श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः
माया कल्पितशिरोदर्शनेनदूयमानांसीतांप्रति विभीषणभार्ययासरमया हेतूपन्यासेनसमाश्वासनम् ॥ १ ॥
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ।
आससादाथ वैदेहीं प्रियां प्रणयिनी सखी ।। १ ।।
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ।। २ ।।
अथ सरमा सीतां समाश्वासयति त्रयस्त्रिंशे सीतामिति ॥ मोहितां रामविषयविपरीतज्ञानवतीं । सरमा विभीषणभार्या । प्रणयिनीं स्नेहवतीं ॥ १ – २ ॥
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया ।
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ।। ३ ।।
ननु राक्षस्यास्तस्याः कथं सख्यमाश्वासनं वेत्यत्राह—सा हीति ॥ हि यस्माद्रावणादिष्टा रक्षन्ती सा आत्मना रक्ष्यमाणया मित्रं सखी कृता । अत इत्यर्थः । रक्षन्ती । तत्रतत्रावसरे सीताया योगक्षेमविधानं कुर्वतीत्यर्थ: । रावणादिष्टा योगक्षेमे रावणेनादिष्टा । सानुक्रोशा सदया । अनेन सख्यकरणे हेतुरुक्त: । दृढव्रता दृढप्रतिज्ञा । अनेन सख्यस्याप्रच्युतिर्दर्शिता ॥ ३ ॥
सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् ।
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुलाम् ।। ४ ।।
आसादनानन्तरं तदवस्थादर्शनमाह – सेति ॥ नष्टचेतनां विपरीतज्ञानवतीं । उपावृत्य लुठित्वा । ध्वस्तां धूल्युपहतां । बडवां अश्वस्त्रियं । पांसुलां पांसुमतीं ॥ ४ ॥
तां समाश्वासयामास सखीस्नेहेन सुव्रता ।। ५ ।।
तामिति पूर्वं करस्पर्शादिना समाश्वासनमुक्तं । इदानीं रावणवृत्तान्तप्रदर्शनेनेति ज्ञेयं ॥ ५ ॥
समाश्वसिहि वैदेहि माभूत्ते मनसो व्यथा ।
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ।
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ।। ६ ।।
स्वयं साक्षात् । प्रत्युक्तं प्रलापरूपं । सखीस्वेहेन सखीविषयस्नेहेन । प्रतिश्रुतं । प्रतिरुपसर्गमात्रं ॥ ६ ॥
लीनया गगने शून्ये भयमुत्सृज्य रावणात् ।
तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ।। ७ ।।
तदानीमसन्निहितया त्वया कथं श्रुतमित्यत्राह – लीनयेति ॥ लीनया छन्नया । गगने कुत्रचित्तरुरन्ध्रे । गहन इति पाठे आवृत इत्यर्थः । शून्ये निर्जने । कथं घोराद्रावणाद्भयं त्यक्तं तत्राह – तवेति । तव हेतोः त्वन्निमित्तं । मे जीवितमपि न प्रियं । तत्र हेतुर्विशालाक्षीति । तव नयनसौन्दर्य पश्यन्त्या मे कथं त्वत्पीडा सोढव्येति भावः । ननुविभीषणभार्या कथं सीतारक्षणे रावणेन नियोगा । नियोगे वा कथं तस्याः रावणभयाद्रूढावस्थानं । उच्यते । विभीषणावस्थानकाले सीतायोगक्षेमपरामर्शायान्तरङ्गभूता सरमा नियुक्ता । तन्निर्गमनादिदानीमन्तरङ्गवार्ताश्रवणे भीतासीदिति न विरोधः । नियोगश्च दासीमुखेन । अदर्शनं च स्रुषात्वादिति बोध्यं । अन्येयं सरमेयेके ॥ ७ ॥
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ।
तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ।। ८ ।।
मे मया । यत्कृते यन्निमित्तं । अभिनिष्क्रम्य बहिर्निर्गम्य ॥ ८ ॥
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ।
वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते ।। ९ ।।
मा भूदस्मदवगमः उपपत्तिश्च तत्र नास्तीत्याह – न शक्यमिति ।। सौप्तिकं सुप्तौ मरणं । न केवलमशक्यत्वं रामस्य पुरुषधौरेयतया वधयोग्यतापि नास्तीत्याह-वधश्चेति ॥ ९ ॥
न त्वेव वानरा हन्तुं शक्याः पादपयोधिनः ।
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ।। १० ।।
एवं वानरवधोप्यनुपपन्न इत्याह – न त्विति ॥ स्वबलाद्रामबलाच्च न वानरा हन्तुं शक्या इत्यर्थः ।। १० ।।
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् ।
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ।। ११ ।।
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ।। १२ ।।
न केवलं बलादिना सौभाग्यलक्षणादिभिरप्यतदर्हो राम इत्याह श्लोकत्रयेण – दीर्घेत्यादिना ॥ श्रीमान् कान्तिमान् । प्रतापवान् तेजिष्ठः । संहननोपेतः शोभनावयवसंस्थानः । लक्ष्मणेन सह रक्षितेत्यन्वयः ॥ ११ – १२ ॥
हन्ता परबलौघानामचिन्त्यबलपौरुषः ।
न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ।। १३ ।।
श्रीमान् विजयश्रीमान् ॥ १३ ॥
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ।
इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। १४ ।।
कथं तर्हि शिरःप्रभृतिप्रापणं तन्नाह – अयुक्तेति ॥ अयुक्तबुद्धिकृत्येन अनर्हबुद्धिव्यापारेण । मायाशिरोदर्शनबुद्धेस्तत्कृत्यस्य चात्मलाघवहेतुत्वादितिभावः ॥ १४ ॥
शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् ।
ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ।। १५ ।।
भजते भविष्यत्सामीप्ये लट्प्रयोगः । प्रियं प्रियवचनं ॥ १५ ॥
उत्तीर्य सागरं रामः सह वानरसेनया ।
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ।। १६ ।।
सन्निविष्ट: स्थितः ॥ १६ ॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः ।
स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ।। १७ ।।
सागरान्तस्यैः सागरतीरस्थैः ॥ १७ ॥
अनेन प्रेषिता ये च राक्षसा लघुविक्रमः ।
राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ।। १८ ।।
तीर्ण: तीर्णवान् । प्रवृत्तिर्वार्ता ॥ १८ ॥
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। १९ ।।
एष मन्त्रयत इति सान्निध्यद्योतनाय ॥ १९ ॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ।। २० ।।
सीतया सह शुश्रावेत्यन्वयः । सर्वोद्योगेन सर्वप्रयत्नेन । जनितमिति शेषः । शब्द सिंहनादं ।। २० ।।
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् ।
उवाच सरमा सीतामिदं मधुरभाषिणी ।। २१ ।।
दण्डनिर्घातवादिन्याः दण्डाहत्या शब्दायमानायाः ॥ २१ ॥
संनाहजननी ह्येषा भैरवा भीरु भेरिका ।
भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ।। २२ ।।
भेरिका ताड्यत इति शेषः । तोयदुनिस्वनं तोयदनिस्वनतुल्यं ॥ २२ ॥
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः ।
हृष्यन्ते तुरगारूढाः प्रासहस्ता सहस्रशः ।। २३ ।।
कल्प्यन्ते आकल्प्यन्ते । अयन्त इत्यर्थः । युज्यन्ते रथवाजिनः । रथेषु वाजिनो युज्यन्त इत्यर्थः । रथेत्यविभक्तिकनिर्देशो वा । हृष्यन्ते हर्षव्यापारं कुर्वन्ति ॥ २३ ॥
तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः ।
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ।
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ।। २४ ।।
तत्रतत्रेति सार्धश्लोकः ॥ संपतन्ति सङ्घीभवन्ति । सैन्यैः सेनासमवेतरथगज -तुरगपदातिभिः । अद्भुतदर्शनैः अलंकारविशेषैरिति शेषः । वेगवद्भिर्नदद्भिश्चेति पाठः ॥ २४ ॥
शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ।
रथवाजिगजानां च भूषितानां च रक्षसाम् ।। २५ ।।
[ संभ्रमो रक्षसामेष हृषितानां तरस्विनाम् । ]
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् ।
वनं निर्दहतो धर्मे यथा रूपं विभावसोः ।। २६ ।।
शस्त्राणामित्यादिश्लोकद्वयं ॥ प्रसन्नानां निर्मलानां । चर्मणां फलकानां । भूषितानां अतएव प्रभां विसृजतां उत्पादयतां । उत्थितां ऊर्ध्वं प्रसृतां । रूपं तेजः । नानौषधीवनदाहेन नानावर्णत्वं सिद्धं । पश्येत्यत्रापि प्रभैव कर्म । यद्वा विसृज तामिति च्छेदः । तां प्रसिद्धां प्रभां पश्य । विसृज शोकमिति शेषः ॥ २५-२६ ॥
घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् ।
हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ।। २७ ।।
घण्टानां गजघण्टानां । रथानां निस्वनं । नेमिसंघट्टनजं । हेषं आणानामिति च्छेदः । आङ्पूर्वात् अण शब्दे इत्यस्माद्धातोः पचाद्यच् । आणानां शब्दायमानानां । हेषं शब्दं । स्त्रीलिङ्गाभावः आर्षः । निस्वनमिति वा अनुवर्त्यते । तूर्यध्वनियथा तूर्यध्वनिमिव ॥ २७ ॥
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् ।
सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणः ।। २८ ।।
संभ्रमः सन्नाहः । तुमुल: सान्द्र: । दृश्यत इति शेषः ।। २८ ।।
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ।। २९ ।।
ध्रुवं त्वां भजते लक्ष्मीरित्युपक्रान्तमुपसंहरति — श्रीरिति ॥ शोकन्नी श्रीः विजयलक्ष्मीः भजति । भविष्यत्सामीप्ये लट्प्रयोगः ॥ २९ ॥
रामः कमलपत्राक्षोदैत्यानामिव वासवः ।
वनिर्जित्य जितक्रोधस्त्वामचिन्त्यपराक्रमः ।
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ।। ३० ।।
राम इत्यादिसार्धश्लोक एकान्वयः । कमलपत्राक्ष: । श्रीर्न त्यजति रक्ताक्षं इति सामुद्रिकोत्तरीत्याऽवश्यं श्रीरुपतिष्ठति । तत्रापि श्रेष्ठे तत्रापि चक्षुषी इति नयनसौभाग्यलक्षणमव्यभिचारीति भावः । न केवलं सौभाग्यलक्षणेन श्रीः प्रभावादपीत्याह अदैत्यानामिति । अदैत्यानां देवानां मध्ये । वासव इव स्थितः । सर्वश्रेष्ठ इत्यर्थः । अचिन्त्यपराक्रम: एकेन शरेण मरुकान्तारवासिसकलदस्युवारणादप्रमेयपराक्रमः । तर्हि तादृशः किमिदानीं विलम्बत इत्यत्राह – जितक्रोध इति । रावणस्याभिमुखमनागमनात् क्रोधावकाशमलभमानास्तिष्ठतीति भावः। दैत्यानामिति द्वितीयार्थे षष्ठी वा । दैत्यान् वासव इव रावणं समरे हत्वा विनिर्जित्य शत्रुगृहादपनीय । त्वामभिगमिष्यतीति योजना ॥ ३० ॥
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ३१ ।।
विष्णुना उपेन्द्रेण ॥ ३१ ॥
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् ।
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ।। ३२ ।।
एवं शंसन्त्यास्ते किं फलं तत्राह आगतस्येति ॥ चिरप्रवासादागतस्य दयितादर्शने कोपि विकासो भवेत्स मया द्रष्टव्य इति भावः ॥ ३२ ॥
अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने ।
समागम्य परिष्वक्ता तस्योरसि महोरसः ।। ३३ ।।
महोरस इत्यत्र समासान्तविधेरनित्यत्वात् कबभावः । समागम्य परिष्वज्य स्थितस्य तस्योरसि अश्रूणि वर्तयिष्यसीति योजना ॥ ३३ ॥
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ।
धृतामेतां बहून्मासान्वेणीं रामो महाबलः ।। ३४ ।।
जघनं गतां नितम्बावलम्बिनीं । बहून्मासान् धृतां बहुमासैर्वृतां । अत्यन्तसंयोगेद्वितीया । रामवियोगात्प्रभृति बद्धामेतां वेणीं । मोक्ष्यते मोक्षयिष्यति । आर्षमात्मनेपदं ॥ ३४ ॥
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् ।
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ।। ३५ ।।
निर्मोकं त्वचं । निर्मोकदृष्टान्तेन शोकाश्रुणो निःशेषनिवृत्तिरुच्यते । अश्रुमूलं शोकं त्यक्ष्यसीति भावः ॥ ३५ ॥
रावणं समरे हत्वा नचिरादेव मैथिलि ।
त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् ।। ३६ ।।
समग्र: संपूर्णमनोरथः ॥ ३६ ॥
समागता त्वं वीर्येण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ३७ ।।
सस्येन समायुक्ता मेदिनी सुवर्षेण यथा तथा महात्मना रामेण समायुक्ता त्वं वीर्येण तच्छौर्येण । मोदिष्यसि ॥ ३७ ॥
गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति ।
तमिह शरणमभ्युपेहि देवं दिवसकरं प्रभवो ह्ययं प्रजानाम् ।। ३८ ।।
अथानिष्टनिवारणाय । इष्टप्राप्तये च सूर्यनमस्कारं विदधाति – गिरिवरमिति ॥ यः देवः गिरिवरं मेरुं । अभितः परितः । अमितः परितः— इत्यादिना द्वितीया । अनुवर्तमानः आनुकूल्येन चरन् । प्रादक्षिण्येन चरन्नित्यर्थः । हयोश्व इव मण्डलं मण्डलगतिं आशु त्रिंशन्मुहूर्तेनैव करोति । देवं द्योतमानं । दिवसकरं शरणं रक्षणं । अभ्युपेहि गच्छ । वरणीयत्वे हेतुमाह – प्रभव इति । अयं दिवसकरः । प्रजानां देवतिर्यङ्मनुष्यस्थावराणां । प्रभवः कारणं । हिः प्रसिद्धौ । वर्षादिद्वारा जगदाप्यायक इत्यर्थः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इत्युक्तेः ॥ न पुनरत्र जगत्कारणत्वोक्तिः । अश्वोपपमानेन स्वातिरिक्तपुरुषप्रेर्यत्वाभिधानात् । भीषास्माद्वातः पवते, भीषोदेति सूर्यः इति श्रुतेः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥