श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः
कुंभकर्णेन रावणंप्रति नीतिशास्त्रार्थानुवादपूर्वकंप्रकृतापत्प्राप्तेस्तदनालोचनहेतुक -त्वोक्तिः ॥ १ ॥ रावणेनकुंभकर्णंप्रति सकोपंगतार्थानुशोचनस्यानौचित्योक्तिपूर्वकं विपन्नार्थसमीकरणस्य सुहृल्लक्षणत्वोत्तक्त्या शत्रुजयायनिजपराक्रमोपयोजननियोजनम् ॥ २ ॥ कुंभकर्णेन रावणंप्रति ससान्त्वनंयुद्धेरामादिवधप्रतिज्ञानम् ॥ ३ ॥
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुंभकर्णो वभाषेदं वचनं प्रजहास च ॥ १ ॥
अथ कुम्भकर्णबुद्धिस्त्रिषष्टितमे-तस्येत्यादि । परिदेवितं पूर्वोक्तवचनानां परिदेवनतुल्यत्वात् परिदेवितत्वं । कुम्भकर्णो वचनं वभाषे जहास चेत्यत्र व्यत्ययः कार्यः । उक्त्वा जहासेति वार्थः ॥ १ ॥
दृष्टो दोषो हि योस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन सोयमासादितस्त्वया ॥ २ ॥
पुरा मन्त्रनिर्णये क्रियमाणे । अस्माभिः यो दोषो दृष्टः शत्रुभिस्तवापद्भविष्यतीति निश्चितः । हितेषु हितपरेषु । अनभिरक्तेन असक्तेन । हितपरवचनमशृण्वतेत्यर्थः । त्वया सोयं दोष आसादितः । पूर्वमेव चिन्तिता विपत् प्राप्तेत्यर्थः ॥ २ ॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥
पापस्य सीताहरणरूपस्य कर्मणः । फलं त्वां शीघ्रं अभ्युपेतं प्राप्तं । अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते इति न्यायात् । अत्रोदाहरणमाह-निरयेष्विति । दुष्कृतकर्मणः महापातकिनः पुरुषान् । निरयेष्वेव पतनं यथा प्राप्नोति तद्वत् । एवकारेणापरिहार्यत्वमुच्यते ॥ ३ ॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ ४ ॥
हे महाराज । केवलं वीर्यदर्पेण एतत्कृत्यं सीताहरणरूपं कार्यं वै । प्रथमं सीताहरणात्पूर्वं । न चिन्तितं साध्वसाधु वेति त्वया न विचारितं । अनुबध्नातीत्यनुबन्धः दोषोत्पादः । दोषोत्पादेऽनुबन्धः स्यात् इत्यमरः ॥ ४ ॥
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वे चापरकार्याणि न स वेद नयानयौ ॥ ५ ॥
प्रथमं विचार्य पश्चात् कर्म कर्तव्यमिति प्रेक्षावतां कृत्यं, त्वया तु तद्विपरीतं कृतमित्याह-य इति ॥ ऐश्वर्यं आस्थितः प्राप्तः । यः पुमान् पूर्वकार्याणि कार्यारम्भात्पूर्वं कर्तव्यानि मन्त्रणादीनि कुर्यात् । अपरकार्याणि उत्तरकाले विचार्याणि च पूर्वं कुर्यात् । सः नयानयौ नीत्यनीती न वेद ।। ५ ।।
देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवीष्यप्रयतेष्विव ॥ ६ ॥
एवं देशकालानुरोधेन कर्म कर्तव्यमित्युक्तं, तदननुरोधे दोषमाह-देशेति ॥ देशकालविहीनानि क्रियमाणानि । अदेशे अकाले च कृतानि कर्माणि विपरीतवत् देशकालवैकल्याद्विपरीतकर्माणीव । अप्रयतेषु मन्त्रानध्ययनादिना अपूतेषु अपात्रेषु हवींषीव दुष्यन्ति विफलानि भवन्तीत्यर्थः ॥ ६ ॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥
देशकालानुरोधस्य फलमाह-त्रयाणामिति ॥ सचिवैः मन्त्रिभिः सह । समयं निश्चयरूपं सिद्धान्तं कृत्वा । समया: शपथाचारकालसिद्धान्तसंविदः इत्यमरः । त्रयाणां उत्तममध्यमाधमकर्मणां । तत्र आत्मोदयपरज्यानिसंभवसमये क्रियमाणं दण्डोपयोगि यानमुत्तमं कर्म । आत्मपरयोः बलसाम्ये क्रियमाणं संधानं मध्यमं कर्म । परोदयात्मज्यानिसमये क्रियमाणं दानपूर्वसमाश्रयणमधमं कर्म । तेषां पञ्चधा योगं । कर्मणामारम्भोपायः । पुरुषद्रव्यसंपत् । देशकालविभाग: । विनिपातप्रतीकारः। कार्यसिद्धिश्चेत्युक्तैः पञ्चभिर्योगं । यद्वा त्रयाणां उत्तममध्यमाधमभावेन त्रिविधानां कर्मणां । पञ्चधा योगं देशकालात्मद्रव्यप्रयोजनसंव- न्धवशात् पञ्चविधं संबन्धं । यः पश्यति सः सभ्ये साधौ । सभ्य: सामाजिके साधौ इति रत्नमाला । पथि नीतिमार्गे वर्तते । सम्यङ्नीतिफलं प्राप्नोतीत्यर्थः ॥ ७ ॥
यथागमं च यो राजा समयं विचिकीर्षति ।
बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ॥ ८ ॥
यथागमं नीतिशास्त्रमनतिक्रम्य । यो राजा । समयं कार्यनिर्णयं । चिकीर्षति । सचिवांश्च बुध्यते सचिवैः सहालोचयतीति यावत् । सुहृदश्चानुपश्यति सुहृद्भिः सह विचारयतीति यावत् । स सभ्ये पथि वर्तत इति पूर्वेणान्वयः ॥ ८ ॥
धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥
धर्ममर्थं कामं च प्रत्येकं वा । त्रीणि द्वन्द्वानि वा । धर्मार्थौ अर्थधर्मौ कामार्थौ वा । सर्वान्वा । कालेषु विहितेषु प्रातर्मध्याह्नसायाह्नेषु भजेत । अकाले न सेवेतेति भावः । एतदुक्तं भवति । प्रातःकाले धर्मो विहितः, तं तदा सेवेत । मध्याह्ने अर्थो विहितः, तं तदा सेवेत । सायंकाले कामो विहितः, तं तदा सेवेतेति । यद्वा प्रातःकाले स्वकालविहितं धर्मं मध्याह्ने विहितमर्थं च सेवेत । मध्याह्ने स्वकालविहितमर्थं प्रातर्विहितं धर्मे च सेवेत । सायंकाले स्वकालविहितं कामं मध्याह्नविहितमर्थं च सेवेत । अथवा सायंकाले स्वविहितं कामं प्रातर्मध्याह्नयोविहितौ धर्मार्थौ च सेवेतेति । केवलकामं सर्वकालेष्वपि सेवमानः पुरुषाधम एवेत्यभिसंधिः ॥ ९ ॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥
एवं कर्तव्यमुक्त्वा तदकर्तारं निन्दति – त्रिष्विति ॥ एतेषु पूर्वोक्तेषु त्रिषु भजनेषु धर्मार्थकामेषु वा । यच्छ्रेष्ठं प्रत्येक भजनं धर्मों वा । तच्छ्रुत्वा । यो राजा वा राजमात्रो वा राजसदृशो वा । न बुध्यते आचरितुं न जानाति । तस्य बहुश्रुतं शास्त्रश्रवणं व्यर्थं । अनुष्ठानपर्यवसानाभावादिति भावः । एवं सामान्यरूपया अप्रस्तुतप्रशंसया त्रिवर्गेषु श्रेष्ठं धर्म परित्यज्य जघन्यं काममेवाश्रितस्य ते शास्त्रश्रवणं समुद्रघोषमात्रमासीदिति प्रस्तुतोऽर्थोऽवगम्यते ॥ १० ॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसांश्रेष्ठ तावुभौ च नयानयौ ॥ ११ ॥
काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह ।
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२ ॥
अकाले काम इवाकाले विक्रमोपि त्याज्य इत्याह – उपप्रदानमित्यादिश्लोकद्वयेन ॥ काले तत्तदुचितकाले । उपप्रदानं प्रतिपक्षिणः समीपं गत्वाद्रविणादिप्रदानं । सान्त्वं समीचीनभाषणं । भेदं मित्रादिवर्गस्य द्वैधीकरणं । विक्रमं दण्डं च । प्रत्येकं तेषां योगं समवायं च । तौ पूर्वोक्तौ नयानयौ । तेषां निर्वाहप्रकारान् धर्मार्थकामांश्च सचिवैः संमन्त्र्य । काले पूर्वोक्तकाले । आत्मवान् वशीकृतमनस्क: । यो निषेवेत स लोके व्यसनं नाप्नुयान् ॥ ११–१२ ।।
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥ १३ ॥
हितेति । अत्र कार्यमित्यध्याहारः । निषेवेतेत्यनुषङ्गः । यो राजा अर्थतत्त्वज्ञैः सचिवैः । सह । हितानुबन्धं हितोदर्कं । आत्मनः कार्याकार्यं कर्तव्याकर्तव्यं । आलोच्य निश्चित्य । कार्यमेव निषेवेत सः इह लोके जीवतीत्यर्थः । हीत्यनेनायमर्थो लोकप्रसिद्ध इत्यवगम्यते । हितानुबन्धकार्याकार्यानालोचनात्तवेदं व्यसनमापन्नमिति भावः ॥ १३ ॥
अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मत्रेष्वभ्यन्तरीकृताः ॥ १४ ॥
एवं सामान्येन राजानमधिक्षिप्य मन्त्रिणोप्यधिक्षिपति-अनभिज्ञायेति ॥ शास्त्रार्थान् नीतिशास्त्रार्थान् । अनभिज्ञाय गुरुमुखादश्रुत्वा । वेषेण पुरुषाः पशुबुद्धयः आहारनिद्रादिमात्राभिज्ञा: । भ्रान्तेन राज्ञा । मन्त्रेषु राजकार्यविचारेषु । अभ्यन्तरीकृताः मन्त्रयितृत्वेन वृताः सन्तः । प्रागल्भ्यात् ऊहापोहौ विना केवलघाष्टर्थात् । वक्तुमिच्छन्ति । नतु सम्यक् संगतं निश्चिय वदन्तीत्यर्थः ॥ १४ ॥
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥
अशास्त्रेति । शास्त्रानभिज्ञानां तेषां मन्त्रिणां । अहितं वचः अर्थशास्त्रानभिज्ञानां । अथापि विपुलां श्रियमिच्छतां राज्ञां न कार्यं । राजभिस्तदुक्तप्रकारो नानुष्ठेय इत्यर्थः ॥ १५ ॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ १६ ॥
न केवलं तद्वचनाश्रवणं, मन्त्रेषु बहिष्कार्याश्च त इत्याह – अहितमिति ।। वस्तुतः अहितं हिताकारं हितमिवापाततः प्रतीयमानमर्थं । धार्ष्ट्यात् शास्त्रज्ञानं विना केवलप्रागल्भ्यात् । ये जल्पन्ति अक्रमेण वदन्ति । कृत्यदूषणाः कार्यदूषकास्ते । अवेक्ष्य पूर्वमेव परीक्ष्य । मन्त्रबाह्याः मन्त्रबहिर्भूताः कर्तव्याः ॥ १६ ॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७ ॥
न केवलमहतवचनं, विपरीतं च कुर्वन्तीत्याह — विनाशयन्त इत्यादि । मन्त्रिणः दुर्मन्त्रिणः । बुधैः उपायज्ञैः । शत्रुभिः सहिताः प्रेरिताः । विनाशयन्तः विनाशार्थं । इह प्रयोजनविषये । विपरीतानि विपरीतफलकानि कृत्यानि । भर्तारं कारयन्ति ॥ १७ ॥
तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये ।
व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥
दुर्मन्त्रित्वनिर्णयोपायमाह – तानिति ॥ उपसंहितान् उपजापितान् । उत्कोचप्रदानादिना शत्रुभिर्भेदं प्रापितान् । मित्रसंकाशान् मित्रवद्भावयतः कार्यतोऽमित्रान्सचिवान् । व्यवहारेण व्यामिश्रभाषणेन । जानीयात् ॥ १८ ॥
चपलस्येह कृत्यानि सहसाऽनुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ॥ १९ ॥
स्वयमसमर्था विपरीतबुद्धयो मन्त्रिणः किं करिष्यन्तीत्यत्राह – चपलस्येति ॥ इह प्रस्तुते कार्ये विषये । कृत्यानि उपसंहितमन्त्रिप्रेरितानि कार्याणि । सहसा अचिरेण । अनुप्रधावत: दुर्मन्त्रिषु मन्त्रित्वमनुसरतः । चपलस्य झटिति कार्ये प्रवर्तमानस्य राज्ञः । छिद्रं रन्धं । अन्ये शत्रवः । क्षिप्रं प्रपद्यन्ते स्वीकुर्वन्ति । कथमिव । द्विजाः पक्षिणः । दन्तविप्राण्डजा द्विजा: इत्यमरः । क्रौञ्चस्य स्कन्दशक्तिविदारितस्य क्रौञ्चाख्यपर्वतस्य । स्वमिव रन्ध्रमिव पण्डिताः शत्रवः उत्कोचप्रदानादिना वशीकृतैर्मन्त्रिभिः कुत्रचिच्चापलकार्ये राजानं प्रापय्य तदेव रन्ध्रमासाद्य अन्तः प्रविशन्तीतिभावः ।। १९ ।।
यो हि शत्रुमभिज्ञाय नात्मानमभिरक्षति ।
अवाप्नोति हि सोनर्थान्स्थानाच्च व्यवरोप्यते ॥ २० ॥
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।
तदेव नो हितं कार्यं यदिच्छसि च तत्कुरु ॥ २१ ॥
एवं कपटवृत्तेः शत्रोः स्वरूपापरिज्ञाने राजा विपद्यत इत्याह – यो हीति ॥ यो हि राजा । शत्रुं वचनपरं । अविज्ञाय मन्त्रव्यवहारादिना अविज्ञाय । आत्मानं च नाभिरक्षति दुर्मन्त्रिनिरासादिना नात्मानं प्रकृतौ स्थापयति । सोऽर्थानवाप्नोति । स्थानात् राजासनात् । व्यवरोप्यते प्रच्याव्यते । इयता ग्रन्थेन तव कामव्यसनात् कुमन्त्रिवचनाञ्चेयमापदिति दर्शितं ॥ २० – २१ ॥
तत्तु श्रुत्वा दशग्रीवः कुंभकर्णस्य भाषितम् ।
भ्रुकुटिं चैव संचक्रे क्रुद्धचैनमभाषत ॥ २२ ॥
क्रुद्धः सन् भ्रुकुटिं ऊर्ध्वोकृतभ्रुवं चक्रे । एनमभाषत चेत्यन्वयः ॥ २२ ॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्छ्रमं कृत्वा काले युक्तं विधीयताम् ॥ २३ ॥
हे कुम्भकर्ण । त्वं मान्यः बहुमानार्हः । आचार्य: आचारप्रवर्तकः गुरुरिव मां मान्यमाचार्य गुरुं । अनुशाससि शिक्षसे आर्ष: शप् । वैपरीत्यमेवाचरसीत्यर्थ: । एवं वचनं तवायुक्तमिति भावः । अफलं चेदं वचनमित्याह – किमेवमिति । एवं उक्तप्रकारेण । वाक्छ्रमं कृत्वा । प्रयासैकफलां वाचमुक्वेत्यर्थः । किं फलं । किमपि प्रयोजनं नास्तीत्यर्थः । नीतिकालस्यातीतत्वादिति भावः । काले नयमार्गातीतकाले । यद्युक्तं पराक्रमरूपं । तत् विधीयतां क्रियतां ।। २३ ।।
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ॥ २४ ॥
पूर्वमनालोच्य कृतस्य निमित्तमाह – विभ्रमादिति ॥ विभ्रमात् अनीतौ नीतिबुद्ध्या । चित्तमोहात् ज्ञानानुयात् । बलवीर्याश्रयेण । बलवीर्ययोराश्रयणेन । गर्वेणेति यावत् । यत्कार्यं नाभिपन्नं न कृतं । तस्य पुनः कथाः पुनः पुनः कथनानि । इदानीं अतीतकाले । व्यर्थाः ॥ २४ ॥
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ २५ ॥
इदानीं सद्यः । गतंतु गतमेव । न तत्पुनरायास्यतीति भावः ॥ २५ ॥
ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वावगच्छसि ।
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥ २६ ॥
ममेत्यादिसार्धश्लोक एकान्वयः ॥ दोषं वैषम्यं । शत्रुभिराक्रमणमितियावत् । समीकुरु समतयाकुरु । वैषम्यसमता नाम वैषम्यनाश एव । खलु वाक्यालङ्कारे । मे मयि यदि स्नेहोऽस्ति स्वकीयं विक्रमं यदि वा अवगच्छसि । स्वपराक्रममज्ञात्वैव नीत्युपन्यासस्त्वया कृत इति भावः । एतत् युद्धरूपं कार्यं । ते हृदि कार्यतमं अवश्यकर्तव्यं । मतं इष्टं । अवश्यकर्तव्यत्वेन मन्यसे चेदित्यर्थः । तदा समीकुर्वित्यन्वयः ॥ २६ ॥
स सुहृद्यो विपन्नार्थे दीनमभ्यवपद्यते ।
स बन्धुर्योपनीतेषु साहाय्यायोपकल्पते ॥ २७ ॥
इदानीं साहाय्याकरणे तव बन्धुत्वमेव भज्येतेति सदृष्टान्तमाह- स इति ॥ विपन्नार्थं विपन्न: शङ्कितापाय: अर्थः प्रयोजनं यस्य तं । दीनं मलिनमनस्कं पुरुषं । यः सुहृत् अभ्यवपद्यते अभितः प्राप्नोति । सदा संन्निधत्त इत्यर्थः । स एव सुहृत् । यो बन्धुः अपनीतेषु विषमितनीतिषु पुरुषेषु । साहाय्यायोपकल्पते साहाय्याय प्रभवति । स एव बन्धुः । सर्वं वाक्यं सावधारणमिति न्यायात् ॥ २७ ॥
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ २८ ॥
धीरदारुणं यदि वा कार्यमित्युक्त्या धीरं सुहृदित्यायुक्त्या दारुणं निष्ठुरं । रुष्टोयमिति विज्ञाय । भ्रुकुटिबन्धनेनानुमायेत्यर्थः ॥ २८ ॥
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।
कुंभकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।
[ शृणु राजन्नवहितो मम वाक्यमरिंदम ] ॥ २९ ॥
उक्तमेवार्थं प्रपञ्चयन्नाह – अतीवेति अतीव क्षुमितेन्द्रियमित्यनेन रुष्टपदं व्याख्यातं । परिसान्त्वयन्नित्यनेन श्लक्ष्णपदं ॥ २९ ॥
अलं राक्षसराजेन्द्र संतापमुपपद्य ते ।
रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि ॥ ३० ॥
ते त्वया । संतापं । उपपद्य प्राप्य । अलं । संतापो न कर्तव्य इत्यर्थः । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा इति क्त्वाप्रत्ययः । स्वस्थो भव । स्वर्गस्थो भवेत्यर्थान्तरं ॥ ३० ॥
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।
तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ ३१ ॥
नैतन्मनसि कर्तव्यं विभ्रमाच्चित्तमोहाद्वेत्युक्तं मनसि न कर्तव्यमित्यर्थः । यत्कृते यस्य रामस्य कृते । अर्थान्तरं तु मयि जीवति सति एतन्मनसि न कर्तव्यं । यद्यहं जीविष्यामि तदा एवं न कर्तव्यं । अहमेव न जीविष्यामीत्यर्थ: । यत्कृते यस्य मम कृते । परितप्यसे अयं सुखेन जीवन् मत्कार्यं न करोतीति परितप्तोसि । तं मां रामेण नाशयिष्यामीति ॥ ३१ ॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ ३२ ॥
तर्हि किमर्थमेवमुक्तमित्यत्राह – अवश्यमित्यादि ॥ बन्धुभावात् सामान्यस्नेहात् विशेषतोभ्रातृस्नेहाच्च । सर्वावस्थं रोषहर्षादिसर्वावस्थावस्थितमित्यर्थः । अवश्यं वाच्यं ते हितं मयाऽभिहितं ॥ ३२ ॥
सदृशं यत्तु कालेऽस्मिन्कर्तुं स्त्रिग्धेन बन्धुना ।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ ३३ ॥
अस्मिन्काले आपत्काले । स्निग्धेन बन्धुना यत्कर्तुं सदृशं युक्तं । तादृशं कदनं मया क्रियमाणं पश्य । अत्र शत्रुकर्तृकं कदनमित्यर्थान्तरं ॥ ३३ ॥
अद्य पश्य महाबाहो मया समरमूर्धनि ।
हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ॥ ३४ ॥
अद्येति । अर्थान्तरं । हे पर ज्येष्ठ, मया सह समरमूर्धनि हते भग्ने सति रामे रामनिमित्तं । द्रवन्तीं आगच्छन्तीं वाहिनीं पश्येति ।। ३४ ।।
अद्य रामस्य तद्दृष्ट्वा मयाऽऽनीतं रणाच्छिरः ।
सुखी भव महाबाहो सीता भवतु दुःखिता ॥ ३५ ॥
अद्य रामस्येति । अर्थान्तरं । मया सह रामस्य रणाद्धेतो: । आनीतं दूरे क्षिप्तं । शिरः मच्छिर: । दृष्ट्वा सुखी भव । तदानीं मयि रोषत्यागादिति भावः । सीता दुःखिता भवतु । सर्वलोकमातृत्वादितिभावः ॥ ३५ ॥
अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ३६॥
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।
शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ॥ ३७ ॥
अद्य रामस्य पश्यन्त्विति । अर्थान्तरं । रामस्येति कर्तरि षष्ठी । रामकर्तृकं मन्निधनं ये निहतबान्धवाः ते राक्षसाः पश्यन्तु । न दुःखं पञ्चभिःसह इति न्यायादिति भावः । उत्तरश्लोकेप्येवमेव योजना ।। ३६-३७ ॥
अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् ।
विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ॥ ३८ ॥
ससूर्यमिव तोयदमिति । रुधिराक्ततया ससूर्यप्रकाशं मेघमिव स्थितमित्यर्थः ॥ ३८ ॥
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ ३९ ॥
ससैन्यं दाशरथिं जिघांसुभिः एभिः राक्षसैः मया च परिरक्षितस्त्वं कथं रामेण वध्यस इति योजना अर्थान्तरं । जिघांसुभिः हननेच्छामात्रवद्भिः । पराक्रमासमरित्यर्थः । कथं परिरक्षितः । प्रत्युत वध्यस इति । अत्र विभीषणः क्व गत इति कुम्भकर्णस्य प्रश्नः मया धिक्कृतो गत इति रावणस्योत्तरं च क्वचित् कोशे दृश्यते तत्पूर्वापरविरुद्धं ॥ ३९ ॥
अथ पूर्व हते तेन मयि त्वां हन्ति राघवः ।
नाहमात्मनि संतापं गच्छेयं राक्षसाधिप ॥ ४० ॥
अत्र अथशब्द: प्रक्रमान्तरे । मयि हते सति हि पश्चात्त्वां रामो हन्ति हनिष्यति । अहं च आत्मनि स्वस्मिन् । संतापं शत्रुपरिभवजं । न कदाचिदपि गच्छेयं । न केनचिद्धन्तुं शक्य इत्यर्थः । अतः कुतस्ते भयमिति भावः । अर्थान्तरं । अहमात्मनि विषये संतापं न गच्छेयं न गच्छामि व्यत्ययो बहुलं इति लकारव्यत्ययः । मन्निधनं नानुशोचामीत्यर्थः । किं तु मयि हते सति । अथ राघवस्त्वां हन्ति हनिष्यतीति संतापं गच्छामीति ॥ ४० ॥
कामं त्विदानीमपि मां व्यादिश त्वं परंतप ।
न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥ ४१ ॥
इदानीमपि इदानीमेव । युद्धाय व्यादिश । ते त्वया । परः अन्यः । न प्रेषणीयः ॥ ४१ ॥
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ४२ ॥
अहमित्यर्धमेकं वाक्यं ॥ ४२ ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ ।
तानहं योधयिष्यामि कुबेरवरुणावपि ॥ ४३ ॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः ॥ ४४ ॥
उक्तं विवृणोति यदीति ॥ ४३ – ४४ ॥
अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ।
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥ ४५ ॥
नैव शक्त्या न गदया नासिना निशितैः शरैः ।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ ४६ ॥
मृद्गतः प्रहरतः । प्रतिमुखे अग्रे ॥ ४५ – ४६ ॥
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यते ।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥ ४७ ॥
[ अचिन्तयित्वा बाणौघान्रुधिरं राघवस्य च ।
लक्ष्मणस्य च पास्यामि चिरकालं पिपासितः ॥ ४८ ॥
यदीति । रामः प्रथमं मे मुष्टिप्रहारमेव न सहिष्यते । कुतो मां प्रहरिष्यतीति भावः ।। ४७–४८ ॥
चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।
सोहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ ४९ ॥
उद्यतः अस्मीति शेष: ॥ ४९ ॥
मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ।
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।
हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ॥ ५० ।।
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।
असाधारणमिच्छामि तव दातुं महद्यशः ॥ ५१ ॥
मुञ्चेत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ अर्थान्तरं । रामात् भयं अस्तीति शेषः । हनिष्यामीत्येतन्मुञ्चेति । दातुं खण्डितुमित्यर्थान्तरं ॥ ५०–५१ ॥
यदि चेन्द्राद्भयं राजन्यदि वाऽपि स्वयंभुवः ॥ ५२ ॥
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ॥ ५३ ॥
शतक्रतुं बधिष्यामि पास्यामि वरुणालयम् ।
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ॥ ५४ ॥
दीर्घकालं प्रसुप्तस्य कुंभकर्णस्य विक्रमम् ।
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ५५ ।।
यदि चेत्यर्धं ॥ इन्द्रात् स्वयंभुवश्च । भयं यद्यस्ति तदपि मोचयिष्यामीत्युपस्कार्यं ॥ ५२ – ५५ ॥
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥ ५६ ॥
त्रिदिवं त्रिलोकी । आहारस्य न पूर्यते आहाराय न पूर्यते । न पर्याप्तमित्यर्थः ॥ ५६ ।।
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।
निहत्य रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ।। ५७ ।।
सुखार्हं उत्तरोत्तरसुखावहं । ते वधेन दाशरथे: सुखावहमित्यर्थान्तरं ॥ ५७ ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।
मयाऽद्य रामे गमितेयमक्षयं चिराय सीता वशगा भविष्यति ॥ ५८ ॥
मया निमित्तेन रमस्वेत्यादौ काकुः । इयमक्षयमिति च्छेदः । रामे विषये गमिता इयं सीता चिराय वशगा भविष्यतीत्यर्थान्तरं ॥ ५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥