श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः
अङ्गदेनमहापार्श्वभङ्गः ॥ १ ॥
महोदरे तु निहते महापार्श्वो महाबलः ।
सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः ।
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ १ ॥
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ।
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ २ ॥
केषांचिदिषुर्भिर्बाहून्स्कन्धांश्चिच्छेद राक्षसः ।
वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ।
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥ ४ ॥
निरीक्ष्य बलमुद्विमङ्गदो राक्षसार्दितम् ।
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ ५ ॥
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ।
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥ ६ ॥
स तु तेन प्रहारेण महापार्श्वो विचेतनः ।
ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥ ७ ॥
अथ महापार्श्ववधः-महोदरेत्वित्यादि ॥ महोदरे सुग्रीवेण निहत इत्यन्वयः ॥ १-७ ॥
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ।
निष्पत्य सुमहावीर्यः स्वाद्युहान्मेघसं निभात् ॥ ८ ॥
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम् ।
अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ ९ ॥
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ।
अङ्गदं बहुभिर्वाणैर्भूयस्तं प्रत्यविध्यत ॥ १० ॥
सर्क्षराजस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ ऋक्षराज: जाम्बवान् तेन सहितः सर्क्षराजः गवाक्षः । जाम्बवन्तं गवाक्षं चेत्युत्तर वक्ष्यमाणत्वात् ॥ ८-१० ॥
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥ ११ ॥
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ।
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ॥ १२ ॥
ऋक्षराजं जाम्बवन्तं त्रिभिर्बाणैराजघान । गवाक्षं च बहुभि: शरैर्जघानेत्यन्वयः ॥ ११ -१२ ।।
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ।
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ १३ ॥
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ।
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ॥१४॥
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५ ॥
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ।
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ।
करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७ ॥
तस्याङ्गद इत्यादिश्लोकद्वयमेकान्वयं ॥ दूरस्थितस्य तस्य वधार्थमित्यन्वयः ॥ १३-१७ ॥
तं तैलधौतं विमलं शैलसारमयं दृढम् ।
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ १८ ॥
तेन वामांसफलके भृशं प्रत्यवपादितम् ।
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ १९ ॥
तैलधौतं प्रतिदिनं तैलसेचनान्निष्कल्मषं । शैलसारमयं तद्वत्कठिनमित्यर्थः । दृढं अशिथिलं ॥ १८-१९ ।।
स वीरो बज्रसंकाशमङ्गदो मुष्टिमात्मनः ।
संवर्तयत्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥ २० ॥
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयंप्रति ।
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥ २१ ॥
तेन तस्य निपातेन राक्षसस्य महामृधे ।
पफाल हृदयं चाशु स पपात हतो भुवि ॥ २२ ॥
तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ।
अभवच्च महान्क्रोधः समरे रावणस्य तु ॥ २३ ॥
आत्मन इत्यस्य । पितुस्तुल्यपराक्रम इत्यनेन संबन्ध: । संवर्तयत् समवर्तयत् । भ्रामयामासेत्यर्थः ॥ २०-२३ ॥
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः ।
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।
महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २४ ॥
अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २५ ॥
स्फोटयन् दलयन् । वानराणां च सिंहनादः समभवत् । महेन्द्रेण सह देवानां नाद इव वानराणां च देवानां च नादः समभवदित्यर्थः । एतच्चानन्तरश्लोके स्फुटीभविष्यति ॥ २४-२५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥