भीष्मपर्वम् अध्यायः 01-27

श्रीः

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

001-अध्यायः-जम्बूखण्डविनिर्माणपर्व

जनमेजय उवाच||

कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः |

पार्थिवाश्च महाभागा नानादेशसमागताः ||१||

वैशम्पायन उवाच||

यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः |

कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ||२||

अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः |

कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ||३||

वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः |

आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ||४||

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् |

प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ||५||

समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः |

कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ||६||

शून्येव पृथिवी सर्वा बालवृद्धावशेषिता |

निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ||७||

यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् |

तावदेव समावृत्तं बलं पार्थिवसत्तम ||८||

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् |

पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ||९||

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ |

आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ||१०||

सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः |

एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ||११||

अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च |

योजयामास कौरव्यो युद्धकाल उपस्थिते ||१२||

दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः |

सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ||१३||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ||१४||

दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः |

दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ||१५||

ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः |

बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ||१६||

ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ |

दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ||१७||

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः |

श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ||१८||

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः |

त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ||१९||

उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन |

अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ||२०||

ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् |

व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ||२१||

वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः |

विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ||२२||

उभे सेने तदा राजन्युद्धाय मुदिते भृशम् |

कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ||२३||

तयोस्तु सेनयोरासीदद्भुतः स समागमः |

युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ||२४||

शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता |

तेन सेनासमूहेन समानीतेन कौरवैः ||२५||

ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः |

धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ||२६||

निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् |

यथापुरं यथायोगं न च स्याच्छलनं पुनः ||२७||

वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् |

निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन ||२८||

रथी च रथिना योध्यो गजेन गजधूर्गतः |

अश्वेनाश्वी पदातिश्च पदातेनैव भारत ||२९||

यथायोगं यथावीर्यं यथोत्साहं यथावयः |

समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ||३०||

परेण सह संयुक्तः प्रमत्तो विमुखस्तथा |

क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन ||३१||

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु |

न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ||३२||

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः |

विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ||३३||

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः |

हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ||३४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

002-अध्यायः

वैशम्पायन उवाच||

ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः |

सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ||१||

भविष्यति रणे घोरे भरतानां पितामहः |

प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ||२||

वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् |

शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ||३||

व्यास उवाच||

राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः |

ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् ||४||

तेषु कालपरीतेषु विनश्यत्सु च भारत |

कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ||५||

यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते |

चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ||६||

धृतराष्ट्र उवाच||

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम |

युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ||७||

वैशम्पायन उवाच||

तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति |

वराणामीश्वरो दाता सञ्जयाय वरं ददौ ||८||

व्यास उवाच||

एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति |

एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति ||९||

चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः |

कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ||१०||

प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा |

मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ||११||

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः |

गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ||१२||

अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ |

पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ||१३||

दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि |

न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ||१४||

वैशम्पायन उवाच||

एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः |

पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ||१५||

इह युद्धे महाराज भविष्यति महान्क्षयः |

यथेमानि निमित्तानि भयायाद्योपलक्षये ||१६||

श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः |

सम्पतन्ति वनान्तेषु समवायांश्च कुर्वते ||१७||

अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः |

क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ||१८||

खटाखटेति वाशन्तो भैरवं भयवेदिनः |

कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ||१९||

उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत |

उदयास्तमने सूर्यं कबन्धैः परिवारितम् ||२०||

श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः |

त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ||२१||

ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् |

अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ||२२||

अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् |

चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ||२३||

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः |

राजानो राजपुत्राश्च शूराः परिघबाहवः ||२४||

अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः |

प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ||२५||

देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च |

वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ||२६||

अनाहता दुन्दुभयः प्रणदन्ति विशां पते |

अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ||२७||

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा |

सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ||२८||

गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः |

अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ||२९||

उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते |

आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ||३०||

या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता |

अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ||३१||

रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः |

व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ||३२||

अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् |

वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ||३३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

003-अध्यायः

व्यास उवाच||

खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः |

अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः ||१||

गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् |

क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् ||२||

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः |

द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ||३||

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः |

त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ||४||

तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् |

वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव ||५||

गोवत्सं वडवा सूते श्वा सृगालं महीपते |

क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ||६||

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः |

ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ||७||

पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि |

नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ||८||

प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः |

अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ||९||

उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ||९||

पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च |

विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ||१०||

अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् |

श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ||११||

अभावं हि विशेषेण कुरूणां प्रतिपश्यति |

धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ||१२||

सेनयोरशिवं घोरं करिष्यति महाग्रहः |

मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ||१३||

भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते |

शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ||१४||

उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ||१४||

श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः |

ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ||१५||

ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते |

चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ||१६||

वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः |

ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ||१७||

सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी |

पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः ||१८||

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् |

ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ||१९||

निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् |

व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् ||२०||

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च |

कवचानां ध्वजानां च भविष्यति महान्क्षयः ||२१||

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः |

अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् ||२२||

एकपक्षाक्षिचरणः शकुनिः खचरो निशि |

रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः ||२३||

ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ |

सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ||२४||

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ |

विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ||२५||

कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् |

वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ||२६||

त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते |

बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् ||२७||

चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् |

इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ||२८||

चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् |

अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः ||२९||

रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः |

उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ||३०||

मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् |

अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ||३१||

प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः |

फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव ||३२||

पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ||३२||

अद्य चैव निशां व्युष्टामुदये भानुराहतः |

ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ||३३||

आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः |

भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ||३४||

कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः |

सहस्रशो महाशब्दं शिखराणि पतन्ति च ||३५||

महाभूता भूमिकम्पे चतुरः सागरान्पृथक् |

वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः ||३६||

वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः |

पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ||३७||

पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः |

वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः ||३८||

स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ||३८||

धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः |

मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ||३९||

प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि |

गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ||४०||

पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च |

निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ||४१||

ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः |

रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ||४२||

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् |

यथा लोकः समुच्छेदं नायं गच्छेत भारत ||४३||

वैशम्पायन उवाच||

पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् |

दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः ||४४||

क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे |

वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ||४५||

इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् |

प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ||४६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

004-अध्यायः

वैशम्पायन उवाच||

एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम |

पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ||१||

पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः |

असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् ||२||

सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् |

ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा ||३||

धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे |

क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ||४||

कालोऽयं पुत्ररूपेण तव जातो विशां पते |

न वधः पूज्यते वेदे हितं नैतत्कथञ्चन ||५||

हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् |

कालेनोत्पथगन्तासि शक्ये सति यथापथि ||६||

कुलस्यास्य विनाशाय तथैव च महीक्षिताम् |

अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ||७||

लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् |

किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ||८||

यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि |

लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ||९||

एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः |

आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ||१०||

धृतराष्ट्र उवाच||

यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् |

स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि ||११||

प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः |

न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् ||१२||

त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः |

कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ||१३||

व्यास उवाच||

वैचित्रवीर्य नृपते यत्ते मनसि वर्तते |

अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् ||१४||

धृतराष्ट्र उवाच||

यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् |

तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ||१५||

व्यास उवाच||

प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः |

पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ||१६||

गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र |

विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः ||१७||

इष्टा वाचः पृष्ठतो वायसानां; सम्प्रस्थितानां च गमिष्यतां च |

ये पृष्ठतस्ते त्वरयन्ति राज; न्ये त्वग्रतस्ते प्रतिषेधयन्ति ||१८||

कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र |

प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः ||१९||

अलङ्कारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम् |

भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून् ||२०||

हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत |

न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ||२१||

इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः |

पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते ||२२||

शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः |

सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ||२३||

अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च |

अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ||२४||

एतानि जयमानानां लक्षणानि विशां पते |

भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ||२५||

अल्पायां वा महत्यां वा सेनायामिति निश्चितम् |

हर्षो योधगणस्यैकं जयलक्षणमुच्यते ||२६||

एको दीर्णो दारयति सेनां सुमहतीमपि |

तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ||२७||

दुर्निवारतमा चैव प्रभग्ना महती चमूः |

अपामिव महावेगस्त्रस्ता मृगगणा इव ||२८||

नैव शक्या समाधातुं संनिपाते महाचमूः |

दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ||२९||

भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते ||२९||

प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः |

नैव स्थापयितुं शक्या शूरैरपि महाचमूः ||३०||

सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः |

उपायपूर्वं मेधावी यतेत सततोत्थितः ||३१||

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् |

जघन्य एष विजयो यो युद्धेन विशां पते ||३२||

महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ||३२||

परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः |

पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ||३३||

अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ||३३||

न वैनतेयो गरुडः प्रशंसति महाजनम् |

दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ||३४||

न बाहुल्येन सेनाया जयो भवति भारत |

अध्रुवो हि जयो नाम दैवं चात्र परायणम् ||३५||

जयन्तो ह्यपि सङ्ग्रामे क्षयवन्तो भवन्त्युत ||३५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

005-अध्यायः

वैशम्पायन उवाच||

एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते |

धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ||१||

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः |

सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ||२||

सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः |

अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि ||३||

पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः |

न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् ||४||

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् |

मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ||५||

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |

कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ||६||

देशानां च परीमाणं नगराणां च सञ्जय |

श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ||७||

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा |

प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ||८||

सञ्जय उवाच||

यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् |

शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ||९||

द्विविधानीह भूतानि त्रसानि स्थावराणि च |

त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ||१०||

त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः |

जरायुजानां प्रवरा मानवाः पशवश्च ये ||११||

नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश |

अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ||१२||

सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा |

ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ||१३||

गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः |

एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ||१४||

एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश |

वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ||१५||

ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् |

सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ||१६||

उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः |

वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ||१७||

एषां विंशतिरेकोना महाभूतेषु पञ्चसु |

चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता ||१८||

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् |

तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति ||१९||

भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति |

भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ||२०||

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् |

तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ||२१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

006-अध्यायः

धृतराष्ट्र उवाच||

नदीनां पर्वतानां च नामधेयानि सञ्जय |

तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ||१||

प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः |

निखिलेन समाचक्ष्व काननानि च सञ्जय ||२||

सञ्जय उवाच||

पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् |

जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ||३||

भूमिरापस्तथा वायुरग्निराकाशमेव च |

गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ||४||

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |

भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ||५||

चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते |

शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ||६||

शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ||६||

एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु |

वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ||७||

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा |

यदा तु विषमीभावमाविशन्ति परस्परम् ||८||

तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ||८||

आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः |

सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ||९||

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः |

तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ||१०||

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् |

प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ||११||

सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन |

परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ||१२||

नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः |

पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ||१३||

वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् |

लावणेन समुद्रेण समन्तात्परिवारितः ||१४||

यथा च पुरुषः पश्येदादर्शे मुखमात्मनः |

एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ||१५||

द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् |

सर्वौषधिसमावापैः सर्वतः परिबृंहितः ||१६||

आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते ||१६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

007-अध्यायः

धृतराष्ट्र उवाच||

उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय |

यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ||१||

तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ||१||

वैशम्पायन उवाच||

एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् |

प्रागायता महाराज षडेते रत्नपर्वताः ||२||

अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ||२||

हिमवान्हेमकूटश्च निषधश्च नगोत्तमः |

नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ||३||

सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ||३||

एते वै पर्वता राजन्सिद्धचारणसेविताः |

तेषामन्तरविष्कम्भो योजनानि सहस्रशः ||४||

तत्र पुण्या जनपदास्तानि वर्षाणि भारत |

वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ||५||

इदं तु भारतं वर्षं ततो हैमवतं परम् |

हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ||६||

दक्षिणेन तु नीलस्य निषधस्योत्तरेण च |

प्रागायतो महाराज माल्यवान्नाम पर्वतः ||७||

ततः परं माल्यवतः पर्वतो गन्धमादनः |

परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ||८||

आदित्यतरुणाभासो विधूम इव पावकः |

योजनानां सहस्राणि षोडशाधः किल स्मृतः ||९||

उच्चैश्च चतुराशीतिर्योजनानां महीपते |

ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ||१०||

तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो |

भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ||११||

उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ||११||

विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल |

स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ||१२||

मेरुरुत्तममध्यानामधमानां च पक्षिणाम् |

अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ||१३||

तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः |

चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ||१४||

स पर्वतो महाराज दिव्यपुष्पफलान्वितः |

भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ||१५||

तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः |

अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ||१६||

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः |

समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ||१७||

तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः |

अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ||१८||

सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः |

तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ||१९||

तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते |

तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ||२०||

तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते |

ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ||२१||

पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् |

कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ||२२||

तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः |

उमासहायो भगवान्रमते भूतभावनः ||२३||

कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् |

त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ||२४||

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः |

पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ||२५||

तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर |

त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ||२६||

पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा |

पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ||२७||

तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ||२७||

तां धारयामास पुरा दुर्धरां पर्वतैरपि |

शतं वर्षसहस्राणां शिरसा वै महेश्वरः ||२८||

मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते |

जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ||२९||

आयुर्दश सहस्राणि वर्षाणां तत्र भारत |

सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ||३०||

अनामया वीतशोका नित्यं मुदितमानसाः |

जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ||३१||

गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः |

संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ||३२||

गन्धमादनपादेषु परेष्वपरगण्डिकाः |

एकादश सहस्राणि वर्षाणां परमायुषः ||३३||

तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः |

स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ||३४||

नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् |

वर्षमैरावतं नाम ततः शृङ्गवतः परम् ||३५||

धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे |

इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ||३६||

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः |

आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ||३७||

समन्वितानि भूतानि तेषु वर्षेषु भारत |

एवमेषा महाराज पर्वतैः पृथिवी चिता ||३८||

हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः |

यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ||३९||

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति |

हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ||४०||

तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् |

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ||४१||

दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ||४१||

यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः |

तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ||४२||

सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः |

उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ||४३||

नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ||४३||

तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता |

ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ||४४||

वस्वोकसारा नलिनी पावना च सरस्वती |

जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ||४५||

अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः |

उपासते यत्र सत्रं सहस्रयुगपर्यये ||४६||

दृश्यादृश्या च भवति तत्र तत्र सरस्वती |

एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ||४७||

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः |

सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ||४८||

देवासुराणां च गृहं श्वेतः पर्वत उच्यते |

गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ||४९||

शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः ||४९||

इत्येतानि महाराज सप्त वर्षाणि भागशः |

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ||५०||

तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी |

अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ||५१||

यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् |

पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ||५२||

कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ||५२||

ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः |

एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ||५३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

008-अध्यायः

धृतराष्ट्र उवाच||

मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय |

निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ||१||

सञ्जय उवाच||

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे |

उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ||२||

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः |

पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ||३||

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप |

अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ||४||

ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् |

वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ||५||

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका |

सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ||६||

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः |

तुल्यरूपगुणोपेताः समेषु विषमेषु च ||७||

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः |

तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ||८||

मिथुनं जायमानं वै समं तच्च प्रवर्धते |

तुल्यरूपगुणोपेतं समवेषं तथैव च ||९||

एकैकमनुरक्तं च चक्रवाकसमं विभो ||९||

निरामया वीतशोका नित्यं मुदितमानसाः |

दश वर्षसहस्राणि दश वर्षशतानि च ||१०||

जीवन्ति ते महाराज न चान्योन्यं जहत्युत ||१०||

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः |

ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ||११||

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः |

मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ||१२||

तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते |

भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ||१३||

कालाम्रश्च महाराज नित्यपुष्पफलः शुभः |

द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ||१४||

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः |

स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ||१५||

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः |

चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ||१६||

दश वर्षसहस्राणि तत्रायुर्भरतर्षभ |

कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ||१७||

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु |

सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ||१८||

सर्वकामफलः पुण्यः सिद्धचारणसेवितः |

तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ||१९||

योजनानां सहस्रं च शतं च भरतर्षभ |

उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ||२०||

अरत्नीनां सहस्रं च शतानि दश पञ्च च |

परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ||२१||

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् |

मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ||२२||

तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप |

मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ||२३||

पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप |

तस्मिन्फलरसे पीते न जरा बाधते च तान् ||२४||

तत्र जाम्बूनदं नाम कनकं देवभूषणम् |

तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ||२५||

तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् |

नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ||२६||

तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका |

योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ||२७||

महारजतसङ्काशा जायन्ते तत्र मानवाः |

ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ||२८||

तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः |

रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ||२९||

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च |

अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ||३०||

षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च |

आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||३१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

009-अध्यायः

धृतराष्ट्र उवाच||

वर्षाणां चैव नामानि पर्वतानां च सञ्जय |

आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ||१||

सञ्जय उवाच||

दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु |

वर्षं रमणकं नाम जायन्ते तत्र मानवाः ||२||

शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः |

रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः ||३||

दश वर्षसहस्राणि शतानि दश पञ्च च |

जीवन्ति ते महाराज नित्यं मुदितमानसाः ||४||

दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च |

वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ||५||

यक्षानुगा महाराज धनिनः प्रियदर्शनाः |

महाबलास्तत्र सदा राजन्मुदितमानसाः ||६||

एकादश सहस्राणि वर्षाणां ते जनाधिप |

आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ||७||

शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप |

एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ||८||

सर्वरत्नमयं चैकं भवनैरुपशोभितम् |

तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ||९||

उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप |

वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ||१०||

न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः |

चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ||११||

पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः |

पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ||१२||

अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः |

देवलोकच्युताः सर्वे तथा विरजसो नृप ||१३||

त्रयोदश सहस्राणि वर्षाणां ते जनाधिप |

आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम ||१४||

क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः |

हरिर्वसति वैकुण्ठः शकटे कनकात्मके ||१५||

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् |

अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ||१६||

स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ |

सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः ||१७||

पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव |

स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ||१८||

वैशम्पायन उवाच||

एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः |

ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ||१९||

स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः |

असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ||२०||

सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ||२०||

नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् |

देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ||२१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

010-अध्यायः

धृतराष्ट्र उवाच||

यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् |

यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ||१||

यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः |

एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय ||२||

सञ्जय उवाच||

न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम |

गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ||३||

अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः |

ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ||४||

अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् |

प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ||५||

पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः |

ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ||६||

तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च |

ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ||७||

अन्येषां च महाराज क्षत्रियाणां बलीयसाम् |

सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ||८||

तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम |

शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ||९||

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि |

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ||१०||

तेषां सहस्रशो राजन्पर्वतास्तु समीपतः |

अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ||११||

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः |

आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ||१२||

नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् |

गोदावरीं नर्मदां च बाहुदां च महानदीम् ||१३||

शतद्रुं चन्द्रभागां च यमुनां च महानदीम् |

दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ||१४||

नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् |

इरावतीं वितस्तां च पयोष्णीं देविकामपि ||१५||

वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् |

करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ||१६||

गोमतीं धूतपापां च वन्दनां च महानदीम् |

कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ||१७||

रथस्थां शतकुम्भां च सरयूं च नरेश्वर |

चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ||१८||

शतावरीं पयोष्णीं च परां भैमरथीं तथा |

कावेरीं चुलुकां चापि वापीं शतबलामपि ||१९||

निचीरां महितां चापि सुप्रयोगां नराधिप |

पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ||२०||

पूर्वाभिरामां वीरां च भीमामोघवतीं तथा |

पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ||२१||

पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् |

पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ||२२||

धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव |

सदानीरामधृष्यां च कुशधारां महानदीम् ||२३||

शशिकान्तां शिवां चैव तथा वीरवतीमपि |

वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ||२४||

हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् |

रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ||२५||

उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् |

वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ||२६||

विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि |

शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ||२७||

शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् |

कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ||२८||

दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् |

चरक्षां महिरोहीं च तथा जम्बुनदीमपि ||२९||

सुनसां तमसां दासीं त्रसामन्यां वराणसीम् |

लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ||३०||

मानवीं वृषभां चैव महानद्यो जनाधिप |

सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ||३१||

ब्रह्माणीं च महागौरीं दुर्गामपि च भारत |

चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ||३२||

मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् |

शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ||३३||

लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् |

कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ||३४||

सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष |

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ||३५||

तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः |

इत्येताः सरितो राजन्समाख्याता यथास्मृति ||३६||

अत ऊर्ध्वं जनपदान्निबोध गदतो मम |

तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ||३७||

शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च |

मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ||३८||

चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः |

उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ||३९||

पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः |

सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ||४०||

जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत |

कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ||४१||

गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः |

अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ||४२||

आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् |

वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ||४३||

विदेहका मागधाश्च सुह्माश्च विजयास्तथा |

अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ||४४||

मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः |

वाहीका वाटधानाश्च आभीराः कालतोयकाः ||४५||

अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः |

अटवीशबराश्चैव मरुभौमाश्च मारिष ||४६||

उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा |

कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ||४७||

अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च |

बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ||४८||

मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप |

पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ||४९||

शका निषादा निषधास्तथैवानर्तनैरृताः |

दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ||५०||

तीरग्राहास्तरतोया राजिका रस्यकागणाः |

तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ||५१||

काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा |

अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ||५२||

दर्वीकाः सकचा दर्वा वातजामरथोरगाः |

बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ||५३||

वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा |

वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ||५४||

कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः |

किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ||५५||

ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष |

अथापरे जनपदा दक्षिणा भरतर्षभ ||५६||

द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः |

उन्नत्यका माहिषका विकल्पा मूषकास्तथा ||५७||

कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः |

कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ||५८||

समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः |

ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः ||५९||

त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा |

तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ||६०||

मालका मल्लकाश्चैव तथैवापरवर्तकाः |

कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ||६१||

मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः |

आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ||६२||

हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः |

उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ||६३||

यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः |

सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ||६४||

तथैव मरधाश्चीनास्तथैव दशमालिकाः |

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ||६५||

शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह |

खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ||६६||

आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः |

औपकाश्च कलिङ्गाश्च किरातानां च जातयः ||६७||

तामरा हंसमार्गाश्च तथैव करभञ्जकाः |

उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो ||६८||

यथागुणबलं चापि त्रिवर्गस्य महाफलम् |

दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ||६९||

तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः |

ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ||७०||

देवमानुषकायानां कामं भूमिः परायणम् |

अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ||७१||

राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् |

न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ||७२||

तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः |

साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ||७३||

पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव |

भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ||७४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

011-अध्यायः

धृतराष्ट्र उवाच||

भारतस्यास्य वर्षस्य तथा हैमवतस्य च |

प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ||१||

अनागतमतिक्रान्तं वर्तमानं च सञ्जय |

आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ||२||

सञ्जय उवाच||

चत्वारि भारते वर्षे युगानि भरतर्षभ |

कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ||३||

पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो |

सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ||४||

चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम |

आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ||५||

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप |

द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति ||६||

न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ |

गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ||७||

महाबला महासत्त्वाः प्रजागुणसमन्विताः |

अजायन्त कृते राजन्मुनयः सुतपोधनाः ||८||

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः |

जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः ||९||

आयुष्मन्तो महावीरा धनुर्धरवरा युधि |

जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ||१०||

सर्ववर्णा महाराज जायन्ते द्वापरे सति |

महोत्साहा महावीर्याः परस्परवधैषिणः ||११||

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप |

लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ||१२||

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च |

पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ||१३||

सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप |

गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ||१४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

012-अध्यायः-भूमिपर्व

धृतराष्ट्र उवाच||

जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय |

विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ||१||

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन |

शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ||२||

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च |

ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ||३||

सञ्जय उवाच||

राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् |

सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ||४||

अष्टादश सहस्राणि योजनानां विशां पते |

षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ||५||

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः |

नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ||६||

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः |

सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ||७||

शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव |

शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ||८||

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप |

विष्कम्भेण महाराज सागरोऽपि विभागशः ||९||

क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ||९||

तत्र पुण्या जनपदा न तत्र म्रियते जनः |

कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ||१०||

शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ |

उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ||११||

धृतराष्ट्र उवाच||

शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय |

उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ||१२||

सञ्जय उवाच||

तथैव पर्वता राजन्सप्तात्र मणिभूषिताः |

रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ||१३||

अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ||१३||

देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते |

प्रागायतो महाराज मलयो नाम पर्वतः ||१४||

यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ||१४||

ततः परेण कौरव्य जलधारो महागिरिः |

यत्र नित्यमुपादत्ते वासवः परमं जलम् ||१५||

यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ||१५||

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः |

रेवती दिवि नक्षत्रं पितामहकृतो विधिः ||१६||

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः |

यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ||१७||

धृतराष्ट्र उवाच||

सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया |

प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ||१८||

सञ्जय उवाच||

सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन |

गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ||१९||

श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत |

आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ||२०||

ततः परं कौरवेन्द्र दुर्गशैलो महोदयः |

केसरी केसरयुतो यतो वातः प्रवायति ||२१||

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः |

वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः ||२२||

महामेरुर्महाकाशो जलदः कुमुदोत्तरः |

जलधारात्परो राजन्सुकुमार इति स्मृतः ||२३||

रैवतस्य तु कौमारः श्यामस्य तु मणीचकः |

केसरस्याथ मोदाकी परेण तु महापुमान् ||२४||

परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च |

जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ||२५||

शाको नाम महाराज तस्य द्वीपस्य मध्यगः |

तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ||२६||

तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च |

धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ||२७||

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते |

दीर्घायुषो महाराज जरामृत्युविवर्जिताः ||२८||

प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः |

नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ||२९||

सुकुमारी कुमारी च सीता कावेरका तथा |

महानदी च कौरव्य तथा मणिजला नदी ||३०||

इक्षुवर्धनिका चैव तथा भरतसत्तम ||३०||

ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह |

सहस्राणां शतान्येव यतो वर्षति वासवः ||३१||

न तासां नामधेयानि परिमाणं तथैव च |

शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ||३२||

तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः |

मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ||३३||

मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप |

मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ||३४||

मानसेषु महाराज वैश्याः कर्मोपजीविनः |

सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ||३५||

शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ||३५||

न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः |

स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ||३६||

एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् |

एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ||३७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

013-अध्यायः

सञ्जय उवाच||

उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा |

यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ||१||

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः |

सुरोदः सागरश्चैव तथान्यो घर्मसागरः ||२||

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप |

सर्वतश्च महाराज पर्वतैः परिवारिताः ||३||

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् |

पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ||४||

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः |

प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ||५||

कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह |

सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ||६||

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः |

सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ||७||

गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् |

यत्र नित्यं निवसति श्रीमान्कमललोचनः ||८||

मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ||८||

कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः |

सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ||९||

द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः |

चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ||१०||

षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः |

तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ||११||

औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् |

तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ||१२||

धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् |

सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ||१३||

एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर |

विहरन्ति रमन्ते च न तेषु म्रियते जनः ||१४||

न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप |

गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ||१५||

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर |

यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ||१६||

क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः |

क्रौञ्चात्परो वामनको वामनादन्धकारकः ||१७||

अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः |

मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ||१८||

गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः |

परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ||१९||

देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु |

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ||२०||

मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह |

उष्णात्परः प्रावरकः प्रावरादन्धकारकः ||२१||

अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः |

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ||२२||

सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप |

एते देशा महाराज देवगन्धर्वसेविताः ||२३||

पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् |

तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ||२४||

तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः |

वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ||२५||

जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत |

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ||२६||

विप्राणां ब्रह्मचर्येण सत्येन च दमेन च |

आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ||२७||

एको जनपदो राजन्द्वीपेष्वेतेषु भारत |

उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ||२८||

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः |

द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ||२९||

स राजा स शिवो राजन्स पिता स पितामहः |

गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ||३०||

भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् |

सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ||३१||

ततः परं समा नाम दृश्यते लोकसंस्थितिः |

चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ||३२||

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः |

दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ||३३||

सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ||३३||

तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे |

असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ||३४||

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च |

असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः ||३५||

पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः |

ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ||३६||

श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः |

आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ||३७||

धृतराष्ट्र उवाच||

परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः |

दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ||३८||

सञ्जय उवाच||

उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः |

स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ||३९||

परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः |

योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ||४०||

परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ |

षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ||४१||

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः |

विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ||४२||

एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ||४२||

सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन |

विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ||४३||

अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ |

श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः ||४४||

एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ||४४||

स राहुश्छादयत्येतौ यथाकालं महत्तया |

चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ||४५||

इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा |

सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ||४६||

यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् |

तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ||४७||

श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् |

श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ||४८||

आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ||४८||

यः शृणोति महीपाल पर्वणीदं यतव्रतः |

प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ||४९||

इदं तु भारतं वर्षं यत्र वर्तामहे वयम् |

पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ||५०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

014-अध्यायः-भगवद्गीतापर्व

वैशम्पायन उवाच||

अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः |

प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ||१||

ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः |

आचष्ट निहतं भीष्मं भरतानाममध्यमम् ||२||

सञ्जयोऽहं महाराज नमस्ते भरतर्षभ |

हतो भीष्मः शान्तनवो भरतानां पितामहः ||३||

ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् |

शरतल्पगतः सोऽद्य शेते कुरुपितामहः ||४||

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् |

स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ||५||

यः सर्वान्पृथिवीपालान्समवेतान्महामृधे |

जिगायैकरथेनैव काशिपुर्यां महारथः ||६||

जामदग्न्यं रणे राममायोध्य वसुसम्भवः |

न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ||७||

महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव |

समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ||८||

शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः |

नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ||९||

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे |

प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ||१०||

परिरक्ष्य स सेनां ते दशरात्रमनीकहा |

जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ||११||

यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः |

जघान युधि योधानामर्बुदं दशभिर्दिनैः ||१२||

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः |

तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ||१३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

015-अध्यायः

धृतराष्ट्र उवाच||

कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना |

कथं रथात्स न्यपतत्पिता मे वासवोपमः ||१||

कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय |

बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ||२||

तस्मिन्हते महासत्त्वे महेष्वासे महाबले |

महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ||३||

आर्तिः परा माविशति यतः शंससि मे हतम् |

कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ||४||

के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः |

केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय ||५||

के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् |

रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ||६||

यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा |

सहस्ररश्मिप्रतिमः परेषां भयमादधत् ||७||

अकरोद्दुष्करं कर्म रणे कौरवशासनात् ||७||

ग्रसमानमनीकानि य एनं पर्यवारयन् |

कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ||८||

कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ||८||

निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् |

चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ||९||

अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् |

पातयामास कौन्तेयः कथं तमजितं युधि ||१०||

उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे |

परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ||११||

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे |

कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ||१२||

परिकृष्य स सेनां मे दशरात्रमनीकहा |

जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ||१३||

यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् |

जघान युधि योधानामर्बुदं दशभिर्दिनैः ||१४||

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः |

मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ||१५||

कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी |

प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ||१६||

कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः |

कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ||१७||

कृपे संनिहिते तत्र भरद्वाजात्मजे तथा |

भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ||१८||

कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना |

भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ||१९||

यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् |

अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ||२०||

तं हतं समरे भीष्मं महारथबलोचितम् |

सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ||२१||

मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् |

दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ||२२||

यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः |

कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् ||२३||

मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् |

धनुर्ह्वादमहाशब्दो महामेघ इवोन्नतः ||२४||

यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् |

निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ||२५||

इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् |

कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ||२६||

गदासिमकरावर्तं हयग्राहं गजाकुलम् ||२६||

हयान्गजान्पदातांश्च रथांश्च तरसा बहून् |

निमज्जयन्तं समरे परवीरापहारिणम् ||२७||

विदह्यमानं कोपेन तेजसा च परन्तपम् |

वेलेव मकरावासं के वीराः पर्यवारयन् ||२८||

भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा |

दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ||२९||

केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः |

पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ||३०||

के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके |

केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ||३१||

वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् |

समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ||३२||

पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् |

समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ||३३||

रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते |

दुर्जयानामनीकानि नाजयंस्तरसा युधि ||३४||

सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः |

कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ||३५||

यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः |

तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ||३६||

यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः |

न पाण्डवानगणयत्कथं स निहतः परैः ||३७||

यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः |

काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ||३८||

यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे |

शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ||३९||

प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् |

वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ||४०||

सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् |

हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् ||४१||

धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः |

यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ||४२||

जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः |

अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ||४३||

तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् |

हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ||४४||

असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः |

जामदग्न्यस्तथा रामः परवीरनिघातिना ||४५||

तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् |

तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ||४६||

यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् |

परमास्त्रविदं वीरं जघान भरतर्षभम् ||४७||

के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि |

शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ||४८||

योषेव हतवीरा मे सेना पुत्रस्य सञ्जय |

अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ||४९||

पौरुषं सर्वलोकस्य परं यस्य महाहवे |

परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ||५०||

जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय |

घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ||५१||

अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः |

भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ||५२||

अद्रिसारमयं नूनं सुदृढं हृदयं मम |

यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ||५३||

यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे |

अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ||५४||

न चास्त्रेण न शौर्येण तपसा मेधया न च |

न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ||५५||

कालो नूनं महावीर्यः सर्वलोकदुरत्ययः |

यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ||५६||

पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् |

आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् ||५७||

यदादित्यमिवापश्यत्पतितं भुवि सञ्जय |

दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत ||५८||

नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् |

शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ||५९||

दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः |

यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ||६०||

वयं वा राज्यमिच्छामो घातयित्वा पितामहम् |

क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ||६१||

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय |

पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ||६२||

अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् |

कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् ||६३||

कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः |

कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ||६४||

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |

दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ||६५||

यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् |

शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ||६६||

प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् |

प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ||६७||

केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः |

अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय ||६८||

न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् |

पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ||६९||

आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् |

त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय ||७०||

महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् |

दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ||७१||

श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् |

तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ||७२||

सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम् |

अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय ||७३||

यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता |

तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ||७४||

यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः |

क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ||७५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

016-अध्यायः

सञ्जय उवाच||

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि |

न तु दुर्योधने दोषमिममासक्तुमर्हसि ||१||

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः |

एनसा तेन नान्यं स उपाशङ्कितुमर्हति ||२||

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |

स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||३||

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया |

अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ||४||

हयानां च गजानां च शूराणां चामितौजसाम् |

प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ||५||

शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः |

दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप ||६||

नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते |

यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ||७||

दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च |

परचित्तस्य विज्ञानमतीतानागतस्य च ||८||

व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा |

शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ||९||

शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् |

भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ||१०||

तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः |

दुर्योधनो महाराज दुःशासनमथाब्रवीत् ||११||

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः |

अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ||१२||

अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः |

पाण्डवानां ससैन्यानां कुरूणां च समागमः ||१३||

नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् |

हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ||१४||

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् |

श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ||१५||

तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः |

शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ||१६||

तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः |

सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ||१७||

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् |

मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ||१८||

वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् |

गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ||१९||

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः |

यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ||२०||

ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् |

क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ||२१||

शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत |

हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ||२२||

गजानां बृंहतां चैव योधानां चाभिगर्जताम् |

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ||२३||

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः |

सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ||२४||

तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ||२४||

तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः |

विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ||२५||

रथानीकान्यदृश्यन्त नगराणीव भूरिशः |

अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ||२६||

धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः |

योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ||२७||

गजा रथाः पदाताश्च तुरगाश्च विशां पते |

व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ||२८||

ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः |

स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ||२९||

काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः |

अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ||३०||

महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव |

संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ||३१||

उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः |

ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ||३२||

शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः |

विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ||३३||

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः |

बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ||३४||

दशैते पुरुषव्याघ्राः शूराः परिघबाहवः |

अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ||३५||

एते चान्ये च बहवो दुर्योधनवशानुगाः |

राजानो राजपुत्राश्च नीतिमन्तो महाबलाः ||३६||

संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः |

बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ||३७||

सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः |

समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ||३८||

एकादशी धार्तराष्ट्री कौरवाणां महाचमूः |

अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ||३९||

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् |

अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ||४०||

हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् |

श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ||४१||

दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः |

सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ||४२||

जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा |

धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ||४३||

एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत |

पाण्डवानां तथा सप्त महापुरुषपालिताः ||४४||

उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ |

युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ||४५||

नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः |

अनीकानां समेतानां समवायस्तथाविधः ||४६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

017-अध्यायः

सञ्जय उवाच||

यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् |

तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ||१||

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत |

दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ||२||

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत |

ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ||३||

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः |

लिप्समानाः शरीराणि मांसशोणितभोजनाः ||४||

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः |

भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ||५||

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ |

युयुधाते तवार्थाय यथा स समयः कृतः ||६||

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |

समानीय महीपालानिदं वचनमब्रवीत् ||७||

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् |

गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ||८||

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः |

सम्भावयत चात्मानमव्यग्रमनसो युधि ||९||

नाभागो हि ययातिश्च मान्धाता नहुषो नृगः |

संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ||१०||

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे |

यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ||११||

एवमुक्ता महीपाला भीष्मेण भरतर्षभ |

निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ||१२||

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः |

न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ||१३||

अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः |

निर्ययुः सिंहनादेन नादयन्तो दिशो दश ||१४||

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः |

तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ||१५||

भेरीपणवशब्दैश्च पटहानां च निस्वनैः |

रथनेमिनिनादैश्च बभूवाकुलिता मही ||१६||

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः |

भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ||१७||

तालेन महता भीष्मः पञ्चतारेण केतुना |

विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः ||१८||

ये त्वदीया महेष्वासा राजानो भरतर्षभ |

अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ||१९||

स तु गोवासनः शैब्यः सहितः सर्वराजभिः |

ययौ मातङ्गराजेन राजार्हेण पताकिना ||२०||

पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ||२०||

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः |

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ||२१||

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः |

एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ||२२||

स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ||२२||

तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् |

भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ||२३||

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता |

केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ||२४||

अनेकशतसाहस्रमनीकमनुकर्षतः |

महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ||२५||

तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः |

क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ||२६||

स्यन्दनेन महार्हेण केतुना वृषभेण च |

प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ||२७||

तदङ्गपतिना गुप्तं कृपेण च महात्मना |

शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ||२८||

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः |

शुशुभे केतुमुख्येन राजतेन जयद्रथः ||२९||

शतं रथसहस्राणां तस्यासन्वशवर्तिनः |

अष्टौ नागसहस्राणि सादिनामयुतानि षट् ||३०||

तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् |

अनन्तरथनागाश्वमशोभत महद्बलम् ||३१||

षष्ट्या रथसहस्रैस्तु नागानामयुतेन च |

पतिः सर्वकलिङ्गानां ययौ केतुमता सह ||३२||

तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः |

यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ||३३||

शुशुभे केतुमुख्येन पादपेन कलिङ्गपः |

श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ||३४||

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् |

आस्थितः समरे राजन्मेघस्थ इव भानुमान् ||३५||

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः |

भगदत्तो ययौ राजा यथा वज्रधरस्तथा ||३६||

गजस्कन्धगतावास्तां भगदत्तेन संमितौ |

विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ||३७||

स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् |

वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ||३८||

द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च |

तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ||३९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

018-अध्यायः

सञ्जय उवाच||

ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः |

अश्रूयत महाराज योधानां प्रयुयुत्सताम् ||१||

शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः |

रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ||२||

हयानां हेषमाणानां योधानां तत्र गर्जताम् |

क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ||३||

पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च |

समकम्पन्त सैन्यानि परस्परसमागमे ||४||

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः |

भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ||५||

ध्वजा बहुविधाकारास्तावकानां नराधिप |

काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ||६||

स्वेषां चैव परेषां च समदृश्यन्त भारत |

महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ||७||

काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः |

संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ||८||

उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः |

ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ||९||

पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप |

दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ||१०||

विविंशतिश्चित्रसेनो विकर्णश्च महारथः |

सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ||११||

रथा विंशतिसाहस्रास्तथैषामनुयायिनः |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||१२||

शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा |

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ||१३||

द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः |

महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ||१४||

अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् |

मागधो येन नृपतिस्तद्रथानीकमन्वयात् ||१५||

रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् |

अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ||१६||

पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः |

अनेकशतसाहस्रा नखरप्रासयोधिनः ||१७||

अक्षौहिण्यो दशैका च तव पुत्रस्य भारत |

अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ||१८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

019-अध्यायः

धृतराष्ट्र उवाच||

अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः |

कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ||१||

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् |

कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ||२||

सञ्जय उवाच||

धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः |

अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ||३||

महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः |

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ||४||

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह |

अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ||५||

एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव |

तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः ||६||

एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् |

अचलं नाम वज्राख्यं विहितं वज्रपाणिना ||७||

यः स वात इवोद्धूतः समरे दुःसहः परैः |

स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ||८||

तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः |

अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ||९||

यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः |

निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव ||१०||

तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् |

भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ||११||

न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम् |

द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ||१२||

भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् |

चरन्वेगेन महता समुद्रमपि शोषयेत् ||१३||

केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् |

एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ||१४||

धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् |

ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ||१५||

अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ||१५||

एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः |

व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ||१६||

सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः |

गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ||१७||

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः |

नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ||१८||

समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः |

भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ||१९||

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती |

द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ||२०||

धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः |

सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ||२१||

शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः |

यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ||२२||

पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः |

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ||२३||

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः |

बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ||२४||

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः |

विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ||२५||

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः |

नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ||२६||

समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः |

भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ||२७||

त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् |

अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ||२८||

पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः |

अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ||२९||

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः |

शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ||३०||

क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः |

राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ||३१||

भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् |

प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ||३२||

तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् |

न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ||३३||

वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः |

चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ||३४||

यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् |

अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ||३५||

सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति |

प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ||३६||

विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः |

रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ||३७||

पपात महती चोल्का प्राङ्मुखी भरतर्षभ |

उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ||३८||

अथ सज्जीयमानेषु सैन्येषु भरतर्षभ |

निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ||३९||

व्यशीर्यत सनादा च तदा भरतसत्तम ||३९||

निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् |

प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन ||४०||

ध्वजानां धूयमानानां सहसा मातरिश्वना |

किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ||४१||

महतां सपताकानामादित्यसमतेजसाम् |

सर्वं झणझणीभूतमासीत्तालवनेष्विव ||४२||

एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः |

व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ||४३||

स्रंसन्त इव मज्जानो योधानां भरतर्षभ |

दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ||४४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

020-अध्यायः

धृतराष्ट्र उवाच||

सूर्योदये सञ्जय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन् |

मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् ||१||

केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त |

केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ||२||

सञ्जय उवाच||

उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र |

उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे ||३||

उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये |

तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते ||४||

पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः |

दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् ||५||

शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त |

गजेन्द्राणां मदगन्धांश्च तीव्रा; न्न सेहिरे तव पुत्रस्य नागाः ||६||

दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् |

समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च ||७||

चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे |

तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः ||८||

भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः |

श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः ||९||

तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च |

ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः ||१०||

शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः |

आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् ||११||

वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च |

शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः ||१२||

शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी |

शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति ||१३||

महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः |

बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति ||१४||

संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः |

येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः ||१५||

साग्रं शतसहस्रं तु नागानां तव भारत |

नागे नागे रथशतं शतं चाश्वा रथे रथे ||१६||

अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः |

एवं व्यूढान्यनीकानि भीष्मेण तव भारत ||१७||

अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् |

दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ||१८||

महारथौघविपुलः समुद्र इव पर्वणि |

भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ||१९||

अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम् |

तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च ||२०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

021-अध्यायः

सञ्जय उवाच||

बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् |

विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ||१||

व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः |

अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ||२||

धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे |

धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ||३||

अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना |

कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ||४||

ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन |

कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ||५||

अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा |

विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् ||६||

प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि |

जयन्त्यल्पतरा येन तन्निबोध विशां पते ||७||

तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे |

नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ||८||

एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् |

पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ||९||

न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः |

यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ||१०||

त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः |

युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ||११||

एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः |

यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ||१२||

गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् |

अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ||१३||

अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः |

पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ||१४||

पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः |

सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ||१५||

अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् |

तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ||१६||

तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत |

यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ||१७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

022-अध्यायः

सञ्जय उवाच||

ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् |

प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ||१||

यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः |

स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ||२||

मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना |

धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ||३||

अनीकं दक्षिणं राजन्युयुधानेन पालितम् |

श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ||४||

महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् |

युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये ||५||

समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति |

प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम् ||६||

पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव |

जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः ||७||

ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान् |

कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः ||८||

सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः |

रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः ||९||

तमास्थितः केशवसङ्गृहीतं; कपिध्वजं गाण्डिवबाणहस्तः |

धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् ||१०||

उद्वर्तयिष्यंस्तव पुत्रसेना; मतीव रौद्रं स बिभर्ति रूपम् |

अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् ||११||

स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता |

तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् ||१२||

समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः |

वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः ||१३||

अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् |

अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ||१४||

वासुदेव उवाच||

य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च |

स एष भीष्मः कुरुवंशकेतु; र्येनाहृतास्त्रिंशतो वाजिमेधाः ||१५||

एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् |

एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ||१६||

धृतराष्ट्र उवाच||

केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय |

उदग्रमनसः केऽत्र के वा दीना विचेतसः ||१७||

के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने |

मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय ||१८||

कस्य सेनासमुदये गन्धमाल्यसमुद्भवः |

वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ||१९||

सञ्जय उवाच||

उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा |

स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ||२०||

संहतानामनीकानां व्यूढानां भरतर्षभ |

संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ||२१||

वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः |

कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ||२२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

023-अध्यायः

धृतराष्ट्र उवाच||

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१||

सञ्जय उवाच||

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ||२||

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |

युयुधानो विराटश्च द्रुपदश्च महारथः ||४||

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ||५||

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |

नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ||७||

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||८||

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||

अयनेषु च सर्वेषु यथाभागमवस्थिताः |

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३||

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६||

काश्यश्च परमेष्वासः शिखण्डी च महारथः |

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१८||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ||१९||

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः |

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||२०||

हृषीकेशं तदा वाक्यमिदमाह महीपते |

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||२१||

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |

कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ||२२||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||२३||

एवमुक्तो हृषीकेशो गुडाकेशेन भारत |

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |

उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||२५||

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||२६||

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||२७||

कृपया परयाविष्टो विषीदन्निदमब्रवीत् |

दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ||२८||

सीदन्ति मम गात्राणि मुखं च परिशुष्यति |

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||२९||

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||३०||

निमित्तानि च पश्यामि विपरीतानि केशव |

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||३१||

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||३२||

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||

आचार्याः पितरः पुत्रास्तथैव च पितामहाः |

मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ||३४||

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५||

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||३६||

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् |

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७||

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||४०||

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१||

सङ्करो नरकायैव कुलघ्नानां कुलस्य च |

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२||

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३||

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |

नरके नियतं वासो भवतीत्यनुशुश्रुम ||४४||

अहो बत महत्पापं कर्तुं व्यवसिता वयम् |

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||४५||

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |

विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

024-अध्यायः

सञ्जय उवाच||

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||१||

श्रीभगवानुवाच||

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२||

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||३||

अर्जुन उवाच||

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||४||

गुरूनहत्वा हि महानुभावा; ञ्श्रेयो भोक्तुं भैक्षमपीह लोके |

हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् ||५||

न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः |

यानेव हत्वा न जिजीविषाम; स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||६||

कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः |

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||७||

न हि प्रपश्यामि ममापनुद्या; द्यच्छोकमुच्छोषणमिन्द्रियाणाम् |

अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ||८||

सञ्जय उवाच||

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||९||

तमुवाच हृषीकेशः प्रहसन्निव भारत |

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||१०||

श्रीभगवानुवाच||

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||११||

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |

न चैव न भविष्यामः सर्वे वयमतः परम् ||१२||

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||१३||

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||१४||

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५||

नासतो विद्यते भावो नाभावो विद्यते सतः |

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||१६||

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||१७||

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||१८||

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||१९||

न जायते म्रियते वा कदा चि; न्नायं भूत्वा भविता वा न भूयः |

अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे ||२०||

वेदाविनाशिनं नित्यं य एनमजमव्ययम् |

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२१||

वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि |

तथा शरीराणि विहाय जीर्णा; न्यन्यानि संयाति नवानि देही ||२२||

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२३||

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२४||

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२५||

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |

तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ||२६||

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२७||

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |

अव्यक्तनिधनान्येव तत्र का परिदेवना ||२८||

आश्चर्यवत्पश्यति कश्चिदेन; माश्चर्यवद्वदति तथैव चान्यः |

आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ||२९||

देही नित्यमवध्योऽयं देहे सर्वस्य भारत |

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०||

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३१||

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||३२||

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि |

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||३३||

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||३४||

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||३५||

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||३६||

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||३७||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||३८||

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||३९||

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||४०||

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||४१||

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||४२||

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||४३||

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||४४||

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |

निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||४५||

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||४६||

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||४७||

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||४८||

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||४९||

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||५०||

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||५१||

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||५२||

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||५३||

अर्जुन उवाच||

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||५४||

श्रीभगवानुवाच||

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||५५||

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||५६||

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||५७||

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||५८||

विषया विनिवर्तन्ते निराहारस्य देहिनः |

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||५९||

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||६०||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः |

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||६१||

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||६२||

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः |

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||६३||

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||६४||

प्रसादे सर्वदुःखानां हानिरस्योपजायते |

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||६५||

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||६६||

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||६७||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||६८||

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||६९||

आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् |

तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी ||७०||

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||७१||

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||७२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

025-अध्यायः

अर्जुन उवाच||

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |

तत्किं कर्मणि घोरे मां नियोजयसि केशव ||१||

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे |

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||२||

श्रीभगवानुवाच||

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||३||

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |

न च संन्यसनादेव सिद्धिं समधिगच्छति ||४||

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||५||

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||६||

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |

कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||७||

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |

शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ||८||

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||९||

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||१०||

देवान्भावयतानेन ते देवा भावयन्तु वः |

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ||११||

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||१२||

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||१३||

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||१४||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||१५||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||१६||

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||१७||

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||१८||

तस्मादसक्तः सततं कार्यं कर्म समाचर |

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||१९||

कर्मणैव हि संसिद्धिमास्थिता जनकादयः |

लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||२०||

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||२१||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||२२||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः |

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||२३||

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||२४||

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ||२५||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||२६||

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||२७||

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||२८||

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु |

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||२९||

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३०||

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३१||

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३२||

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३३||

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||३४||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३५||

अर्जुन उवाच||

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||३६||

श्रीभगवानुवाच||

काम एष क्रोध एष रजोगुणसमुद्भवः |

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||३७||

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ||३८||

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३९||

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||४०||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |

पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ||४१||

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः |

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||४२||

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||४३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

026-अध्यायः

श्रीभगवानुवाच||

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ||१||

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |

स कालेनेह महता योगो नष्टः परन्तप ||२||

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||३||

अर्जुन उवाच||

अपरं भवतो जन्म परं जन्म विवस्वतः |

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ||४||

श्रीभगवानुवाच||

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||५||

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ||६||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||७||

परित्राणाय साधूनां विनाशाय च दुष्कृताम् |

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||८||

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ||९||

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |

बहवो ज्ञानतपसा पूता मद्भावमागताः ||१०||

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||११||

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||१२||

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||१३||

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||१४||

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ||१५||

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः |

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||१६||

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ||१७||

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||१८||

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः |

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||१९||

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः |

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ||२०||

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ||२१||

यदृच्छालाभसन्तुष्टो द्वंद्वातीतो विमत्सरः |

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ||२२||

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः |

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||२३||

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||२४||

दैवमेवापरे यज्ञं योगिनः पर्युपासते |

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||२५||

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||२६||

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||२७||

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ||२८||

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||२९||

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ||३०||

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||३१||

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||३२||

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप |

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||३३||

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||३४||

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ||३५||

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||३६||

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||३७||

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||३८||

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः |

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||३९||

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ||४०||

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||४१||

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||४२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

027-अध्यायः

अर्जुन उवाच||

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ||१||

श्रीभगवानुवाच||

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ||२||

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |

निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ||३||

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||४||

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते |

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ||५||

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ||६||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||७||

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||८||

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि |

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||९||

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः |

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||१०||

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ||११||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |

अयुक्तः कामकारेण फले सक्तो निबध्यते ||१२||

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ||१३||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ||१४||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||१५||

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ||१६||

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः |

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||१७||

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||१८||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः |

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ||१९||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ||२०||

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||२१||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||२२||

शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् |

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||२३||

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः |

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ||२४||

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः |

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||२५||

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||२६||

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||२७||

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||२८||

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||२९||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.