श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः
कुंभकर्णेन रावणगृहमेत्यतच्चरणप्रणामपूर्वकं सपरिष्वङ्गतद्दत्तवरासने समुपवेशनम् ॥ १ ॥ रावणेनतंप्रति प्रकृतनिस्त्रिलवृत्तान्तनिवेदनपूर्वकं रामादिविजयेननिजरक्षणप्रार्थना ॥ २ ॥
स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।
गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥
अथ कुम्भकर्णं प्रति रावणस्य सान्त्ववचनं द्विषष्टितमे – स त्वित्यादि निद्रामदसमाकुल: निद्रया अकालोत्थितत्वेनानुवर्तमानया मदेन मद्यपानकृतेन च समाकुलः । गृहेभ्यः । निर्गतेनेति शेषः ॥ १ – २ ।।
स हेमजालविततं भानुभास्वरदर्शनम् ।
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥
हेमजालविततं स्वर्णमयगवाक्षविततं । भानुभास्वरदर्शनं दृश्यत इति दर्शनं रूपं । भानुवत्प्रकाशमानमित्यर्थः ।। ३ ।।
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशम् ।
ददर्श दूरेग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम् ॥ ४ ॥
भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितम् ।
कुंभकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥
सोभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥
दूरे कक्ष्यान्तरप्रदेशे । ददर्श । उन्नतपुष्पकवत्त्वादितिभावः ॥ ४-६ ॥
अथ दृष्ट्वा दशग्रीवः कुंभकर्णमुपस्थितम् ।
तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।। ७ ।।
सन्निकर्ष समीपं ॥ ७ ॥
अथासीनस्य पर्यङ्के कुंभकर्णो महाबलः ।
भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८ ॥
उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।
स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ॥ ९ ॥
कुंभकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।
स तदासनमाश्रित्य कुंभकर्णो महाबलः ॥
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ १० ॥
कृत्यं मया कर्तव्यं ॥ ८-१० ॥
किमर्थमहमादृत्य त्वया राजन्विबोधितः ।
शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ ११ ॥
आदृत्य स्थितेनेति शेषः । शंसेति । तमिति शेषः । प्रेतो भविष्यति मृतो भविष्यति ॥ ११ ॥
भ्रातरं रावणः क्रुद्धं कुंभकर्णमवस्थितम् ।
ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ १२ ॥
ईषत्परिवृत्ताभ्यामित्यनेन ईषत्कोपो लक्ष्यते ॥ १२ ॥
अद्य ते सुमहान्कालः शयानस्य महाबल ।
सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १३ ॥
ईषत्त्वमेव विवृणोति – अद्येत्यादिना ।। सुमहान्काल: नवदिनपरिमितः । गत इति शेषः ॥ १३ ॥
एष दाशरथी रामः सुग्रीवसहितो बली ।
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ १४ ॥
मूलं मूलबलं । परिकृन्तति बाधतइत्यर्थः ॥ १४ ॥
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।
सेतुना सुखैमागम्य वानरैकार्णवीकृतम् ॥ १५ ॥
ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।
वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ १६ ॥
न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥
मूलकृन्तनमुपपादयति-हन्तेति ।। लङ्कायां वनान्युपवनानि च सर्वं । सेतुना सुखमागम्य स्वनिर्मितसेतुमात्रेण सुखमागम्य । रामेण । वानरैकार्णवीकृतं वानररूपैकार्णवीकृतं । पश्यस्व । आत्मनेपदमार्ष । यद्वा स्वलङ्कायामिति च्छेदः आत्मीयलङ्काद्वीपइत्यर्थः ॥ १५-१७ ।।
तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।
नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥
तदेतत् एतादृशं । भयमुत्पन्नं । अस्माद्भयादिमां पुरीं त्रायस्व । इमान् वानरान् नाशय । तदर्थं नाशनार्थं ॥ १८ ॥
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥
सर्वक्षपितकोशं क्षपितसर्वैश्वर्य । कोशोस्त्री कुङ्भले खड्गपिधानेर्थौघदिव्ययोः इत्यमरः । अभ्यवपद्य जानीहीत्यर्थ: । बालवृद्धावशेषितामित्यतिशयोक्तिः । मूलबलाद्युत्सादनस्य वक्ष्यमाणत्वात् ॥ १९ ॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।
मयैवं नोक्तपूर्वो हि कच्चिद्भातः परंतप ॥ २० ॥
कच्चिदिति प्रश्ने । कदाचिदपि नोक्तपूर्वोसीत्यर्थः । कश्चिदिति पाठे त्वदन्यः कश्चिदपि नैवमुक्तपूर्वइत्यर्थः ॥ २० ॥
त्वय्यस्ति तु मम स्नेहः परा संभावना च मे ।
दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।
त्वया देवाः प्रतिव्यूह्य निर्जितास्चासुरा युधि ॥ २१ ॥
दिति संभावना आदरः । दैवासुरेषु देवासुरसंबन्धिषु । प्रतिव्यूह्य विभज्य । असुराः असुराअपीत्यर्थः ॥ २१ ॥
तदेतत्सर्वमातिष्ठ वीर्यं भीमपराक्रम ।
न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥
आतिष्ठ अवलम्बस्व ॥ २२ ॥
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय ।
स्वतेजसा विधम सपत्नवाहिनीं शरद्धनं पवन इवोद्यतो महान् ॥ २३ ॥
यथाप्रियं यथास्नेहं । आवयोः प्रीत्यनुरूपमित्यर्थः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। ६२ ।।