श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशः सर्गः
मन्त्रिचतुष्टयेनसहगगनेऽभ्यागच्छन्तंगदापाणिविभीषणंदृष्टवतासुग्रीवेण हनुमदादीन्प्रति तत्प्रदर्शनपूर्वकं तदागमनस्यरामादिहननेच्छामूलकत्वोक्तिः ॥ १ ॥ सागरोत्तरतीरमागतवता -विभीषणेन सुग्रीवादीन्प्रति स्ववृत्तान्तनिवेदनेन सह स्वागमननिदा ननिवेदनपूर्वकं श्रीरामेतन्निवेदनप्रार्थना ॥ २ ॥ सुग्रीवेणरामंप्रति तन्निवेदनपूर्वकंविभीषणेदोष निर्धारणेन तस्यवधार्हत्वोक्तिः ॥ ३ ॥ रामेणविभीषणस्वीकरणे स्वस्वाभिप्राय निवेदनं चोदितैरङ्गदादिभिर्विभीषणेदोषसंभावनया परीक्षामन्तराग्रहणनिषेधे हनुमताऽङ्गदादिपक्ष -प्रतिक्षेपपूर्वकं तस्यनिर्दोषत्व निर्धारणेनग्राह्यत्वोक्तिः ॥ ४ ॥
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥
एवमष्टभिः सर्गैः— आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोतृत्ववरणं तथा ।। आत्मनिक्षेपकापण्ये षड्विधा शरणागति: इत्युक्तेषु शरणागत्यङ्गेषु प्रपित्सोर्विभीषणस्यानुकूल्यसंकल्पप्रातिकूल्यवर्जने दर्शिते । पुनः पुनरुपदेशादिना महाविश्वासो दर्शितः । अथ कार्पण्यप्रदर्शनपूर्वकं शरणागतिस्वरूपं दर्शयितुमुपक्रमते- इत्युक्त्वेत्यादिना ॥ तत्र रावणेन तिरस्कारे सत्यस्य देश एवास्माभिस्त्याज्य: । परमधार्मिक श्रीरामाश्रयस्तु कर्तव्य इति धार्मिकस्य विभीषणस्य धर्मे मतिरासीदित्यृषिः प्रस्तौति — इतीति ॥ इत्युक्त्वा प्रदीयतां दाशरथाय मैथिली इति कर्तव्यसौकर्यं यावन्न गृह्णन्ति शिरांसि बाणा: इत्यकरणे प्रत्यवायं चोक्तं क्त्वा । परुषं सस्त्रीकजनसुखावहस्य मलयमारुतस्य विरहिणि दुःखकरत्ववद्विभीषणोदितं हितं । आश्रयदोषेण परुषं । वाक्यं हितपरिपूर्णं । उक्त्वा हितज्ञो भ्राता भ्रातरमापनं परितत्याजेत्यपयशो यावता शक्यं परिमार्ष्टुं तावत्पर्यन्तमुक्त्वा । परुषत्वे हेतुः रावणमिति । प्रबलदुर्बलविचारमन्तरेण सर्वरावकस्य शत्रुबलोपवर्णने परुषं भवत्येव । रावणानुजः रावणानुजत्वेपि सत्वोत्तरतया कथनीयं हितमुक्तवानित्यृषिः स्तौति । हितकथने ज्येष्ठभावोप्यप्रयोजकः । अत एवोक्तं मनुना- “पितॄनध्यापयामास शिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ अज्ञं हि बालमित्याहुः पितेत्येव च मन्त्रदं इति । आजगाम रावणगोष्ठ्यां स्वस्य संबन्धाभावेन रामगोष्ठ्या: स्वगृहत्वेनाजगामेत्युक्तं नतुजगामेति । मुहूर्तेन वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशसं इति न्यायेनाङ्गारनिकरपरिक्षिप्तेवर्त्मनिपदन्यासवत् रावणसदनावस्थित्यनर्हत्वं विगलितबन्धनरज्जोर्वत्सस्य मातुरूध: स्पर्शमन्तरेण मध्यदेशादर्शनवदतिवेगागमनं चोक्तं यत्ररामः । रामापेक्षया तद्देशसंबन्धस्य प्राप्यत्वमुक्तं । सुभगश्चित्रकूटोसौ गिरिराजोपमो गिरिः । यस्मिन्वसति काकुत्स्थ: कुबेर इव नन्दने इतिवत् रामस्य लक्ष्मणो व्यावर्तकइति सलक्ष्मण इत्युक्तं । यद्वा पुरुषकारसान्निध्यमनेनोच्यते । अनेन । श्लोकेन भगवद्विमुखानां देशस्य त्याज्यत्वं तत्संबन्धि- देशस्य परमप्राप्यत्वं चोक्तं । यद्वा सा काशीति न चाकशीति इत्याद्युक्तरीत्या भगवद्देशस्थापि भागवतामिमानाभावे परित्याज्यत्वाल्लक्ष्मणसान्निध्यमुक्तं । ननु विश्रवः पितामहवरप्रदानविभवविदितनिखिल -धर्मवृन्देन विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टित: इति तत्र तत्र धार्मिकतया प्रशंसितेन विभीषणेन ज्येष्ठो भ्राता पितृसमः इति पितृवदनुवर्तनीयो ज्येष्ठभ्राता बाल्यात्प्रभृति परिपोषकश्च सन्रावणः सपदि सन्निहिते शत्रौ क्षुद्रबुद्धिनेव दूरं कथं परित्यक्तः । त्यजतु नाम कथंचित् । अथापि न युक्तमभिगन्तुं तस्य प्रहर्तारं । अभिगच्छतु नाम नोचितमस्यस्थानमभिलषितुं । अभिलषतु नाम नौपायिकमस्यवधोपायंनिर्देष्टुं । अन्न केचित् । रावणस्य निरवधिकदोषदूषितत्वात् गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते इति स्मरणाद्विभीषणेन त्यक्तो रावण इत्याहु: । त्रय्यन्तगुरवस्तु – पितामहवरप्रसादेन लब्धविज्ञानत्वाद्रामं सर्ववेदान्तवेद्यं सर्वलोकेश्वरभूतं सर्वलोकशरण्यं मुक्तप्राप्यं नारायणाख्यं परं ब्रह्म लोकानुजिघृक्षया- । वतीर्णमिति निर्विचिकित्समवगच्छति । यथा मन्दो- दरीप्रभृतयः । एवं तत्त्वज्ञानसंपन्नस्य विशेषसामान्यधर्मप्राबल्यदौर्बल्यविवेकेन सामान्यधर्मपरित्यागो विशेषधर्मपरिग्रहश्चोपपद्यते । ज्येष्ठभ्रात्रनुवर्तनंहि त्रैवर्गिकफलसाधनतयाज्येष्ठानुवर्तनद्वारा परमात्माराधने पर्यवसानस्य वक्तव्यत्वात् मोक्षपर्यवसानेपि परमात्मोपासनाङ्गत्वाच्च सामान्यधर्म: । रामानुवर्तनं तु साक्षात्परमात्मसमाराधनत्वात् यज्ञादिधर्मसाध्यत्वेन प्रधानत्वाच्च विशेषधर्मः । उभयोश्चाप्यविरोधे सत्युभयमप्यनुवर्तनीयं । विरोधेतुसामान्यधर्मं परित्यज्य विशेषधर्मोनुवर्तनीयः । अतो विभीषणोपि इयन्तं कालं कृतं रावणानुवर्तनमपरित्यज्यैव मम रामानुवर्तनमपि किं सिद्ध्येदित्याशया तस्मै हितं पुनः पुनरुपदिदेश । एवमपि तस्यासुरप्रकृतितयाऽनपनोद्यं रामवैरमितिनिश्चित्यातः परं एतदनुवर्तने स्वात्मविनाशकं समविषयकं वैरं मय्यपि स्वादिति भीतःसन् वरं हुतवहज्वाला इत्यादिन्यायेनात्यन्तदुःसहां तत्संगतिं तत्याज । विशेषधर्मं रामानुवर्तनं चाङ्गीचकारेत्यतोयं परो धर्म एवेति कृतघ्नशङ्का दूरोत्सारिता । नाप्ययं राज्यकाङ्क्षया रामशरणमुपजगाम तदपेक्षाया अदर्शनात् । तथाहि शरणागतिसमये त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः इत्यन्यविषयवैराग्यस्य तेन कण्ठरवेणोक्तत्वात् । पश्चाद्रामाय विज्ञापने क्रियमाणे परित्यक्ता मया लङ्का मित्राणि च धनानि च । भवद्गतं मे राज्यं च जीवितं च सुखानि च इति सर्वविधपुरुषार्थत्वेन त्वामेवाहमुपेयिवानितिकथनाच्च । अहं हत्वा दशप्रीवं सप्रहस्तं सबान्धवं । राजानं त्वां करिष्यामि सत्यमेतब्रवीमि ते इत्यनाकाङ्क्षितराजत्वकरणोक्ति: कूलंकषरामप्रीतिसागर परीवाहरूपानुषङ्गिकभोगप्रदानपरा । यथाहुः – आयुरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान् । ददाति ध्यायतां नित्यमपवर्गप्रदो हरिः इति ॥ अतो यदुक्तं हनुमता राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः इति । यच्च रामेणोक्तं राज्यकाङ्क्षी विभीषण: इति तत्सर्वं रामभक्त्याविलाशयस्य सुग्रीवस्य व्यामोहप्रशमनाय नीतिशास्त्रोक्तराजवृत्तान्तप्रदर्शन -मात्रपरमिति मन्तव्यम् । हनुमद्रामवाक्यस्य विभीषणवाक्यस्य चान्योन्यविरोधप्रसङ्गे अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः इतिन्यायेन विभीषणवाक्यस्य प्राबल्यात् । अतएव राजानं त्वां करिष्यामि इति ब्रुवतो रामस्य प्रतिवचनमनुक्त्वा परिचरणमात्रमेव विभीषणः प्रार्थयामास राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे । करिष्यामि यथा प्राणं प्रवेक्ष्यामि च वाहिनीम् इति । तस्यानुमत्यभावेपि बलाद्राज्यस्वीकार उत्तरकाण्ड उक्त: यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ शापितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि इति । इत्थमनन्यप्रयोजनत्वादेवास्मै रामः कुलधनं श्रीरङ्गनाथं ददौ । धर्मसंस्थापनार्थमेवावतीर्णस्य रामस्य नियोगेनावशिष्टां राक्षसजातिं सन्मार्गे प्रवर्तयितुं तस्य राज्याङ्गीकरणं । इदमप्याज्ञानुविधायित्वात् कैङ्कर्यकोटावन्तर्भूतमिति विभीषणतात्पर्यं । अतो यथावद्विदितधर्मो लक्ष्मणोपि अहं तावन्महाराजे पितृत्वं नोपलक्षये । भ्राता भर्ता च बन्धुश्च पिता च मम राघवः इति सोपाधिकपितरं दशरथं परित्यज्य निरुपाधिकसकलविधबन्धुं राममेव अग्रतस्ते गमिष्यामि पन्थानमकुतोभयम् । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते इति रामपरिचरणमेव फलं प्रार्थयामास । स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः इति राघवं शरणमुपागतश्च । तथा विभीषणोपि सोपाधिकबन्धुं भ्रातरं परित्यज्य कैङ्कर्यापेक्षयैव सर्वविध सहजबन्धुं रामं शरणं गत इति बोध्यम् । अतएव रामप्राध्यपेक्ष्या रावण परित्यागवेलायामन्तरिक्षगतः श्रीमानिति प्रशंसितः । स तु नागवरः श्रीमान् लक्ष्मणो लक्ष्मसंपन्न इतिवत् । तस्मान्नाधर्मशङ्का विभीषणे । ननु यद्येवं तर्हि ययोवर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तावुभौ मम नाशाय प्रसुप्तौ पुरुषर्षभौ ॥ जीवन्नपि विपन्नोस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः इति नागपाशवन्धनसमये स्वस्य राज्यनाशकृतनिर्वेदः कथमुपपद्यत इति चेन्न । तत्रापि प्रतिष्ठाशब्दस्य रामकैङ्कर्यपरत्वात् । नष्टराज्यमनोरथ इत्यत्रापि राज्यशब्दो भवद्गतं मे राज्यं च इत्युक्तकैङ्कर्यसाम्राज्यपरः । एतेन राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः इति सुग्रीववचनं तु तदाशयाज्ञानकृतमिति न कश्चिद्दोष इति प्राहुः । अतएव चतुरशीतौ वक्ष्यति विभीषणः- यदाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्य- समनन्तरम् इति ॥ १ ॥
तं मेरु शिखराकारं दीप्तामिव शतहृदाम् ।
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ २ ॥
[ स हि मेघाचलप्रख्यो महेन्द्रसमविक्रमः ।
सर्वायुधधरो वीरो दिव्याभरणभूषितः ॥ ३ ॥
ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेपि सर्वायुधोपेता भूषणैश्चापि भूषिताः ] ॥ ४ ॥
रावणसमीपादुत्पतनसमय एव सुग्रीवादयो विभीषणमपश्यन्नित्याह-तमिति ॥ तं दवाग्नेर्निर्गत्य शीतलहूदे पतितुमिवागच्छन्तं मेरुशिखराकारं उन्नत पीवरत्वरत्नबहुलत्वादिभिर्मेरुशि- खरतुल्यं । किंच प्रतिपक्षत्यागलाभेन स्थिरतया स्थितत्वं प्रकाशमानत्वं पारतन्त्र्यज्ञापकत्वं । तेन रामस्य शृङ्गलाभ: रावणस्य शृङ्गभङ्गश्चोच्यते । दीप्तामिव शतहृदां । तेजिष्ठत्वगगनसंचाराभ्यां विद्युद्दृष्टान्तः । रामभक्तावानरा नास्मान्प्रवेशयिष्यन्तीतिकम्पः, अप्रवेशे जीवनं न सिध्यतीति त्वरा चेत्येतद्यूयं तेन गम्यते । गगनस्थमिति दूरत एव ददृशुरिति भावः ॥ २-४ ॥
तमात्मपञ्चमं दृष्ट्वा युग्रीवो वानराधिपः ।
वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ ५ ॥
अथ सुग्रीवो लङ्कापुरीदेशादागमनमायुधसन्नाहं च दृष्ट्वा प्रहर्तुमेवागच्छतीति विचार्य तमर्थं वानरैः सह चिन्तयामासेलाह- तमिति ॥ तं अत्यन्ताभिनिवेशेन शीघ्रमागतं । आत्मपञ्चमं आमना पञ्चत्वसङ्ख्यापूरकमित्यर्थः । अनलशरभसंपातिप्रघसनामभिश्चतुर्भी राक्षसैर्युक्तमिति यावत् । अनलादिगतसङ्ख्यापूरण एव विभीषणस्य प्राधान्यमुक्तं । रामविषयप्रेमास्पदत्वं तु समानं । सुग्रीवः गगनस्थदर्शनार्थी शीघ्रं शिर उन्नम्य दर्शनेन तात्कालिकग्रीवासौन्दर्यमृषिः स्तौति । वानरराधिपः । शीघ्रमुत्थाय दर्शनं वानरसेनायाअपि स्वस्यैव रक्षकत्वेन रामविषयप्रीतेश्च राघवार्थे पराक्रान्ता इत्युक्तेभ्यो वानरेभ्योपि स्वस्यैव निरवधिकप्रीतिमत्ताज्ञापकत्वेन च । दुर्धर्षः शरणागतस्यापि पश्चादाकृष्टपादत्वापादकत्वेन अनभिभवनीयः स्थितः । बुद्धिमान्वानरैः सह चिन्तयामास । स्वयं समर्थत्वेपि तानप्यनुसृत्य चिन्तनं कार्यगौरवात् । चारो वा शत्रुर्वेति चिन्तयामास । आगमनमुखविकासादिना निर्दुष्टत्वनिश्चयेपि रामवि षयप्रेमपारवश्येन चिन्तितवानितिबुद्धेः प्राशस्त्यं ॥ ५ ॥
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह ।
हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ।। ६ ।।
विभीषणे सपरिकरे सविधस्थे मन्त्रविलम्बो न युक्त इति झटिति मनसा निश्चित्य सचिवादीन्प्रति निर्णीतमाह – चिन्तयित्वेति ॥ चिन्ताया निर्णयान्तत्वादन्नचिन्तयित्वेतिनिर्णयवाची । नायं चारो नापि दूतः अपितु बाधक एवेति निश्चित्य ॥ ६ ॥
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ।
राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ।। ७ ।।
स्वनिर्णीतार्थमाह – एष इति ॥ एषः बाधकतैकान्तक्रौर्यसंपन्नः । सर्वायुधोपेतः । मनःस्थितक्रौर्यानुकूल हिंसापरिकरसं- पूर्णः । अनुकूलस्य प्रतिकूलतानिश्चयवत् रामविषयप्रे- मान्धतया एकायुधस्य बहुत्वनिश्चयः । एकायुधग्रहणचातुर्यदर्शनेन सर्वायुधग्रहणेष्वपि नैपुण्यं ज्ञायत इति वा तथोक्तं । स्वामिपीडने ब्रह्मास्त्रसदृशशरणागतिरेतस्य हस्ते विद्यत इति वा । उत्पपात गदापाणिरित्यत्र सर्वायुधोपलक्षणमित्यन्ये । राक्षसः सर्पजातिरितिवत् क्रौर्यातिशयोक्तिः । पश्यध्वं पश्यत । अस्मान्हन्तुं । अस्मासु कस्यचिद्धनने हि शेषं जीविष्यति मूलभूतरामहनने सर्वविनाश इति बहुवचनार्थः ॥ ७ ॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः ।
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ।। ८ ।।
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् ।
निपतन्तु हताश्चैते धरण्यामल्पतेजसः ।। ९ ।।
वानराश्च सुग्रीववाक्यानुसारेणोद्योगं चक्रुरित्याह- सुग्रीवस्येत्यादिश्लोकद्वयेन ॥ अल्पतेजस इति । अस्मद्बलस्य गजकंबलप्राया इत्यर्थः ॥ ८- ९ ॥
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः ।
उत्तरं तीरमासाद्य स्वस्थ एव व्यतिष्ठत ।। १० ।।
तेषामिति । अनादरे चेयं षष्ठी । वदन्तु नामैते वानरा यत्किंचित् । सर्वज्ञः परमकारुणिकः सर्वलोकशरण्यो रामो मामवश्यं रक्षिष्यत्येवेति महाविश्वासेन तेषामन्योन्यभाषणमनादृत्य प्रहरणोद्यतानामपि तेषामाभिमुख्येनाजगाम । आगत्यापि निर्विशङ्क: सन् सर्वेषामात्मानं प्रकाशयन्नाकाशे एव स्थितवानित्यर्थः । अत्र स्वस्थो व्यतिष्ठतेति द्विः प्रयोगो निर्भयत्वेन निष्कम्पावस्थानसूचनार्थः ॥ १० ॥
उवाच च महाप्राज्ञः स्वरेण महता महान् ।
सुग्रीवं तांश्च सम्प्रेक्ष्य सर्वान्वानरयूथपान् ।। ११ ।।
अथ पुरुषकारलेशमनपेक्ष्य सर्वानपि प्रतिबन्धिनो निवार्य मां रक्षिष्यतीति महाविश्वासशाल्यपि विभीषणः सहसा रामं शरणं नोपजगाम । किंतु दूरत एवस्थितः प्रातिकूल्यप्रवृत्तानेव सुग्रीवादीन्पुरुषकारभूतान्कृत्वोवाचेत्याह-उवाचचेति ॥ उवाच च चकारेण स्वीकारे स्वागमनमेव पर्याप्तं वचनमप्युक्तवान् । पद्भ्यामभिगमाच्चेत्यागमनमपि भारायेति मन्यमानस्य तदुपरि वाक्यं क्षते क्षारवत् । महाप्राज्ञ इत्यनेनान्तरङ्गपुरुषकारेणैव कृपालुरपि राजा शरणमुपगन्तव्य इतिपरिज्ञानं वानराणां मत्प्रतिकूलसंरम्भोपि नमद्वेषकृतः किंतु रामभक्तिप्रकर्षकारितः । अतोगुणएवायमिति जानन्यदि रामपरिचारका एते नाङ्गीकुर्युः किं रामाङ्गीकारेण । अतो रामाङ्गीकारादप्येतदन्तर्भाव एव ममपुरुषार्थ इति ज्ञानं च विवक्षितं । स्वरेण महतेति । पुरुषकारभूतानां सर्वेषां सर्वलोकशरण्यस्य च स्वार्तरवश्रवणाय महास्वरप्रयोगः । रामविषये चैवंविधार्तरवोच्चारणं भाग्याधिकस्यैवेति विवक्षया महानित्युक्तिः । यथोक्तं लक्ष्मीतन्त्रे – आकिञ्चन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । मामेव शरणं प्राप्य मामेवान्ते समश्नुते इति ॥ ११ ॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ।। १२ ।।
अत्र प्रथमं स्वदोषान्पुरस्करोति – रावण इति ॥ रावणं लोकरावणं इति न्यायेन रावयतीति व्युत्पत्तिसंभवान्नामैव क्रूरमित्यर्थ: । न केवलं नामैव क्रूरं व्यापारोपि नृशंस इत्याह – दुर्वृत्त इति । जातिरपि तथाविधेत्याह- राक्षस इति । केवलं स्वयमेवक्रूर: क्रूरानेकपरिकरसमवेतश्चेत्याह- राक्षसेश्वर इति । रावणस्यैवंविधत्वे तव किमायातमित्यत्राह – तस्याहमिति । यद्यमग्रजः स्यां तर्हितदाज्ञाननुवर्तित्वेन धनदवत्तद्दोषैर्न लिप्येयं । अनुजत्वेन तन्मनीषिताः सर्वे दोषास्तदाज्ञया मया कृता इतिभावः ॥ १२ ॥
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् ।
रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ।। १३ ।।
राघवस्य तु प्रियापहारनिरोधादिभिः समाश्रितहननाच्च विशेषतस्तेनापकृतमित्याह – तेनेति ॥ १३ ॥
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् ।
साधु निर्यात्यतां सीता रामायेति पुनः पुनः ।। १४ ।।
अस्त्वेवं ततः किमित्यत्राह – तमिति ॥ हेतुभिर्वाक्यै: हेतुप्रतिपादकैर्वाक्यैः । न्यदर्शयं अबोधयं । बोधितमेवार्थमाह – साध्विति । निर्यात्यतां प्रत्यर्प्यतां ॥ १४ ॥
स च न प्रतिजग्राह रावणः कालचोदितः ।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ।। १५ ।।
विपरीतः मुमूर्षुः ॥ १५ ॥
सोऽहं परुषितस्तेन दासवच्चावमानितः ।
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ।। १६ ।।
एवमीश्वरस्य निर्हेतुककरुणाकृतेन रावणावमानेन प्रयोजनान्तरवैमुख्यं जातं । ततश्च परमपुरुषार्थभूतरामप्राप्त्यर्थं राममेव शरणमुपगतोस्मीत्याह- सोहमिति । अत्र पुत्रान्दारानिति, परित्यक्ता मया लङ्का मित्राणि च धनानि च इति वक्ष्यमाणानां लङ्काराज्यादीनामुपलक्षणं । अत्र फलान्तरानिर्देशाद्राक्षसानां वधे साह्यमित्यादिवचनस्य स्वेनैव वक्ष्यमाणत्वाञ्च रामपरिचरणस्यैव फलत्वपक्षो युक्तः ॥ १६ ॥
सर्वलोकशरण्याय राघवाय महात्मने ।
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ।। १७ ।।
एवं शरण्यस्य विज्ञाप्यमर्थमुक्त्वा तद्विज्ञापनाय पुरुषकारभूताप्रार्थयते – सर्वलोकशरण्यायेति ।। शरणे रक्षणे साधु शरण्य: । तत्र साधुः इति यत्प्रत्ययः । शरणं भवितुमर्हः शरण्य इतिनिरुक्ति: । अनालोचितकुलविद्यावृत्तादिविशेषाशेषलोकशरण्यायेत्यर्थः । अतः संचितविविधापराधस्य रावणस्यापि युष्माकमिवात्रांशोस्ति किमुत तत्संबन्धिनः । परंतु रुच्यभावादेव स स्वांशं न लब्धवान् । मम त्वाभिमुख्येनागतस्य दुरपनोदोंशलाभ इतिभावः । अत्र शरण्याङ्गभूतं सुलभत्वपरत्वरूपं गुणद्वयं प्राधान्येन दर्शयति – राघवाय महात्मन इति । सुलभत्वेप्यनिष्टानां लोष्टानां उत्कर्षेप्यसुलभानां मेरुप्रभृतीनां चानुपादेयत्वादुभयमप्यपेक्षितं । यत्तदनिर्देश्यं इत्यादिवेदान्तगोचरस्य परब्रह्मणः सकलमनुजतिर्यङ्गयन साक्षात्कारक्षममनुजावतारात् केयमन्या सौलभ्य काष्ठेतिभावः । महात्मने । एवमवतारेप्यजहत्स्वभावतया निखिलद्देयप्रत्यनीकत्वे सति ज्ञानशक्त्याद्यनन्तकल्याणगुणैकतानाय निवेदयत । अत्र प्रत्यक्षस्य स्वागमनस्य निवेदने प्रयोजनाभावात् स्वापराधपरि पूर्ति: इहामुत्रफलभोगविरागः शरणागतिलक्षणनिरपायोपायपरिग्रहः रामकैङ्कर्याभिलाषः तत्परिचारकान्तर्भावश्चेत्येतेऽर्था विज्ञापनीया इत्यर्थः । क्षिप्रमित्यनेन यावच्छरण्यः स्वयमेव परिग्रहिष्यति ततः पूर्वमेव विज्ञापनेन युष्माभिः सुहृत्कार्यमाचरणीय मितिभावः । विभीषणं । रावणवन्नाहं प्रतिकूल: किंतु विभीषणस्तु धर्मात्मेत्यनुकूल एव । उपस्थितं अतिहीनस्याप्युपगमनमेव हि रामाङ्गीकारे बीजमितिभावः ॥ १७ ॥
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ।
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ।। १८ ।।
रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ।। १९ ।।
अथ सुग्रीवो रामप्रेमातिशयजनिताद्व्यामोहात् । अतिस्नेहः पापशङ्की इति न्यायेन तस्य सर्वशक्तित्वमपि विस्मृत्य शरणागतवत्सलो राम: शरणागतिशब्दश्रवणमात्रेण गूढहृदयमेनं परिगृह्णीयात् । ततः क्रूरहृदयोयं रामे किमिव पापमाचरेदित्यस्थानभयशङ्काव्याकुलितः शीघ्रं रामसमीपं गत्वा स्वसमानहृदयं लक्ष्मणमपि सहायीकृत्य विभीषणो निग्राह्य इति विज्ञापयामासेत्याह – एतदिति ॥ तुशब्देन पूर्वोक्त विशेष उच्यते । लघुविक्रमः शीघ्रगमनः । संरब्धं प्रेमभरात्त्वरितोदिताक्षरं ॥ १८-१९ ।।
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि ।
वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥ २० ॥
मन्त्रः कार्याकार्यविचार: । व्यूहः सेनास्कन्दनिवेशः । नयः विचार्य निश्चितानामुपायानां स्वस्वविषयेप्रयोगः । चार: गूढप्रेषणं । वानराणां परेषां राक्षसानां च मन्त्रादिषु विषये युक्तः अवहितः । भवितुमर्हसि । वानराणां मन्त्रादीन्प्रयोजय । शत्रूणां मन्त्रादींस्तु सम्यग्जानीहि । एवं सति तव भद्रं भविष्यतीत्यर्थः ॥ २० ॥
अन्तर्धानगताह्येते राक्षसाः कामरूपिणः ।
शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥ २१ ॥
अस्त्वेवं ततः किमित्याशङ्क्य प्रकृतं विज्ञापयति – अन्तर्धानेति ॥ अन्तर्धानगता: अदृश्यचारिणः । निकृतिज्ञाः कपटोपायवेदिनः ॥ २१ ॥
प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् ।
अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः ॥ २२ ॥
विश्वासे वा किमयंकरिष्यतीत्याशङ्क्य भेदं दण्डं वा करिष्यतीत्याह – प्रणिधिरिति ॥ प्रणिधि: चार : यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पश: । चारश्च गूढपुरुष: इत्यमरः । भेदं मित्रभेदं ॥ २२ ॥
अथवा स्वयमेवैष च्छिद्रमासाद्य बुद्धिमान् ।
अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥ २३ ॥
अपिः संभावनायां ।। २३ ।।
मित्राटवीबलं चैव मौलं भृत्यबलम् तथा ।
सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥ २४ ॥
शत्रुसकाशादागतस्यास्य परिग्रहे शत्रोर्बलक्षयः अस्माकं बलवृद्धिश्च स्यादित्याशङ्क्य द्विषद्बलव्यतिरिक्तमेव बलं ग्राह्यमित्याह – मित्रेति ॥ मित्रबलं मित्रसंबन्धिबलं । अटवीबलं आटविकजनरूपं बलं । मौलं परंपरागतं सैन्यं । भृत्यबलं तादात्विकभृतिप्रदानोपजीवि बलं ॥ २४ ॥
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो ।
आगतश्च रिपोः पक्षात्कथमस्मिन्हि विश्वसेत् ॥ २५ ॥
न केवलं द्विषद्लत्वमात्रं अन्येप्यपरिग्राह्यताहेतवः सन्तीत्याह – प्रकृत्येति ॥ प्रकृत्या जायेत्यर्थः ॥ २५ ॥
रावणेन प्रणिहितं तमवेहि विभीषणम् ।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।। २६ ।।
नन्वयं शरणागतः कथं परित्याज्य इत्याशय शरणागतिलक्षणमायोपायेन विश्वासमुत्पाद्य त्वयि प्रहर्तुं प्रवृत्तत्वान्नास्यापरिग्राह्यत्वमात्रं किंतु सहायैः सह वध्यत्वमित्याह – रावणेनेत्यादिश्लोकद्वयमेकं वाक्यं । प्रणिहितं प्रणिधिकर्मणा नियुक्तं । अस्य शरणागतिर्विप्रलम्भकृतेति भावः । क्षमवतां युक्तव्यापारवतां । क्षमं हितं । क्षमं शक्ते हिते त्रिषु इत्यमरः ॥ २६ ॥
राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमुपस्थितः ।
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव ।। २७ ।।
प्रणिधिरप्येष नः किं करण्यतीत्यत्राह-~राक्षस इति ॥ संदिष्टः रावणेनेति शेष: । प्रहर्तुं संदिष्ट इति संबन्धः ॥ २७ ॥
प्रविष्टः शत्रुसैन्यं हि प्राज्ञः शत्रुरतर्कितः ।
निहन्यादन्तरं लब्ध्वा उलूक इव वायसान् ।। २८ ।।
यदा शाठ्यं दृश्यते तदाऽसौ हन्यतां तत्राह – प्रविष्ट इति ॥ प्राज्ञ इति हेतुगर्भं विशेषणं । प्राज्ञत्वादतर्कितः अस्मज्जिघांसयाऽयमागत इति तैरविचारितः । अतएव तेषां सैन्यं प्रविष्टः सन् । कदाचित् अन्तरं छिद्रं लब्ध्वा हन्यादित्यर्थ: । प्रविष्टोप्येकाकी कथं बहून्हनिष्यतीत्याशंक्य छिद्रसहितस्य युज्यत इति दृष्टान्तमुखेन प्रकटयति – उलूक इति ॥ २८ ॥
बध्यतामेष दण्डेन तीव्रेण सचिवैः सह ।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।। २९ ।।
तर्हि किं कर्तव्यं तत्राह – वध्यतामिति ॥ वध्यतां केवलनिरसने कृते मारीचवदनर्थकारी स्यादिति भावः । तीव्रेण दण्डेन । वालिवदेकेन बाणेन न हन्तव्यः । किंतु शिरसि वर्ति कृत्वा दीपारोपण कार्यं । सचिवैः सह प्रथमं तेषां शिरांसि छित्त्वा विभीषणहस्ते दत्त्वा ततोयं वध्यतां । तत्र हेतुमाह – रावणस्येत्यादि ॥ २९ ॥
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः ।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ।। ३० ।।
एवं सुग्रीवो विभीषणविषयवक्तव्यमुक्त्वा अतः परमनेन यत्किंचिदुक्तं चेदुत्तरं वक्ष्याम इति तूष्णींस्थित इत्याह – एवमुक्त्वेति ॥ ३० ॥
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः ।
समीपस्थानुवाचेदं हनुमत्प्रमुखान्हरीन् ।। ३१ ।।
अथ शरणागतवत्सलो रामः सुग्रीवस्य संरम्भप्रतिक्षेपाय यत्किंचिद्व्याजमपेक्षमाणो विभीषणस्य विश्वासातिरेकेण किंचिद्विलम्बेपि भावं निवेदयतेति वदतस्तस्य तदन्तर्भावापेक्षां च सम्यगालोच्य प्रतिक्षेपकमुखेनैव तदानयनं कर्तुकामो हनुमदादीनुवाचेत्याह- सुग्रीवस्येति ॥ ३१ ॥
यदुक्तं कपिराजेन रावणावरजं प्रति ।
वाक्यं हेतुमदर्थ्यं च भवद्भिरपि तच्छ्रुतम् ।। ३२ ।।
रामः सुग्रीववचनोपलालनपूर्वकमन्यानपि सचिवान् स्वं स्वं मतं पृच्छति – यदुक्तमित्यादिश्लोकद्वयेन ॥ हेतुमत् युक्तियुक्तं । अर्थ्यं अर्थः प्रयोजनं तस्मादनपेतं ॥ ३२ ॥
सुहृदा ह्यर्थकृच्छ्रेषु युक्तं बुद्धिमता सता ।
समर्थेनापि सन्देष्टुं शाश्वतीं भूतिमिच्छता ।। ३३ ।।
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः ।
सोपचारं तदा राममूचुर्हितचिकीर्षवः ।। ३४ ।।
न ह्येकेन सुहृदोपदिष्टे सत्यन्यैस्तूष्णीं स्थातव्यं । अपि तु बुद्धिमता समर्थेन । शाश्वतीं भूतिमिच्छता श्रेयस्कामेन । सुहृदा सुहृदन्तरेणापि । अर्थकृच्छ्रेषु कार्यसङ्कटेषु । उपदेष्टुं युक्तमेव । अतो यूयमपि वदतेत्यर्थः ॥ ३३-३४ ॥
अज्ञातं नास्ति ते किं चित्त्रिषु लोकेषु राघव ।
आत्मानं सूचयञ्जानन्पृच्छस्यस्मान्सुहृत्तया ।। ३५ ।।
सोपचारप्रशंसावाक्यमेवाह – अज्ञातमिति ॥ अत्र सर्वज्ञ इत्युक्ते प्रायिकत्वशङ्का स्यादिति तन्निवृत्त्यर्थं व्यतिरेकोक्तिः । त्रिषु लोकेषु कृतकमकृतकं कृतकाकृतकमित्युक्तेषु । आत्मानं सुहृत्तया सूचयन्नस्मान् पृच्छसीत्यन्वयः । अयं वानराणां सुहृदितीमां कीर्ति लोके ख्यापयितुं तवायं प्रश्न इत्यर्थः । पूजयन्निति पाठे तु अस्मान् प्रत्येकं मानयन्नस्मान् पृच्छसीत्यर्थः । प्रत्येकं माननाभिप्रायेणैवात्मानमित्येकवचनप्रयोगः । यद्वा आत्मानं आत्मस्वभावं । जानन् राजनीतिमिति यावत् । पूजयन् पालयन् । यद्वा । सुहृत्तया शोभन हृदयतया हेतुना । आत्मानं स्वं । पूजयन् । कार्यविचारेषु अस्मदपेक्षया स्वयमेव शोभन हृदय इति स्वप्रभावमभिव्यञ्जयितुमितिभावः । अस्मन्मतानि पूर्वपक्षीकृत्य स्वमतमेव सिद्धान्तयितुमितिभावः ॥ ३५ ॥
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः ।
परीक्ष्यकारी स्मृतिमान्निसृष्टात्मा सुहृत्सु च ।। ३६ ।।
स्वपूजनार्थमस्मान्पृच्छसीत्यत्र हेतुमाह – त्वमिति ॥ सत्यव्रतः शरणागतरक्षणव्रतस्य सापराधरावणादिष्वपि विफलीकर्तुमशक्यत्वात् । परीक्ष्यकारी सर्वज्ञः सन्नपि सम्यग्घेतुभिर्विमृश्याचरणशीलः । सुहृत्सु निसृष्टात्मा सुहृत्परत श्रीकृतात्मस्वरूपः । पूर्वश्लोके सुहृत्त्वमात्रमुक्तं । अत्र तु सुहृत्परतन्त्रत्वमितिभेदः ॥ ३६ ।।
तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव ।
हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः ।। ३७ ।।
तस्मात् भवत उक्तगुणत्वात् । तावत् क्रमेण | हेतुतः युक्तिभिः । ब्रुवन्तु ॥ ३७ ॥
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ।
विभीषणपरीक्षार्थमुवाच वचनं हरिः ।। ३८ ।।
सुग्रीवानन्तरमङ्गदस्य युवराजतयाप्रधानत्वात् प्रथममङ्गदोजगादेत्याह – इत्युक्त इति । विभीषणपरीक्षार्थं तदुपायप्रतिपादकमितिशेषः ॥ ३८ ॥
शत्रोः सकाशात्सम्प्राप्तः सर्वथा शङ्क्य एव हि ।
विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ।। ३९ ।।
असौ शरणागतोपि शत्रोः सकाशात्प्राप्तत्वादनुकूलो नेति शंक्य एव । अतः सहसा परीक्षामन्तरेण विश्वासयोग्यो न कर्तव्यः किंतु परीक्ष्य प्रवेष्टव्य इति सुग्रीववचनाद्विशेषः ॥ ३९ ॥
छादयित्वात्मभावं हि चरन्ति शठबुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् ।। ४० ।।
विश्वासकरणे अनिष्टमाह —छादयित्वेति ॥ शठबुद्धयः कुटिलबुद्धयः । आत्मभावं स्वाभिप्रायं । छादयित्वा स्वाभिमायसूचकेङ्गितादिकमपि स्थगयिवेत्यर्थ: । चरन्ति यावद्रन्ध्रलाभं स्वैरसंचारं कुर्वन्ति । रन्ध्रेषु अनवधानेषु सत्सु । प्रहरन्ति हिंसन्ति ॥ ४० ॥
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विवर्जयेत् ।। ४१ ।।
त्यागोपादानोपयुक्तं परीक्षाप्रकारमाह–अर्थानर्थाविति ॥ अर्थानर्थौ गुणदोषौ । विनिश्चित्य कस्मिंश्चित्कर्मणि नियोगेन निश्चित्य । व्यवसायं त्यागसंग्रहोचिताध्यवसायं । भजेत । तत्र गुणतः गुणनिश्चयेन । संग्रहं अङ्गीकारं कुर्यात् । दोषत: दोषनिश्चयेन तु विसर्जयेत् ॥ ४१ ॥
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।
गुणान्वापि बहूञ्ज्ञात्वा सङ्ग्रहः क्रियतां नृप ।। ४२ ।।
ननु सर्वासना गुणी दोषी वा दुर्लभ: अतः कथं संग्रहत्यागव्यवस्थितिरित्यत्राह – यदीति ॥ तस्मिन् विभीषणे । महान्दोषो यदि स्यात् तदा असौ अविशङ्कितं अविशङ्कं त्यज्यतां । बहून्गुणान् ज्ञात्वा संग्रहः क्रियतां वा । स्वल्पदोषवत्त्वेपि बहुगुणो ग्राह्यः । स्वल्पगुणवत्त्वेपि बहुदोषस्त्याज्य इति भावः ॥ ४२ ॥
शरभस्त्वथ निश्चित्य साध्यं वचनमब्रवीत् ।
क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ।। ४३ ।।
विनियोग विना गुणदोषपरिज्ञानं न संभवति सहसा विनियोगे च मन्त्रहानिः स्यादिति पूर्वावरसाच्छरभ आह-शरभस्त्विति ॥ तुशब्दः पूर्वस्माद्वैलक्षण्यपरः । साध्यं साध्यार्थकं । अनेनाङ्गदपक्षस्यासाध्यार्थत्वं द्योतितं । अस्मिन् विभीषणविषये । प्रतिविधीयतां प्रेष्यतां ॥ ४३ ॥
प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना ।
परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ।। ४४ ।।
प्रणिधाय चारंप्रेषयित्वा । सूक्ष्मबुद्धिनाचारेण यथावन्नीतिशास्त्रोक्तरीत्या परीक्ष्य ततो यथान्याय्यं न्यायादनपेतं न्याय्यं । निर्णीतार्थमनतिक्रम्य । परिग्रहः विभीषणपरिग्रहः । कार्यः ॥ ४४ ॥
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः ।
वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ।। ४५ ।।
नियोगेन चारेण वा नायं परीक्ष्य: अविस्रम्भहेतूनां बहूनां संभवादिति जाम्बवान्पक्षान्तरमुपक्षिपति- जाम्बवानिति ।। गुणवत् युक्तिमत् । दोषवर्जितं अनपायमितिपूर्वोक्तमतद्वयव्यावृत्तिः ॥ ४५ ॥
बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः ।
अदेशकाले सम्प्राप्तः सर्वथा शङ्क्यतामयम् ।। ४६ ।।
बद्धवैरात् दृढवैरात् । पापात् पापकर्मणः । अदेशे दूरतयासांप्रतिकभयाभावेन आगमनप्रयोजनरहिते । अकाले स्वामिपरित्यागानर्हकाले ॥ ४६ ॥
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः ।
वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् ।। ४७ ।।
सर्वथा शङ्क्यत्वेपि सुकरोपायेन गुणदोषपरीक्षया अकरणे सुखोपनतमित्रहानिः स्यादिति मैन्दो मतान्तरमाह – तत इति ॥ हेतुमत्तरं अतिशयेन हेतुयुक्तं ॥ ४७ ॥
वचनं नाम तस्यैष रावणस्य विभीषणः ।
पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ।। ४८ ।।
मधुरेण वचसा रावणस्य वचनमयं विभीषणः शनैः पृच्छयतामिति संबन्धः । पृच्छ्यतामित्यत्र अज्ञातपुरुषमुखेनेति शेषः । उत्तरत्र तथैव हनुमताऽनुवादात् ॥ ४८ ॥
भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि ।
यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ।। ४९ ।।
भावमिति । एवं विधपरीक्षणेनास्य तत्त्वतो भावं विज्ञाय यदि दुष्टः तदा तदनुरूपं अदुष्टश्चेत्तदनुरूपं च बुद्धिपूर्वं परीक्षापूर्वकं करिष्यसीत्यर्थः ॥ ४९ ॥
अथ संस्कारसम्पन्नो हनूमान्सचिवोत्तमः ।
उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ।। ५० ।।
एवं सुग्रीवेणेदानीं वध्यत्वं प्रतिपादितं । अङ्गदादिभिस्तु गुणदोषपरीक्षापूर्वकं परिग्रहपरित्यागौ सिद्धान्तितौ । अथ सचिवोत्तमो हनुमान् सुग्रीवमतं राजमतत्वादत्यन्ताविचारमूलत्वाच्चोपेक्ष्य अङ्गदादिमतमेकैकानुवादपूर्वकं दूषयित्वा इदानीमेव दोषाभावस्य निर्णेतुं शक्यत्वात् सहसैव परिग्राह्य इति सिद्धान्तयति सर्गशेषेण – अथेति ॥ संस्कारसंपन्नः शास्त्राभ्यासदृढतरसंस्कारयुक्तः । लघु अविस्तृतं ॥ ५० ॥
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् ।
अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ।। ५१ ।।
भवत उपदेशार्थं न मम प्रवृत्तिः भवतः सर्वप्रकारोत्कृष्टत्वात् केनाप्याकारेणातिशयितस्य कस्यचिदभावादित्याह न भवन्तमिति ॥ ५१ ॥
न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः ।
वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात् ।। ५२ ।।
वादात् तर्ककौशलात् । संघर्षात् सचिवेषु स्पर्धावशात् । आधिक्यात् अहं – मतिमान् वाग्मीचेत्याधिक्याभिमानात् । कामतः स्वरैभाषणेच्छातः । विभीषणपक्षपाताद्वा । तर्हि किमर्थं प्रवृत्तिस्तत्राह-गौरवादिति । मयि त्वत्कृतात्संमानात् ॥ ५२ ॥
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ।
तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ।। ५३ ।।
पूर्वोक्तेषु चतुर्षु मतेषु प्रथममङ्गदमतं दूषयति – अर्थानर्थेति ॥ अर्थानर्थयोर्निमित्तं निर्णयोपाय: । सचिवैः अङ्गदेन तादात्विकसंरम्भपरिहाराय नामानुक्तिर्बहुवचनं च । यदुक्तं तत्र दोषं प्रपश्यामि । कुतः क्रिया एवंप्रकारेण क्रिया । नोपपद्यतेहि ॥ ५३ ॥
ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते ।
सहसा विनियोगो हि दोषवान्प्रतिभाति मा ।। ५४ ।।
अनुपपत्तिमेव दर्शयति — ऋत इति ॥ नियोगात् राजकार्येषु नियोगात् । ऋते विना । अन्यारादितरर्ते – इत्यादिना पञ्चमी । सामर्थ्यं साधुत्वं । सहसा विनियोग: गुणदोषपरीक्षामन्तरेण कुत्रचिन्महति राजकार्ये विनियोजनं । मा मां प्रति । दोषवान् भाति । तथाच सत्यां गुणदोषपरीक्षायां नियोगः । नियोगे सति गुणदोषपरीक्षणमित्यन्योन्याश्रयः । अतोनुपपन्न मङ्गदमतमितिभावः ॥ ५४ ॥
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ।
अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते ।। ५५ ।।
अथ शरभमतं प्रयोजनाभावेन खण्डयति – चारेति ॥ अत्रेतिशब्दोध्याहर्तव्यः । चारप्रणिहितं चारप्रणिधानं । युक्तमिति तव सचिवैर्यदुक्तं शरभेण यदुक्तमित्यर्थः । तत्र तस्मिन्मते । अर्थस्य चारप्रयोजनस्य । दूरतिरोहितदर्शनादेरसंभवात् चारप्रणिधानलक्षणं । कारणं उपाय: । न युज्यत इत्यर्थ: । अत्यासन्ने स्वचक्षुर्विषये सम्यक्परिदृश्यमाने व्यवधानरहिते नभस्स्थलावस्थायिनि चास्मिन् पररन्ध्रादितत्त्वदर्शनलक्षणचारप्रयो- जनाभावाद्यमुपायो न युज्यत इतिभावः । चारणं नोपपद्यत इतिपाठेतु चारयितव्यस्यान्तःपुरसमाजतीर्थादिरूपस्य विषयस्याभावाचारसंचारणं न घटतइत्यर्थः ॥ ५५ ॥
अदेशकाले सम्प्राप्त इत्ययं यद्विभीषणः ।
विवक्षा चात्र मेऽस्तीयं तां निबोध यथामति ।
स एष देशः कालश्च भवतीह यथातथा ।। ५६ ।।
अदेशकाले संप्राप्त इत्यस्य जाम्बवन्मतस्यासारत्वात्तन्निराकरणेन सर्वं निराकृतप्रायमिति तत्स्वरूपासिद्ध्या दूषयति – अदेशेति सार्धश्लोक एकान्वयः । अयं विभीषणः । अदेशकाले संप्राप्त इति यत् । तत्र तद्विषये । यथातथा याथातथ्येन । स एष देश: कालश्च भवतीति मे यथामति इयं विवक्षास्ति तां निबोधेत्यन्वयः ॥ ५६ ॥
पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ।
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ।
युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ।। ५७ ।।
विवक्षितमेव सोपपत्तिकं विशदयति – पुरुषादित्यादिसार्ध श्लोकेन ।। पुरुषात् अधमपुरुषाद्रावणात् । पुरुषं उत्तमपुरुषं भवन्तं । प्राप्य मनसा विमृश्य । तथा दोषगुणावपि युवयोविमृश्य । तथा । रावणे दौरात्म्यं राक्षसकुलविनाशहेतुभूतसीतापहरणतत्प्रत्यर्पणा -नपेक्षित्वांदिकं । त्वयि विक्रमं खरदूषणप्रमुखराक्षसवधादिकं वालिवधपूर्वकं सुग्रीवराज्यप्रदानं अतिदुस्तरसमुद्रतरणोद्योगं च । दृष्ट्वा । तस्य बुद्धितः बुद्धेः सदृशं तस्य आगमनं युक्तमिति संबन्धः । यदा प्रतिकूले दोषदर्शनमनुकूले गुणज्ञानं च स एव देश: कालश्चभवति । इदं तथ्यमिति भावः ॥ ५७ ॥
अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यतामिति ।
यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ।। ५८ ।।
मैन्दमतं प्रतिक्षिपतिश्लोकत्रयेण-अज्ञातेति ॥ अज्ञातरूपैः अपरिचितस्वरूपस्वभावैः । समीक्षिता सम्यक्परीक्षिता । प्रेक्षा युक्तिरूपा बुद्धिः ॥ ५८ ॥
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः ।
तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम् ।। ५९ ।।
क्वचिद्रुणवत्यपि मित्रे दोषदृष्टिहेतुत्वेनानैकान्तोयं गुणदोषनिर्णयोपाय इत्याह – पृच्छयमान इति ॥ बुद्धिमानपि पुमान् अपरिचितैः पृच्छ्यमानः सन् अविश्वासादेवैते पृच्छन्ति कस्मिन्वचस्युक्ते को वानर्थः समापद्यत इति प्रतिवचनरूपंवच उद्दिश्य । सहसा विविधां शङ्कां प्राप्नुयात् । तथा सति सुखागतं स्वस्मिन्दोषराहित्येन विश्वासोपगतमपि मित्रं मिथ्या पृष्टं सत् तेन प्रश्न हेतुना । प्रदुष्येत । दुष्टं भवेदित्यर्थः ॥ ५९ ॥
अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै ।
अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ।। ६० ।।
क्वचिन्निष्प्रयोजनश्चायमुपाय इत्याह – अशक्य इति ॥ भृशं अत्यर्थं । स्वस्मिन्नैपुण्यं पश्यतापि मिथ्या प्रष्ट्रा अन्तःस्वभावैः अन्त हितस्वाभिप्रायैः । परस्य गीतैः भाषितैः । पराभिप्रायः सहसा ज्ञातुमशक्य इत्यर्थः । छद्मना प्रष्टुर्गूढमभिप्रायं ज्ञात्वा । अहृदयवाचामहृदया एव प्रतिवाचो भवन्ति इति न्यायेन परेणापि स्वाभिप्रायानाविष्करणादितिभावः ।। ६० ।।
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ।। ६१ ।।
एवं पूर्वोक्तेषु पक्षेषु दोषानुद्भाव्य संप्रत्यात्मना परीक्ष्य कक्षीकृतं पक्षमुपक्षिपतिन त्वित्यादिना ॥ ब्रुवतः बहुव्याहरतोस्य ॥ ६१ ॥
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।
न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ।। ६२ ।।
एवमस्येङ्गिताकाराभ्यामदुष्टत्वमुक्त्वा चेष्टाभाषणाभ्यां च तदर्शयति — अशङ्कितेति ॥ शठ: गूढवि — प्रियकारी ॥ ६२ ॥
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ।। ६३ ।।
ननु परमवञ्चकं: पुरुषो भावं निगूहयति कथंतेन विश्वास इत्यत्राह – आकारइति ॥ आकार: मुखविकारः ॥ ६३ ॥
देशकालोपपन्नं च कार्यं कार्यविदां वर ।
स्वफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ।। ६४ ।।
एवं दोषाभावमुक्त्वा गुणमुचितज्ञत्वरूपंदर्शयितुं नीतिमर्यादां दर्शयतिदेशेति देशकालोपपन्नं देशकालाभ्यां युक्तं । प्रयोगेण उचितपुरुषप्रयोगेण । अभिसंहितं युक्तं । उचितेषु देशकालपुरुषेषु प्रयुक्तमित्यर्थः । क्रिया । स्वफलं स्वोचितफलं । क्षिप्रं अप्रतिबन्धं । कुरुते कर्तरीति शेषः ॥ ६४ ॥
उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम् ।
बालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् ।
राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ।। ६५ ।।
एतेनाप्येवमेवकार्यं प्रयुक्तमित्याशयेनाह – उद्योगमितिसार्धश्लोक एकान्वयः ॥ ६५ ॥
एतावत्तु पुरस्कृत्य युज्यते त्वस्य सङ्ग्रहः ।
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ।
त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ।। ६६ ।।
फलितमाह – एतावदिति सार्ध लोकेन स्ववचनं निगमयति — यथाशक्तीति । यथाशक्ति बुद्धिशक्तिमनतिक्रम्य । आर्जवं निर्दोषत्वं । मद्वाक्यं श्रुत्वा यत्कर्तव्यमकर्तव्यं वा तस्य सर्वस्य त्वं त्वमेव । प्रमाणं प्रमातेत्यर्थः ।। ६६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशः सर्गः ।। १७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥