[highlight_content]

17 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः

कदाचनहिमवत्सानौ तपस्यन्तींवेदवतींनामकांचनकाञ्चनप्रभांकन्यामवलोकितवता -रावणेन तांप्रति तस्यास्तपःप्रयोजनादिप्रश्नः ॥ १ ॥ तथा स्वस्य श्रीनारायणभार्याभावस्य स्वतपःप्रयोजनस्वाभिधानम् ॥ २ ॥ रावणेन स्वभार्यात्वस्वीकरणं याचितया तया तदनङ्गीकरणे रावणेन बलात्तत्केशपाशपरामर्शनम् ॥ ३ ॥ तथा स्वतपोमहिनाऽसीभूतेनस्वहस्तेन रावणकरपरामृष्टस्वकेशपाशच्छेदनपूर्वकं तंप्रति जन्मान्तरेस्वस्यतद्वधहेतूभवनप्रतिज्ञानपूर्वकमग्नौप्रवेशनम् ॥ ४ ॥ अगस्त्येनरामंप्रति तस्याएव पुनः सीतात्वेनप्रादुर्भावाभिधानम् ॥ ५ ॥

अथ राजन्महाबाहुर्विचरन्स महीतले ।

हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ ॥

तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।

आर्षेण विधिना चैनां दीप्यन्तीं देवतामिव ॥ २ ॥

आर्षेण विधिना तपोनुष्ठानेन ॥ २ ॥

 

स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् ।

काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ३ ॥

प्रहसन्निति । दुर्लभकन्यालाभात्प्रहासः ॥ ३ ॥

 

किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।

न हि युक्ता तवैतस्य रूपस्य तपसः क्रिया ॥ ४ ॥

रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् ।

न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ ५ ॥

कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।

येने संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ।

पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ॥ ६ ॥

एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।

अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ॥ ७ ॥

कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।

बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ८ ॥

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।

संभूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ ९ ॥

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।

तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ १० ॥

न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।

कारणं तद्वदिष्यामि निशाचर निशामय ॥ ११ ॥

पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।

अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ १२ ॥

दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।

दम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥ १३ ॥

तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ १४ ॥

ततो मे जननी दीना तच्छरीरं पितुर्मम ।

परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ १५ ॥

ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।

करोमीति तमेवाहं हृदयेन समुद्वहे ॥ १६ ॥

[ मृतं च पितरं दृष्ट्वा वृथा कामं महाव्रतम् ।

तस्य प्रेतगतस्यापि कुर्वन्ती काङ्क्षितं पितुः ॥१७ ॥ ]

इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।

एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १८ ॥

नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।

आश्रये नियमं घोरं नारायणपरीप्सया ॥ १९ ॥

विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।

जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।। २० ।।

सोब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।

अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ २१ ॥

इदं प्रतिक्रिया । इदं यौवनप्रतिकूलक्रिया ॥ ४-२१ ॥

 

अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी ।

वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः ॥ २२ ॥

त्वं सर्वगुणसंपन्ना नार्हसे वक्तुमीदृशम् ।

त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ २३ ॥

अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।

तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। २४ ।।

कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।

वीर्येण तपसा चैव भोगेन च बलेन च ।

न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २५ ॥

इत्युक्तवति तस्मिंस्तु वेदवत्यथ साऽब्रवीत् ।

मामैवमिति सा कन्या तमुवाच निशाचरम् ॥ २६ ॥

त्रैलोक्याधिपतिं विष्णुं सर्वलोकनमस्कृतम् ।

त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ।। २७ ।।

एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।

मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ २८ ॥

ततो वेदवती क्रुद्धा केशान्हस्तेन साऽच्छिनत् ।

असिर्भूत्वा करस्तस्याः केशांच्छिन्नांस्तदाऽकरोत् ।। २९ ।।

सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।

उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ ३० ॥

धर्षितायास्त्वयाऽनार्य न मे जीवितमिष्यते ।

रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ ३१ ॥

यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।

तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ ३२ ॥

न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ।

शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। ३३ ।।

यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ।

तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। ३४ ।।

एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।

पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ ३५ ॥

पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।

तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ३६ ॥

कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।

प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ३७ ।।

लक्षणज्ञो निरीक्ष्यैव रावणं चैवमत्रवीत् ।

गृहस्थैषा हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ ३८ ॥

एतच्छ्रुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः ।

सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।

राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ॥ ३९ ॥

सैषा जनकराजस्य प्रसूता तनया प्रभो ।

तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ४० ॥

वृद्धानामिति । पुण्यसंचयः पुण्यसंग्रहणं वृद्धानामेव भ्राजते नतु बालयूनोः ॥ २२-४० ।।

 

पूर्वं क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा ।

उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ॥ ४१ ॥

वेदवत्या यः शत्रुः क्रोधाहितः सोसौ शैलाभः शत्रू रावणः पुनस्तथैव यथाप्रतिज्ञं पतिं च प्राप्तया पतिभूतस्य तव मानुषं वीर्यमुपाश्रयित्वा अद्य निहतः ॥ ४१ ॥

 

एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।

क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ४२ ॥

एषा वेदवती नाम पूर्वमासीत्कृते युगे ।

त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ ४३ ॥

उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।

सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ४४ ॥

उत्पत्स्येयम् । व्यत्यय आर्षः ॥ ४२-४४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.