भीष्मपर्वम् अध्यायः 28-49

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

028-अध्यायः

श्रीभगवानुवाच||

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||१||

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||२||

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |

योगारूढस्य तस्यैव शमः कारणमुच्यते ||३||

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||४||

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||५||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||६||

जितात्मनः प्रशान्तस्य परमात्मा समाहितः |

शीतोष्णसुखदुःखेषु तथा मानावमानयोः ||७||

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||८||

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||९||

योगी युञ्जीत सततमात्मानं रहसि स्थितः |

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||१०||

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ||११||

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः |

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||१२||

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||१३||

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः |

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||१४||

युञ्जन्नेवं सदात्मानं योगी नियतमानसः |

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||१५||

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||१६||

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||१७||

यदा विनियतं चित्तमात्मन्येवावतिष्ठते |

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||१८||

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||१९||

यत्रोपरमते चित्तं निरुद्धं योगसेवया |

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||२०||

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||२१||

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||२२||

तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् |

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||२३||

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||२४||

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ||२५||

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ||२६||

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ||२७||

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||२८||

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||२९||

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||३०||

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ||३१||

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |

सुखं वा यदि वा दुःखं स योगी परमो मतः ||३२||

अर्जुन उवाच||

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||३३||

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् |

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||३४||

श्रीभगवानुवाच||

असंशयं महाबाहो मनो दुर्निग्रहं चलम् |

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||३५||

असंयतात्मना योगो दुष्प्राप इति मे मतिः |

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ||३६||

अर्जुन उवाच||

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||३७||

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||३८||

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः |

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||३९||

श्रीभगवानुवाच||

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ||४०||

प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः |

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ||४१||

अथ वा योगिनामेव कुले भवति धीमताम् |

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||४२||

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||४३||

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||४४||

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||४५||

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||४६||

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||४७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

029-अध्यायः

श्रीभगवानुवाच||

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||१||

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ||२||

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||३||

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ||४||

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |

जीवभूतां महाबाहो ययेदं धार्यते जगत् ||५||

एतद्योनीनि भूतानि सर्वाणीत्युपधारय |

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ||६||

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय |

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||७||

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ||८||

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ |

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||९||

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||१०||

बलं बलवतां चाहं कामरागविवर्जितम् |

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||११||

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||१२||

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् |

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||१३||

दैवी ह्येषा गुणमयी मम माया दुरत्यया |

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ||१४||

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |

माययापहृतज्ञाना आसुरं भावमाश्रिताः ||१५||

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||१६||

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||१७||

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ||१८||

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||१९||

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||२०||

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति |

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||२१||

स तया श्रद्धया युक्तस्तस्या राधनमीहते |

लभते च ततः कामान्मयैव विहितान्हि तान् ||२२||

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ||२३||

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |

परं भावमजानन्तो ममाव्ययमनुत्तमम् ||२४||

नाहं प्रकाशः सर्वस्य योगमायासमावृतः |

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||२५||

वेदाहं समतीतानि वर्तमानानि चार्जुन |

भविष्याणि च भूतानि मां तु वेद न कश्चन ||२६||

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत |

सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ||२७||

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |

ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||२८||

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||२९||

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||३०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

030-अध्यायः

अर्जुन उवाच||

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ||१||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन |

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ||२||

श्रीभगवानुवाच||

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते |

भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ||३||

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् |

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ||४||

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् |

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||५||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् |

तं तमेवैति कौन्तेय सदा तद्भावभावितः ||६||

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ||७||

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना |

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||८||

कविं पुराणमनुशासितार; मणोरणीयांसमनुस्मरेद्यः |

सर्वस्य धातारमचिन्त्यरूप; मादित्यवर्णं तमसः परस्तात् ||९||

प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव |

भ्रुवोर्मध्ये प्राणमावेश्य सम्य; क्स तं परं पुरुषमुपैति दिव्यम् ||१०||

यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतयो वीतरागाः |

यदिच्छन्तो ब्रह्मचर्यं चरन्ति; तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ||११||

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ||१२||

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् |

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||१३||

अनन्यचेताः सततं यो मां स्मरति नित्यशः |

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||१४||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् |

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||१५||

आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||१६||

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः |

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||१७||

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे |

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ||१८||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||१९||

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||२०||

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् |

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||२१||

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||२२||

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||२३||

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् |

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||२४||

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् |

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||२५||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||२६||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||२७||

वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् |

अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् ||२८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

031-अध्यायः

श्रीभगवानुवाच||

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||१||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||२||

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||३||

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||४||

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||५||

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||६||

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् |

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||७||

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||८||

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |

उदासीनवदासीनमसक्तं तेषु कर्मसु ||९||

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् |

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ||१०||

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |

परं भावमजानन्तो मम भूतमहेश्वरम् ||११||

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||१२||

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||१३||

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||१४||

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||१५||

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||१६||

पिताहमस्य जगतो माता धाता पितामहः |

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ||१७||

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||१८||

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||१९||

त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |

ते पुण्यमासाद्य सुरेन्द्रलोक; मश्नन्ति दिव्यान्दिवि देवभोगान् ||२०||

ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति |

एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते ||२१||

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||२२||

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||२३||

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||२४||

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||२५||

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||२६||

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||२७||

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||२८||

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||२९||

अपि चेत्सुदुराचारो भजते मामनन्यभाक् |

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||३०||

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||३१||

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||३२||

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||३३||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||३४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

032-अध्यायः

श्रीभगवानुवाच||

भूय एव महाबाहो शृणु मे परमं वचः |

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||१||

न मे विदुः सुरगणाः प्रभवं न महर्षयः |

अहमादिर्हि देवानां महर्षीणां च सर्वशः ||२||

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||३||

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः |

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ||४||

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||५||

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||६||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ||७||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||८||

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||९||

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०||

तेषामेवानुकम्पार्थमहमज्ञानजं तमः |

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||११||

अर्जुन उवाच||

परं ब्रह्म परं धाम पवित्रं परमं भवान् |

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१२||

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१३||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१४||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |

भूतभावन भूतेश देवदेव जगत्पते ||१५||

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१६||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१७||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन |

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१८||

श्रीभगवानुवाच||

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१९||

अहमात्मा गुडाकेश सर्वभूताशयस्थितः |

अहमादिश्च मध्यं च भूतानामन्त एव च ||२०||

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||२१||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||२२||

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||२३||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||२४||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||२५||

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||२६||

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||२७||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||२८||

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |

पितॄणामर्यमा चास्मि यमः संयमतामहम् ||२९||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||३०||

पवनः पवतामस्मि रामः शस्त्रभृतामहम् |

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||३१||

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||३२||

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च |

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||३३||

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||३४||

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||३५||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||३६||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |

मुनीनामप्यहं व्यासः कवीनामुशना कविः ||३७||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||३८||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |

न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||३९||

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||४०||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |

तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ||४१||

अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन |

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||४२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

033-अध्यायः

अर्जुन उवाच||

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||१||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||२||

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||३||

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||४||

श्रीभगवानुवाच||

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||५||

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||६||

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |

मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ||७||

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||८||

सञ्जय उवाच||

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |

दर्शयामास पार्थाय परमं रूपमैश्वरम् ||९||

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||१०||

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११||

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||१२||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||१३||

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||१४||

अर्जुन उवाच||

पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसङ्घान् |

ब्रह्माणमीशं कमलासनस्थ; मृषींश्च सर्वानुरगांश्च दिव्यान् ||१५||

अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् |

नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ||१६||

किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् |

पश्यामि त्वां दुर्निरीक्ष्यं समन्ता; द्दीप्तानलार्कद्युतिमप्रमेयम् ||१७||

त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् |

त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ||१८||

अनादिमध्यान्तमनन्तवीर्य; मनन्तबाहुं शशिसूर्यनेत्रम् |

पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् ||१९||

द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः |

दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् ||२०||

अमी हि त्वा सुरसङ्घा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति |

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||२१||

रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |

गन्धर्वयक्षासुरसिद्धसङ्घा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ||२२||

रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् |

बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||२३||

नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् |

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ||२४||

दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि |

दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ||२५||

अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसङ्घैः |

भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः ||२६||

वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि |

केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||२७||

यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति |

तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ||२८||

यथा प्रदीप्तं ज्वलनं पतङ्गा; विशन्ति नाशाय समृद्धवेगाः |

तथैव नाशाय विशन्ति लोका; स्तवापि वक्त्राणि समृद्धवेगाः ||२९||

लेलिह्यसे ग्रसमानः समन्ता; ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः |

तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ||३०||

आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद |

विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ||३१||

श्रीभगवानुवाच||

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः |

ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ||३२||

तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् |

मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ||३३||

द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान् |

मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ||३४||

सञ्जय उवाच||

एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी |

नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ||३५||

अर्जुन उवाच||

स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च |

रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसङ्घाः ||३६||

कस्माच्च ते न नमेरन्महात्म; न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |

अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ||३७||

त्वमादिदेवः पुरुषः पुराण; स्त्वमस्य विश्वस्य परं निधानम् |

वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप ||३८||

वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च |

नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते ||३९||

नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व |

अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ||४०||

सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति |

अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि ||४१||

यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु |

एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् ||४२||

पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान् |

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव ||४३||

तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम् |

पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् ||४४||

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे |

तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास ||४५||

किरीटिनं गदिनं चक्रहस्त; मिच्छामि त्वां द्रष्टुमहं तथैव |

तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते ||४६||

श्रीभगवानुवाच||

मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात् |

तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ||४७||

न वेदयज्ञाध्ययनैर्न दानै; र्न च क्रियाभिर्न तपोभिरुग्रैः |

एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर ||४८||

मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |

व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ||४९||

सञ्जय उवाच||

इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः |

आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ||५०||

अर्जुन उवाच||

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||५१||

श्रीभगवानुवाच||

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||५२||

नाहं वेदैर्न तपसा न दानेन न चेज्यया |

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||५३||

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||५४||

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||५५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

034-अध्यायः

अर्जुन उवाच||

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१||

श्रीभगवानुवाच||

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |

श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ||२||

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||३||

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||४||

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||५||

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |

अनन्येनैव योगेन मां ध्यायन्त उपासते ||६||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||७||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||८||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||९||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१०||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||११||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१३||

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१४||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१५||

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१६||

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१७||

समः शत्रौ च मित्रे च तथा मानावमानयोः |

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१८||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१९||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

035-अध्यायः

श्रीभगवानुवाच||

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१||

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||२||

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||३||

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् |

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||४||

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च |

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||५||

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः |

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||६||

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||७||

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च |

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||८||

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||९||

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |

विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१०||

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||११||

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१२||

सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् |

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३||

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१४||

बहिरन्तश्च भूतानामचरं चरमेव च |

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१५||

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१६||

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१७||

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१८||

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१९||

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||२०||

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||२१||

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||२२||

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||२३||

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||२४||

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||२५||

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् |

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||२६||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||२७||

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||२८||

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |

यः पश्यति तथात्मानमकर्तारं स पश्यति ||२९||

यदा भूतपृथग्भावमेकस्थमनुपश्यति |

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||३०||

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||३१||

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||३२||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||३३||

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||३४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

036-अध्यायः

श्रीभगवानुवाच||

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||२||

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् |

सम्भवः सर्वभूतानां ततो भवति भारत ||३||

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||४||

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||५||

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||६||

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||७||

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||८||

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||९||

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१०||

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||११||

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१२||

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१३||

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |

तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४||

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |

तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१५||

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१६||

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१७||

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |

जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ||१८||

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१९||

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||२०||

अर्जुन उवाच||

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |

किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||२१||

श्रीभगवानुवाच||

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||२२||

उदासीनवदासीनो गुणैर्यो न विचाल्यते |

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ||२३||

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||२४||

मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||२५||

मां च योऽव्यभिचारेण भक्तियोगेन सेवते |

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||२६||

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||२७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

037-अध्यायः

श्रीभगवानुवाच||

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः |

अधश्च मूलान्यनुसन्ततानि; कर्मानुबन्धीनि मनुष्यलोके ||२||

न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च सम्प्रतिष्ठा |

अश्वत्थमेनं सुविरूढमूल; मसङ्गशस्त्रेण दृढेन छित्त्वा ||३||

ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः |

तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी ||४||

निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः |

द्वंद्वैर्विमुक्ताः सुखदुःखसञ्ज्ञै; र्गच्छन्त्यमूढाः पदमव्ययं तत् ||५||

न तद्भासयते सूर्यो न शशाङ्को न पावकः |

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||६||

ममैवांशो जीवलोके जीवभूतः सनातनः |

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||७||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||८||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |

अधिष्ठाय मनश्चायं विषयानुपसेवते ||९||

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१०||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||११||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१२||

गामाविश्य च भूतानि धारयाम्यहमोजसा |

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१३||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१४||

सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च |

वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् ||१५||

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१६||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१७||

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१८||

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् |

स सर्वविद्भजति मां सर्वभावेन भारत ||१९||

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |

एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||२०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

038-अध्यायः

श्रीभगवानुवाच||

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१||

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् |

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ||२||

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |

भवन्ति सम्पदं दैवीमभिजातस्य भारत ||३||

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च |

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||४||

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||५||

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||६||

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||७||

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||८||

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||९||

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |

मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१०||

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |

कामोपभोगपरमा एतावदिति निश्चिताः ||११||

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१२||

इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् |

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१३||

असौ मया हतः शत्रुर्हनिष्ये चापरानपि |

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१४||

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१५||

अनेकचित्तविभ्रान्ता मोहजालसमावृताः |

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१७||

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः |

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१८||

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् |

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१९||

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||२०||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||२१||

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||२२||

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||२३||

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||२४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

039-अध्यायः

अर्जुन उवाच||

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१||

श्रीभगवानुवाच||

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||२||

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||३||

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||४||

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ||५||

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः |

मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||६||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||७||

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||८||

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||९||

यातयामं गतरसं पूति पर्युषितं च यत् |

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१०||

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||११||

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१२||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१३||

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१४||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१५||

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१६||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७||

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१८||

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१९||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||२०||

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||२१||

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||२२||

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||२३||

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||२४||

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||२५||

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||२६||

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||२७||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||२८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

040-अध्यायः

अर्जुन उवाच||

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१||

श्रीभगवानुवाच||

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||२||

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||३||

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||४||

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् |

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||५||

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||६||

नियतस्य तु संन्यासः कर्मणो नोपपद्यते |

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||७||

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् |

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||८||

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||९||

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१०||

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||११||

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् |

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१२||

पञ्चैतानि महाबाहो कारणानि निबोध मे |

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१३||

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१४||

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१५||

तत्रैवं सति कर्तारमात्मानं केवलं तु यः |

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१६||

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते |

हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ||१७||

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ||१८||

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः |

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१९||

सर्वभूतेषु येनैकं भावमव्ययमीक्षते |

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||२०||

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||२१||

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||२२||

नियतं सङ्गरहितमरागद्वेषतः कृतम् |

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||२३||

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः |

क्रियते बहुलायासं तद्राजसमुदाहृतम् ||२४||

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||२५||

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||२६||

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||२७||

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः |

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||२८||

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||२९||

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||३०||

यया धर्ममधर्मं च कार्यं चाकार्यमेव च |

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||३१||

अधर्मं धर्ममिति या मन्यते तमसावृता |

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||३२||

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||३३||

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||३४||

यया स्वप्नं भयं शोकं विषादं मदमेव च |

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||३५||

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||३६||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||३७||

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||३८||

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||३९||

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||४०||

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||४१||

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||४२||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् |

दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ||४३||

कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् |

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||४४||

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||४५||

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||४६||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||४७||

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||४८||

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||४९||

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||५०||

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||५१||

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||५२||

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् |

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||५३||

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||५४||

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||५५||

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||५६||

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||५७||

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |

अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ||५८||

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे |

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||५९||

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ||६०||

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||६१||

तमेव शरणं गच्छ सर्वभावेन भारत |

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||६२||

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया |

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||६३||

सर्वगुह्यतमं भूयः शृणु मे परमं वचः |

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||६४||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||६५||

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||६६||

इदं ते नातपस्काय नाभक्ताय कदाचन |

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||६७||

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||६८||

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |

भविता न च मे तस्मादन्यः प्रियतरो भुवि ||६९||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः |

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||७०||

श्रद्धावाननसूयश्च शृणुयादपि यो नरः |

सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||७१||

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |

कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ||७२||

अर्जुन उवाच||

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |

स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ||७३||

सञ्जय उवाच||

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |

संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||७४||

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||७५||

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् |

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||७६||

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |

विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ||७७||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||७८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

041-अध्यायः-भीष्मवधपर्व

प्रथमयुद्धदिवसः

सञ्जय उवाच||

ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् |

पुनरेव महानादं व्यसृजन्त महारथाः ||१||

पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः |

दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् ||२||

ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः |

सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ||३||

अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर |

सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ||४||

ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् |

समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ||५||

ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते |

ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ||६||

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् |

अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ||७||

पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः |

वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ||८||

तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः |

अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ||९||

वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह |

यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ||१०||

अर्जुन उवाच||

किं ते व्यवसितं राजन्यदस्मानपहाय वै |

पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ||११||

भीमसेन उवाच||

क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः |

दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ||१२||

नकुल उवाच||

एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत |

भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ||१३||

सहदेव उवाच||

अस्मिन्रणसमूहे वै वर्तमाने महाभये |

योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ||१४||

सञ्जय उवाच||

एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन |

नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ||१५||

तानुवाच महाप्राज्ञो वासुदेवो महामनाः |

अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ||१६||

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च |

अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ||१७||

श्रूयते हि पुराकल्पे गुरूनननुमान्य यः |

युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ||१८||

अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः |

ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ||१९||

एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति |

हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ||२०||

दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः |

मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः ||२१||

व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् |

युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ||२२||

धनञ्जये कथं नाथे पाण्डवे च वृकोदरे |

नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ||२३||

न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि |

यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे ||२४||

ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् |

हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ||२५||

व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते |

युधिष्ठिरं ससोदर्यं सहितं केशवेन ह ||२६||

ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् |

निःशब्दमभवत्तूर्णं पुनरेव विशां पते ||२७||

किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति |

किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ||२८||

विवक्षितं किमस्येति संशयः सुमहानभूत् |

उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ||२९||

स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् |

भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ||३०||

तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः |

भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ||३१||

युधिष्ठिर उवाच||

आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह |

अनुजानीहि मां तात आशिषश्च प्रयोजय ||३२||

भीष्म उवाच||

यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते |

शपेयं त्वां महाराज पराभावाय भारत ||३३||

प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव |

यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ||३४||

व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि |

एवं गते महाराज न तवास्ति पराजयः ||३५||

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |

इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||३६||

अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन |

हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ||३७||

युधिष्ठिर उवाच||

मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः |

युध्यस्व कौरवस्यार्थे ममैष सततं वरः ||३८||

भीष्म उवाच||

राजन्किमत्र साह्यं ते करोमि कुरुनन्दन |

कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ||३९||

युधिष्ठिर उवाच||

कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् |

एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ||४०||

भीष्म उवाच||

न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे |

विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ||४१||

युधिष्ठिर उवाच||

हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते |

जयोपायं ब्रवीहि त्वमात्मनः समरे परैः ||४२||

भीष्म उवाच||

न शत्रुं तात पश्यामि समरे यो जयेत माम् |

न तावन्मृत्युकालो मे पुनरागमनं कुरु ||४३||

सञ्जय उवाच||

ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन |

शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ||४४||

प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति |

पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ||४५||

स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् |

उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः ||४६||

आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः |

जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज ||४७||

द्रोण उवाच||

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |

शपेयं त्वां महाराज पराभावाय सर्वशः ||४८||

तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ |

अनुजानामि युध्यस्व विजयं समवाप्नुहि ||४९||

करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् |

एवं गते महाराज युद्धादन्यत्किमिच्छसि ||५०||

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |

इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||५१||

अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि |

योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया ||५२||

युधिष्ठिर उवाच||

जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् |

युध्यस्व कौरवस्यार्थे वर एष वृतो मया ||५३||

द्रोण उवाच||

ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव |

अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि ||५४||

यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः |

युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ||५५||

युधिष्ठिर उवाच||

पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् |

कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ||५६||

द्रोण उवाच||

न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे |

ममाशु निधने राजन्यतस्व सह सोदरैः ||५७||

युधिष्ठिर उवाच||

हन्त तस्मान्महाबाहो वधोपायं वदात्मनः |

आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ||५८||

द्रोण उवाच||

न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् |

युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ||५९||

ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् |

हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ||६०||

शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् |

श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ||६१||

सञ्जय उवाच||

एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः |

अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ||६२||

सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् |

उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ||६३||

अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः |

जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ ||६४||

कृप उवाच||

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |

शपेयं त्वां महाराज पराभावाय सर्वशः ||६५||

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |

इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||६६||

तेषामर्थे महाराज योद्धव्यमिति मे मतिः |

अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि ||६७||

युधिष्ठिर उवाच||

हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः |

सञ्जय उवाच||

इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः |

तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ||६९||

अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि ||६९||

प्रीतस्त्वभिगमेनाहं जयं तव नराधिप |

आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ||७०||

एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा |

अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ||७१||

स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् |

उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ||७२||

अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः |

जयेयं च महाराज अनुज्ञातस्त्वया रिपून् ||७३||

शल्य उवाच||

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः |

शपेयं त्वां महाराज पराभावाय वै रणे ||७४||

तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते |

अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ||७५||

ब्रूहि चैव परं वीर केनार्थः किं ददामि ते |

एवं गते महाराज युद्धादन्यत्किमिच्छसि ||७६||

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |

इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ||७७||

करिष्यामि हि ते कामं भागिनेय यथेप्सितम् |

ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ||७८||

युधिष्ठिर उवाच||

मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् |

कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् ||७९||

शल्य उवाच||

ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम |

कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः ||८०||

युधिष्ठिर उवाच||

स एव मे वरः सत्य उद्योगे यस्त्वया कृतः |

सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया ||८१||

शल्य उवाच||

सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः |

गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव ||८२||

सञ्जय उवाच||

अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् |

निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ||८३||

वासुदेवस्तु राधेयमाहवेऽभिजगाम वै |

तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ||८४||

श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि |

अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ||८५||

हते तु भीष्मे राधेय पुनरेष्यसि संयुगे |

धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ||८६||

कर्ण उवाच||

न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव |

त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ||८७||

सञ्जय उवाच||

तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत |

युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः ||८८||

अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः |

योऽस्मान्वृणोति तदहं वरये साह्यकारणात् ||८९||

अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् |

प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ||९०||

अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् |

युष्मदर्थे महाराज यदि मां वृणुषेऽनघ ||९१||

युधिष्ठिर उवाच||

एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् |

युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ||९२||

वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् |

त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ||९३||

भजस्वास्मान्राजपुत्र भजमानान्महाद्युते |

न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ||९४||

सञ्जय उवाच||

ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव |

जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ||९५||

ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः |

जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ||९६||

प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः |

ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ||९७||

अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् |

सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ||९८||

रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः |

धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा ||९९||

गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् |

दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् ||१००||

सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् |

दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः ||१०१||

साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः |

वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः ||१०२||

म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा |

वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ||१०३||

ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् |

शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ||१०४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

042-अध्यायः

धृतराष्ट्र उवाच||

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |

के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ||१||

सञ्जय उवाच||

भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव |

भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ||२||

तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः |

भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ||३||

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः |

भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ||४||

उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् |

वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ||५||

महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः |

चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ||६||

नरेन्द्रनागाश्वरथाकुलाना; मभ्यायतीनामशिवे मुहूर्ते |

बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||७||

तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे |

भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ||८||

शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् |

सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ||९||

हयानां हेषमाणानामनीकेषु सहस्रशः |

सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ||१०||

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः |

जीमूतस्येव नदतः शक्राशनिसमस्वनम् ||११||

वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |

शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ||१२||

दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् |

विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ||१३||

तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् |

छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ||१४||

दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः |

दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ||१५||

विविंशतिश्चित्रसेनो विकर्णश्च महारथः |

पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ||१६||

महाचापानि धुन्वन्तो जलदा इव विद्युतः |

आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ||१७||

अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः |

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||१८||

धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः |

वज्रैरिव महावेगैः शिखराणि धराभृताम् ||१९||

तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने |

तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||२०||

लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ |

निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ||२१||

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा |

विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ||२२||

सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत |

ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ||२३||

ततस्ते जातसंरम्भाः परस्परकृतागसः |

अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ||२४||

कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले |

शुशुभाते रणेऽतीव पटे चित्रगते इव ||२५||

ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः |

सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ||२६||

युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः |

विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ||२७||

उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः |

अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ||२८||

प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि |

नात्र स्वेषां परेषां वा विशेषः समजायत ||२९||

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये |

अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ||३०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

043-अध्यायः

सञ्जय उवाच||

पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते |

प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ||१||

कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् |

सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ||२||

आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह |

जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ||३||

तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ |

पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ||४||

तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः |

घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ||५||

तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे |

बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ||६||

ते मनः क्रूरमाधाय समभित्यक्तजीविताः |

पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||७||

स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् |

प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ||८||

अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् |

अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ||९||

तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ |

गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ||१०||

तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ||१०||

सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् |

तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ||११||

सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् |

आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ||१२||

तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ |

वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ||१३||

अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् |

ततः कोसलको राजा सौभद्रस्य विशां पते ||१४||

ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ||१४||

सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ |

बृहद्बलं महाराज विव्याध नवभिः शरैः ||१५||

अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः |

ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ||१६||

अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ||१६||

मानिनं समरे दृप्तं कृतवैरं महारथम् |

भीमसेनस्तव सुतं दुर्योधनमयोधयत् ||१७||

तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ |

अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ||१८||

तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ |

विस्मयः सर्वभूतानां समपद्यत भारत ||१९||

दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् |

अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ||२०||

तस्य माद्रीसुतः केतुं सशरं च शरासनम् |

चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ||२१||

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ||२१||

पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे |

युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ||२२||

दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् |

विव्याध शरवर्षेण यतमानं महाहवे ||२३||

सहदेवस्ततो वीरो दुर्मुखस्य महाहवे |

शरेण भृशतीक्ष्णेन पातयामास सारथिम् ||२४||

तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ |

त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ||२५||

युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् |

तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ||२६||

तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः |

अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ||२७||

ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः |

छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||२८||

धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत |

तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ||२९||

त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ||२९||

शरं चैव महाघोरं कालदण्डमिवापरम् |

प्रेषयामास समरे सोऽस्य काये न्यमज्जत ||३०||

अथान्यद्धनुरादाय सायकांश्च चतुर्दश |

द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ||३१||

तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ||३१||

सौमदत्तिं रणे शङ्खो रभसं रभसो युधि |

प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ||३२||

तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् |

सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ||३३||

तयोः समभवद्युद्धं घोररूपं विशां पते |

दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ||३४||

बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते |

अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ||३५||

बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् |

शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ||३६||

चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः |

विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ||३७||

तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः |

समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ||३८||

राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः |

अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ||३९||

घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् |

नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ||४०||

अलम्बुसस्तु समरे भैमसेनिं महाबलम् |

बहुधा वारयामास शरैः संनतपर्वभिः ||४१||

व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ |

यथा देवासुरे युद्धे बलशक्रौ महाबलौ ||४२||

शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली |

अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ||४३||

नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् |

शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ||४४||

सायकेन सुपीतेन तीक्ष्णेन निशितेन च |

तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ||४५||

भगदत्तं रणे शूरं विराटो वाहिनीपतिः |

अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ||४६||

विराटो भगदत्तेन शरवर्षेण ताडितः |

अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ||४७||

भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् |

छादयामास समरे मेघः सूर्यमिवोदितम् ||४८||

बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ |

तं कृपः शरवर्षेण छादयामास भारत ||४९||

गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् |

तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ||५०||

विरथावसियुद्धाय समीयतुरमर्षणौ |

तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ||५१||

द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् |

अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप ||५२||

ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः |

ताडयामास समरे स च तं प्रत्यविध्यत ||५३||

तयोः समभवद्युद्धं घोररूपं सुदारुणम् |

ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ||५४||

विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् |

अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ||५५||

विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः |

सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ||५६||

सुशर्माणं नरव्याघ्रं चेकितानो महारथः |

अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ||५७||

सुशर्मा तु महाराज चेकितानं महारथम् |

महता शरवर्षेण वारयामास संयुगे ||५८||

चेकितानोऽपि संरब्धः सुशर्माणं महाहवे |

प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ||५९||

शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी |

अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ||६०||

यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः |

व्यदारयत सङ्ग्रामे मघवानिव दानवम् ||६१||

शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे |

व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ||६२||

सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् |

श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ||६३||

सुदक्षिणस्तु समरे साहदेविं महारथम् |

विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ||६४||

श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् |

शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ||६५||

इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् |

प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ||६६||

आर्जुनिस्तस्य समरे हयान्हत्वा महारथः |

ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ||६७||

श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् |

निजघान गदाग्रेण ततो युद्धमवर्तत ||६८||

विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् |

ससेनं ससुतं वीरं संससज्जतुराहवे ||६९||

तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् |

यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ||७०||

अनुविन्दस्तु गदया कुन्तिभोजमताडयत् |

कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ||७१||

कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः |

स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ||७२||

केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष |

ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ||७३||

वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् |

उत्तरं योधयामास विव्याध निशितैः शरैः ||७४||

उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ||७४||

चेदिराट्समरे राजन्नुलूकं समभिद्रवत् |

उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ||७५||

तयोर्युद्धं समभवद्घोररूपं विशां पते |

दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ||७६||

एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् |

पदातीनां च समरे तव तेषां च सङ्कुलम् ||७७||

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् |

तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ||७८||

गजो गजेन समरे रथी च रथिनं ययौ |

अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ||७९||

ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत |

शूराणां समरे तत्र समासाद्य परस्परम् ||८०||

तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः |

प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ||८१||

ततो दन्तिसहस्राणि रथानां चापि मारिष |

अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ||८२||

तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः |

सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ||८३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

044-अध्यायः

सञ्जय उवाच||

राजञ्शतसहस्राणि तत्र तत्र तदा तदा |

निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ||१||

न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् |

न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ||२||

मातुलं न च स्वस्रीयो न सखायं सखा तथा |

आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ||३||

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः |

अभज्यन्त युगैरेव युगानि भरतर्षभ ||४||

रथेषाश्च रथेषाभिः कूबरा रथकूबरैः |

संहताः संहतैः केचित्परस्परजिघांसवः ||५||

न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः |

प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ||६||

बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् |

सतोमरपताकैश्च वारणाः परवारणैः ||७||

अभिसृत्य महाराज वेगवद्भिर्महागजैः |

दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ||८||

अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः |

सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ||९||

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः |

क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ||१०||

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः |

ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ||११||

विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः |

प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ||१२||

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः |

ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ||१३||

गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः |

आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ||१४||

प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः |

व्यदृश्यन्त महाराज परस्परजिघांसवः ||१५||

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः |

प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ||१६||

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः |

सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु ||१७||

गदामुसलरुग्णानां भिन्नानां च वरासिभिः |

दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ||१८||

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् |

शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ||१९||

हयैरपि हयारोहाश्चामरापीडधारिभिः |

हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ||२०||

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः |

आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ||२१||

अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् |

शिरांस्याददिरे वीरा रथिनामश्वसादिनः ||२२||

बहूनपि हयारोहान्भल्लैः संनतपर्वभिः |

रथी जघान सम्प्राप्य बाणगोचरमागतान् ||२३||

नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः |

पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ||२४||

पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः |

प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ||२५||

साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः |

सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति ||२६||

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः |

रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ||२७||

पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः |

साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ||२८||

केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः |

विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः ||२९||

आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः |

नराश्वकायान्निर्भिद्य लौहानि कवचानि च ||३०||

निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः |

महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ||३१||

द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि |

विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ||३२||

अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् |

विदर्शयन्तः सम्पेतुः खड्गचर्मपरश्वधैः ||३३||

शक्तिभिर्दारिताः केचित्सञ्छिन्नाश्च परश्वधैः |

हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः ||३४||

रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः |

विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् ||३५||

पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः |

मातुलान्भागिनेयांश्च परानपि च संयुगे ||३६||

विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत |

बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः ||३७||

क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ||३७||

तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते |

भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे ||३८||

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत |

व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् ||३९||

अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् |

नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ||४०||

तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ||४०||

निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् |

भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ||४१||

अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः |

निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ||४२||

अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे |

प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः ||४३||

अशोभन्त महाराज पुष्पिता इव किंशुकाः ||४३||

सम्बभूवुरनीकेषु बहवो भैरवस्वनाः |

वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ||४४||

अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे |

स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ||४५||

सखायं च सखा राजन्सम्बन्धी बान्धवं तथा |

एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ||४६||

वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे |

भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ||४७||

केतुना पञ्चतारेण तालेन भरतर्षभ |

राजतेन महाबाहुरुच्छ्रितेन महारथे ||४८||

बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ||४८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

045-अध्यायः

सञ्जय उवाच||

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे |

वर्तमाने महारौद्रे महावीरवरक्षये ||१||

दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः |

भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ||२||

एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ |

पाण्डवानामनीकानि विजगाहे महारथः ||३||

चेदिकाशिकरूषेषु पाञ्चालेषु च भारत |

भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ||४||

शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् |

निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ||५||

नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ |

केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ||६||

अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः |

संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ||७||

जाम्बूनदविचित्रेण कर्णिकारेण केतुना |

अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ||८||

स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा |

भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ||९||

कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः |

विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ||१०||

पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च |

ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् ||११||

दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना |

जहार सारथेः कायाच्छिरः संनतपर्वणा ||१२||

धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् |

कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ||१३||

जघान परमक्रुद्धो नृत्यन्निव महारथः |

तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ||१४||

लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्ममुखा रथाः |

सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ||१५||

तस्य लाघवमार्गस्थमलातसदृशप्रभम् |

दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ||१६||

तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः |

विव्याध समरे तूर्णमार्जुनिं परवीरहा ||१७||

ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः |

सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ||१८||

तथैव कृतवर्मा च कृपः शल्यश्च मारिष |

विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ||१९||

स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः |

ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ||२०||

ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः |

ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ||२१||

तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत |

यतमानस्य समरे भीष्ममर्दयतः शरैः ||२२||

पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् |

स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ||२३||

ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः |

चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ||२४||

स राजतो महास्कन्धस्तालो हेमविभूषितः |

सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ||२५||

ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ |

दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ||२६||

अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च |

प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ||२७||

ततः शतसहस्रेण सौभद्रं प्रपितामहः |

अवाकिरदमेयात्मा शराणां नतपर्वणाम् ||२८||

ततो दश महेष्वासाः पाण्डवानां महारथाः |

रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ||२९||

विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः |

भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ||३०||

जवेनापततां तेषां भीष्मः शान्तनवो रणे |

पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ||३१||

पूर्णायतविसृष्टेन क्षुरेण निशितेन च |

ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ||३२||

जाम्बूनदमयः केतुः केसरी नरसत्तम |

पपात भीमसेनस्य भीष्मेण मथितो रथात् ||३३||

भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे |

कृपमेकेन विव्याध कृतवर्माणमष्टभिः ||३४||

प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना |

अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ||३५||

तस्य वारणराजस्य जवेनापततो रथी |

शल्यो निवारयामास वेगमप्रतिमं रणे ||३६||

तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः |

पदा युगमधिष्ठाय जघान चतुरो हयान् ||३७||

स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् |

उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ||३८||

तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः |

स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ||३९||

समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् |

वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ||४०||

भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः |

भीममार्तस्वरं कृत्वा पपात च ममार च ||४१||

एतदीदृशकं कृत्वा मद्रराजो महारथः |

आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||४२||

उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् |

कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ||४३||

शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ||४३||

स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |

अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ||४४||

महता रथवंशेन समन्तात्परिवारितः |

सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ||४५||

तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् |

तावकानां रथाः सप्त समन्तात्पर्यवारयन् ||४६||

मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ||४६||

ततो भीष्मो महाबाहुर्विनद्य जलदो यथा |

तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ||४७||

तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् |

सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ||४८||

तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः |

भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ||४९||

हाहाकारो महानासीद्योधानां युधि युध्यताम् |

तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ||५०||

अथ शल्यो गदापाणिरवतीर्य महारथात् |

शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ||५१||

स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः |

बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ||५२||

ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः |

यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ||५३||

पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् |

भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः ||५४||

उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् |

अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ||५५||

प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् ||५५||

अग्निनेव प्रदग्धानि वनानि शिशिरात्यये |

शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ||५६||

अतिष्ठत रणे भीष्मो विधूम इव पावकः ||५६||

मध्यंदिने यथादित्यं तपन्तमिव तेजसा |

न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ||५७||

वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः |

त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ||५८||

हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते |

हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ||५९||

ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |

मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ||६०||

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः |

जघान पाण्डवरथानादिश्यादिश्य भारत ||६१||

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः |

प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ||६२||

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे |

अवहारमकुर्वन्त सैन्यानां भरतर्षभ ||६३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

046-अध्यायः

द्वितीययुद्धदिवसः

सञ्जय उवाच||

कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ |

भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा ||१||

धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् |

भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ||२||

शुचा परमया युक्तश्चिन्तयानः पराजयम् |

वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ||३||

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् |

शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ||४||

कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् |

लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ||५||

एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् |

दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ||६||

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे |

वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ||७||

न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः |

सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ||८||

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव |

वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ||९||

न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे |

क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ||१०||

यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः |

विनाशायैव गच्छन्ति तथा मे सैनिको जनः ||११||

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी |

भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ||१२||

मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् |

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ||१३||

जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् |

न घातयिष्यामि रणे मित्राणीमानि केशव ||१४||

रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः |

घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ||१५||

किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् |

मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ||१६||

एको भीमः परं शक्त्या युध्यत्येष महाभुजः |

केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ||१७||

गदया वीरघातिन्या यथोत्साहं महामनाः |

करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ||१८||

नालमेष क्षयं कर्तुं परसैन्यस्य मारिष |

आर्जवेनैव युद्धेन वीर वर्षशतैरपि ||१९||

एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते |

निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ||२०||

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः |

धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ||२१||

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः |

क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ||२२||

स त्वं पश्य महेष्वासं योगीष्वर महारथम् |

यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा ||२३||

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः |

स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः ||२४||

एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः |

चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ||२५||

शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् |

अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ||२६||

मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि |

यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ||२७||

अहं च प्रियकृद्राजन्सात्यकिश्च महारथः |

विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ||२८||

तथैव सबलाः सर्वे राजानो राजसत्तम |

त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ||२९||

एष ते पार्षतो नित्यं हितकामः प्रिये रतः |

सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ||३०||

शिखण्डी च महाबाहो भीष्मस्य निधनं किल ||३०||

एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् |

अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ||३१||

धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष |

नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ||३२||

भवान्सेनापतिर्मह्यं वासुदेवेन संमतः |

कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा ||३३||

तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ||३३||

स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् |

अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष ||३४||

माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः |

ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ||३५||

तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत |

अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ||३६||

रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् |

सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ||३७||

अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः |

समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ||३८||

तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् |

व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ||३९||

यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् |

तं यथावत्प्रतिव्यूह परानीकविनाशनम् ||४०||

अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ||४०||

तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव |

प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ||४१||

आदित्यपथगः केतुस्तस्याद्भुतमनोरमः |

शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ||४२||

इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः |

आकाशग इवाकाशे गन्धर्वनगरोपमः ||४३||

नृत्यमान इवाभाति रथचर्यासु मारिष ||४३||

तेन रत्नवता पार्थः स च गाण्डीवधन्वना |

बभूव परमोपेतः स्वयम्भूरिव भानुना ||४४||

शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः |

कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ||४५||

दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह |

अनूपगाः किराताश्च ग्रीवायां भरतर्षभ ||४६||

पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा |

निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ||४७||

पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |

द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ||४८||

पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह |

मडका लडकाश्चैव तङ्गणाः परतङ्गणाः ||४९||

बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत |

एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ||५०||

अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत |

शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ||५१||

नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ||५१||

रथानामयुतं पक्षौ शिरश्च नियुतं तथा |

पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ||५२||

ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ||५२||

पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः |

जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ||५३||

जघनं पालयामास विराटः सह केकयैः |

काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ||५४||

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः |

सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः ||५५||

तेषामादित्यवर्णानि विमलानि महान्ति च |

श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ||५६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

047-अध्यायः

सञ्जय उवाच||

क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव |

व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा ||१||

आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष |

सौमदत्तिं विकर्णं च अश्वत्थामानमेव च ||२||

दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत |

अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ||३||

प्राहेदं वचनं काले हर्षयंस्तनयस्तव |

नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ||४||

एकैकशः समर्था हि यूयं सर्वे महारथाः |

पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ||५||

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |

पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः ||६||

संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा |

आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा ||७||

शत्रुञ्जयेन सहितास्तथा दुःशासनेन च |

विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ||८||

चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः |

भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ||९||

ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष |

अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने ||१०||

भीष्मः सैन्येन महता समन्तात्परिवारितः |

ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ||११||

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् |

कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते ||१२||

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि |

सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ||१३||

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः |

शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ||१४||

ततो दुर्योधनो राजा सहितः सर्वसोदरैः |

अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः ||१५||

दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः |

अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ||१६||

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |

विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ||१७||

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः |

शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः ||१८||

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |

महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ||१९||

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः |

केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||२०||

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत |

दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् ||२१||

तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः |

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||२२||

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः |

आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||२३||

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |

प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ||२४||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||२५||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||२६||

काशिराजश्च शैब्यश्च शिखण्डी च महारथः |

धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः ||२७||

पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः |

सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे ||२८||

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः |

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ||२९||

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः |

पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ||३०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

048-अध्यायः

धृतराष्ट्र उवाच||

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |

कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ||१||

सञ्जय उवाच||

समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः |

अपारमिव संदृश्य सागरप्रतिमं बलम् ||२||

तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव |

अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ||३||

ते मनः क्रूरमास्थाय समभित्यक्तजीविताः |

पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||४||

ततो युद्धं समभवत्तुमुलं लोमहर्षणम् |

तावकानां परेषां च व्यतिषक्तरथद्विपम् ||५||

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः |

संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ||६||

तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः |

अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ||७||

सौभद्रे भीमसेने च शैनेये च महारथे |

केकये च विराटे च धृष्टद्युम्ने च पार्षते ||८||

एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः |

ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ||९||

प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे |

सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||१०||

सादितध्वजनागाश्च हतप्रवरवाजिनः |

विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ||११||

अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् |

वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ||१२||

एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् |

नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ||१३||

एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन |

धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ||१४||

पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना |

सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ||१५||

तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय |

एष त्वा प्रापये वीर पितामहरथं प्रति ||१६||

एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् |

प्रापयामास भीष्माय रथं प्रति जनेश्वर ||१७||

चञ्चद्बहुपताकेन बलाकावर्णवाजिना |

समुच्छ्रितमहाभीमनदद्वानरकेतुना ||१८||

महता मेघनादेन रथेनादित्यवर्चसा ||१८||

विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः |

आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ||१९||

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् |

त्रासयानं रणे शूरान्पातयन्तं च सायकैः ||२०||

सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः |

सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ||२१||

को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् |

द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ||२२||

ततो भीष्मो महाराज कौरवाणां पितामहः |

अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ||२३||

द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः |

दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ||२४||

सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः |

विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ||२५||

स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः |

न विव्यथे महाबाहुर्भिद्यमान इवाचलः ||२६||

स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः |

द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ||२७||

आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः |

प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ||२८||

तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः |

द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् ||२९||

ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् |

अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ||३०||

भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् |

अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ||३१||

तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् |

प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ||३२||

तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः |

चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ||३३||

ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः |

पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ||३४||

एष पाण्डुसुतस्तात कृष्णेन सहितो बली |

यततां सर्वसैन्यानां मूलं नः परिकृन्तति ||३५||

त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ||३५||

त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः |

न युध्यति रणे पार्थं हितकामः सदा मम ||३६||

स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः |

एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ||३७||

धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ||३७||

उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः |

सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ||३८||

द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः |

परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ||३९||

तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् |

स्थिता युद्धाय महते ततो युद्धमवर्तत ||४०||

गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः |

तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ||४१||

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः |

अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ||४२||

शरजालं ततस्तत्तु शरजालेन कौरव |

वारयामास पार्थस्य भीष्मः शान्तनवस्तथा ||४३||

उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ |

निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ||४४||

भीष्मचापविमुक्तानि शरजालानि सङ्घशः |

शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ||४५||

तथैवार्जुनमुक्तानि शरजालानि भागशः |

गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ||४६||

अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः |

भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ||४७||

अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ |

रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ||४८||

ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः |

वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ||४९||

भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः |

विरराज रणे राजन्सपुष्प इव किंशुकः ||५०||

ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् |

गाङ्गेयसारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः ||५१||

यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति |

नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ||५२||

मण्डलानि विचित्राणि गतप्रत्यागतानि च |

अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ||५३||

अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ |

राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ||५४||

उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः |

तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ||५५||

तयोः शङ्खप्रणादेन रथनेमिस्वनेन च |

दारिता सहसा भूमिश्चकम्प च ननाद च ||५६||

न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ |

बलिनौ समरे शूरावन्योन्यसदृशावुभौ ||५७||

चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः |

तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ||५८||

तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् |

विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ||५९||

न तयोर्विवरं कश्चिद्रणे पश्यति भारत |

धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ||६०||

उभौ हि शरजालेन तावदृश्यौ बभूवतुः |

प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ||६१||

तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः |

अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ||६२||

न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ |

सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन ||६३||

आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् |

नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ||६४||

नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता |

सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ||६५||

तथैव पाण्डवं युद्धे देवैरपि दुरासदम् |

न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ||६६||

इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः |

गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते ||६७||

त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत |

अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ||६८||

शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः |

शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ||६९||

उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ||६९||

वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे |

द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ||७०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

049-अध्यायः

धृतराष्ट्र उवाच||

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः |

रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ||१||

दिष्टमेव परं मन्ये पौरुषादपि सञ्जय |

यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ||२||

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् |

स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ||३||

सञ्जय उवाच||

शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् |

न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः ||४||

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् |

सारथिं चास्य भल्लेन रथनीडादपातयत् ||५||

तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः |

पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष ||६||

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः |

विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ||७||

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् |

शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ||८||

आददे च शरं घोरं पार्षतस्य वधं प्रति |

शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् ||९||

हाहाकारो महानासीत्सर्वसैन्यस्य भारत |

तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ||१०||

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् |

यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ||११||

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः |

चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ||१२||

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह |

धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||१३||

ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् |

द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ||१४||

तामापतन्तीं सहसा शक्तिं कनकभूषणाम् |

त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव ||१५||

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् |

ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ||१६||

शरवर्षं ततस्तं तु संनिवार्य महायशाः |

द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ||१७||

स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः |

द्रोणाय प्रेषयामास गिरिसारमयीं बली ||१८||

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया |

तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् ||१९||

लाघवाद्व्यंसयामास गदां हेमविभूषिताम् |

व्यंसयित्वा गदां तां च प्रेषयामास पार्षते ||२०||

भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् |

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||२१||

अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः |

द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ||२२||

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ |

वसन्तसमये राजन्पुष्पिताविव किंशुकौ ||२३||

अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे |

द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ||२४||

अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः |

अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् ||२५||

सारथिं चास्य भल्लेन रथनीडादपातयत् |

अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२६||

पातयामास समरे सिंहनादं ननाद च |

ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ||२७||

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |

गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ||२८||

तामस्य विशिखैस्तूर्णं पातयामास भारत |

रथादनवरूढस्य तदद्भुतमिवाभवत् ||२९||

ततः स विपुलं चर्म शतचन्द्रं च भानुमत् |

खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ||३०||

अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया |

आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ||३१||

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् |

लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ||३२||

यदेनं शरवर्षेण वारयामास पार्षतम् |

न शशाक ततो गन्तुं बलवानपि संयुगे ||३३||

तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् |

वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् ||३४||

ततो भीमो महाबाहुः सहसाभ्यपतद्बली |

साहाय्यकारी समरे पार्षतस्य महात्मनः ||३५||

स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः |

पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् ||३६||

ततो दुर्योधनो राजा कलिङ्गं समचोदयत् |

सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ||३७||

ततः सा महती सेना कलिङ्गानां जनेश्वर |

भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ||३८||

पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः |

विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ ||३९||

धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् ||३९||

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |

कलिङ्गानां च समरे भीमस्य च महात्मनः ||४०||

जगतः प्रक्षयकरं घोररूपं भयानकम् ||४०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.