानि च कानिचित् |

निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ ||१०||

कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ||१०||

नमोऽतियशसे तस्मै देहिनां परमात्मने |

नारायणाय विश्वाय निर्गुणाय गुणात्मने ||११||

यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः |

योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ||१२||

अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर |

प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ||१३||

ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता ||१३||

तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः |

ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ||१४||

अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ||१४||

ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः |

प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ||१५||

तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ||१५||

अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा |

क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ||१६||

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ |

तदादेशितपन्थानौ सृष्टिसंहारकारकौ ||१७||

निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ||१७||

कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः |

उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ||१८||

दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा |

नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ||१९||

तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे |

सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः ||२०||

अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन |

तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ||२१||

यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् |

आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ||२२||

मया प्रमाणं हि कृतं लोकः समनुवर्तते ||२२||

प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् |

यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ||२३||

रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् |

लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ||२४||

न हि मे केनचिद्देयो वरः पाण्डवनन्दन |

इति सञ्चिन्त्य मनसा पुराणं विश्वमीश्वरम् ||२५||

पुत्रार्थमाराधितवानात्मानमहमात्मना ||२५||

न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु |

ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ||२६||

सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः |

अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ||२७||

भविष्यतां वर्ततां च भूतानां चैव भारत |

सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ||२८||

नमस्व हव्यदं विष्णुं तथा शरणदं नम |

वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ||२९||

चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् |

तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ||३०||

अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ||३०||

ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः |

सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ||३१||

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः |

प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् ||३२||

भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ||३२||

त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ |

भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ||३३||

जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत |

निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ||३४||

नराणामयनं ख्यातमहमेकः सनातनः |

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ||३५||

अयनं मम तत्पूर्वमतो नारायणो ह्यहम् ||३५||

छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः |

सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ||३६||

गतिश्च सर्वभूतानां प्रजानां चापि भारत |

व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ||३७||

अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत |

क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः ||३८||

दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि |

दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ||३९||

पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा |

ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ||४०||

ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् |

पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ||४१||

ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः |

उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ||४२||

सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत |

अंशवो ये प्रकाशन्ते मम ते केशसञ्ज्ञिताः ||४३||

सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ||४३||

स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना |

उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया ||४४||

बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ||४४||

ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा |

उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ||४५||

पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् |

एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ||४६||

मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः |

तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ||४७||

स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् |

स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ||४८||

वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् |

प्रयोजयामास तदा नाम गुह्यमिदं मम ||४९||

आनुपूर्व्येण विधिना केशवेति पुनः पुनः |

स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ||५०||

एवं हि वरदं नाम केशवेति ममार्जुन |

देवानामथ सर्वेषामृषीणां च महात्मनाम् ||५१||

अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् |

अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ||५२||

अपि हि पुराणे भवति

एकयोन्यात्मकावग्नीषोमौ

देवाश्चाग्निमुखा इति

एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति ||५३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

329-अध्यायः

ब्राह्मणमाहात्म्यमग्निषोमीयात्मकम्

अर्जुन उवाच||

अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ |

एष मे संशयो जातस्तं छिन्धि मधुसूदन ||१||

श्रीभगवानुवाच||

हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन |

आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ||२||

सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते

अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे

ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके

तम इत्येवाभिभूतेऽसञ्ज्ञकेऽद्वितीये प्रतिष्ठिते

नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते

एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसम्भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात्

अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः

शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ||३||

निदर्शनमपि ह्यत्र भवति

नासीदहो न रात्रिरासीत्

न सदासीन्नासदासीत्

तम एव पुरस्तादभवद्विश्वरूपम्

सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ||४||

तस्येदानीं तमःसम्भवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज

ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत्

यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः

योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम्

कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा

ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम्

दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि

भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं

धार्यत इति ||५||

मन्त्रवादोऽपि हि भवति

त्वमग्ने यज्ञानां होता विश्वेषाम्

हितो देवेभिर्मानुषे जने इति

निदर्शनं चात्र भवति

विश्वेषामग्ने यज्ञानां होतेति

हितो देवैर्मानुषैर्जगत इति

अग्निर्हि यज्ञानां होता कर्ता

स चाग्निर्ब्रह्म ||६||

न ह्यृते मन्त्राद्धवनमस्ति

न विना पुरुषं तपः सम्भवति

हविर्मन्त्राणां सम्पूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः

ये च मानुषा होत्राधिकारास्ते च

ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः

तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति

यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ||७||

शतपथे हि ब्राह्मणं भवति

अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति

एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति

अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति

अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ||८||

विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् |

ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ||९||

ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च |

धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ||१०||

नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः |

ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ||११||

नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते सम्प्रदाने |

अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ||१२||

वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः

वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः

इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा

स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ||१३||

अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः

कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप

अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः

क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ||१४||

त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः

ततः प्रादुर्भूता भुजगाः

तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः

पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ||१५||

अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः

अथ बृहस्पतिरपां चुक्रोध

यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसङ्कीर्णाः कलुषीभवतेति

तदाप्रभृत्यापो यादोभिः सङ्कीर्णाः संवृत्ताः ||१६||

विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम्

स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ||१७||

अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त

हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम्

ततो देवा वर्धन्ते वयं क्षीयामः

तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ||१८||

अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच

पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि

नार्हस्येवं कर्तुमिति

स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात् ||१९||

हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान्

यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति

तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ||२०||

विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत्

तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज

ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत्

सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ||२१||

तास्त्वाष्ट्र उवाच

क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति

तास्तमब्रुवन्

वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ||२२||

अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति

ततो मन्त्राञ्जजाप

तैर्मन्त्रैः प्रावर्धत त्रिशिराः

एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान्

अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ||२३||

देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च

विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते

वयमभागाः संवृत्ताः

असुरपक्षो वर्धते वयं क्षीयामः

तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ||२४||

तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः

स याच्यतां वरं यथा कलेवरं जह्यात्

तस्यास्थिभिर्वज्रं क्रियतामिति ||२५||

देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे

सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति

तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम्

यद्वक्ष्यथ तत्करिष्यामीति

ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति

अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं

समाधाय शरीरपरित्यागं चकार ||२६||

तस्य परमात्मन्यवसृते तान्यस्थीनि धाता सङ्गृह्य वज्रमकरोत्

तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान

शिरसां चास्य छेदनमकरोत्

तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ||२७||

तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु सम्भवां शीतलां मानससरोगतां नलिनीं प्रपेदे

तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ||२८||

अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव

देवान्रजस्तमश्चाविवेश

मन्त्रा न प्रावर्तन्त महर्षीणाम्

रक्षांसि प्रादुरभवन्

ब्रह्म चोत्सादनं जगाम

अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ||२९||

अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः

नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव

अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ||३०||

अथोवाच नहुषः

सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति

स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम्

सुभगेऽहमिन्द्रो देवानां भजस्व मामिति

तं शची प्रत्युवाच

प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च

नार्हसि परपत्नीधर्षणं कर्तुमिति ||३१||

तामथोवाच नहुषः

ऐन्द्रं पदमध्यास्यते मया

अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति

सा तमुवाच

अस्ति मम किञ्चिद्व्रतमपर्यवसितम्

तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति

स शच्यैवमभिहितो नहुषो जगाम ||३२||

अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत्

स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच

अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय

सा तवेन्द्रं दर्शयिष्यतीति ||३३||

साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत्

सोपश्रुतिः शचीसमीपमगात्

उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता

किं ते प्रियं करवाणीति

तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति

सैनां मानसं सरोऽनयत्

तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ||३४||

तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव

अहो मम महद्दुःखमिदमद्योपगतम्

नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति

तामिन्द्र उवाच कथं वर्तयसीति

सा तमुवाच

नहुषो मामाह्वयति

कालश्चास्य मया कृत इति ||३५||

तामिन्द्र उवाच

गच्छ

नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व

इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया

त्वमन्येनोपयातुमर्हसीति

सैवमुक्ता हृष्टा जगाम

इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ||३६||

अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति

तं शच्यब्रवीच्छक्रेण यथोक्तम्

स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ||३७||

अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत्

पद्भ्यां च तेनास्पृश्यत

ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम्

सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति

स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ||३८||

अथानिन्द्रं पुनस्त्रैलोक्यमभवत्

ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः

ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति

ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु

ततः स्वं स्थानं प्राप्स्यतीति ||३९||

ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति

सा पुनस्तत्सरः समभ्यगच्छत्

इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम

बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत्

ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास

ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव

ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत्

एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा

स्वस्थानं प्रापितः ||४१||

आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः

स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः

संवृत्तः ||४२||

भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः ||४३||

अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति

तत्र बुधो व्रतचर्यासमाप्तावागच्छत्

अदितिं चावोचद्भिक्षां देहीति

तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात्

अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसञ्ज्ञितस्याण्डं मारितमदित्याः

स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ||४४||

दक्षस्य वै दुहितरः षष्टिरासन्

ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे

तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत्

ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः

भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति

सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ||४५||

दक्षशापात्सोमं राजानं यक्ष्माविवेश

स यक्ष्मणाविष्टो दक्षमगमत्

दक्षश्चैनमब्रवीन्न समं वर्तस इति

तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा

पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम्

तत्र गत्वात्मानमभिषेचयस्वेति

अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम्

गत्वा चात्मनः स्नपनमकरोत्

स्नात्वा चात्मानं पाप्मनो मोक्षयामास

तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव

तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः

पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति

मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् || ४६||

स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे

तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत्

स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत्

तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः

पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो

भविष्यथेति ||४७||

नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत्

तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः

तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः

स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः

उक्तश्चापेयो भविष्यसि

एतच्च ते तोयं वडवामुखसञ्ज्ञितेन पीयमानं मधुरं भविष्यति

तदेतदद्यापि वडवामुखसञ्ज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ||४८||

हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे

भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति

तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति

तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति

अद्यप्रभृत्येतदवस्थितमृषिवचनम् ||४९||

तदेवंविधं माहात्म्यं ब्राह्मणानाम्

क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे

तदेतद्ब्रह्माग्नीषोमीयम्

तेन जगद्धार्यते ||५०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

330-अध्यायः

भगवन्नामनिर्वचनम्

श्रीभगवानुवाच||

सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः |

बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ||१||

बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् |

अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ||२||

हृषीकेशोऽहमीशानो वरदो लोकभावनः ||२||

इडोपहूतयोगेन हरे भागं क्रतुष्वहम् |

वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ||३||

धाम सारो हि लोकानामृतं चैव विचारितम् |

ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ||४||

नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् |

गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ||५||

शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् |

तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ||६||

यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् |

शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ||७||

स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः |

मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ||८||

न हि जातो न जायेऽहं न जनिष्ये कदाचन |

क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ||९||

नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन |

ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ||१०||

सच्चासच्चैव कौन्तेय मयावेशितमात्मनि |

पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ||११||

सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् |

जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय ||१२||

निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय |

सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ||१३||

कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् |

कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ||१४||

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना |

वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ||१५||

निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते |

तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ||१६||

पृथिवीनभसी चोभे विश्रुते विश्वलौकिके |

तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ||१७||

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः |

ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ||१८||

शब्द एकमतैरेष व्याहृतः परमर्षिभिः |

नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ||१९||

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् |

घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ||२०||

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः |

पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ||२१||

एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते |

आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ||२२||

वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत |

नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ||२३||

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते |

तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ||२४||

न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च |

अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी ||२५||

शुचीनि श्रवणीयानि शृणोमीह धनञ्जय |

न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ||२६||

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः |

इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ||२७||

तथैवासं त्रिककुदो वाराहं रूपमास्थितः |

त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ||२८||

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः |

स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ||२९||

विद्यासहायवन्तं मामादित्यस्थं सनातनम् |

कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ||३०||

हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः |

योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ||३१||

एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते |

सहस्रशाखं यत्साम ये वै वेदविदो जनाः ||३२||

गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ||३२||

षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत |

यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ||३३||

पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् |

कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ||३४||

शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः |

स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ||३५||

यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् |

सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ||३६||

रामादेशितमार्गेण मत्प्रसादान्महात्मना |

पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ||३७||

बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ||३७||

नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् |

क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ||३८||

कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् |

जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ||३९||

सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ||३९||

पुराहमात्मजः पार्थ प्रथितः कारणान्तरे |

धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ||४०||

नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् |

धर्मयानं समारूढौ पर्वते गन्धमादने ||४१||

तत्कालसमयं चैव दक्षयज्ञो बभूव ह |

न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ||४२||

ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् |

ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ||४३||

तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् |

आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ||४४||

वेगेन महता पार्थ पतन्नारायणोरसि ||४४||

ततः स्वतेजसाविष्टाः केशा नारायणस्य ह |

बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ||४५||

तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना |

जगाम शङ्करकरं नारायणसमाहतम् ||४६||

अथ रुद्र उपाधावत्तावृषी तपसान्वितौ |

तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ||४७||

नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ||४७||

अथ रुद्रविघातार्थमिषीकां जगृहे नरः |

मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ||४८||

क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा |

ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ||४९||

अर्जुन उवाच||

अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा |

जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ||५०||

श्रीभगवानुवाच||

तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः |

उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ||५१||

नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः |

वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ||५२||

देवान्रजस्तमश्चैव समाविविशतुस्तदा |

वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ||५३||

निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः |

अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ||५४||

तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन |

ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ||५५||

आजगामाशु तं देशं यत्र युद्धमवर्तत ||५५||

साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः |

उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ||५६||

न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ||५६||

यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् |

कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ||५७||

व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा |

नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ||५८||

तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ |

अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ||५९||

त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ||५९||

मया च सार्धं वरदं विबुधैश्च महर्षिभिः |

प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ||६०||

ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् |

प्रसादयामास ततो देवं नारायणं प्रभुम् ||६१||

शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ||६१||

ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः |

प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ||६२||

ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः |

उवाच देवमीशानमीशः स जगतो हरिः ||६३||

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु |

नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा ||६४||

अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् |

मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ||६५||

एवं लक्षणमुत्पाद्य परस्परकृतं तदा |

सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ||६६||

तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ||६६||

एष ते कथितः पार्थ नारायणजयो मृधे |

नामानि चैव गुह्यानि निरुक्तानि च भारत ||६७||

ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ||६७||

एवं बहुविधै रूपैश्चरामीह वसुन्धराम् |

ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ||६८||

मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ||६८||

यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते |

तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ||६९||

कालः स एव कथितः क्रोधजेति मया तव |

निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ||७०||

अप्रमेयप्रभावं तं देवदेवमुमापतिम् |

नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ||७१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

331-अध्यायः

जनमेजय उवाच||

ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् |

यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ||१||

इदं शतसहस्राद्धि भारताख्यानविस्तरात् |

आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ||२||

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा |

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ||३||

समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् |

तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ||४||

स हीशो भगवान्देवः सर्वभूतात्मभावनः |

अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ||५||

यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः |

ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम् ||६||

न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ||६||

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् |

न तथा फलदं चापि नारायणकथा यथा ||७||

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् |

हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ||८||

न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः |

वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ||९||

न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु |

त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ||१०||

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः |

हिताय श्रेयसे चैव येषामासीज्जनार्दनः ||११||

तपसापि न दृश्यो हि भगवाँल्लोकपूजितः |

यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ||१२||

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः |

न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ||१३||

श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ||१३||

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् |

यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ||१४||

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः |

नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ||१५||

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः |

बदरीमाश्रमं प्राप्य समागम्य च तावृषी ||१६||

कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः |

श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ||१७||

किमब्रूतां महात्मानौ नरनारायणावृषी |

तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ||१८||

वैशम्पायन उवाच||

नमो भगवते तस्मै व्यासायामिततेजसे |

यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ||१९||

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् |

निवृत्तो नारदो राजंस्तरसा मेरुमागमत् ||२०||

हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ||२०||

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् |

यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ||२१||

ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् |

निपपात च खात्तूर्णं विशालां बदरीमनु ||२२||

ततः स ददृशे देवौ पुराणावृषिसत्तमौ |

तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ||२३||

तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् |

श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ||२४||

जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ |

व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ||२५||

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ |

स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ||२६||

आतपत्रेण सदृशे शिरसी देवयोस्तयोः |

एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ ||२७||

तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः |

स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ||२८||

बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ |

सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ||२९||

श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ |

इति सञ्चिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् ||३०||

उपोपविविशे तत्र पीठे कुशमये शुभे ||३०||

ततस्तौ तपसां वासौ यशसां तेजसामपि |

ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ||३१||

पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च |

पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप ||३२||

तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत |

आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ||३३||

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् |

सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ||३४||

अपीदानीं स भगवान्परमात्मा सनातनः |

श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ||३५||

नारद उवाच||

दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः |

सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः ||३६||

अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ||३६||

यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् |

तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ||३७||

दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः |

इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ||३८||

को हि नाम भवेत्तस्य तेजसा यशसा श्रिया |

सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ||३९||

तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसञ्ज्ञितम् |

प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ||४०||

तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः |

प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ||४१||

तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः |

प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ||४२||

रमते सोऽर्च्यमानो हि सदा भागवतप्रियः |

विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः ||४३||

स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ||४३||

तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् |

तेज इत्यभिविख्यातं स्वयम्भासावभासितम् ||४४||

शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् |

एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ||४५||

न तत्र सूर्यस्तपति न सोमोऽभिविराजते |

न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ||४६||

वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् |

एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः ||४७||

साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ||४७||

यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् |

शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ||४८||

नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये |

हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते ||४९||

कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ||४९||

याः क्रियाः सम्प्रयुक्तास्तु एकान्तगतबुद्धिभिः |

ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ||५०||

न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः |

विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः ||५१||

इह चैवागतस्तेन विसृष्टः परमात्मना ||५१||

एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः |

आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ||५२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

332-अध्यायः

नरनारायणावूचतुः||

धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः |

न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ||१||

अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः |

नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ||२||

नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते |

ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ||३||

तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः |

न तत्सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ||४||

या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः |

स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ||५||

तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः |

क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ||६||

तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः |

आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ||७||

तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् |

येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ||८||

तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् |

येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ||९||

तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः |

आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ||१०||

तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः |

चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ||११||

षड्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम् |

विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ||१२||

ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः |

तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ||१३||

सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ||१३||

आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् |

परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ||१४||

तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः |

मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ||१५||

प्रद्युम्नाच्चापि निर्मुक्ता जीवं सङ्कर्षणं तथा |

विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ||१६||

ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा |

प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ||१७||

सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ||१७||

समाहितमनस्काश्च नियताः संयतेन्द्रियाः |

एकान्तभावोपगता वासुदेवं विशन्ति ते ||१८||

आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम |

रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ||१९||

ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः |

भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ||२०||

विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम |

आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ||२१||

आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन |

समागतो भगवता सञ्जल्पं कृतवान्यथा ||२२||

सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे |

यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ||२३||

वैशम्पायन उवाच||

एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत |

नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ||२४||

जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् |

दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ||२५||

अवसत्स महातेजा नारदो भगवानृषिः |

तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ ||२६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

333-अध्यायः

वैशम्पायन उवाच||

कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः |

दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ||१||

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः |

क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ||२||

त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् |

किमेतत्क्रियते कर्म फलं चास्य किमिष्यते ||३||

नारद उवाच||

त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि |

दैवतं च परो यज्ञः परमात्मा सनातनः ||४||

ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् |

तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ||५||

मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् |

अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः ||६||

यजाम्यहं पितॄन्साधो नारायणविधौ कृते |

एवं स एव भगवान्पिता माता पितामहः ||७||

इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ||७||

श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन् |

वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः ||८||

ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ||८||

नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः |

पुत्राश्च पितरश्चैव परस्परमपूजयन् ||९||

त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति |

कथं तु पिण्डसञ्ज्ञां ते पितरो लेभिरे पुरा ||१०||

नरनारायणावूचतुः||

इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् |

गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ||११||

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः |

जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ||१२||

प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ |

दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः ||१३||

स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ||१३||

स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि |

सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ||१४||

आत्मगात्रोष्मसम्भूतैः स्नेहगर्भैस्तिलैरपि |

प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम् ||१५||

मर्यादास्थापनार्थं च ततो वचनमुक्तवान् |

अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ||१६||

तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् |

दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ||१७||

आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ||१७||

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे |

भवन्तु पितरो लोके मया सृष्टाः सनातनाः ||१८||

पिता पितामहश्चैव तथैव प्रपितामहः |

अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ||१९||

नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् |

को वा मम पिता लोके अहमेव पितामहः ||२०||

पितामहपिता चैव अहमेवात्र कारणम् |

इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ||२१||

वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् |

आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ||२२||

एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः |

लभन्ते सततं पूजां वृषाकपिवचो यथा ||२३||

ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा |

गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा ||२४||

कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ||२४||

अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः |

समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ||२५||

महान्महात्मा सर्वात्मा नारायण इति श्रुतः ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

334-अध्यायः

वैशम्पायन उवाच||

श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् |

अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् ||१||

प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे |

श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ||२||

हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ||२||

तावपि ख्याततपसौ नरनारायणावृषी |

तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् ||३||

त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः |

पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् ||४||

नैव तस्य परो लोको नायं पार्थिवसत्तम |

कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ||५||

मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः |

यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ||६||

कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् |

आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः ||७||

य एष गुरुरस्माकमृषिर्गन्धवतीसुतः |

तेनैतत्कथितं तात माहात्म्यं परमात्मनः ||८||

तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ||८||

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् |

को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् ||९||

धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ||९||

वर्ततां ते महायज्ञो यथा सङ्कल्पितस्त्वया |

सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः ||१०||

एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः |

ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ||११||

नारायणीयमाख्यानमेतत्ते कथितं मया |

नारदेन पुरा राजन्गुरवे मे निवेदितम् ||१२||

ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ||१२||

स हि परमगुरुर्भुवनपति; र्धरणिधरः शमनियमनिधिः |

श्रुतिविनयनिधिर्द्विजपरमहित; स्तव भवतु गतिर्हरिरमरहितः ||१३||

तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा |

एकान्तिनां शरणदोऽभयदो; गतिदोऽस्तु वः स मखभागहरः ||१४||

त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टयोश्च फलभागहरः |

विदधाति नित्यमजितोऽतिबलो; गतिमात्मगां सुकृतिनामृषिणाम् ||१५||

तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं बहुशः |

प्रणमध्वमेकमतयो यतयः; सलिलोद्भवोऽपि तमृषिं प्रणतः ||१६||

स हि लोकयोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम् |

तत्साङ्ख्ययोगिभिरुदारधृतं; बुद्ध्या यतात्मभिर्विदितं सततम् ||१७||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

335-अध्यायः

जनमेजय उवाच||

श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः |

जन्म धर्मगृहे चैव नरनारायणात्मकम् ||१||

महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ||१||

प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः |

स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ ||२||

यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् |

हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ ||३||

तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ||३||

किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा |

रूपं प्रभावमहतामपूर्वं धीमतां वर ||४||

दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् |

तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ||५||

एतन्नः संशयं ब्रह्मन्पुराणज्ञानसम्भवम् |

कथयस्वोत्तममते महापुरुषनिर्मितम् ||६||

पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् ||६||

वैशम्पायन उवाच||

कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् |

जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै ||७||

श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः |

उत्पन्नसंशयो राजा तमेव समचोदयत् ||८||

युधिष्ठिर उवाच||

यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् |

किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ||९||

व्यास उवाच||

यत्किञ्चिदिह लोके वै देहबद्धं विशां पते |

सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ||१०||

ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् |

भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च ||११||

भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ||११||

धरण्यामथ लीनायामप्सु चैकार्णवे पुरा |

ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ||१२||

वायौ चाकाशसंलीने आकाशे च मनोनुगे |

व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ||१३||

अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च |

तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ||१४||

तमसो ब्रह्म सम्भूतं तमोमूलमृतात्मकम् |

तद्विश्वभावसञ्ज्ञान्तं पौरुषीं तनुमास्थितम् ||१५||

सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते |

तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ||१६||

विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः |

अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ||१७||

जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ||१७||

तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः |

अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ||१८||

हिरण्यगर्भो भगवान्सर्वलोकपितामहः ||१८||

पद्मेऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः |

सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ||१९||

ददृशेऽद्भुतसङ्काशे लोकानापोमयान्प्रभुः |

सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् ||२०||

पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे |

नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ||२१||

तावपश्यत्स भगवाननादिनिधनोऽच्युतः |

एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ||२२||

स तामसो मधुर्जातस्तदा नारायणाज्ञया |

कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ||२३||

तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ |

बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ||२४||

ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् |

सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ||२५||

ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ |

सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ||२६||

अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् |

रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ||२७||

ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् |

ततो वचनमीशानं प्राह वेदैर्विनाकृतः ||२८||

वेदा मे परमं चक्षुर्वेदा मे परमं बलम् |

वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ||२९||

मम वेदा हृताः सर्वे दानवाभ्यां बलादितः |

अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः ||३०||

वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः ||३०||

अहो बत महद्दुःखं वेदनाशनजं मम |

प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् ||३१||

को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् |

वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे ||३२||

इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम |

हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ||३३||

ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ||३३||

नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज |

लोकाद्य भुवनश्रेष्ठ साङ्ख्ययोगनिधे विभो ||३४||

व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित |

विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ||३५||

अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे |

त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ||३६||

चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् |

त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ||३७||

त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो |

नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ||३८||

अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् |

इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ ||३९||

सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः |

प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ||४०||

त्वमीश्वरस्वभावश्च स्वयम्भूः पुरुषोत्तमः |

त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः ||४१||

ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि |

ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे ||४२||

एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः |

जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ||४३||

ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः ||४३||

सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा |

कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ||४४||

तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका |

केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ||४५||

कर्णावाकाशपाताले ललाटं भूतधारिणी |

गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी ||४६||

चक्षुषी सोमसूर्यौ ते नासा सन्ध्या पुनः स्मृता |

ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ||४७||

दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः |

गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ||४८||

ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ||४८||

एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् |

अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः ||४९||

रसां पुनः प्रविष्टश्च योगं परममास्थितः |

शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् ||५०||

स स्वरः सानुनादी च सर्वगः स्निग्ध एव च |

बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ||५१||

ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् |

रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ||५२||

एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः |

जग्राह वेदानखिलान्रसातलगतान्हरिः ||५३||

प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ||५३||

स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ |

वेदानामालयश्चापि बभूवाश्वशिरास्ततः ||५४||

अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ |

पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ ||५५||

यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ||५५||

तत उत्तममास्थाय वेगं बलवतां वरौ |

पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ||५६||

ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ||५६||

श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् |

भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् ||५७||

आत्मप्रमाणरचिते अपामुपरि कल्पिते |

शयने नागभोगाढ्ये ज्वालामालासमावृते ||५८||

निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् |

तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ||५९||

ऊचतुश्च समाविष्टौ रजसा तमसा च तौ |

अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ||६०||

अनेन नूनं वेदानां कृतमाहरणं रसात् |

कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् ||६१||

इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् |

युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ||६२||

निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे |

अथ युद्धं समभवत्तयोर्नारायणस्य च ||६३||

रजस्तमोविष्टतनू तावुभौ मधुकैटभौ |

ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ||६४||

ततस्तयोर्वधेनाशु वेदापहरणेन च |

शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ||६५||

ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः |

निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ||६६||

दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् |

तत्रैवान्तर्दधे देवो यत एवागतो हरिः ||६७||

तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् |

पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ||६८||

एवमेष महाभागो बभूवाश्वशिरा हरिः |

पौराणमेतदाख्यातं रूपं वरदमैश्वरम् ||६९||

यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा |

न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ||७०||

आराध्य तपसोग्रेण देवं हयशिरोधरम् |

पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ||७१||

एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् |

पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ||७२||

यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् |

तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ||७३||

एष वेदनिधिः श्रीमानेष वै तपसो निधिः |

एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ||७४||

नारायणपरा वेदा यज्ञा नारायणात्मकाः |

तपो नारायणपरं नारायणपरा गतिः ||७५||

नारायणपरं सत्यमृतं नारायणात्मकम् |

नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ||७६||

प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः |

नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ||७७||

अपां चैव गुणो राजन्रसो नारायणात्मकः |

ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ||७८||

नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः |

नारायणात्मकश्चापि शब्द आकाशसम्भवः ||७९||

मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् |

नारायणपरः कालो ज्योतिषामयनं च यत् ||८०||

नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः |

नारायणपरं साङ्ख्यं योगो नारायणात्मकः ||८१||

कारणं पुरुषो येषां प्रधानं चापि कारणम् |

स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ||८२||

पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः |

तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ||८३||

तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः |

सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ||८४||

साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् |

मनीषितं विजानाति केशवो न तु तस्य ते ||८५||

ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते |

दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ||८६||

सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः |

सर्वभूतकृतावासो वासुदेवेति चोच्यते ||८७||

अयं हि नित्यः परमो महर्षि; र्महाविभूतिर्गुणवान्निर्गुणाख्यः |

गुणैश्च संयोगमुपैति शीघ्रं; कालो यथर्तावृतुसम्प्रयुक्तः ||८८||

नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश्चिदिहानुपस्यति |

ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम् ||८९||

३३६

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

336-अध्यायः

जनमेजय उवाच||

अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः |

विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् ||१||

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः |

तेषां त्वयाभिनिर्दिष्टा पारम्पर्यागता गतिः ||२||

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् |

एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ||३||

नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः |

अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ||४||

सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः |

पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ||५||

तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् |

केनैष धर्मः कथितो देवेन ऋषिणापि वा ||६||

एकान्तिनां च का चर्या कदा चोत्पादिता विभो |

एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ||७||

वैशम्पायन उवाच||

समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे |

अर्जुने विमनस्के च गीता भगवता स्वयम् ||८||

आगतिश्च गतिश्चैव पूर्वं ते कथिता मया |

गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ||९||

संमितः सामवेदेन पुरैवादियुगे कृतः |

धार्यते स्वयमीशेन राजन्नारायणेन ह ||१०||

एतमर्थं महाराज पृष्टः पार्थेन नारदः |

ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ||११||

गुरुणा च ममाप्येष कथितो नृपसत्तम |

यथा तु कथितस्तत्र नारदेन तथा शृणु ||१२||

यदासीन्मानसं जन्म नारायणमुखोद्गतम् |

ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ||१३||

तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ||१३||

फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे |

वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे ||१४||

वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ||१४||

यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप |

तदा पितामहात्सोमादेतं धर्ममजानत ||१५||

नारायणात्मकं राजन्रुद्राय प्रददौ च सः ||१५||

ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप |

वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् ||१६||

अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ||१६||

तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् |

तत्रैष धर्मः सम्भूतः स्वयं नारायणान्नृप ||१७||

सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् |

तपसा वै सुतप्तेन दमेन नियमेन च ||१८||

त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् |

यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ||१९||

ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् |

सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ||२०||

वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा |

वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ||२१||

तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् |

ततः सोऽन्तर्दधे भूयो नारायणसमाहितः ||२२||

यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः |

ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ||२३||

जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् |

चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः ||२४||

अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः |

प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ||२५||

सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा |

श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ||२६||

धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः |

तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ||२७||

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे |

धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् ||२८||

आरण्यकेन सहितं नारायणमुखोद्गतम् ||२८||

उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे |

तं कार्तयुगधर्माणं निराशीःकर्मसञ्ज्ञितम् ||२९||

जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ||२९||

ततोऽथ वरदो देवो ब्रह्मलोकपितामहः |

असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ||३०||

ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् |

ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ||३१||

तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् |

पूजयामास देवेशं हरिं नारायणं प्रभुम् ||३२||

धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः |

अध्यापयामास तदा लोकानां हितकाम्यया ||३३||

ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप |

अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ||३४||

ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् |

दिशापालं सुधर्माणमध्यापयत भारत ||३५||

ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ||३५||

नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम |

धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ||३६||

उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ||३६||

सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप |

सनत्कुमारादपि च वीरणो वै प्रजापतिः ||३७||

कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ||३७||

वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ |

रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ||३८||

कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे |

ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ||३९||

अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये |

एष धर्मः समुद्भूतो नारायणमुखात्पुनः ||४०||

गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि |

अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप ||४१||

बर्हिषद्भ्यश्च सङ्क्रान्तः सामवेदान्तगं द्विजम् |

ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ||४२||

ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम् |

अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ||४३||

यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप |

तत्रैष धर्मः कथितः स्वयं नारायणेन हि ||४४||

पितामहाय शुद्धाय युगादौ लोकधारिणे |

पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ||४५||

ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम |

आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ||४६||

त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ |

मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ||४७||

इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः |

गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ||४८||

व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम |

कथितो हरिगीतासु समासविधिकल्पितः ||४९||

नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः |

एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ||५०||

एवमेष महान्धर्म आद्यो राजन्सनातनः |

दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ||५१||

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा |

अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ||५२||

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः |

त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ||५३||

हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा |

जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ||५४||

मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् |

एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ||५५||

अकर्ता चैव कर्ता च कार्यं कारणमेव च |

यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ||५६||

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम |

मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ||५७||

एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ||५७||

यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन |

अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ||५८||

भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ||५८||

एवं स भगवान्व्यासो गुरुर्मम विशां पते |

कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ||५९||

ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः |

तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ||६०||

देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् |

यत्र चैकान्तिनो यान्ति नारायणपरायणाः ||६१||

जनमेजय उवाच||

एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् |

न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ||६२||

वैशम्पायन उवाच||

तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः |

सात्त्विकी राजसी चैव तामसी चेति भारत ||६३||

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह |

सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ||६४||

अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् |

नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ||६५||

मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् |

एकान्तभक्तिः सततं नारायणपरायणः ||६६||

मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः |

तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ||६७||

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः |

सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ||६८||

साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः |

नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ||६९||

नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् |

एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ||७०||

राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते |

तदात्मकं हि पुरुषं जायमानं विशां पते ||७१||

प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ||७१||

पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः |

रजसा तमसा चैव मानुषं समभिप्लुतम् ||७२||

कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम |

हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ||७३||

जनमेजय उवाच||

कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् |

वैशम्पायन उवाच||

सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः |

पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ||७५||

एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च |

परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते ||७६||

एष एकान्तिनां धर्मो नारायणपरात्मकः ||७६||

यथा समुद्रात्प्रसृता जलौघा; स्तमेव राजन्पुनराविशन्ति |

इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनराविशन्ति ||७७||

एष ते कथितो धर्मः सात्वतो यदुबान्धव |

कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ||७८||

एवं हि सुमहाभागो नारदो गुरवे मम |

श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ||७९||

व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते |

स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ||८०||

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम |

यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ||८१||

कृष्ण एव हि लोकानां भावनो मोहनस्तथा |

संहारकारकश्चैव कारणं च विशां पते ||८२||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

337-अध्यायः

जनमेजय उवाच||

साङ्ख्यं योगं पञ्चरात्रं वेदारण्यकमेव च |

ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ||१||

किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने |

प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ||२||

वैशम्पायन उवाच||

जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम् |

पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय ||३||

पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम् |

नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम् ||४||

तमादिकालेषु महाविभूति; र्नारायणो ब्रह्ममहानिधानम् |

ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः ||५||

जनमेजय उवाच||

त्वयैव कथितः पूर्वं सम्भवो द्विजसत्तम |

वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ||६||

पराशरस्य दायादः कृष्णद्वैपायनो मुनिः |

भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ||७||

किमतः पूर्वजं जन्म व्यासस्यामिततेजसः |

कथयस्वोत्तममते जन्म नारायणोद्भवम् ||८||

वैशम्पायन उवाच||

वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः |

गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ||९||

कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः |

शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ||१०||

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः |

अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ||११||

एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः |

शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ||१२||

वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः |

तमेकमनसं दान्तं युक्ता वयमुपास्महे ||१३||

कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः |

वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ||१४||

स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् |

नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ||१५||

शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् |

आदिकालोद्भवं विप्रास्तपसाधिगतं मया ||१६||

प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे |

नारायणो महायोगी शुभाशुभविवर्जितः ||१७||

ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् |

ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ||१८||

मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः |

सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ||१९||

स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः |

प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ||२०||

का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते |

अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ||२१||

स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः |

चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः ||२२||

स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् |

योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ||२३||

स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् |

उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ||२४||

ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये |

ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ||२५||

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः |

भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ||२६||

एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत |

प्राप चैव मुहूर्तेन स्वस्थानं देवसञ्ज्ञितम् ||२७||

तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् |

अथास्य बुद्धिरभवत्पुनरन्या तदा किल ||२८||

सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना |

दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः ||२९||

जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ||२९||

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः |

भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ||३०||

अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः |

बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ||३१||

तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ||३१||

अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् |

निग्रहेण च पापानां साधूनां प्रग्रहेण च ||३२||

इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् |

मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ||३३||

मया धृता धारयति जगद्धि सचराचरम् |

तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः ||३४||

एवं स चिन्तयित्वा तु भगवान्मधुसूदनः |

रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ||३५||

वाराहं नारसिंहं च वामनं मानुषं तथा |

एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः ||३६||

अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् |

सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ||३७||

अपान्तरतमा नाम सुतो वाक्सम्भवो विभोः |

भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ||३८||

तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः |

वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर ||३९||

तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने ||३९||

तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवेऽन्तरे |

ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ||४०||

तपसा च सुतप्तेन यमेन नियमेन च ||४०||

श्रीभगवानुवाच||

मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः |

भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ||४१||

पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः |

भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ||४२||

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति |

परस्परविनाशार्थं त्वामृते द्विजसत्तम ||४३||

तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः |

कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि ||४४||

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा |

भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ||४५||

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति |

महेश्वरप्रसादेन नैतद्वचनमन्यथा ||४६||

यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् |

वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति ||४७||

तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः |

पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः ||४८||

कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः ||४८||

भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः |

ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ||४९||

तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः |

पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ||५०||

अनादिनिधनं लोके चक्रहस्तं च मां मुने |

अनुध्यानान्मम मुने नैतद्वचनमन्यथा ||५१||

शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् |

तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः ||५२||

त्वमेव भविता वत्स मत्प्रसादान्न संशयः ||५२||

व्यास उवाच||

एवं सारस्वतमृषिमपान्तरतमं तदा |

उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ||५३||

सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः |

अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः ||५४||

पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ||५४||

तदेतत्कथितं जन्म मया पूर्वकमात्मनः |

नारायणप्रसादेन तथा नारायणांशजम् ||५५||

मया हि सुमहत्तप्तं तपः परमदारुणम् |

पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ||५६||

एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः |

पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ||५७||

वैशम्पायन उवाच||

एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप |

व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ||५८||

साङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा |

ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ||५९||

साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते |

हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ||६०||

अपान्तरतमाश्चैव वेदाचार्यः स उच्यते |

प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ||६१||

उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः |

उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ||६२||

पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् |

सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ||६३||

यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः |

न चैनमेवं जानन्ति तमोभूता विशां पते ||६४||

तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः |

निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ||६५||

निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः |

ससंशयान्हेतुबलान्नाध्यावसति माधवः ||६६||

पञ्चरात्रविदो ये तु यथाक्रमपरा नृप |

एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ||६७||

साङ्ख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन् |

सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम् ||६८||

शुभाशुभं कर्म समीरितं य; त्प्रवर्तते सर्वलोकेषु किञ्चित् |

तस्मादृषेस्तद्भवतीति विद्या; द्दिव्यन्तरिक्षे भुवि चाप्सु चापि ||६९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

338-अध्यायः

जनमेजय उवाच||

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु |

को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ||१||

वैशम्पायन उवाच||

बहवः पुरुषा लोके साङ्ख्ययोगविचारिणाम् |

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ||२||

बहूनां पुरुषाणां च यथैका योनिरुच्यते |

तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ||३||

नमस्कृत्वा तु गुरवे व्यासायामिततेजसे |

तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ||४||

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव |

ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ||५||

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः |

अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ||६||

समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् |

तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः ||७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते ||८||

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः |

वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ||९||

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् |

वैराजसदने नित्यं वैजयन्तं निषेवते ||१०||

अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः |

ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया ||११||

आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः ||११||

ततः खान्निपपाताशु धरणीधरमूर्धनि |

अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ||१२||

तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना |

उत्थापयामास तदा प्रभुरेकः प्रजापतिः ||१३||

उवाच चैनं भगवांश्चिरस्यागतमात्मजम् |

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् ||१४||

कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा |

नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ||१५||

रुद्र उवाच||

त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम |

कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ||१६||

चिरदृष्टो हि भगवान्वैराजसदने मया |

ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ||१७||

कौतूहलं चापि हि मे एकान्तगमनेन ते |

नैतत्कारणमल्पं हि भविष्यति पितामह ||१८||

किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् |

सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ||१९||

गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् |

उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ||२०||

ब्रह्मोवाच||

वैजयन्तो गिरिवरः सततं सेव्यते मया |

अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ||२१||

रुद्र उवाच||

बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा |

सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ||२२||

को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः |

एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे ||२३||

ब्रह्मोवाच||

बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः |

एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ||२४||

आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ||२४||

बहूनां पुरुषाणां स यथैका योनिरुच्यते |

तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ||२५||

निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ||२५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

339-अध्यायः

ब्रह्मोवाच||

शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः |

अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ||१||

न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम |

सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ||२||

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ |

वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ||३||

ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः |

सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ||४||

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः |

एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ||५||

क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे |

तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ||६||

नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् |

साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ||७||

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् |

यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ||८||

तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः |

महापुरुषशब्दं स बिभर्त्येकः सनातनः ||९||

एको हुताशो बहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका |

एको वायुर्बहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः ||१०||

पुरुषश्चैको निर्गुणो विश्वरूप; स्तं निर्गुणं पुरुषं चाविशन्ति ||१०||

हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् |

उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ||११||

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् |

विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ||१२||

एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः |

एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ||१३||

तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः |

स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ||१४||

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ||१४||

कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते |

ससप्तदशकेनापि राशिना युज्यते हि सः ||१५||

एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ||१५||

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ |

मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ||१६||

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च |

यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च ||१७||

यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् |

यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम् ||१८||

देवाः सर्वे मुनयः साधु दान्ता; स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते |

अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः ||१९||

मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र ||१९||

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति |

एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ||२०||

एतत्ते कथितं पुत्र यथावदनुपृच्छतः |

साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ||२१||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

340-अध्यायः

उञ्छवृत्युपाख्यानम्

युधिष्ठिर उवाच||

धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः |

धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ||१||

भीष्म उवाच||

सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः |

बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ||२||

यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम् |

स तमेवाभिजानाति नान्यं भरतसत्तम ||३||

अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् |

पुरा शक्रस्य कथितां नारदेन सुरर्षिणा ||४||

सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः |

पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ||५||

स कदाचिन्महेष्वास देवराजालयं गतः |

सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ||६||

तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः |

ब्रह्मर्षे किञ्चिदाश्चर्यमस्ति दृष्टं त्वयानघ ||७||

यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम् |

जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ||८||

न ह्यस्त्यविदितं लोके देवर्षे तव किञ्चन |

श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे ||९||

तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः |

आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ||१०||

यथा येन च कल्पेन स तस्मै द्विजसत्तमः |

कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ||११||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

341-अध्यायः

भीष्म उवाच||

आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे |

गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ||१||

सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः |

धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः ||२||

अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः |

न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ||३||

ज्ञातिसम्बन्धिविपुले मित्रापाश्रयसंमते |

कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ||४||

स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः |

कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् ||५||

ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च |

शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ||६||

किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् |

इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् ||७||

तस्यैवं खिद्यमानस्य धर्मं परममास्थितः |

कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ||८||

स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना |

विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् ||९||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

342-अध्यायः

ब्राह्मण उवाच||

समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ |

मित्रतामभिपन्नस्त्वां किञ्चिद्वक्ष्यामि तच्छृणु ||१||

गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् |

धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ||२||

अहमात्मानमात्मस्थमेक एवात्मनि स्थितः |

कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः ||३||

यावदेवानतीतं मे वयः पुत्रफलाश्रितम् |

तावदिच्छामि पाथेयमादातुं पारलौकिकम् ||४||

अस्मिन्हि लोकसन्ताने परं पारमभीप्सतः |

उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ||५||

समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि |

दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम् ||६||

न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थयतः परत्र |

तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् ||७||

भीष्म उवाच||

सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः |

प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा ||८||

अहमप्यत्र मुह्यामि ममाप्येष मनोरथः |

न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे ||९||

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः |

वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः ||१०||

राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् |

गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् ||११||

मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः |

अहिंसया परे स्वर्गं सत्येन च तथा परे ||१२||

आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः |

केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः ||१३||

केचिदध्ययने युक्ता वेदव्रतपराः शुभाः |

बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ||१४||

आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः |

ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ||१५||

एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः |

ममापि मतिराविग्ना मेघलेखेव वायुना ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

343-अध्यायः

अतिथिरुवाच||

उपदेशं तु ते विप्र करिष्येऽहं यथागमम् |

गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु ||१||

यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् |

नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् ||२||

समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ |

यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः ||३||

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् |

पद्मनाभो महाभागः पद्म इत्येव विश्रुतः ||४||

स वाचा कर्मणा चैव मनसा च द्विजर्षभ |

प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ||५||

साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् |

विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति ||६||

तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् |

स ते परमकं धर्मं नमिथ्या दर्शयिष्यति ||७||

स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः |

गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः ||८||

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः |

तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ||९||

यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः |

सत्यवागनसूयुश्च शीलवानभिसंश्रितः ||१०||

शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः |

अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः ||११||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

344-अध्यायः

ब्राह्मण उवाच||

अतिभारोद्यतस्यैव भारापनयनं महत् |

पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ||१||

अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् |

तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ||२||

ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः |

एषितस्यात्मनः काले वृद्धस्येव सुतो यथा ||३||

मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् |

प्रह्रादयति मां वाक्यं भवता यदुदीरितम् ||४||

दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च |

प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः ||५||

बाढमेवं करिष्यामि यथा मां भाषते भवान् ||५||

इहेमां रजनीं साधो निवसस्व मया सह |

प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः ||६||

असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ||६||

भीष्म उवाच||

ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन |

उवास किल तां रात्रिं सह तेन द्विजेन वै ||७||

तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा |

व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ||८||

ततः प्रभातसमये सोऽतिथिस्तेन पूजितः |

ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ||९||

ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् |

यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः ||१०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

345-अध्यायः

भीष्म उवाच||

स वनानि विचित्राणि तीर्थानि च सरांसि च |

अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः ||१||

तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः |

पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ||२||

सोऽभिगम्य यथाख्यातं नागायतनमर्थवित् |

प्रोक्तवानहमस्मीति भोःशब्दालङ्कृतं वचः ||३||

ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला |

दर्शयामास तं विप्रं नागपत्नी पतिव्रता ||४||

सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा |

स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ||५||

ब्राह्मण उवाच||

विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा |

द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम् ||६||

एतद्धि परमं कार्यमेतन्मे फलमीप्सितम् |

अनेनार्थेन चास्म्यद्य सम्प्राप्तः पन्नगालयम् ||७||

नागभार्योवाच||

आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः |

सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ||८||

एतद्विदितमार्यस्य विवासकरणं मम |

भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे ||९||

ब्राह्मण उवाच||

अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह |

प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने ||१०||

सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः |

ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ||११||

अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे |

कालं परिमिताहारो यथोक्तं परिपालयन् ||१२||

भीष्म उवाच||

ततः स विप्रस्तां नागीं समाधाय पुनः पुनः |

तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

346-अध्यायः

भीष्म उवाच||

अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना |

निराहारेण वसता दुःखितास्ते भुजङ्गमाः ||१||

सर्वे सम्भूय सहितास्तस्य नागस्य बान्धवाः |

भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ||२||

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् |

समासीनं निराहारं द्विजं जप्यपरायणम् ||३||

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् |

ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ||४||

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन |

न चाभिलषसे किञ्चिदाहारं धर्मवत्सल ||५||

अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः |

कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः ||६||

मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम |

आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ||७||

त्यक्ताहारेण भवता वने निवसता सता |

बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्कटात् ||८||

न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा |

पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ||९||

ब्राह्मण उवाच||

उपदेशेन युष्माकमाहारोऽयं मया वृतः |

द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ||१०||

यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः |

तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् ||११||

कर्तव्यो न च सन्तापो गम्यतां च यथागतम् |

तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ ||१२||

भीष्म उवाच||

तेन ते समनुज्ञाता ब्राह्मणेन भुजङ्गमाः |

स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ||१३||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

347-अध्यायः

भीष्म उवाच||

अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः |

दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः ||१||

तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः |

उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ||२||

अपि त्वमसि कल्याणि देवतातिथिपूजने |

पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् ||३||

न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता |

मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना ||४||

नागभार्योवाच||

शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् |

भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् ||५||

सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते |

वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ||६||

विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् |

गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ||७||

नियताहारता नित्यं व्रतचर्या यथाक्रमम् |

धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषणम् ||८||

अहं कस्य कुतो वाहं कः को मे ह भवेदिति |

प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ||९||

पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते |

तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ||१०||

साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते |

सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि ||११||

देवतानां महाभाग धर्मचर्या न हीयते |

अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता ||१२||

सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै |

स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ||१३||

गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः |

आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ||१४||

अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता |

प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः ||१५||

एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि |

दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

348-अध्यायः

नाग उवाच||

अथ ब्राह्मणरूपेण कं तं समनुपश्यसि |

मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते ||१||

को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि |

संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ||२||

सुरासुरगणानां च देवर्षीणां च भामिनि |

ननु नागा महावीर्याः सौरसेयास्तरस्विनः ||३||

वन्दनीयाश्च वरदा वयमप्यनुयायिनः |

मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः ||४||

नागभार्योवाच||

आर्जवेनाभिजानामि नासौ देवोऽनिलाशन |

एकं त्वस्य विजानामि भक्तिमानतिरोषणः ||५||

स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा |

वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति ||६||

न हि त्वा दैवतं किञ्चिद्विविग्नं प्रतिपालयेत् |

तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते ||७||

तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि |

आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि ||८||

आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् |

राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ||९||

मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् |

वाग्मित्वं सत्यवाक्येन परत्र च महीयते ||१०||

भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम् |

नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते ||११||

अभिप्रेतामसङ्क्लिष्टां कृत्वाकामवतीं क्रियाम् |

न याति निरयं कश्चिदिति धर्मविदो विदुः ||१२||

नाग उवाच||

अभिमानेन मानो मे जातिदोषेण वै महान् |

रोषः सङ्कल्पजः साध्वि दग्धो वाचाग्निना त्वया ||१३||

न च रोषादहं साध्वि पश्येयमधिकं तमः |

यस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः ||१४||

दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् |

तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ||१५||

अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् |

धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ||१६||

जामदग्न्येन रामेण सहस्रनयनोपमः |

संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ||१७||

तदेष तपसां शत्रुः श्रेयसश्च निपातनः |

निगृहीतो मया रोषः श्रुत्वैव वचनं तव ||१८||

आत्मानं च विशेषेण प्रशंसाम्यनपायिनि |

यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता ||१९||

एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः |

सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति ||२०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

349-अध्यायः

भीष्म उवाच||

स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति |

तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ||१||

तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर |

प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ||२||

भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि |

इह त्वमभिसम्प्राप्तः कस्यार्थे किं प्रयोजनम् ||३||

आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज |

विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे ||४||

ब्राह्मण उवाच||

धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् |

पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम् ||५||

तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम् |

स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः ||६||

तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् |

वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः ||७||

नाग उवाच||

अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः |

श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि ||८||

अहं स नागो विप्रर्षे यथा मां विन्दते भवान् |

आज्ञापय यथा स्वैरं किं करोमि प्रियं तव ||९||

भवन्तं स्वजनादस्मि सम्प्राप्तं श्रुतवानिह |

अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ||१०||

सम्प्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति |

विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि ||११||

वयं हि भवता सर्वे गुणक्रीता विशेषतः |

यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ||१२||

ब्राह्मण उवाच||

आगतोऽहं महाभाग तव दर्शनलालसः |

कञ्चिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम ||१३||

अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम् |

वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह ||१४||

प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः |

शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ||१५||

तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन |

पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान् ||१६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

350-अध्यायः

ब्राह्मण उवाच||

विवस्वतो गच्छति पर्ययेण; वोढुं भवांस्तं रथमेकचक्रम् |

आश्चर्यभूतं यदि तत्र किं चि; द्दृष्टं त्वया शंसितुमर्हसि त्वम् ||१||

नाग उवाच||

यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः |

वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ||२||

यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् |

विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः ||३||

शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे |

तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ||४||

योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः |

पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् ||५||

यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः |

यतो बीजं मही चेयं धार्यते सचराचरम् ||६||

यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः |

अनादिनिधनो विप्र किमाश्चर्यमतः परम् ||७||

आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु |

विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ||८||

पुरा मध्याह्नसमये लोकांस्तपति भास्करे |

प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत ||९||

स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् |

आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव ||१०||

हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः |

अनिर्देश्येन रूपेण द्वितीय इव भास्करः ||११||

तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता |

तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना ||१२||

ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् |

एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ||१३||

तत्र नः संशयो जातस्तयोस्तेजःसमागमे |

अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ||१४||

ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् |

क एष दिवमाक्रम्य गतः सूर्य इवापरः ||१५||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

351-अध्यायः

सूर्य उवाच||

नैष देवोऽनिलसखो नासुरो न च पन्नगः |

उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ||१||

एष मूलफलाहारः शीर्णपर्णाशनस्तथा |

अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः ||२||

ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः |

स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः ||३||

असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः |

सर्वभूतहिते युक्त एष विप्रो भुजङ्गम ||४||

न हि देवा न गन्धर्वा नासुरा न च पन्नगाः |

प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् ||५||

नाग उवाच||

एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज |

संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः ||६||

सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते ||६||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

352-अध्यायः

ब्राह्मण उवाच||

आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजङ्गम |

अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ||१||

स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम |

स्मरणीयोऽस्मि भवता सम्प्रेषणनियोजनैः ||२||

नाग उवाच||

अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् |

उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ||३||

उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ |

मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण ||४||

न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह |

गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ||५||

त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः |

लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ||६||

ब्राह्मण उवाच||

एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजङ्गम |

नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ||७||

य एवाहं स एव त्वमेवमेतद्भुजङ्गम |

अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा ||८||

आसीत्तु मे भोगपते संशयः पुण्यसञ्चये |

सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् ||९||

एष मे निश्चयः साधो कृतः कारणवत्तरः |

आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ||१०||

श्रीमहाभारतम्

||१२ शान्तिपर्वम् ||

 

353-अध्यायः

भीष्म उवाच||

स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः |

दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ||१||

स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान् |

तथैव च कथामेतां राजन्कथितवांस्तदा ||२||

भार्गवेणापि राजेन्द्र जनकस्य निवेशने |

कथैषा कथिता पुण्या नारदाय महात्मने ||३||

नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने |

कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ||४||

देवराजेन च पुरा कथैषा कथिता शुभा |

समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप ||५||

यदा च मम रामेण युद्धमासीत्सुदारुणम् |

वसुभिश्च तदा राजन्कथेयं कथिता मम ||६||

पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते |

कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर ||७||

तदेष परमो धर्मो यन्मां पृच्छसि भारत |

असन्नधीरनाकाङ्क्षी धर्मार्थकरणे नृप ||८||

स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः |

यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः ||९||

शान्तिपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.