श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः
स्वाभिमुख समागच्छद्दशमुखरथावलोकिनादाशरथिना चोदितेनमातलिना दशमुख -मुखाभिमुखतया निजरथचोदना ॥ १ ॥ ततोनिजसमरसमालोकनकुतूहलेन गगनाङ्गणमलं -कुर्वाणेसुरमुख सुजनगणे निजविजयपरपराजयसूचकनिमित्तोदयदर्शिना दाशरथिना हर्षेणसमरोद्यमनम् ॥ २ ॥
स रथं सारथिर्हृष्टः परसैन्यप्रधर्पणम् ।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ १ ॥
युक्तं परमसंपन्नैर्वाजिभिर्हेममालिभिः ।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ २ ॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ॥
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ॥ ३ ॥
अथ रावणदुनिमित्तानि स रथमित्यादिसार्धश्लोकत्रयमेकान्वयं अत्र द्वितीयसारथिशब्द: अनेकविशेषणव्यवधानात् पूर्वोक्ताविस्मरणाय । गन्धर्वनगराकारं गन्धर्वनगरसदृशं । तल्लक्षणमुक्त मिहिरेण-चित्रवर्णं चित्ररूपप्राकारगृहगोपुरम् । अलंकृतमनेकाभैर्वितान -ध्वजतोरणैः ॥ गन्धर्वनगरं दन्तिनृवाजिक्षययुद्धकृत् । दृश्यते चेन्महद्युद्धमन्योन्यं धरणीभुजां इति ॥ युद्धोपकरणैः धनुः कवचादिभिः । पताकायुक्ताः ध्वजा: तैर्मालन्त इति पताकाध्वजमाली तं । मल मल्ल धारणे इत्यस्माण्णिनि: । ग्रसन्तमिव । स्वविस्तारेणेति भावः । प्रणाशयतीति प्रणाशं ।। १-३ ॥
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।
रथं राक्षसराजस्य नरराजो ददर्श ह ॥ ४ ॥
स्वनवन्तं शब्दवन्तं । महास्वनं । प्रतिध्वनियुक्तमित्यर्थः ॥ ४ ॥
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।
[ दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम् ॥ ]
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ॥ ५ ॥
तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ।
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ॥
विस्फारयन्वै वेगेन बालचन्द्रनतं धनुः ।
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ७ ॥
कृष्णवाजिसमायुक्तमित्यादिसार्धश्लोकत्रयमेकान्वयं ।। रौद्रेण उग्रेण । तडित्पताकागहनं तडित्तुल्यपताकावनं । दर्शितेन्द्रायुधायुधं दर्शितानीन्द्रायुधसदृशानि आयुधानि येन तं । यद्वा दर्शितेन्द्रायुधानि स्वप्रभाविशेषविरचितेन्द्रचापान्यायुधानि यस्मिन् दृश्यन्ते तादृशं । यद्वा आयुधं धनुः दर्शितेन्द्रधनुस्तुल्यधनुष्कं । धारासारं धारासमूहमित्यर्थः । वज्राभिमृष्टस्य वज्राहतस्य । अतएव दीर्यत: भिद्यमानस्य । बालचन्द्रनतं आरोपितमौर्वीकत्वेन बालचन्द्रवन्नतं ॥ ५-७ ॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥ ८ ॥
मातले इत्यर्धमेकं वाक्यं ।। संरब्धं वेगवन्तं ॥ ८ ॥
यथापसव्यं पतता वेगेन महता पुनः ।
समरे हन्तुमात्मानं तथा तेन कृता मतिः ॥ ९ ॥
यथापसव्यमिति । यथा आ अपसव्यमिति छेदः । अपसव्यं अप्रदक्षिणं यथा स्यात्तथा महता वेगेन पुन: आपतता आगच्छता तेन रावणेन समरे आलानं हन्तुं मतिः कृता । अपसव्यतया गमनं विनाशद्योतकमित्यर्थः ॥ ९ ॥
तदप्रमादमातिष्ठन्प्रत्युद्गच्छ रथं रिपोः ।
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ १० ॥
तत् अपसव्यगमनस्य विनाशहेतुत्वात्, अप्रमादमातिष्ठन् सावधानतामवलम्बमानः । अपसव्यतां परिहरन्नित्यर्थः । रिपोः रथं प्रत्युद्गच्छ ॥ १० ॥
अविक्लबमसंभ्रान्तमव्यग्रहृदयेक्षणम् ।
रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ॥ ११ ॥
अविक्लबं अदीनं । असंभ्रान्तं अप्रमादं । अव्यग्रहृदयेक्षणं अव्याकुलमनोनयनं । रश्मिसंचारनियतं नियतरश्मिसंचारं । एतानि क्रियाविशेषणानि ॥ ११ ॥
कामं न त्वं समाधेयः पुरन्दररथोचितः ।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।। १२ ।।
परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
प्रचोदयामास रथं सुरसारथिसत्तमः ॥ १३ ॥
न समाधेयः नोपदेष्टव्यः । अत्र हेतुः- पुरन्दररथोचित इति । अभ्यस्तपुरन्दररथ इत्यर्थः ॥ १२ – १३ ॥
अपसव्यं ततः कुर्वन्रावणस्य महारथम् ।
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ॥ १४ ॥
रावणस्य महारथमपसव्यं कुर्वन् स्वरथस्यापसव्यतां परिहरन्नित्यर्थः । चक्रोत्क्षिप्तेन रथचक्रोत्थापितेन रजसा रावणं व्यवधानयत् व्यवहितमकरोत् ॥ १४ ॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।
रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ १५ ॥
रथप्रतिमुखं सर्वथाभिमुखं । अवधूनयत् प्राहरत् ॥ १५ ॥
धर्षणामर्पितो रामो धैर्यं रोषेण लम्भयन् ।
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ॥
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ।। १६ ।।
धर्षणेत्यादिसार्धश्लोकमेकं वाक्यं ॥ धैर्यं रोषेण लम्भयन् रोषेण निवृत्तधैर्य इत्यर्थः । ऐन्द्रं मातलिनानीतं शरासनं शरांश्च जाग्राहेति योजना ।। १६ ।।
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ १७ ॥
उपोढं प्रवृत्तं ॥ १७ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
समेयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः ॥ १८ ॥
द्वैरथं द्वाभ्यां रथाभ्यां प्रवर्तितं युद्धं ॥ १८ ॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
रावणस्य विनाशाय राघवस्य जयाय च ॥ १९ ॥
समुत्पेतुरिति । अत्रोत्पातानां राघवजयसूचकत्वं रावणवधद्वारा ॥ १९ ॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥ २० ॥
वेः पर्जन्यः । मण्डलिनो वाताः वात्याः अपसव्यं अप्रदक्षिणं । प्रचक्रमुः चेरुः ॥ २० ॥
महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले ।
येनयेन रथो याति तेनतेन प्रधावति ॥ २१ ॥
अस्य रावणस्य रथो येन मार्गेण याति स्म तेन मार्गेण महत् गृध्रकुलं नभःस्थले भ्रममाणं सत् प्रधावति स्म । अनेन रावणस्यासन्नमरणत्वं सूचितम् । तदुक्तं शकुनार्णवे- आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे इति ॥ २१ ॥
संध्यया चावृता लङ्का जपाषुष्पनिकाशया ।
दृश्यते संप्रदीप्तेव दिवसेऽपि वसुंधरा ॥ २२ ॥
जपापुष्पनिकाशया संध्यया लङ्का आवृता । अतएव वसुंधरा लङ्कापर्यन्तभूमिः रात्रावग्निना संप्रदीप्तेव दिवसेपि संप्रदीप्ता दृश्यत इत्यर्थः ।। २२ ।।
सनिर्घाता महोल्काश्च संप्रचेरुर्महास्वनाः ।
विषादयंस्ते रक्षांसि रावणस्य तदाहिताः ॥ २३ ॥
सनिर्धाता महोल्का: संप्रचेरुः । ते उल्काः लिङ्गव्यत्ययः । रावणस्याहिताः प्रतिकूला: सन्तः रक्षांसि विषादयन् व्यषाद्यन् ॥ २३ ॥
रावणश्च यतस्तत्र संचचाल वसुंधरा ।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ २४ ॥
यतः यत्र रावणो गतः तत्र वसुंधरा संचचाल । रावणसमीप एव भूकम्पो जात इत्यर्थः । गृहीता इव बाहवः । कैश्चिद्गृहीता बाहवो यथा प्रहर्तुं न क्षमन्ते तथाभूवन्नित्यर्थः ॥ २४ ॥
ताम्राः पीताः सिताऽश्वेताः पतिताः सूर्यरश्मयः ।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ २५ ॥
सिता अश्वेताश्च सिताश्वेताः । पर्वतस्येवेति । पर्वतस्याङ्गे धातव इवेति योजना ॥ २५ ॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २६ ॥
गृधैरनुगताः गृध्रसहिता इत्यर्थः । शिवाः गोमायवः मुखर्ज्वलनं वमन्त्यः सत्यः अस्य रावणस्य मुखमीक्षन्त्यः । रावणाभिमुखा इत्यर्थः । संरब्धं कुपितं अशिवं अमङ्गलं च यथा भवति तथा प्रणेदुः । गृध्राणां साहित्यमात्रं नतु ज्वलनवमनादिकं ॥ २६ ॥
प्रतिकूलं ववौ वायू रणे पांसून्समाकिरन् ।
तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २७ ॥
वायुः रणे पांसून् समाकिरन् तेन तस्य रावणस्य दृष्टिविलोपनं दृष्टिप्रतिघातं कुर्वन् प्रतिकूलं अभिमुखं ववौ ॥ २७ ॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥ २८ ॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ २९ ॥
इन्द्राशनयः उल्काशनयः । उल्काशन्योः स्वरूपमुक्तं मिहिरेण– उल्का शिरसि विशाला निपतन्ती वर्धते च तनुपुच्छा । अशनिः स्वनेन महता युक्ता नृगजाश्वतरुपशुमुखेषु ॥ निपतति विदारयन्ती घरातलं चक्रसंस्थाना इति ।। २८-२९ ।।
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ ३० ॥
तद्रथं प्रति तद्रथोपरि ॥ ३० ॥
जघनेभ्यः स्फुलिङ्गांच नेत्रेभ्योश्रूणि संततम् ।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ ३१ ॥
एवंप्रकारा बहवः समुत्पाता भयावहाः ।
रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ॥ ३२ ॥
तुरगाः जघनेभ्यः स्फुलिङ्गान् नेत्रेभ्यः अश्रूणि च मुमुचुः । एवमग्निं च बारि च तुल्यं यथा भवति तथा मुमुचुः ॥ ३१-३२ ॥
रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ ३३ ॥
एवं रावणपराजयसूचकदुर्निमित्तान्युक्तानि । इदानीं रामजयसूचकनिमित्तान्याह-रामस्यापीति ॥ सौम्यानि मनोज्ञानि । शुभानि शुभोदर्काणि । अत एव जयशंसीनि निमित्तानि प्रादुर्बभूवुः सत्तां लेभिरे । रामविषये किंचित्कारो हि सत्तालाभहेतुः ।। ३३ ।।
निमित्तानि च सौम्यानि राघवः स्वजयाय च ।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ ३४ ॥
जयाय निमित्तानि जयसूचकनिमित्तानीत्यर्थः ॥ ३४ ॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम् ॥ ३५ ॥
रणे आत्मगतानि आत्मार्थं प्रादुर्भूतानि । हर्षं पुलकं निर्वृतिं सुखं च जगाम ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ १०८ ॥