[highlight_content]

शरणागतिगद्यम्-रहस्यरक्षा

॥ श्रीरस्तु ॥ श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ।

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोइतस्तदितराणि तृणाय मेने ।

अस्मद्‌गुरोर्भगवतोऽस्य दवैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥

बन्दे वेदान्तकर्पूरचा मी करकर ण्डकम् । रामानुजार्यमार्याणां चूडामणिमडर्निशम् ॥

श्रीभगवद्रामानुजमुनिभिरनुगृहीतं

॥ गद्यत्रयम् ॥


श्रीमद्वेदान्तदेशिकैरनुगृहीतम् रहस्यरक्षायाम् गद्यत्रयभाष्यम् – शरणागतिगद्यम्

श्रीमद्वेदान्तदेशिकैरनुगृहीतम् रहस्यरक्षायाम् गद्यत्रयभाष्यम् – शरणागतिगद्यम्

श्रीमान् बेङ्कटनाथायः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥


भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुण विभवैश्वर्यशीलाद्यनवधिका तिशया संख्येय- कल्याणगुणगणां पद्मवनालयां भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्य- महिषीम् अखिलजगन्मातरम् (अस्मन्मातरम्) अशरण्यशरण्याम् अनन्यशरणः शरणमहं प्रपद्ये ॥ १ ॥

प्रख्यातश्रुतविभवान् गुरून् अशेषान् प्रश्रित्य प्रणयति वेङ्कटेशसूरिः ।

लक्ष्मीशप्रपदनवैभवप्रतिष्ठां रागान्ध्यप्रशमकरी रहस्यरक्षाम् ॥ १ ॥

।। रहस्यरक्षायां पृथु (शरणागति) गद्याधिकारः ॥

लक्ष्मीपतेर्यतिपतेश्च दयैकधानोर्योऽसौ ‘पुरा समजनिष्ट जगद्धितार्थम् ।

प्राच्यं प्रकाशयतु वः परमं रहस्यं संवाद एष शरणागतिमन्त्रसारः ॥ २ ॥

अत्र भगवान् भाष्यकारः सदा (स्बा) चार्यसंप्रदायागतद्वयवचनेन खयमनुष्ठितं न्यासाख्य- विद्याविशेष खानुबन्धिसंजिजीवयिषया यथावत् प्रकाशयन्², * सीतामुवाचातियशा राघवं च महानतम् (रामा. अयो. 31-2) * सीतासमक्ष काकुत्स्थमिदं वचनमब्रवीत् (रामा. आर. 15-6) इत्यादिप्रकारेण श्रीप्रपच्चितदनुग्रहपूर्वकं स्वस्य भगवता संजातं स्वयंप्रयोजनसंवादविशेष निबध्नाति । प्रतिवचनांशस्तु शरणागतिवशीकृतशरण्याभिप्रायविशेषोन्नययेन निबध्यत इति एके । इह * संपत्स्यते, इत्यन्त श्रीमच्छब्दाभिप्रेतप्रदर्शनम् । * अखिलेत्यादिकम् * अशरण्यशरण्य !, इत्यन्तं नारायणशब्दार्थविवरणम् । तन्मध्ये श्रीमन्नारायण इति द्विः पठनमुपायोपेयवाक्ययोः सिद्धरूप- प्रधानांशव्यञ्जनम् । * अनन्यशरणः अहमित्युत्तमपुरुषाभिप्रेताधिकारिविशेषोक्तिः । * त्वत्पादार विन्दयुगलस्, इत्यादिकमप्यर्थतः स्वरूपतश्च मान्त्रवर्णिकपदत्रयज्ञापकम् । एवं प्रधानतमेन सिद्धोपायेन सिद्धमाप्येन च सह महावाक्यार्थपर्यवसान (वाक्यपर्यवसान) भूमितया शाब्दप्राधान्यवान् साध्योपायांशो दर्शितः, साध्यप्राप्यमपि * पारमार्थिक, इत्यादिना संक्षिप्तम्- इति ज्ञापयितुं मध्ये * द्वयम् इति व्याख्येयसमाख्यानिर्देशः । * पितरम् इत्यादिभिर्जितंताविशेष भगवद्गीतादिपठितैरुक्तसंवादकैहा- बृंहणग्रन्थैः, प्रस्तुतोपायविशेषपरिग्रहं शरण्यस्वभावानुसंधानपूर्वकं प्राप्यविरोधिनिवृतिप्रार्थनाशं च प्रपश्ञ्चयिष्यमाणद्वयार्थतया संग्रहेण संकलय्याह । * मनोवाक्कायैः, इत्यादिमिरर्थक्रमेण नमःशब्दार्थ- विवरणपूर्वकं चतुर्थ्यभिप्रेतपरमपुरुषार्थपार्थना प्रकाश्यते । प्रतिवचनवाक्यैस्तु, प्रक्कृताधिकारिनिर्भर- (निर्भय) त्वाय स्वीकृतभरस्य शरण्यस्य स्वाभाविकदयार्द्रमुत्तरखण्डोक्त परम फलाङ्कुर कल्यमभिप्रायं व्यवृणुत । अतः कृत्खमिदं गद्यं द्वयविवरणमिति साधीयान् संप्रदायः ।

इह च भगवत्मपदने समुद्यतस्य सम्यग्ज्ञानसंपादन पुरुषकारपुरस्कारादिकं पूर्वकृत्यम् । साङ्गम्वाक्षाभर समर्पणं तत्कालकृत्यम् । स्वनिष्ठानुसन्धानपूर्वकं स्वाधिकारो बितिकै कर्यादिक (केर्ड्समु) मुत्तरकृत्यम् । शरण्यस्य तु पूर्वक्कृत्यं पुरुषकारप्ररोचना दिकम्। तत्काळकृत्येयं समर्पितसर्वभरस्वी करणम् । उत्तरकृत्यं तु स्वयंनयोजन भक्त्या दिभदानान्तिमदशाप्रबोधनप्रभृति परिपूर्ण बैंकर्यरूपमुक्ति- (कैंकर्यप्रदान) प्रदानपर्यन्तम् । एतदखिलमिह शब्दतोऽर्थतश्च यथास्थानमनुसंधेयम् । किंच –

संबोधनैः परं तत्त्वं, न्यासोक्त्या परमं हितम् ।

प्रार्थनाभिश्च परमः पुमर्थ इह दर्शितः ॥ ३ ॥

नन्वेवं सकलफलप्रदो भगवानेव तत्पपत्तिसिद्धयर्थमव्याश्रीयताम्; किमिह लक्ष्मी- प्रपदनेन ? मैत्रम् ; यदि भगवत्प्रपदनमिदानीं शक्यमिति निश्चिनुयात्, तदा मोक्षार्थमेव तदुपाद- दीत ; न पुनस्तदर्थ तत् प्रयुञ्जीत; अनिश्चिते तु शक्यत्वे नतराम् । ननु च विदितश्चेत् प्रपत्ति- शास्त्रार्थः, स च सुकरः- तदा स्वयमेव मोक्षार्थमनुष्ठीयताम् ? मैवम् ॥ दुष्करकर्माद्यङ्ग‌विरहात् सौकर्येऽपि महाविश्वासाद्यङ्गकप्रपत्तिस्वरूपे * श्रूयते किल गोबिन्दे (विष्णुधर्में 2-25) * सत्यं शतेन विघ्नानास (वि. घ. 70-84) इत्यादिन्यायेन संभवत्यतिबन्धे मात्रया दौष्कर्यात् । उक्तं च- * उपायः सुकरः सोऽयं दुष्करश्च मतो मम (ल. त. 17-104) इति । अतः * स्थिते मनसि (बराह चरमश्लोकः) इत्यादिप्रक्रियया विषयतः स्यरूपतश्च विशिष्टाकारप्रपत्त्यनुष्ठाने प्राप्याभिलाष-प्राप- काध्यवसाय प्रापकान्तरानन्वयानुवृत्त्यनुगुणमनस्समाधानाद्यर्थमिह तत्पार्थनं युक्तम् । एवमपि सुकृत- विशेषैरेव लक्ष्‌मीप्रपत्तिवत् भगवत्थपत्तिरप्यस्तु ॥ मैवम्; तदर्थ एव खाये सुकृतविशेषः । न चात्रापि पूर्ववदशक्यत्वचोदना, स्वतन्त्रबुद्धचैव पूर्वं तावन्मात्रस्य शक्तिपदानात् । तदभिप्रायेण युक्तं भगवता शौनकेन- वाचः परं पार्थयिता प्रपद्येन्नियतः श्रियम् (शौनकसंहिता) इति । श्रीसात्त्वते (12-84) च-* यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् । निस्तरन्त्यचिरेणैव व्यक्तध्यान- परायणाः, इति । सा चैवं स्वयमाह- प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे । मामेकां देवदेवस्य महिषीं शरणं श्रयेत् (लक्ष्मीतन्त्रे 17-102) इति । न चैवं तदर्थमपि प्रपत्त्यन्तरापेक्षया (पेक्षायाम्) अनवस्थादिप्रसङ्गः, स्वतन्त्रसंकल्पेन व्यवस्थितत्वात् सामग्रीविशेषाणाम् । सामग्रीप्रवाहानवस्था तु सर्वस्मिन्नपि कार्ये सर्वैः सिद्धान्तिभिः स्वीकर्तव्या, स्वीकृता चेति नासौ दोषः ॥

अतोऽपवर्गार्थभगवत्प्रपत्तिसिद्धये * यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्म- विद्या च देवि । त्वं विमुक्तिफलदायिनी ॥ (वि. पु. 1-9-120) * विद्यासहायवन्तं मामादित्यस्थं सनातनम् (महाभारते शान्ति. 347-69) इत्यादिभिः सर्वविद्याप्रवर्तकतया तत्तद्विद्यात्वेन निर्दिष्टां सम्यग्ज्ञानव्यवसायोपायादिप्रदाने विशेषाधिकारवती’ ननुग्रहैकस्वभावां श्रियमादौ प्रपद्यते-भगवदिति ॥ अत्र * अशरण्यशरण्याम्, इति वक्ष्यमाणस्योपयुक्ता विशेषा नवभिः पदैः ख्याप्यन्ते । ननु * विष्णुपत्नी (यजुम्संहिता 4-4-12) * विष्णुवल्लभेत्यादिषु भास्करेण प्रमेव पत्याऽसौ निरूप्यताम् । यथोक्तं ताभ्यामेव – अनन्या हि मया सीता, (रामा, यु. 118-19) * अनन्या राघवेणाइम् (रामा. सु. 21-15) इति । इह तु तया तन्निरूपणे व्याख्येयस्थे किमिति भगवताऽसौ निरूप्यते ? प्रस्तुतोपयोगार्थमिति ब्रूमः । भगवदभिमतानुरूपत्वे हि, तस्यास्तेनेच्छाविधाताभावात् तद्विरुद्धेच्छा- विरहाच ततोऽस्मादिष्टं सिध्येत्। प्रभया प्रभावत इव व्याख्येयगतं तया तस्य निरूपणमपि श्रीवल्लभाविव्यपदेशेन दर्शयिष्यति । इदं च परस्परनिरूप्यत्वम् अन्यत्राप्युक्तम्- तदेतत् सूक्ष्म मिथुनं परस्परविचिह्नितम् । आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम्, इति । आदावन्योन्यमिश्रत्वात् – * शान्तानन्त (चतुःश्लोकी 4) इति प्रकारेण नित्यमन्योन्यसंबद्धत्व। दित्यर्थः। नच परस्पर- निरूप्यत्वेऽन्योन्याश्रयदोषः, प्रभाश्रमावतोरिव प्रमाणतः प्रकारान्तरेणापि तयोर्निरूपणात् । अत्र द्विषट्‌काष्टा (र्ण) क्षरगताभ्यां भगवन्नारायणशब्दाभ्यां शुद्धे मह। विभूत्याख्ये, (विष्णुपुराणे 6-5-72) * नरसंबन्धिनो नाराः (अहिर्बुध्न्यसंहिता 52-50) इत्यादिभिर्निरुक्ताभ्यामुभयलिङ्ग-त्वमुभय विभूति- मत्त्वं च ख्याप्यते । भगवच्छब्दस्य उत्पत्ति प्रलयं चैव (वि. पु. 6-5-78) इत्यादिप्रदर्शित क्रमेण * अन्यत्र धुपचारतः (वि. पु. 6-5-78) इत्यौपचारिकप्रयोगप्राचुर्यमस्ति । नारायणशब्दस्य तु तन्नास्ति । कारणवाक्येषु च अनन्यथा सिंद्धनिःसंदेह विशेष निर्धारणोपयुक्तश्वायम्, * एको ह वै नारायण आसीत् न ब्रह्मा नेशानः (महोपनिषदि 7) सहस्रशीर्षम् (तैत्तिरीयोपनिषत्) इत्यादिश्रुतेः। सहस्रशीर्षम्, इत्यनुवाके च तेनैव सर्वपरविद्यावेद्यनिर्धारणम् । अतस्तेनात्र विशेष्यस्य निर्देशः । ततब्ध तद्विशेषणतया भगवच्छब्दो (नात्र रूढः) ऽनादृतरूढिरुभयलिङ्गत्वव्यक्त्यर्थमेव ।।

उक्तप्रकारं भगवतः स्वरूपं निरतिशयानन्दतया मुक्तानां नित्यानामिव च स्वस्याप्यभि- मतम्, ततोऽपि स्वबल्लभायाः स्वरूपादिकमित्यभिप्रायेण अभिमतेत्युक्तम्। श्रूयते हि- श्रियं लोके देवजुष्टामुदाराम् (श्रीसूक्ते 5) इति। निरवधिकक्रीडादिमता निरुपाधिकदेवेन भगवता प्रीतिविषयी- कृतामित्यर्थः । सापेक्षनिरपेक्षयोर्निरपेक्षसंपतिपत्तेः, बाधकस्य च अभावात्, औचित्यातिशयात्, तथैव ‘वेद‌विद्याख्यातत्वाच्च । देवशब्दोऽत्र वासुदेवपरः। * देवैर्जुष्टाम् इति तु मन्दम् । सार्यते च- * प्राणेभ्योऽपि गरीयसीम्, इति, अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं सच धर्मात्मा मुहूर्तमपि जीवति (रामा. सु. 15-52) इति च। अभिमतत्वेऽप्यननुरूपत्वम्, अनुरूपत्वेऽ- प्यनभिमतत्वं च लोके दृष्टमिति तथ्यवच्छेदार्थमुभयोक्तिः; यथा चकर्थ यस्या भवनम् (स्तोत्ररने 37) इत्यादिश्लोकयोः । लोके केनचिदाकारेणाभिमतानुरूपत्वम्, आकारान्तरेण तदभावश्च कचिद्दश्यते ; तद्व्युदासाय स्वरूपरूपादिसर्वोक्तिः

तत्र स्वरूपस्य गुणत्वायोगात्, स्वरूपं रूपं गुणः विभवः ऐश्वर्यशीलाद्यनवधिकातिशया- संख्येयकल्याणगुणगणश्चेति द्वन्द्वः । अनुरूपत्वमिह संबन्धे सति प्रकृष्ट सादृश्यम्; यथा- * परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः (रामा. बाल. 48-5) इति । स्तकाञ्चनमुक्ताप्रबालादेरिब स्वसंबन्धेन शोभातिशयहेतुत्वरूपमौचित्ये वा; यथा- अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः (रामा. बाल. 77-29) यथा च तुल्यशीलवयोवृत्तां तुल्या मिजनलक्षणाम् । राबवोऽर्हति वैदेहीं तं चेयमसितेक्षणा (रामा. सु. 16-5) इति [च]। अत्र वयोलक्षण योस्तुल्यशब्द औचित्यपरः- दम्पत्योन्यूनाधिकवयस्कत्वात्, स्त्रीपुंसलक्षणानां च मिन्नप्रकारत्वात् । तत्सहोक्त्या शीलादिष्वपि औचित्यपर एव, तुल्यशब्दोक्तार्थस्य अईतीति समुदायनिर्देशाच्च। यद्वा, अर्हत्त्वस्य साघकतया तुल्यशब्देन सदृशत्वमुच्यते। वयसः सदृशत्वम् * घनकनकद्युती युवदशामपि मुग्धदशाम् (श्रीगुणरत्नकोशे 35) इत्युक्तमासन्नतरत्वम् । लक्षणस्य सदृशत्वं पतिलक्षणवत् सर्वोत्कर्षव्यञ्जकत्वम् ; येन स पुरुषोत्तमः सा च सर्वलक्षणसंपन्ना नारीणामुत्तमा (रामा. बा. 1-27), इत्युच्यते । * सदा तवैवोचितया तव श्रिया, (स्तोलरले 38) * आहुः स्वैरनुरूपरूपविभवैः (चतुः श्लोकी 4) इत्यादिक- मत्रानुसंधेयम् ।।

भगवत्त्वरूपादेरेतत्स्वरूपादीनां यथाक्रममानुरूप्यमूह्यम् । तत्र स्वरूपं स्वासाधारण- धर्मनिरूप्यं धर्मि; तस्यानुरूप्यम् नानयोर्विद्यते परम् (वि. पु. 1-8-35) इत्यादिषु ग्राह्यम् । रूपं (हि) * हिरण्यवर्णाम् (श्रीसूक्तम्) इत्याद्याम्नातम्; तस्यानुरूपत्वं हि अतिरमणीयत्व नित्यत्वा प्राकृत- त्वादिविशिष्टमद्भुततमत्वम् । * नित्यैवेषा (वि. पु. 1-8-17) इत्युपक्रम्य * विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् (वि. पु. 1-9-145) इति च निगमितम् । अत्र रूपा (द) नन्तरो गुणशब्दः सौन्दर्यादि दिव्य विग्रह गुणपरः, * गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धित (रामा. बाल. 77-29) इतिवत् । विग्रहगुणानां स्वरूपगुणानां च पृथनिर्देशः प्रीत्यतिशयद्योतनार्थः । बिभवः * फणिपतिः शय्याऽऽसनं वाहनम् (चतुःश्लोकी 2) इत्यादिभिरुक्तं विमूतिद्वयम् ; यथोक्तम्-* अस्या मम च शेषं हि विभूतिरुमयात्मिका (विष्वक्सेनसंहिता) इति । उक्तं च श्रीराममिथैः- उभयाधिष्ठानं चैकं शेषित्वम् (षडर्थसंक्षेपे) इति । एवं द्वयोर्विभवस्यैकत्वेऽपि तदानुरूप्यवचनम् अन्यूनानतिरिक्तविभूति- मत्त्वपरम् । यद्वा, * अर्थो विष्णुरिंय वाणी (वि. पु. 1-8-18) इत्यादिभिलौकिकदम्पतिन्यायेन विभज्य निर्दिष्टो विभूत्यशः । स्वासाधारणविभूषादिकं च विभवः । * पद्मो गदो निधिः शङ्खश्चतुर्दन्ती (दन्तो) गजस्तथा । कल्याणसर्पः (सर्पपश्चास्याः) चिक्लीतो गृहरक्षकः, इत्यादि च पुराण- प्रसिद्धमानुरूप्यमिह यथाईं ग्राह्यम् । ऐश्वर्ये शीले च अन्वितेन आदिशब्देन परत्वसौलभ्यौपयिक- गुणत्रर्गद्वयसंग्रहः ; * सर्वैश्वर्वगुणोपेता नित्ये तद्धर्मधर्मिणी (ब्राह्मपुराणे) इत्यादिभिरेतत्सिद्धिः । अत्र परस्परेच्छाविघाताभावादैश्वर्यमनुरूपम् । शीलं च गुहादिषु रामस्येव, त्रिजटादिषु तस्याः प्रसिद्धम् । एवं पतिपारार्थ्ययुक्त तदितर सर्वशेषित्वान्वितानामन्येषामपि गुणानामानुरूप्यं सुगमम् ॥ * ब्रश्लेशादिसुरब्रजः सदयितस्त्वद्दासदासीगणः (चतुःश्लोकी 1) इत्युक्तेभ्यः सातिशयसंख्यातगुणेभ्यो व्यावृत्त्यर्थमाह-अनवधिकातिशया संख्येयेति । अनवचिकत्वमिह स्वापेक्षयोत्कर्षा (त्कृष्टा) वधिरादित्यम् ।

ननु भगवत एव हि ऐश्वर्यमनबधिकातिशयम्, * तमीश्वराणां परमं महेश्वरम्, (श्वेना. 6-7) * सर्वेश्वरेश्वरः कृष्णः, (विष्णुधर्मे 74-44) * न तत्समश्चाभ्यधिकश्च दृश्यते, (वेताश्व. 6-8) * न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः (गीता 1-1-43) इत्यादिभिस्तथोक्तेः । * पुंस्प्रधानेश्वरेश्वरी (लक्ष्मीसहस्रनाग्नि 1 श्लो.) इति नाम तु स्त्रीप्रत्ययानुपपत्तेः श्रुत्यादिविरोधाच्चान्यथा नेयम्-पुंस्प्रधाने- श्वरेश्वरशब्द‌योः गोबलीवर्दन्थायेन (नयेन) विशेषत उक्तानां ब्रह्मादीश्वराणां च भगवान् ईश्वरः, तत्पत्नीयम्-इति । * पुंयोगादाख्यायाम् (अष्टाध्यायी 4-1-48) इति स्त्रीप्रत्ययोपपत्तिः । * पुंस्प्रधाने स्वशक्त्यैव नियच्छति, ईश्वरं च बाल्लभ्येन, इति निर्वाहो बिरूपः, क्लिष्टश्च । ईश्वरी सर्वभूतानाम् (श्रीसूक्ते 9) इत्येतदप्येतेन गतार्थमिति ।

अत्रोच्यते; यद्यपि नाग्नि (नामनि) तथा निर्वाहः; तथाऽपि श्रुतौ न तथा स्यात्, * सर्वभूतानाम्, इति षष्ठयन्वयवैषट्यपसङ्गात् । स्त्रीप्रत्ययस्तु बाडुलकेन नेयः । * अस्येशाना जगतो विष्णुपत्नी (तै. सं. 4-412) इति च मन्त्रान्तरेणोक्तम्; तदपि हि तद्विभुतिविषयत्वात् तत्पर्थव- साय्येव । श्रीत्रैकुण्ठगद्ये च शेषादीनामपि तदाज्ञानुविधायित्वमुक्तम्- शेषशेषाशनादि सर्व परिजनं भगवतस्त तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या, इति । आहुश्च भगवद्यामुनाचार्या:-* यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निश्वर्षि नित्यानुकूल स्वतः (चतुःश्लोकी ४) इति । वेदार्थसंग्रहे चोक्तम्-* स्वामिमतनित्यनिरवद्यस्वानुरूपस्वरूपरूपगुण विभवैश्वर्यशीलाद्यन- वधिकमहिममहिषी, इति । उक्तं च श्रीवत्साङ्कमिश्रः- देवि ! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते (श्रीस्तवे 8) इति । तदात्मजैब्ध- प्रशकनबल…. इत्यारभ्य * तव भगवतश्चैते साधारणा गुणराशयः (श्रीगुणरत्नकोशे 32) इति । न चैतावता भगवतो निस्समाभ्यधिकत्वविरोधः ;
प्रत्युत तत्प्रतिष्ठ। पनसेव, के होश्च ते लक्ष्‌मीश्ध पल्यौ (तै. आर. 3-13-41) इति श्रुतेः। न खेवंविग पत्नीविशिष्टत्वं कस्यचित् तदन्यस्यास्ति, येन तत्साम्यादि (ति) शङ्का स्यात् । उपबृंहितं च अपमेये हि तत् तेजो यस्य सा जनकात्मजा (रामा. आर. 37-18) इति। एवमस्थाः शीलादीनामनवचिकाति- शयत्वेऽप्यविरोधः ।

यथा प्रभागुणोत्कर्षे भास्करो निःसमाधिकः । श्रीमानपि तथैव स्यात् पतिः पल्लीगुणोलतौ ॥ ४ ॥ ज्ञानमोगसमानत्वे नित्यमुक्तेश्वरेषु च । यथा वैषम्यनियतिस्तथैवात्रेत्यना विलम् ॥ ५ ॥

शास्त्रेषु ‘बहुधा भगवद्द्रुणत्वादिरूपेण निर्दिष्टायास्तस्याः कैश्चिन्निर्गुणत्वादिकं शक्येत-इति तद्युदासाय कल्याणगुणोक्तिः । गुणत्वादिनिर्देशास्तु अस्या द्रव्यत्वाद्यविरोधेन अन्यपरा इति तत्र तत्र द्रष्टव्यम् । * ततोऽवलोकिता देवाः (वि. पु. 1-9-106) * त्वयाऽवलोकितः सथः (वि. पु. 1-9-180) * स लाथ्यः स गुणी (वि. पु. 1-9-131) इत्यादिभिरेतदवलोकनात् क्षुद्राणामपि गुण- सिद्धौ सर्वकल्याणगुणशालित्वमस्याः कैमुत्यसिद्धम् । कल्याणत्वं मोक्षपर्यवसावितत्त्वज्ञानादिमङ्गला- बहत्वं स्वयं नित्यानुकूलत्वं च । * न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधसः (वि. पु. 1-9-138) इत्याद्यभिप्रेतसर्वापरिच्छेद्यगुण। नन्त्यातिशयसूचनाय गणशब्दः; ऐश्वर्यादेरनेकावान्तर- गुणसमुदायात्मकत्वाद्वा, * प्रकृष्टं विज्ञानम् (वरदराजस्तवे 15) इत्यादिन्यायात् ॥

अथ विभूतितोऽपि मङ्गलनिर्वाहकत्वं प्रदर्शयति-पद्मवना लयामिति ॥ एतेन पद्म स्थितां पद्मवर्णाम् (श्रीसूक्तम् 4) गन्धद्वाराम् (श्रीसूक्तम् 9) इत्याद्या नातसौवर्ण्यसौगन्ध्या तिशयोऽपि सूचितः । तच्छरणवरणमन्त्रे चोक्तम्- तां पद्मनेगी शरणमहं प्रपद्ये (श्रीसूक्ते 5) इति। नाभिस्थानीयकर्णिकावणानात् पद्ममस्या नेमिवद् भवति । * पद्ममेव नेमिः नयनसाधने यस्याः सा पद्मनेमी इति केचित् । * मातरं पद्ममालिनीम् (श्रीसू. 11) आर्द्रा पुष्करिणीं पुष्टि (यष्टि) पिङ्गलां पद्ममालिनीम् (श्रीसू. 13) * श्री निलयमालाधारिणी, (श्रीमन्त्रे) प्रियाणि तस्याः (लक्ष्याः) पुष्पाणि कमलानि विदुर्बुधाः (धनदीये) * विकासिकमल (कमले) स्थिता (वि. पु.1-9-100) इत्यादिष्वप्यस्या विशेषतः पद्माङ्गीकार (रः श्रुतः) श्रुतेः । श्रीविष्णुस्मृत्यादिषु विस्त- रेणोक्तानां मङ्गल्यविभूतिभेदाना मियं विशेषतो देवतेति ज्ञापयितुमिह सुप्रसिद्धमुख्यमङ्ग‌लभूत पद्मवनो- दाहरणम् । * यत्र पद्मवनानि च, इति भगवतो विशेष संनिधिस्थाने पद्मवने तद्विग्रह इवासौ (रूप) विशेषेण संनिधत्ते । एतेन * साऽहं वै पक्डजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थ सर्वभूतानां पद्मा श्रीः पद्ममालिनी (महाभारते) इति श्रीवासवसंवादोक्तं सर्वभूतोज्जीवनार्थावतार- सौलभ्यमपि प्रदर्शितं भवति । एवं मङ्गलगुणविमृतियोगेन निर्दोषत्वमपि संकलय्याह-भगवती- मिति । * ज्ञानशक्तिबल (वि. पु. 6-5-74) इत्यारभ्य विना हेयैर्गुणादिमिः (वि. पु. 6-5-75) इति हि स्मर्यते । अथ उक्तवक्ष्यमाणसर्वातिशयस्थापिकया सुप्रसिद्धस्वासाधारणसमाख्यया सर्वसमा- श्रयत्वादिकमाह- श्रियमिति । एवं हि श्रीशब्दो निरुच्यते- शृणाति निखिलान् दोषान् श्रीणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् ॥ (अहि. से. 51-65) इति, * श्रयन्तीं श्रीयमाणां च श्रृणन्तीं शृण्वतीमपि । (अहि. सं. 21-8) इति च। अस्य च नाम्नः सर्वप्रकारोत्कर्ष- ज्ञापकत्वमाहुः- श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् (चतुःश्लोकी 1) इति, * श्रीरसि यतः (श्रीगुणरत्नकोशे 29) इति च । भगवन्नारायणपदोक्तस्यानुरूप्ये च * भगवतीम्, * श्रियम् इति पदाभ्यां दर्शितम् । श्रीपदनिरुक्तिभिः संश्रितदोषनिराकरणम्, प्राप्यरुचिप्रापकाध्यव- सायादिप्रदानम्, उपायस्वरूप निर्वर्तकत्वम्, पितेव त्वत्प्रेयान् (श्रीगुणरत्नकोशे 52) इत्युक्तं (इत्याद्युक्तं) पतिप्रसाद जनकत्वं च सिद्धम् । एवमाश्रितार्थव्यापारास्तदनुगुणावतारादयश्च न कर्मकृता इत्याह-देवीमिति ॥ भर्तुर्लीला यामै करस्यात् तदनुगुणविचिलव्यापारोपपत्तिरिति भावः । * भगवती- मित्यादिपदत्रयेण द्विषट् कार्ण स्थभगवद्वासुदेवपदार्थानुरूप्यं च ज्ञाप्यते । श्रियं देवीमिति समभि- व्याहारेण, * श्रियं देवीसुपह्वये श्रीर्मा देवी जुषताम् (श्रीसू. 3) * श्रीदेबी पयसस्तस्मादुत्थिता धृतपङ्कजा (वि. पु. 1-9-100) इत्यादिश्रुतिस्मृतयः सूच्यन्ते । * श्रियः श्रीश्च भवेदग्रया (रामा. अयो. 44-15) इत्युक्तं पतिसंबन्धेन द्योतमानत्वादिकमपि देवीमित्यनेन अवगम्यते ॥

एवम् * क्रीडार्थमवतीर्णस्य तस्य, इत्याद्युक्तलोकानुकम्पा हेतुकावताराया अपि तस्याः * पश्यतां सर्वदेवानां ययौ बक्षःस्थलं हरेः (वि. पु. 1-9-105) * मया विना शुष्यति शोकदीनम् (रामा. सु. 36:28) इत्यादिभिरागन्तुकसं श्लेष विश्लेषा दिव्यपदेशात् कथमपराधभीतानां तत्तदवस्थासु
– तत्पुरस्कारेण भगवदाश्रयणं स्यादित्यत्राह नित्यानपायिनीमिति । * श्रीवत्लवक्षा नित्यश्रीः (रामा. यु. 114-15) नित्यैवैषा जगन्माता बिष्णोः श्रीरनपायिनी (बि. पु. 1-8-17) * अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी (वि. पु. 1-9-144) * भगवद्वासुदेवस्य नित्येवैषाऽनपायिनी, * महाविभूतेः संपूर्णषाड्गुण्यवपुषः प्रभोः । मम सर्वात्मभूतस्य नित्यैवैषाऽनपायिनी ॥ (ब्राह्मपुराणे) इत्यादिभिरनयोने कदाचिदपि विश्लेषः । अवतारेष्वपि कदाचिद्विश्लेषशोकादेरभिनयमात्रमेव; इदं च श्रीमद्रामायणान्ते (उच. 109-6) सूचितम्- रामस्य सव्यपार्थे तु पद्मा श्रीः समवस्थिता । दक्षिणे हीर्विशालाक्षी व्यवसायस्तथाऽग्रतः, इति । एवं देवीमित्यन्तेन व्याख्येयस्थश्रीशब्दार्थों दर्शितः । तन्मुखेन नित्यं भगवतः सुखप्रसादनीयत्वं व्यञ्जयितुं (यता) नित्यानपायिनीमित्यन्तेन तत्रत्यमतुबर्थश्वोक्तो भवति ॥

ननु भगवतीमित्यादिभिः स्वतो निर्दोषत्वादौ नित्यपतिसंबन्धे च सिद्धेऽपि, स्त्रीत्वोपाधि- बशात् कदाचित् पतिपारार्थवैमुख्य, पतिप्रतिकूला भिप्रायत्वम्, अविमृश्यकारित्वम्, नृशंसत्वम्, निमहरुचित्वं च, शतहदानां कोलत्वं मत्स्यानां प्रतिकूलताम् (शस्त्राणां तीक्ष्णतां तथा)। गरुडा- निलयोः शैघ्रधमनुगच्छन्ति योषितः ॥ (रामा. अर. 18-6) *विद्यते स्त्रीषु चापल्यम् (रामा. यु. 16-9) * किं न कुर्वन्ति योषितः, इत्यादिभिः प्रसिद्धं यदि स्यात् तदा कर्थ नित्यभशरण्यशरण्य (ण्या) त्वं स्यादित्यत्राह-निरवद्यामिति ॥ सामान्यतः स्त्रीत्वनिबन्धनदोषवचनं क्षेत्रज्ञेष्वेव कर्मोपाधि- विशेषनियत प्राविकं चेति नास्यास्तत्प्रसङ्गः । उक्तं च तथे (५) व- अनवधाऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी (लक्ष्मीतन्त्रे 17-81) इति। श्रीमद्रामायणे (आर. 18-7) च- इथे तु मवतो भार्या दोषैरेतैर्विवजिता, इति किं च, आनुशस्वं परो धर्मस्त्वत्त एब मया श्रुतः (रामा. सु. 38-41) इति स्मारयन्त्या नृशंसत्वप्रसङ्ग एव नास्ति । निग्रहरुविश्व समथाया एवास्या अत्यन्तापकारिष्वपि न संभवतीति स्ववाक्यसिद्धम्, * असंदेशातु रामस्य तपसश्चानुपालनात् । न त्वां (त्वा) कुर्नि दशग्रीव ! भस्म भस्माई ! तेजसा (रामा. सु. 27-20) इति । एतद्विभूतेभूतदेवता (देवा) दिषु [स्वस्व) कर्मब- शादीदृशदोषसंभवेऽपि नास्यास्तन्मूलभूतः संकल्पः । * त्वया देवि । परित्यक्तं सकर्क सुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेषितम् ॥ (वि. पु. 1-9128) * संत्यक्का ये त्वयाऽमले। (वि. पु. 1-9 129) इत्यादिपूक्तसंत्यागोऽप्युपेक्षामात्रम् । तच्च भीतिकोपविरहेणावस्थानम् ॥

नन्वेवं भगवदभिमतत्वादिकं शरण्यत्वौपयिकं सर्वं तत्पत्त्यन्तरेऽपि स्यात्, विष्टम्भो दिवो धरुणः पृथिव्याः (तै. सं. 4-4-12) इत्यादिभिस्तन्माहात्पप्रसिद्धेः; तारतम्य तु दुरुहर; अतः कथम् अशरण्यशरण्यामनन्यशरणः इत्युच्यते । तत्राइ-देवदेव दिव्य महिषीनिति ॥ यथा मनुष्यादिभ्योऽबिकानां ब्रह्मादिदेवानां मनुष्यस्थानीयानां सर्वत्रकारसमधिकतया भगवान् देवः, तथा ब्रह्मादिदेवपलीभ्यः समधिकानां भगवत्सलीनामप्यसौ प्रधानतमेत्यभिप्रायेणात्र दिव्यशब्दः इयं हि उभयाधिष्ठानैकशेषित्वसाम्राज्येन सर्वमङ्गलप्रदायित्वादिभिश्च प्रकृष्यत इति भगवच्छास्त्रे उक्तम् । तथा ब्राझे पुराणेऽपि – अनन्तनामधेया च शक्तिचक्रस्य नायिका, इति । पत्न्यादिषु शक्तिशब्दस्त द्विहारादिकार्योपयुक्त विशेषणत्वाभिप्रायः । तदिदं प्राधान्यम्, * कृताभिषेका महिषी (अमरः 2-6-5) इति विशेषणात् महिषीशब्देनैव वा विवक्षितम् ; तदा दिव्यशब्दः तद्विग्रहस्य भगवद्विग्रहस्येवाप्राकृतत्वादिकं व्यनक्ति ॥

एवं चिकीर्षितभङ्गपरिहाराय प्रत्याख्यानानर्हत्वाय च पतिवालभ्यातिशय उक्तः । अथ तथाविधोत्कर्षस्वनिकर्ष-स्वापराबदर्शनजनितसाध्वसपरिहाराय प्रजावात्सल्यातिशयमाह-अखिलजग- न्मातरमिति ॥ जगच्छब्द इह चेतनपरः । * नमामि सर्वलोकानां जननीमब्धिसंभवाम् (वि. पु. 1-9117) * त्वं माता सर्वलोकानाम् (वि. पु. 1-9-126) इत्यादिभिरस्याश्चतुर्मुखादीन् सर्वान् जन्तून् प्रति मातृत्वात् लोकमातेति नाम ‘पठ्यते । एवमुपबृंहणबलात् * नि च देवीं मातरम् (श्रीसू. 12) इत्यादिषूक्तमस्या मातृत्वं भगवतः पितृत्वेन समानविषयम् । न हि तत् मदेकवर्जम् । [ इत्थम् ? ] इदमस्या मातृत्वमित्यभिप्रायेण अखिलशब्दः । तदिदं विश्वमातृत्वप्रदर्शितं निरुपाधिक- वात्सल्यं * रिपूणामपि वत्सलस्य (रामा. यु. 50-06) पत्युरनुरूपतमम् । तच्च हितचिन्तारहितेषु अहितचिन्तकेष्वपि कयाचिन्नियत्या कदाचित् फलति ; किं पुनरिदानीं हितचिन्तोन्मुखे मयीति भावः । दुःसहनिरन्तरापर। घे दोषैकनिधौ रावणेऽपि हि सोन्मादे पुत्र इव [जननी ?] जननीत्वेनैव नातवात्सल्या * मित्रमौपयिकं कर्तुम्, (रामा. सु. 21-19) * विदितः स हि धर्मज्ञः (रामा. सु. 21-20) * प्रसादयस्व त्वं चैनम् (रामा. सु. 21-20) इत्यादिभिः सर्वाधिकं रहस्यमुपदिश्य, तड्रमप्रशमने प्रयतते स्म। एवमखिलजगन्मातरमित्यन्तैः पदैश्चिकीर्षितायास्तत्प्रपत्तेरतिशयितामो- घधर्मत्वं सूचितम्; यथोक्तं काश्यपीये- नारायणात्मिकां देवीं श्रियं त्रैलोक्यमातरम् । भज मानो (सोऽयं ?) महाभाग ! परमो धर्म उच्यते ॥ इति । अयं च तदात्मकत्वव्यप देशस्तत्पत्तीत्वा- मिश्रायेण ।

अत्र * अस्मत्त्वामिन् ! (शर. गद्ये) इतिवत् अस्मन्मातरम्, इत्यपि श्रीविष्णु- चित्ताद्यः “पठन्ति ; व्याचक्षते च * यामुनमुनिवंशजननेन पुनश्च विशेषेण * अस्मन्मातर मिति, इति ॥

उक्तैः स्वभावैः सिद्धमपेक्षितानुगुणमाकारमाह- अशरण्यशरण्यामिति । येषां मोक्षोपाय- निष्पत्तिकामानां सर्वलोकशरण्योऽपि न भवेच्छरण्यः, तेषामप्यसौ शरण्या; यथोक्तं त्रिजटया- * मत्सितामपि याचध्वं राक्षस्यः ! किं विवक्षया ? । राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ (रामा. सु. 27-45) * प्रनिपातपसना हि मैथिली जनकात्मजा । अलमेषा परित्रातुं राक्षस्यो महतो भयात् (रामा. सु. 27-44) इति । वानरपरिषदि चैतदनुवदन् बायुस्नु (रेवमा) राइ- * अलमेषा परित्रातुं राघवाद् राक्षसीगणम् (रामा. सु. 58-88) * ततः सा डीमती बाला भर्तुर्विजय- हर्षिता । अबोचद् यदि तत् तथ्यं भवेयं शरणं हि वः ॥ (रामा. सु. 58-91) इति । * पापानां वा शुभानां वा (रामा. यु. 116 45) इत्यादीनि च प्रभञ्जनश्रुतं प्रति तद्वाक्यानि । कुपितनरसिंइसमी- पागतिभीताश्च प्रजापतिप्रभृतयस्तामेव विश्वमातरमाश्रित्य तत्पुरस्कारेण तमुपसेदुरिति पुराणप्रसिद्धम् । माहुश्ध-* मातर्मेथिलि ! राक्षसीस्त्ययि तथैवाद्रविराधास्त्वया रक्षन्त्या (श्रीगुणरत्नकोशे 50) इत्यादि ।

भवत्वेवमशरण्यशरण्यत्वं तस्याः भवतस्तेन किमायातमित्यत्र तदेकपपत्तियोग्यां स्वाबस्थां दर्शयति-अनन्यशरण इति । अन्यत् शरणं यस्य नास्ति सोऽनन्यशरणः । शरणमुपायः उपाये गृडरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते; सांप्रतं त्वेष उपायायैकवाचकः ॥ (अहि. 37-31) इति व्यवस्थापनात् । एवमुत्तरत्रापि द्रष्टव्यम् । उत्तमपुरुषेणैव स्वान्वये सिद्धे, अहम् इत्यधिकोक्त्या स्वस्य दुष्करोपायान्तराशक्तिः सूच्यते । प्रपद्ये इत्यत्र यद्यपि गत्यर्थेन धातुना बुद्धयर्थेन सता अध्यवसायमात्रमुपस्थाप्यते, तथाऽपि प्रमाणानुसारात् शरणशब्दतात्पर्या [नुसारा] च्च प्रार्थनाथन्वित- भरन्यासं करोमीत्युक्तं भवति। प्रार्थ्यते चानन्तरं फलविशेषः । यस्तु परस्परोपकारेण दक्षिणादानेन प्रशासनेन वा भरन्यासः, नासौ प्रपत्तिः ।

नन्विदं मुमुक्षोरेव भगवव्यवच्छेदेन तदन्यपपदने (नं१) तदैकान्त्यं विहन्यात्; मैवम्; यथा कर्मयोगादिकमनन्योपासनार्थतयोपादीयते, तथाऽनन्यप्रपदनार्थतयोपादीयमान मिदं तद्वदैकान्त्यमेव स्थापयति । तथा च स्वाधिकारोचितपरि (बारा) करार्चनेऽनन्यत्वाविरोधः, तथेहापि । * आप्तो विष्णोरनाप्तश्च द्विषा परिकरः स्मृतः। नित्यो बन्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः (पौष्करसंहिता) इति चोक्तम् । एवं घटकतया वरणेऽपि न विरोधः; अन्यथा गुरुभजनतत्पुरस्कारादिकमपि विरुध्येत । अथ तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् (मुण्ड. 1-2-12) * आचार्यमुपासीत (आप. धर्म. 16-18) आचार्योपासनं शौचम् (गीता 18-7) इत्यादिभिस्तादर्थात् तत् संगृह्यते ? इदमपि पूर्वर्वोक्तैस्तथैव; अविशेषात् । किंच, श्रियः प्रपत्तिम् चन्द्रां प्रभासाम् (श्रीसू. 5) इति मन्त्रेण अलक्ष्मीनाशनार्थमामनन्ति । तथा (तथाच?) * ऋचः सामानि यजुश्षि सा हि श्रीरमृता सताम् (तै. ब्रा. 3-7) इति (न्यायात् मुमु….)। या मुमुक्षूणां मोक्षहेतुर्विधैव लक्ष्मीः; तदभावनाशोऽनया क्रियत इति तदर्थे शरण्यामिप्रायसंवादिनी तन्महिषीप्रपत्तिर्युक्तैवेति सिद्धम् ।

(एवं) सेयं साक्षात् परंपरया वा सर्वकळसाधिका। * उदाराम (श्रीसू. 5) इति औतं पदं धनवच्छिन्नविषयम् । तच सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् । क्षिमप्रसादिनी लक्ष्मी शरण्यामनुचिन्तयेत्, इत्यादिस्वायम्भुवादिवचनैरुपश्रृंहितम्। व्याचख्युब्ध- ऐश्वर्यमक्षरगर्ति परमंपदं वा, इत्यारभ्य * कथय कोऽयमुदारभावः ? (श्रीगुणरत्नकोशे 58) इति । व्यतिरेकमुखेन बैतत् स्थिरीकृतं चतुः श्लोक्याम् (8)-* श्रेयो न धरविन्दलोचनमनः कान्ताप्रसादादृते संसृत्यक्षर- वैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ; इति ॥ १॥

पारमार्थिक भगवच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञान परमभक्ति – कृतपरिपूर्णानवरत नित्यविशदतमा नन्यप्रयोजनानवधिकातिशयप्रियभगवदनुभवजनितानव – धिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतै कर तिरूपनि त्यकैंकर्यप्राप्त्यपेक्षया पारमा थिंकी भगवश्चरणारविन्दशरणागतिर्यथावस्थिता अविरताऽस्तु मे ॥ २ ॥

तत्किमत्र।पेक्षित मित्यत्राह-पारमार्थिकेति । परमार्थिकशब्दस्य चरणारविन्दविशेषणत्वे अर्थशब्दः प्रयोजनवाची। पारमार्थिकं परमार्थ इत्यर्थः । यद्वा परमप्रयोजनभूतानुभवग्राह्यं परम- भोग्यमित्यर्थः । एतेन परभक्त्यादिजननाईत्वं व्यज्यते । निर्दोषगुणवत्त्वामि बरणयोः सेवकस्य भक्त्यतिशयः स्यादित्यभिप्रायेण भगवच्चरणशब्दः । अरविन्दत्वरूपणं च उपायदशायामपि स्वादुत्व- सूचकम् । * स आतुश्चरणौ गाढम् (रामा. अयो. 31-2) * यावन्न चरणौ आतुः (रामा, अयो. 98-8) * तस्य ताम्रतलौ तात ! चरणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ प्रयतेन मया मूर्धा गृहीत्वा हाभिवन्दितौ (भार, आर. 160-135) इत्यादिष्विव अन्योन्ययोगादपि शोममा- नत्वदद्योतनाय युगलशब्दः । पारमार्थिकशब्दस्य परभक्त्यादिविशेषणत्वे अनुभवविशेषणत्वेऽपि परमप्रयोजनत्वम्, अभकैनवराहित्य वा विवक्षितम् । ऐकान्तिकत्वं प्रयोजनान्तरानन्वयेन तदेकनिय- तत्वम् ; तत एव नित्यानुवृत्तत्वम् आत्यन्तिकत्वम्, अन्यार्थत्वे हि तत्सिद्धौ निवर्तेत । * निरतिशयत्वम् आत्यन्तिकत्वमिति चाहुः।

अत्र परभक्तिः उत्तरोत्तरसाक्षात्कारेच्छात्मिका घीः; सा च * या प्रीतिः (वि. पु. 1-19-20) इत्यादिष्विव विषयस्वभावजा, न त्विष्टसाधनत्वबुद्धिजा । परज्ञानम् उत्तरोत्तर- साक्षात्कारः । साक्षात्कृते निरन्तरानुबुभूषा परमभक्तिः । अनुभवस्त्विहानुकूलतमत्वेन साक्षात्कार एव । नित्यानां मुक्तानां च नित्यानुवृत्तैकरूपानुभवे (वः) क्षणभेदेन परभक्तित्वाद्याकार मेदैश्च विकल्पिते (ल्प्यते)। पूर्वपूर्वक्षणेषूत्तरोत्तरक्षणावच्छिन्न (स्व) रूपस्येष्टतमत्वमभिप्रेत्य कृतत्वव्यपदेशः । तस्य मुख्यत्त्वं तु योगविशेषजन्यानुभवे ।

नन्विहोपायभूतपरसक्त्या दिभिर्मुक्तदशानुभवस्य कृतत्वं मुख्यमेवास्तु; तथा सत्युपरि श्लोक- त्रयोदितज्ञानस्य स्थानत्रयोदितपरभक्तेश्च प्रार्थनमुपपद्येत (द्यते) । तदर्थ च यथाभाष्यं संप्रतिपन्नाङ्ग- प्रपत्तिरिद प्रार्थिता स्यात् ? मैवम् ; *पकृति स्थूलसूक्ष्मरूपां विसृज्य तदानीमेव मत्प्रसादलब्धमञ्चरणा- रविन्दयुगलैकान्तिकपरभक्ति परज्ञान….इत्यादिवक्ष्यमाणसरूपतया तदनुगुणमिह व्याख्यातुमुचितत्वात् ।

न च भगवत्प्रपत्तेः स्वतन्त्रतया मोक्षसाधनत्वं नास्तीति वाच्यम्। श्रुतिस्मृतिमग- वच्छास्त्रेषु तत्स्वातन्व्यदृष्टेः । * यो ब्रह्माणम्, इत्यादिके हि श्वेताश्वतश्मन्त्रे (6-18) हिरण्यगर्भा- दिकारणभूत परमपुरुषशरणागतिर्युश्चक्षुणाऽनुष्ठेयेति प्रतीयते । न च कचिदङ्गत्वदर्शनात् गुरुलघुवि- कटानुपपतेश्चात्र व्यवहितसाघनत्वं कल्प्यम्; अधिकारिमेदेन व्यवस्थापनात् । तथा चोपबृंहितं ब्राले पुराणे – (53) * शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तदू वैष्णव पदम्, इति । अहिर्बुध्न्येन च सुम्पष्टमुक्तम्- यद् येन कामकामेन न साध्यं साघनान्तरैः । मुमुक्षुणा यत् सांख्येन योगेन (कर्मणा) न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेन तेनाप्यते तत्तन्न्यासेनैव महामुने । ॥ परमात्मा च तेनैव प्राप्यते पुरुषोत्तमः (अहि. सं. 37-25, 26, 27) इति । प्रपत्तिप्रयोगश्चाविलम्बितफलपद (प्राप्तिपर्यन्त एवं उदाहृतः) एवमुदाहृतः – * अहमस्म्यपराधानामालयोऽकिंचनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः ॥ शरणा- गतिरित्युक्ता सा देवेऽस्मिन् पयुज्यताम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्ति तत्क्षणात् (अहि. सं. 37, 30, 31) इति । अत्रापि * त्वमेवोपायभूतो मे भव, इत्यादिभिर्यासात्मकत्वं सूच्यते । तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् (अहि. सं. 37-36) इति चाह । न्यासशब्दस्य चात्र शरणागतिविषयत्वं दर्शितम् – निक्षेपापरपर्यायो न्यासः पश्चाङ्गसंयुतः । संन्यासत्त्याग इत्युक्तः शरणागतिरित्यपि (लक्ष्मीतन्त्रे 17-74) इति । * न्यास इत्याहुर्मनीषिणो ब्रह्माणम्, (तै. उप.) इत्यत्र न्यासब्रह्मशब्दसामानाधिकरण्यं त्वन्यपरम् । एवं स्वतन्त्रपपत्तिसिद्धौ भक्त्या परमया वाऽपि प्रपत्त्या वा महामते ।। प्राप्योऽई नान्यथा प्राप्यो मम कैंकर्य लिप्युभिः, इति विकल्पोऽपि व्यवस्थितविषय उपपद्यते । श्लोकत्रयोदितज्ञानादिकमप्यत्र स्वयंप्रयोजनतया प्रार्थ्यत इति न विरोधः ।

न च प्रपत्तिस्वातन्त्र्ये भाष्यविरोधः; तथा हि- चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! (गीता 7-16) इत्यादिना उपासनस्येव प्रपदनस्यापि तावदार्तिस्तथा वाल्छा तावन्मोहस्तथाऽ- सुखम् । यावन्न याति शरणं त्वामशेषाधनाशनम् (वि. पु. 1-9-78) ! * प्रपत्तेः कचिदप्येवं परापेक्षा न विद्यते । सा हि सर्वत्र सर्वेषां सर्वकामफलपदा (सनत्कुमारसंहिता) इत्यादिभिः सर्वाभिमतसाधनत्वावगतेः, सर्वफलसाधारणमपि चरमश्लोकविधेयं तत्र प्रक्कृतोपायविरोधिपापनिवर्तन- रूपोदाहरणविशेषे प्रदर्शयामास । इह तु साध्यान्तर साधनान्तररहित मन्त्र विवरणप्रवृत्तत्वात् प्राप्ति- विरोधि निश्सनार्थतयोदाहरति । तस्मान्नोपाय भूतपरभक्त्यादिकमिहोच्यत इति सिद्धम् । परभक्त्या- दिभिः साध्यमनुभवादिकं तद‌भावेऽपि मे प्रपत्तिमात्रेण भवत्विति विवक्षायां (क्षायाः) प्रस्तुतविरोबा- भावेऽपि, वक्ष्यमाणानुसारेण विवक्षान्तरं दर्शितम् ।

आर्तोपच्छन्दने गद्यं; भाष्यं तु पररञ्जनम् ।

इत्याविलधियोऽप्येवं प्रसीदेयुः प्रमाणतः ॥ ६ ॥

पुनश्च मुक्तानुभव परिपूर्णेत्यादिभिः षड़भिर्विशिनष्टि । अत्र हि मुमुक्षूणां भगवदनु- भवविशेषेषु यथासंभवं सुकृननारतम्येन परिमिताकास्गोचरत्वम्, खद्योतम्फुरणवत् सान्तरत्वम्, कंचित्काले निरन्तरत्वेऽपि सारस्वतस्रोतोन्यायेन विच्छिन्नप्रवाहत्त्वम्, सामान्यतः सर्वविषयत्वेऽपि परोक्षरूपत्वम्, स्वयंप्रियत्वेऽपि मधुरभेषजनयेन मुक्तिरूपस्वप्रयोजनसाधनत्वबुद्धया उपादेयत्वम्, अत एवं सावधिकरसत्वं च स्यात्; नि शेषनिवृत्तातिषञ्चत्य तु न तथेति भावः । अत्र प्रीतिहेतुत्वा- भिधानेऽपि तदर्थबुद्धया उपादेयत्वाभावादनन्धप्रयोजनत्वम विरुद्धम् । तत्र हेतुरनवधिक्रातिशय- श्रियत्वम् ।

* भगवदनुभवेत्यनेन मुक्तौ पाषाणकरूपत्वपक्षः, स्वात्ममात्रानुभवो निर्गुणप्राप्त्यादि- वादश्च व्युदस्यते; सर्वविशिष्टब्रह्मानुभवे प्रधानानुभाव्यं च व्यञ्जितम् ॥

अत्रानुभवत्तनितप्रीतिर्नाम * निरतिशयानुकूलओऽयं विषयो मयाऽनुभूयते इति स्वयमपि निरतिशयानुकून्यवनी कृतार्थ (त्व) नबुद्धिः * कृतार्थाऽम्मीत्यपन्थन (रापा.) इतिवत् ; सा च सामग्रचनुवृत्त्या प्रतिक्षणभाविनी प्रवाहविच्छेदरहिता च इति एके। अन्ये तु-प्रीतेः स्वरूपतोऽ- नुवृत्तत्वेऽपि पूर्ववरनुभवम्यैव प्रयोज्यप्रयोजनका कारविभागेन जन्यजनकवाचोयुक्तिः- इति । अस्याश्व प्रीतेरनाधिका निश्शयत्वं प्रीत्यन्नरपेक्षया निकृष्टत्वविरहात्; ईश्वरस्य नित्यानामपि हि न मुक्तेभ्योऽतिशयिता प्रीतिः, * श्रोत्रियस्य चाकामहतस्य (आनन्दवल्ली) * भोगमात्रताम्यलिङ्गाच्च (ब्र. सू. 4-4 21) इति समानभोग (त्वस्था) व्यवस्थापनात्, ईश्वरनित्यमुक्तभोगानामु र चयापचयतार- तम्यबादयोरपन्यायमूलत्वाच्च कैंकर्यस्य भगवदिच्छ। कारिनत्वेऽरि, पार्षयिष्यामि (स्तोत्ररले 46) इति तत्प्रीत्युद्देशेन पवृत्तत्वेऽपि च * प्रीतिकारितेत्यादिना * यथार्ड केशवे वृत्तिम् (भा. उ.) इति न्यायात् प्रीतेः प्रेग्कत्वातिशयेन स्वरसप्रवृत्तिः, नियोगनैरपेक्ष्ये च द्योत्यते । एवं प्रीत्या प्रवृत्तत्यापि कैंकर्यविशेषेषु स्वाम्यभिनतिविशेषास्त्वनुरोधनीयाः । तादृशमेव च कैर्यम् * एतत्साम गायन् आस्ते (तै. उप.) * जक्षत् कोडन् रममाणः स्त्रीभिर्वा (छान्दोग्ये 8-123) * स यदि पितृलो ककामो भवति (छान्दोग्ये 82-1) इत्यादिष्वप्युक्तम् । अशेषावस्थाशब्देन परव्यूहादयः स्थानासनशयनादयो जगत्सृष्टयादयश्च भगवतो ऽवस्थाः, स्वस्य च सशरीरत्वाशरीरत्वानेकशरीरत्वरूया गृह्यन्ते । कैंकर्यस्य तत्तद्वस्थोचितत्वम्, यथालोकं यथागने च चामरग्रहणादिना भोक्तृतथा भोग्यतया च संनिषाय कृतत्वात् । अशेषशेषता आत्मनः आत्मीयस्य च सर्वस्य परशेषभावः । यद्वा, सर्वपकारशेषवृत्तिः । अनन्तगरुडादिप्रति नियता थि कारक्कृत्येषु मुक्तस्येच्छा विरहात्’ इष्यमाणेष्वपि सर्वेषु * स एकधा भवति, द्विधा भवति, अनेकधा भवति (छान्दोग्ये 7-26-2) * तावन्ति चक्रे रूपाणि भगवान् देवकीसुतः, इति चकारेण शेषशेषिणोर्यथाभिमनस्यरिप्रहेण मुक्तस्य स्वासिनतसर्वशेषवृत्तिः स्यादेव ; तस्याम् एकशब्देन स्वप्रयोजनप्राधान्यव्युदासः । अथ वा, नित्यानां मुक्तानां च भगवत्रीतिफलासु सर्वासु शेषवृत्तिषु परकृतासु स्वकृतासु च प्रीत्यविशेषो विवक्षितः, * नित्याभिवान्छितपरस्परनी चभावैः (बैकुण्ठस्तवे 77) * याभिस्त्वं स्तनबाहुदृष्टिभिरिव (श्रीगुणरत्नकोशे 26) इत्यादिन्यायाच्च । एकरूपा वा रतिः एकरतिः, कालभेदेन संकोचाधभावात् । रत्तिरिह प्रीतिरिच्छा वा; तया हेतुभूतया कैंकर्य निरूप्यत इत्यभिप्रायेण रूपशब्दः । * शेषतै कर तिरित्येतत् श्रीवैकुण्ठगधे * परिचयैकमनोरथः, इत्यनेन विवृतम् । अत्र अनुभवरतिकैङ्कर्यशब्देषु ज्ञानचिकीर्षाप्रयलक्रमश्च प्रकाशितः । यद्वा, शेषतैकरतिरेव कैङ्कर्यस्य प्रधान स्वरूपम्; तत्परिवाइतया तु व्यापारान्तराणि भवन्तीत्यभिप्रायः । प्राकृतप्रलयादिष्वप्यविच्छिन्नप्रवाहतया अत्रत्यकैङ्कर्थात् व्यावृत्त्यर्थं नित्यत्वोक्तिः; * प्रलये न व्यथन्ति च, इति हि गीतम् (14-2) । स्वामिसमादेशापेक्षी तच्चोदितकारी किंकरः, तस्य वृत्तिः कैङ्कयम् ; तस्यान्यैर्दुष्प्रापत्वेनालभ्यल। भत्वसूचनार्थम्, इतः पूर्व प्राप्तेरभावात् प्राप्तप्राप्तिपक्षव्युद। सेनापेक्षाईत्व- ज्ञापनार्थ चाधिकः प्राप्तिशब्दः । * संपद्याविर्भावः (ब्र. सु. 4-4-1) इत्यादिकं हि नित्यसिद्धेष्वेवा- कारेषु मुख्यम्, न तु साध्ये निरङ्कुशविकासे तत्पूर्वकव्यापारे च । तत्र तु निवृत्तप्रतिबन्धस्वरूपो- पाधिकत्वसूचनार्थम् * आविस्स्युर्मम सहजकैङ्कर्यविषयः (अष्टश्लोकी 3) इति अभियुक्तैरुक्तम् ।

आत्माभिमानानुगुणपुरुषार्थव्यवस्थया ।

भगवत्पारतन्ध्यादि प्रबुद्धस्य सुखायते ॥ ७ ॥

परेच्छायत्तभूम्नोऽपि स्वेच्छाया अविघाततः ।

” सर्व परवशं दुःखम् ” (मनुस्मृतिः 4-160) इत्याद्यं नात्र बाधकम् ॥ ८ ॥

स्वतः शेषत्वकैङ्कर्ये न कुत्राप्यसुखाबहे ।

कर्मजत्वात् तथात्वस्य लोके च व्यभिचारतः ॥ ९ ॥

* महानन्दमहिम्ना च प्राग्दुःखावेक्षणादपि ।

मोहदुःखे तदा (तथा) स्याताम्, इति मूढस्य जल्पितम् ॥ १० ॥

सुखस्य मोहनत्वं च तामसत्वाद्युपाधिभिः ।
सुखाय च भवेत् कापि पूर्वदुःखावमर्शनम् ॥ ११ ॥

एवमिह * अपेक्षया, इत्यन्तं व्याख्येये सोपबृंहणचतुर्थ्यभिप्रेतस्य प्रपश्ञ्चनम् । भगवत एव शरणत्वे वक्तव्येऽपि, दिव्यविग्रहस्य शरण्यगुणादिव्यञ्जकत्वम्, चरणग्रहणस्य कृपोत्तम्भकत्वातिशयेन अनतिक्रमणहेतुत्वं चाभिप्रेत्य चरणशब्दः । अरविन्दशब्दः उपायदशायानपि भोग्यत्वं सूचयति । अत्र भगवच्छब्दो निरपेक्षरक्षणौपयिकाकारपौष्कल्यप्रदर्शकः । कृत्वविदपि भाष्यकारः प्रश्रय- प्रकाशनाय * पारमार्थिकी * यथावस्थितेति सामान्यतो निर्दिशति, * (त) त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे (कौषीतक्युपनिषत् 1) * यद्धितं मम देवेश ! तदाज्ञापय माधव । (जितन्ते 1-18) इतिवत् । एतेन भगवत्प्रपत्ते (त्ति) र्मोक्षसाधन (म् इ) त्वमित्येतावन्मया निर्णीतम् ; सा यत्स्वरूपा, यत्प्रकारेति च (रा, तदिदमिति ?) न जाने; अतस्त्वयैव वत्सलतया मोक्षार्थभगवत्प्रपत्तेः स्वरूपादिकं यथाप्रमाणं ज्ञापयित्वा अनुष्ठापनीयोऽहमिति विशेषनिष्कर्षरहितानामपि बिज्ञापनप्रकारः शिक्षितो भवति एवं सामान्यत उक्तेऽपि सर्वज्ञा सर्वहितैषिणी देवी स्वयमेव सर्वं विधास्यतीति तात्पर्यम् । * देवानां गुह्यम् (तै-उप.) इत्याद्युक्तं गोपनीयतमत्वम्, तत एव तत्रतत्र तदनुगुण निर्देशः प्रपत्तिस्वरूपादेर्दुस्वगाइत्वं च सामान्यनिर्देशेन द्योत्यते ।

ननु सर्वलो कसर्वागमप्रसिद्धायाः प्रपत्तेः कथं दुरवगाहत्वम् ? इत्थम् – केचित् भक्तिप्रपत्त्योर्व्यतिकरितप्रयोगादैक्यमिच्छन्ति ।

लक्षणभेदात् भेदमिच्छन्तोऽपि केचित् स्वातन्त्र्येण मुक्तिसाधनत्वं नानुमन्यन्ते ।

अन्ये तु स्वातन्त्र्याभ्युपगमेऽपि षडिचा शरणागतिः (अहि-सं. 37-29) इति वचनानुरोधात् आमेयादिषट्रकवत् संभूय साधकत्वमाहुः ।

तत्रैव षण्णां प्रत्येकं साधनत्वम् अपरे ।

तेष्वेव यथेष्टं केचित् कतिपयोपेक्षया कतिपयपरिआहिणः ।

नियतैकसंग्रहेऽपि स्वरूपन्यासमात्रत्वम्, प्रार्थनाभरन्यासयोरन्यतरमात्रत्वम्, तयोरेव यथेष्टमङ्गाङ्गित्वम्, विकल्पं वा केचिदाहुः ।

इतरे च प्रपत्तेरविधेयज्ञानरूपत्वम्, अनिवारणादिरूपत्वम्, दक्षिणाज्ञा दिहेतुकभरन्यासा- विशिष्टत्वम्, अनङ्गत्वम्, द्वित्राद्यङ्गत्वम्, सर्वधर्मस्वरूपत्यागाद्यङ्गकत्वम्, भक्तियोगवत् आप्रयाणा- दनुवर्तनीयत्वम्, भक्ति (कर्म) योगाद्यङ्ग कत्वम्, आरब्धकार्यपुण्यपापनिवर्तनाक्षमत्वम्, किं बहुना ! गृहागमनाञ्जलिप्रणामा दिमात्रतां च, प्रतिपादयन्ति ।

एवं विप्रतिपत्तियोग्यतया दुष्करः प्रपतेर्निष्कर्षः ॥

स तर्हि कथं स्यात् ? उच्यते; तत्र तावत् भक्त्यैक्यादिपक्षान् निक्षेपरक्षादिषु निराकाष्मे । षाडिध्योक्तिरपि * न्यासः पञ्चाङ्गसंयुतः (लक्ष्मीतन्त्रम् 17-74) इति वचनबलात् अष्टाङ्गयोगोक्तिवत् अङ्गाङ्गितमुच्चयेन स्थापिता। अत एव हि * षडङ्गं तमुपायं च (ल. त. 17-59) इत्यादिकमपि संगच्छते । स्वरूपन्यासस्यात्र।पेक्षितत्वेऽपि आत्मात्मीयभरन्यासः (ल. त. 17-79) * त्वयि निहितमरोऽस्मि सोऽहं यतः (वरदराजस्तवे 91) * तब भरोऽहमकारिषि धार्मिकैः (श्रीरङ्गराजस्तवे 2-102) इत्यादिप्रमाणसंप्रदायैर्भरन्यासप्राधान्यं सिद्धम्। यदप्युक्तं भरतमुनिना- * अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाच्या प्रपत्तिः शरणागतिः ॥ इति, यदपि च (यच्च) अहिर्बुध्न्येन-(37-31) * प्रार्थनामतिः। शरणागतिः, इति-तत्रापि पूर्वोक्तप्रमाणानुसाराव. अनन्यसाध्यत्वत दे कोपायत्वो कित्तात्वर्याच्च, प्रार्थनापूर्वक भरन्यासात्मकत्वसिद्धिरित्येवा दिकू ।

अतो दुरबगाइत्वयोतनाय पारमार्थिकी, इत्यादिसामान्यनिर्देश उपपन्न इति ॥

एवमीदृशभरन्यासात्मकतया शरण्यस्योपयुक्ताकार विशिष्टपरतत्त्व विषयतया च निरूप्यावा- मस्यां प्रपत्तौ स्वरूपतो विषयतश्च तमः कार्यवैपरीत्यविरहः पारमार्थिकत्वम् । प्रकारतोऽङ्गतश्च रजः- कार्यप्रकारिप्रकारान्यथाभावराहित्ये यथाप्रमाणं फकसङ्गकर्तृत्वादित्यागश्चात्र यथावस्थितत्वम् । राजसतामसबुद्धिप्रकारश्च यथा धर्ममधर्मे च (गीता 18-31) * अधमें धर्ममिति या (गीता 18-32) इति लोकाभ्यां गीतः। एतेन अनाप्तागमसिद्धत्वम् [नित्यागभासिद्धत्वम्] नित्यागम- सिद्धत्वेऽपि पुरुषबुद्धया (द्धयन्य) अन्यथा कल्पितत्वं च निरस्तं भवति ॥

एवं तु व्याख्यातं व्यासायैः “पारमार्थिकी इति तमः कार्यव्युदासः (व्युदासाय) । आनुकूल्यादिशरीरवती च सा । तद्धि तस्या उपायान्तरेभ्यो व्यावृत्तं स्वरूपम् । यथावस्थितेति रजःकार्यव्युदासः (व्युदासाय)। प्रपत्तव्यविषयसंबन्धरूपः प्रकारः, तत्साहित्यमभिप्रेतम् । शरण- बरणानई शरण्यत्वघी函यथावस्थिता स्यात्” इति। अविरता-आमोक्षदानादविश्रान्तव्यापारेत्यर्थः । व्यापारश्चात्र शरण्यप्रसादविशेष एव । * सकृदेव हि शाखार्थः, (क. त. 17-90) * सकृदेब प्रपन्नाय (रामा. यु. 18-33) * ननु प्रपन्नः सकृदेव नाथ! (स्तोत्ररते 64) इत्यादिबलादङ्गतः स्वरूपतो वा अनुवृतिरिह न विवक्षिता । व्याख्येये प्रपथे, इति बर्तमान निर्देशस्त्वनुष्ठानकालाभि- प्रायः । व्यापारानुवृत्तिकथनात् तु भाष्योदाहृतभक्त्यङ्गमपत्तिव्यवच्छेदः सा हि मध्ये साधनरूपं साध्यान्तरमुत्पाद्य विस्तव्यापारा भवति तदेव तु मुक्ति साधयति । * अस्त्वित्याशासनेन भगवत्प्रवत्तेः स्वरूपतोऽपि स्वादुतमत्वं सूच्यते । मे-अकिंचनतमस्यानन्यशरणस्य ॥ २ ॥

अस्तु ते ॥ ३ ॥

एवं विज्ञापिताया विष्णुपत्न्याः प्रतिवचनं निबध्नाति-अस्तु ते इति ॥ रावणेऽपि * तेन मैत्री भवतु ते (रामा. सु. 21-20) इति वादिन्याः शरणागतविषये कैसुत्यसिद्धमिर्द वरप्रदानवाक्यमित्युत्प्रेक्ष्य प्रोक्तम्। तै-मयि न्यस्तभरस्य, मया स्वीकृतभरस्य च ।

उपायदानमेतस्यास्तदिदं पतिसंनतम् ।

यथा तस्याः प्रसीदन्त्या हारदाने हनुमते ॥ १२ ॥ ॥ ३॥

तथैव सर्व संपत्स्यते ॥ ४ ॥

भगवत्यपत्तेः पूर्वोक्त नित्यकैडर्यप। विपर्यन्तकका विनामावमाह-तथैव सर्व संपत्स्यते इति ॥ एवकारेण अत्रोपायान्तरव्यवधाननैरपेक्ष्यं योत्यते । यद्वा, अस्तु ते, इत्येतावतैव पर्याप्ते * तयैवेत्यादिकं विभीषणसहागतराक्षसन्धायेन यथाभिमतानुबन्धिरक्षणाभिप्रायम् । अथवा, श्लोक- त्रयोदितज्ञानित्वादिकमत्र परत्र च यत् प्रार्थयिष्यते तत् सर्वमिह सर्वशब्दार्थः। उक्तेन सह वक्ष्यमाणमनुक्तं चानुबन्धिरक्षणमभिमतत्वाविशेषात् संकलय्य प्रोच्यते । * संपत्स्यते, इति भविष्यन्निर्देशः प्रपत्त्यनन्तरक्षणप्रभृति तत्तदुचितकालाभिप्रायः । वदान्यत्वव्यञ्जकं चेदं वाक्यद्वयम् ; * प्रियवाकू दानशीलो हि वदान्यः (हलायुधः 2. 211) ॥ ४ ॥

अखिलहेयप्रत्यनीककल्याणैकतान !

एवं श्रीमच्छब्दाभिप्रेतमर्थमुपयोगविशेषपर्यन्तमुदाहृत्य, प्राप्यत्वप्रापकत्वोपयुक्तसर्वाकार- संग्राहकनारायणशब्दं व्याचिरूयासुः, तत्र तत्पुरुषव्युत्पत्तौ (वृत्तौ) अयनशब्दार्थम्, बहुव्रीहौ अन्यपदार्थ च दिव्यात्मस्वरूपं तावदाह-अखिलेति । अत्र * संबुद्धयन्तप्रयोगाद् व्याख्येयेऽपि तथात्वेन त्वच्छ- ब्दाध्याहारः, इति केचित् । * श्रीमन्नारायण ! स्वामिन् ! (द्वयमन्त्रान्तरम्) इत्यादौ मन्त्रान्तरे च तत् द्रष्टव्य (दृष्ट) म् । अन्ये तु, * प्रार्थनानुगुणतात्पर्यानुसारेण संबुद्धिरिह प्रयुज्यते, इत्याहुः । अखिलहेयप्रत्यनीकत्वम् अखिल हेयात्यन्ताभाववत्त्वम्; तेन कतिपय हेयरहितेभ्यो व्यवच्छेदः । कल्याणैकतानत्वं कल्याणानां सर्वेषां गुणानामसाधारणाश्रयमृत’ बिस्तारत्वम् । नित्यादीनामपि न सर्वमङ्गलगुणवत्त्वम् । * समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् (वि. पु. 1-22-53) * तेजोबलैश्वर्य- महावबोधघुवीर्यशक्त्या दिगुणैकराशिः (वि. पु. 6-5-85) * स च सर्वगुणोपेतः (रामा. बाल. 1-17) इत्यादिप्रसिद्धः उभयलिङ्गाधिकरणार्थ उपयोगातिशयात् प्रथममिहोक्तः । * नराज्जातानि तत्त्वानि (भार. आनु. 178-7) इत्याद्युक्तकारणत्वादिशङ्कितमचिद्गतं चिगतं च विकारापुरुषार्थादिकं प्रणतो- पेक्षादिपर्यन्तम् (श्च?) अवध न किंचिदव्यस्यास्ति; न च कल्याणगुणेष्वस्याविद्यमानः कश्चिदित्यर्थः । पश्चातु ज्ञानबलादिगुणोक्तिरेतद्विबरणम् । स्वरूपनिरूपकं ज्ञानत्वादिकमप्यत्र कल्याणशब्देन सामान्यतः संगृहीतम् । एवं सगुण निर्गुणश्रुत्यो विषयभेदेन अविरोधात् कुदृष्टिपक्षश्च निरस्तः । यद्वा, कल्याणैकतानं प्रदेशमेदेन कालमेदेनाप्पकल्याणत्वरहितमित्यर्थः ; * ज्ञानानन्दैकस्वरूप, इति तु तद्विशदीकरणम् ; ज्ञानतया आनन्दतया च कान्यैन कल्याणत्व (मित्युक्तं) मुक्तं भवति । जडात् भोग्यात्, प्रतिकूलोदासीनरूपज्ञानाभ्यां च व्यवच्छेदाय (ज्ञानत्वानन्दत्वयोः) ज्ञानानन्दयोरुभयोर- प्युक्तिः । आनन्दकल्याणशब्दौ स्वपरापेक्षया आनुकूल्यं वा ब्रूतः । एवम् * आनन्दादयः प्रधानस्य (ब्र. सू. 3-3-11) *अक्षरधियां त्ववरोधः (ब्र.सू. 3-3-33) इत्यधिकरणद्वयोक्तं स्वरूपनिरूपकवर्गद्वयं व्यञ्जितं भवति ।
अथ वा हेयप्रत्यनीकत्वम् आश्रितानां यथोपाये स्वेच्छया हेयनिवर्तकत्वम् । तथा सति लोके स्वसंकल्ला यत्तद्देयसद्भावस्य न विरोधः । न च विरुद्धघटनशक्तिकल्पना, स्वरूप- मात्रेण हेयनिवर्तकत्वस्यानङ्गोकारात्, अन्यथाऽतिप्रसङ्गात् । कल्याणैकतानत्वम्, आश्रितानाममि- मतेषु कल्याणेष्वैकाश्रयम्, अनिष्टनिवर्तन (कत्व) मिष्टप्रापणे (कत्वे) चेत्यर्थः । स्वस्य निर्दोषमङ्गलगुणा- करत्वमप्यत्रार्थसिद्धम् ; * फलमत उपपतेः (ब्र. सू. 3-5-37) इत्यबिकरणार्थश्च दर्शितः ।॥

स्वेतरस मस्तवस्तु विलक्षण !

त्रिविधानां चेतनानामचेतनानां च पराधीनत्वादिसाम्यादेवमूर्त बस्त्वन्तरं नास्तीत्यभि- प्रायेणाइ-स्वेतरस मस्तवस्तुविलक्षणेति ॥ एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसाम्यनिषेधः सिद्धः ।

अनन्तज्ञानानन्दैकस्वरूप !

* नित्यं विभुं सर्वगते सुसूक्ष्मम् (मुण्ड. 1-1-6) * विश्वमेवेदं पुरुषः (तै. ना.) इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह अनन्तेति ॥ सर्वव्यापित्वात् देशपरिच्छेदरा हित्यम् ; सर्वकालवर्तित्त्वात् कालपरिच्छेदाभावः । साक्षात् परंपरया वा सर्वप्रकारित्वेन सर्वेबस्तुसामानाधिक- रण्याईत्वात् बस्तुपरिच्छेदविरहः; येन केनापि प्राशस्त्येन स्वस्मादुत्कृष्टैः कैश्विद्वस्तुभिरथरीकृतत्वाभा- बाद्वा । तद्विग्रहादीनां तु सन्तोऽपि केचिदतिशयास्तद्विभूतिगता एवेति तैरपि तस्यैवोत्कर्षः । वितस्त्यादिभिः प्रस्थतुलादिमिश्व परिच्छेदो देशपरिच्छेदान्तर्गत एवेति तन्निषेधेन सोऽपि निषिद्धः, * वस्त्वन्तरशून्यत्वाद्वा, सर्ववस्तुस्वरूपैक्याद्वा वस्तुपरिच्छेदाभावः, इति पक्षौ तु सर्वप्रमाणविरुद्धौ, अनन्तपदपूर्वापरश्रुतिविरुद्धौ च ॥

स्वाभिमतानुरूपैकरूपा चिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्य- सौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप !

यद्यपि दिव्यात्मस्वरूपापेक्षया सर्वेषामाधेयत्वं समानम्; यद्यपि च विग्रहस्य गुणनिया- म्यतया गुणानामन्तरङ्गत्वम्; तथाऽपि स्वरूपवत् भूषणास्त्रस्वरूप निखिलजगदाधारत्वेन तदनुरूपत्वात् तादृशस्वरूपव्यञ्जकत्वात्, सालम्बनयोगविषयत्वेन मुमुक्षूणां शुभाश्रयत्वाच्च प्राधान्ये दर्शयितुं गुणेभ्यो- ऽपि पूर्व तद्विग्रहमाइ-स्वाभिमतानुरूपेति ॥ निरवधिकानन्दरूपस्य स्वस्याप्यभिमतमनुरूपं च दिव्य [विग्रहस्व] रूपम्। स्वरूपस्य नित्यनिरवधिकानुकूलत्वमन्यामिमर्ति न बाधते, सर्वस्य सर्वदा विशिष्टैका नुभवगोचरत्वेन प्रमाणसिद्धत्वात् । सा चाभिरूपस्य आमरणामिमतिवत् न स्वरूपानुकूल्य- बाधिका; एवं भूषणादावप्यभिमतत्वाविरोधः । अनिष्टावह शरीरादिव्यावर्तकैर प्राक्कृतत्वध्येयत्वप्राप्य- त्वादिभिरपि विग्रहादेरानुरूप्यम् । सर्वदा उक्तप्रकार विशिष्टत्वम् एकरूपत्वम् । नानारूपेष्वपि हि व्यूह विभवार्चावतारेष्वप्राक्कृतत्वशुभाश्रयत्वादिकम् समस्ताः शक्तयश्चैताः (वि.पु. 6-7-70) * समस्त- शक्ति रूपाणि (वि. पु. 6-7-71) * बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । अर्चाऽपि लौकिकी या सा भगवद्‌भावितात्मनाम् । मन्त्रमन्त्रेश्वरन्यासात् साऽपि षाड्गुण्यविग्रह। (सात्त्वतसंहिता 6-22,23) इत्यादिभिरुच्यते । परव्यूहादिविग्रहवत् तत्तद्विग्रहानुप्रवेशात् अर्चाऽपि षाड्गुण्य- प्रकाशकशुद्धसत्त्वद्रव्यमयीत्यर्थः । देवतिर्यङ्मनुष्यादिविचित्रावतारदशायामपि * आदित्यवर्ण तमसः परस्तात् (उत्तरनारायणानुवा के) इत्यादिप्रसिद्धस्य परमपद निलय विग्रहस्य संनिवेशै- करूप्यं वा विवक्षितम् । चिन्त्यत्वेन चोदितस्याप्यचिन्त्य (त्वेनो) त्वोक्तिः इतरसजातीयतया चिन्तयितुमशक्यतामाह; तेन अनित्यत्वादिसाधकसावयवत्वाद्यनुमानानां धर्मिग्राहकमा नबाधो ऽ- भिप्रेतः । दिव्याद्भुतशब्दौ द्रव्यतः संनिवेशादिभिश्व बैलक्षण्यपरौ, अप्राकृत्तस्थानवर्तित्वाप्राकृत- त्वपरौ वा, * रूपं विशिष्टं दिवि संस्थितं च (भार. मौसल. 5-34) * न भूतसंघसंस्थानो देहोऽस्य परमात्मनः (भार. शा. 206-60) * न तस्य प्राकृता मूर्तिमर्मास मेदोऽस्थिसंभवा (बराहपुराणे 75-44) इत्यादिभिस्तथोक्तेः । अद्भुतत्वम् * तस्य ह वा एतस्य पुरुषस्य रूपं यथा महारजने बासः (बृह. 4-3-6) * सर्वाश्चर्यमयं देवम्, * तेनाश्वर्यपरेणाहम्, * अपूर्वरूपसंस्थानम्, इत्यादिप्रसिद्धनिरतिशयवै- चिऽयवत्त्वम् । नित्यत्वमपि * नित्याऽलिङ्गा स्वभावसंसिद्धिः, (र.आ.) * नित्यं नित्याकृतिधरम्, इत्यादिभिरुक्तम्। तेन शुभाश्रयाद्भुतपरविग्रहस्य कल्पितत्वकृतकत्वादिपक्षाः प्रतिक्षिप्ताः । अवतारविग्र- हाणामपि सत्यानामेव तत्रैव विभागाविभागाबुपदिष्टौ; तेषां प्रत्येकमपि नित्येच्छाधीनतां केचिदाहुः । निरवद्यत्वं क्षेत्रज्ञशरीरवत् कर्ममूलत्वदुःखावहत्वादेरभावात् । दिव्यात्मस्वरूपे प्रक्रान्तयोगपुरुषा- पेक्षयोक्तम नालम्बनत्वरूपमप्यबद्यं दिव्यविप्रहे नास्ति, तस्य यथाश्रुतं यथादर्शनं च सुखानुसंधेयत्वात् । इह खल्वीश्वरापेक्षया न किंचिदपि प्रतिकूलम्, सर्वस्य तदनुकूलतयैव प्रमाणसिद्धत्वात् । तस्य तु परप्रतिकूलसर्वाश्रयस्यापि स्वप्रतिकूललेशरहिततया समस्त हेयरहितत्वोक्तिः । एवं मुक्तनित्यापेक्षयाऽपि न कस्यचित् प्रातिकूल्यम्, तेषामीश्वरेण समानभोगत्वात् । अचेतनापेक्षया तु प्रतिकूलानुकूले कदाचिदपि न स्तः । [अत एव तस्य हेयमुपादेयं च नास्ति । तस्य सावद्यत्वोक्तिस्तु चेतनविशेष- प्रतिकूलस्वभावयोगितया तदपेक्षा । क्षेत्रज्ञानां तु स्वप्रतिकूलदुःखतत्कारण संबन्धात् सावद्यत्वम् । ईश्वरबुद्धिविशेषरूपस्य क्षेत्रज्ञकर्मसाध्यनिग्रहस्यापि कर्मवश्यगोचरतया तद्दोषत्वमेव; ईश्वरस्य त्वसौ प्रशासनरूपतया गुण एव । एवं स्थिते दिव्यविग्रहस्य निरवद्यत्वो क्तिरीश्वरापेक्षया तदाश्रितापेक्षया च शरीर त्वा दिश क्ङ्कितप्रतिकूलस्वभावराहित्यपरा । निरतिशयत्वम् औज्ज्वल्यादिषु सर्वेष्वन्वीयते ; तच्च तदपेक्षयोत्कृष्टाभावात्, अनुत्तमत्ववत् । औज्ज्वल्यम् * आदित्यवर्णम्, (पुरुषसूक्ते) * दिवि सूर्यसहस्रस्य (गीता 11-12) इत्यादिषूक्तं भास्वरतमत्वम् । सौन्दर्यम् अवयवशोभा ; येन * साक्षान्मन्मथमन्मथः (भाग. 10-32-2) इत्युच्यते । * सर्वगन्धः (छा. 3-4-21) इति श्रुति- रनुकूलगन्धविषया । सञ्चन्दनादि चात्र कृतकरमित्यभिपायेण सौगन्ध्यशब्दः । सौकुमार्य महाबल- रखेऽपि * पुष्पहासः इति नाम दुदानं (श्रीरङ्गराजस्तवे 1-88) मार्दवम्; यथोक्तम्-* सुकुमारौ महाबलौ, (रामा. अर. 19-14) इति । लावण्यं समुदायशोभा ; * भूयिष्ठं तेज एवाद्भिर्नहुलाभिर्मू- दृक्कृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते (अहि. 52) इत्याहुः । यौवनमिह न कालकृता- ऽवस्था; किन्तु तादृशो विग्रहस्वभावः, तद्यौवनस्य नित्यत्वात् । अन्येषामवि हि यौवने कौमारानन्तर- भावित्वमुपलक्षणमात्रमेव, युवतयैव केषांचिदुत्पत्तिश्रवणात् । आदिशब्देन शुभाश्रयादिप्रकरणोक्त- तर्वगुणसंग्रहः । तत एवानन्त्यम् । निधिशब्द इहाश्रयपरः निरतिशयभोग्यत्वव्यञ्जकश्च ॥

स्वाभाविकानव धिकातिशयज्ञानच लैश्वर्यवीर्यशक्तितेजःसौशील्यवात्सल्यमार्दवार्जव- सौहार्दसाम्यकारुण्यमाधुर्यगाम्भीर्योदार्य चातुर्यस्थैर्यधैर्यशौर्यपराक्रमसत्यकाम सत्यसंकल्प कृतित्वकृतज्ञताद्य संख्येय कल्याण गुणगणौघ महार्णव !

एवमुपकारकतमत्वाद्यभिप्रायेण गुणेभ्यः पूर्वं विग्रह उक्तः । अथेदृश विग्रहाभिव्यङ्गयपकृष्ट- गुणभूयिष्ठतामाह-स्वाभाविकेति ॥ अल सर्वगुणकन्दभूतैराश्रितानाश्रितगोचरख्यापार मेदसाधारणै- र्ज्ञानादिभिः परत्वम्, आश्रितरक्षणैकान्तैः सौशील्यादिभिः सौलभ्यं च व्यज्यते । स्वाभाविक- शब्देन नित्यत्वमनन्याधीनत्वं चात्र विवक्षितम् ; ताभ्यां मुक्तनित्यज्ञानादिभ्यो व्यवच्छेदः । तहूलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशयत्वादवि । अनवधिकातिशयशब्दः पूर्ववत् । * पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (थे. 6-8) इत्याज्ञातं स्वाभाविकत्वं परत्वं च सर्वेषु (सर्व) गुणेषु योज्यमिति भावः । संकर्षणादिव्यूहत्रयाभिव्यक्तिक्रमेण ज्ञानादिगुणद्वन्द्वत्रिकोक्तिः । प्रत्येकं च गुणद्वन्द्वेषु पौर्वापर्यहेतुर्भगवच्छास्त्रोक्तः; यथा- बलं वीर्य तथा तेज इत्येतत् तु गुणत्रयम् । श्रमाद्यबद्यामावाख्यं ज्ञानादेरुपसर्जनम्, इति । ज्ञानमिह सर्वसाक्षात्काररूपम्, * यः सर्वज्ञः सर्ववित् (मु. 1-1-9) * सर्वदर्शी स्वाधीनोऽनादिः सर्वेश्वरः सर्वदृक् (रहस्याम्नाये) इत्यादिभ्यः । उक्तं च नाथमुनिभिः- यो वेत्ति युगपत् सर्व प्रत्यक्षेण सदा स्वतः (न्यायतत्त्वे) इति । बलं नाम श्रमप्रसङ्गरहितं सर्वधारणसामर्थ्यम् ; * एष सेतुर्विधरणः (बृह. 4-4-42) * यत्र विश्वं भवत्येकनीडम् (तै. ना. 15) * तत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम, (मैत्रायणीयोपनिषत्) * यो लोकत्रयमाविश्य बिभत्येव्यय ईश्वरः (गीता 15-17) * परमात्मा च सर्वेषामाधारः परमेश्वरः (वि. पु. 6-4-40) इत्यादिसिद्धम् । ऐश्वर्यम् * एष सर्वेश्वरः (बृह. 4:4:42) * सर्वेश्वरेश्वरः कृष्णः (वि. घ. 74-44) इत्यादिषुक्तम् अव्याहतेच्छं सर्वनियन्तृत्वम्, * अजः सर्वेश्वरः (भार. आनु. सहस्रनामाध्याये) इति च तन्नामपाठः । वीर्य सर्वोपादानत्वे, सर्वधारणे, सर्वनियमनेऽपि विकाररहितत्वम्; यथोक्तम्-* विकारविरहो वीर्य प्रकृतित्वेऽपि मे सदा (लक्ष्मीतन्त्रे 2-30) इत्यादि । शक्तिः स्वेतर सर्व [सामर्थ्य] निर्वाहिका * जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते (लक्ष्मीतन्त्रे 2-28) इत्यादिषूक्ता सर्वोपादानत्वात्मिका । यद्वा, यत् अन्यैरशक्यत्वाद- घटित्तमिव भाति, तद्धटनसामध्येरू।। तेजः अस्वाधीनता कार्यनपेक्षवन्; तदुक्तन्-* ते जस्त्वन्यानपेक्षता, इति, * सहकार्यनपेक्षा मे सर्वकार्यविधौ दि या । तेजः षष्ठगुणं प्राहुस्तमिमं तत्त्ववेदिनः (ल. त. 2-33) इति च । * न तत्र सूर्यो भाति न चन्द्रतारकं नेमा बिद्युतो भान्ति कुतोऽयमग्निः (सु. 2-2-10) * ज्योतींष्यादित्यवद्राजन् कुरून् प्रच्छादयन् श्रिया, (भारते) इत्यादि निदर्शितं ‘पराभिभवनसामध्ये तेजः केचित् प्रचक्षते’ । लोके कश्चित् स्वापाद्यबस्थायां स्वविभूर्ति न जानाति, जानन्नपि न धारयति; ज्ञात्वा घारयन्नपि न सर्वथा नियन्तुं शक्नोति; शक्तोऽपि धारणनियमनाभ्यां ग्लामो भवति ; अग्लानोऽपि न तत्सत्तास्थितिहेतुः स्यात्; तद्धेतुश्च पराधीनसहकारिसापेक्षः स्यात् ; नैवमसाविति च गुणक्रमोक्तितात्पर्यम् ।

अथ * तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत् कुक्षावन्येऽप्यन्त- निवेशिताः (षाड्गुण्यविवेके) * प्रकृष्टं विज्ञानम् (वरदराजस्तवे 15) इत्याद्युक्तषाड्गुण्यविततिरूपा आश्रितसंग्रहणरक्षणयोर्विशेषत उपयुक्ता गुणा उच्यन्ते । तत्र सौशील्यं शोभनशीलत्वम्; तच्च अत्र अतिमहीयसोऽप्यतिहीनेषु गुहगोपालादिष्वपि साध्वसप्रशमनानन्यप्रयोजननीरन्ध्रसंश्लेषस्वभावत्वम् ; यथोक्तम्-* गुहेन सहितो रामः (रामा. बाल. 1-30) * अहं वो बान्धवो जातः (वि. पु. 5-13-12) इत्यादि ।

वात्सल्यम् * शरणागतवत्सलः (रामा. सु. 21-20) इत्याद्यभिप्रेता स्वरक्षणीयतया अभिमतेषु दोषतिरस्कारिणी प्रीतिः । * दोषाणामपि गुणत्वेन दर्शनम्, इति तु अतिबादः । क्षमाकाष्ठा भूतवात्सल्य कथनेन क्षमाऽप्युक्ता भवति ; * अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्भ्यवसितो हि सः (गीता 9-30) ॥ * अपि पापेष्वभिस्ता मद्भक्ताः पाण्डुनन्दन ! । मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा (भार. आश्व. 96-46) इति चाह ।

मार्दवम् * तं विना कैकयीपुत्रम् (रामा. यु. 124-6) इत्यादि (ना) वादिन आश्रित- विरहाक्षमतया सुपवेशत्वम्, सापराधेषु शासनोन्मुखस्यापि सामप्रधानत्वं वा; यदाह- सामोपहितया वाचा रूक्षाणि परिवर्जयन् (रामा. कि. 31-8) इति ।

आर्जवम् * ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे (रामा. अर. 17-15) इत्यादिषूक्तं मनोवाक्कायव्यापाराणां मिथःसंवादित्वम्; तेन संश्रितेषु विप्रलिप्सानुदयः ।

सौहार्दम् * सुहृदं सर्वभूतानाम् (गीता 5-29) * उरसा प्रतिजग्राह पार्थं संछाय माधवः (भार-द्रोण 28-17) इत्यादिप्रसिद्धं सामान्यतो विशेषतश्च हितैषित्वम् । तच्च विषयभेदात् कचित् * एष एवासाधु कर्म कारयति तम् (कौषी. 3.9) इत्याद्युक्ताघोनिनीषया न विरुध्यते ।

साम्यम् – जातिगुणवृत्त । दिनिनोन्नतत्वानादरेण सर्वैराश्रयणीयत्वम्; यथा- शबर्या पूजितः सम्बक (रामा. बाल. 1-58) * धन्योऽइमर्चयिष्यामीत्याह मास्योपजीवनः (भागवते) इत्यादि ।

अत एव हि समोऽहं सर्वभूतेषु (गीता. 9-29) इत्याह। एतेन स्वतोऽपक्षपातित्वम्, आश्रितेषु यथाई मादरसंभावनाक्रम वैषम्बरहितत्वं च सिध्यति यथाकर्मफलदायिन ईश्वरस्य आश्रयणोपाधिक- पक्षपातोऽपि समत्याविरोधी ।

कारुण्यम् अनुद्दिष्टत्वपयोजनान्तरा परदुःखनिराकरणेच्छा । * परदुःखदुःखित्वादिकं तु न लक्षणम्, अध्याप्तेरतिव्याप्तेश्च । सर्वपशासितुः सापराधनिग्रहस्यापि शास्त्रसिद्धत्वात् तदबिरोधेन कारुण्यं नियन्तव्यम्, लोकेऽपि तथैव व्युत्पत्तेः ।

माधुर्य क्षीरवदुपायभावेऽपि स्वादुत्वम्; तच्च माधुर्य परम्, इत्यादिषूक्तम्। द्वेषवतां जिषांसितानामपि दृष्टिचित्तापहारित्वेन रसावहत्वं वा; येन शिशुपालस्य तादृशी चरमदशा, अनन्यमनसाम् * मच्चित्ता मद्भतपाणाः (गीता 10-9) इत्यायुक्तावस्था च । वधोद्योगप्रदर्शनेऽपि हि सौम्यत्वम् * एधेहि फुलाम्बु जपत्त्रनेत्र ! (भार. भीष्म, 59-98) इत्यादिषु प्रसिद्धम् ।

गाम्भीर्य भक्तानुग्रहयदान्यत्वादे। मूलतो दुरवगाहत्वम्; आश्रितापराधेषु प्रतिग्रहीतृ- निकर्षादिषु च सत्तोऽपि स्वज्ञानस्य गोपनेन दुर्ज्ञानत्वं (दुर्भहत्वं) वा। तद‌भिप्रायेण हि सर्वज्ञस्यापि अविज्ञात्त्बोक्तिः ।

औदार्य पात्रलाघवं देयगौरवं च अनाहत्य दायविभागन्यायेन प्रत्युपकारादिनिरपेक्ष वितरणरसिकत्वम्, प्रभूतं दत्त्वाऽप्यतृप्तत्वं च । अत एव द्यर्थिनः सर्वान् स्वयमुदारानाह ।

चातुर्यम् रक्षणीयेषु * जनयन् प्रत्ययं तदा (रामा. बाल. 1-65) इत्यादिप्रसिद्धमति- शङ्का शमनदोषगोपनादिरूपमनडकियत्वम्; येन विभीषणसुमुख। दिषु विरुद्धानप्यनुकूल्यति, शुभा- श्रयस्वाकारप्रदर्शनाय यत्नोपायैर्विषयवैराग्यादिकं च जनयति ।

स्थैर्य शरणागतसंग्रहे दोषप्रदर्श कैरन्तर गैर प्यकम्पनीयत्वम्; तथा चाइ- मित्रभावेन संप्राप्त न त्यजेय कथंचन (रामा. यु. 18-8) इत्यादि ।

धैर्यम् अध्यहं जीवितं जहां त्वां वा सीते। सलक्ष्मणाम् (रामा. अर. 10-19) इत्यादिपूक्तमत्यन्ता भिमत वियोगप्रसङ्गेऽप्यभिन्नप्रतिज्ञत्वम् । भीष्माद्याश्रितप्रतिज्ञारक्षणाय स्वप्रतिज्ञा- भङ्गेऽप्ये (ऽपि) तादृशप्रतिज्ञा सिद्धिः; अत एव द्यौः पतेत्, पृथिवी शीर्यत्, हिमवान् शकलीभवेत् । शुष्येत् तोयनिधिः कृष्णे । न से मोघं बचो भवेत्, (भारते उद्यो. 81-48) इत्यादिभिरविरोधः । व्यत्ययेन वा स्थैर्यधैर्ये व्याख्यातव्ये । अतर्कितोपनतेऽपि बलवति प्रतिपक्षे साबज्ञदृढचित्तत्वं वा धैर्यम्; यथाऽऽहुः- कपोले जानक्याः (हनुमन्नाटके 1-19) इत्यादि । जीवत्यपि महाबले रावणे सागरेऽप्यलङ्घिते विभीषणमभिषिञ्चता दर्शितोऽयं गुणः ।

शौर्यम् असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थ्यम्, यथा-जनस्थान- युद्धमूलबलनिबर्हणा (निरसना) दिषु ।

पराक्रमः प्रविष्टस्य परसैन्ये * छिन्नं भिन्नं शरैर्दग्धम् (रामा. यु. 93-22) इत्याद्युक्तो व्यापारः । * अभियाता प्रहर्ता च (रामा. बा. 1-30) इत्याद्युक्ताविमौ द्वौ गुणौ आश्रितविरोधि- भङ्गाथौं; धैर्यादयस्त्रयो वा ॥

अश्रेष्ठप्रापणार्थों गुणावाह-सत्यकामसत्यसंकल्पेति ॥ इह एतौ [शब्दौ] भावप्रधानौ, कर्मधारयवृत्तौ वा । काम्यन्त इति कामाः। स्वेन स्वाश्रितैश्च भोग्या विद्युतयः; ते च सत्याः नित्या इत्यर्थः । * अमिथ्याभूतकामत्वम् अप्रतिहतेच्छत्वं, च नैरर्थक्यपुनरुक्तिभ्यां नात्र विवक्षितम्। सत्यसंङ्कल्पत्वं खावताराद्यपूर्वभोग्यान्तरसृष्टो जगद्व्यापारमोक्षप्रदानादिषु च अमोषसङ्कल्पत्वम् ; तेन तत्सङ्कल्पादभिमतलामे निःसंशयत्वं स्यात् ॥

उक्तगुणवर्गादधिकोपकारकं गुणद्वयमाह-कृतित्वकृतज्ञतेति ॥ कृतमिह उपकारः, कृतज्ञादिशब्दे तथा दृष्टेः; तद्वत्त्वं कृतित्वम् उपकर्तृत्वमित्यर्थः । यथा, अभिषिच्य च लङ्कायाम् (रामा. बाल. 1-85) इत्याद्युक्तमाश्रितकार्यपूरणेन कृतकृत्यत्वम्; कर्तव्यशेषरहितेषु कृतशब्दप्रयोगात् । * न मे पार्थास्ति कर्तव्यम् (गीता. 3-22) इत्याद्युक्तं विहितानुष्ठाननैरपेक्ष्य धर्मप्रवर्तनार्थानुष्ठानत्वं वा विवक्षितम् ; तेनापि परोपकारार्थमेव प्रवृत्तत्वमुक्तं भवति; श्रूयते च- * न कर्मणा वर्धते नो कनीयान् (तै. आर.) इति; तथा च श्रुत्यन्तरम् – * स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् (बृह. 6-4-22) इति । अथवा * आदिकर्मणि क्तः (पा. सू. 3-4-71)। कृतं कर्तव्यत्वेनोपक्रान्तम् आश्रितानां यद्धितम्, तत् सर्व पूर्वमेवानेन प्रयोजककर्जा प्रारब्त्रमित्यर्थः । स्वेन कृतं परोपकारं प्रत्यपि स्वस्यैव शेषित्वं वा कृतित्वम् ।

कृतज्ञता परैः कृतस्यानुकूल्यलवस्य पश्चात् तैरनन्तापकारकरणेऽपि स्वयं च अनन्तप्रत्युप- कार करणेऽपि अक्कृतप्रत्युपकारवत् तदनुबन्धिपर्यन्तसंरक्षणाय तस्यैवानुदर्शनम्; यथोक्तम्-* न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथंचिदुपकारेण कृतेनैकेन तुष्यति (रामा. अयो. 11-1) इति । * गोविन्देति यदाक्रन्दत् [कृष्णा मां दूरवासिनम् ] (भार. उद्योग. 47-23) * त्वदङ्घि- मुद्दिश्य (स्तोलरत्ने 28) इत्यादि च । एतेन संश्रितानां पश्वाद्दोषसंभवेऽपि हितैषिणः शिक्षणमात्र- प्रवृत्तत्वं सिध्यति । अथवा, अर्थिषु नियमान्तरानुसारेण स्वकृतं तादात्विकपत्याख्यानमक्कृत्यवज्जा- नातीति कृतज्ञः ; यदृचे – * शिरसा याचतस्तस्य वचनं न कृतं मया (रामा. यु. 24-21) इति । इदं च प्राप्तावसरे भरतस्येवापेक्षा (ऽपेक्षित) पूरणाय स्यात् ।।

आदिशब्देन * आनृशंस्यमनुक्रोशः (रामा. सु. 38-41) इत्यादिप्रसिद्धसर्वगुणसंग्रहः । असंख्येयशब्दः * यथा रत्नानि जलधेरसंख्येयानि पुत्रक ।। तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः (हि चक्रिणः) (बामनपुराणे 4-40) इत्यादिवचनस्मारकः । आश्रितविरोधिनिरसनार्थतया कोषा- देरपि कल्याणगुणशब्देन संग्रहः । * चतुर्मुखायुयेदि कोटिवक्लः (वराह. 78-35) * वर्षायुतैर्यस्य गुणा न शक्याः (भार. कर्ण. 91-17) इत्यादिप्रसिद्धापरिच्छेद्यगुणानन्त्यं तापत्रयप्रशमनत्वे दुश्वगाहत्वं च व्यनक्ति-गुणगणौध महार्णवेति ॥ एकैकगुणस्य अवान्तराने कगुणगर्भत्वं गण- शब्देन व्यज्यते । गुणगणा एव ओघाः जलप्रवाहाः, तेषां महार्णव इवायमेकाश्रयभूत इति भावः ॥

खोचितविविधविचित्रानन्ताश्चर्य नित्यनिरवद्यनिरतिशय सुगन्धनिरतिशयसुखस्पर्श- निरतिशयौज्ज्वल्य किरीटमक्कुट चूडावतंस मकर कुण्डलमैत्रेय कहार केयूर कटकश्रीवत्स कौस्तुभ मुक्तादामोदरवन्धनपीताम्बरकाञ्चीगुणन् पुराद्यपरिमित दिव्यभूषण !

अथ स्वरूपस्य विग्रहवत् गुणवच्च विग्रहस्य शोमातिशयहेतुभूतानि भूषणान्युच्यन्ते – स्वोचितेति ॥ उक्तस्वरूपरूपगुणवतः स्वस्यानुरूपत्वं स्वोचितत्वम्। किरीटत्वादिभेदस्य तत्तत्स्वरूपो – पादानसिद्धत्वात्, आश्चर्यत्वस्य पृथगुक्तेश्च विविधविचित्रशब्दौ हेमरलमुक्तादिमयत्वेन तत्तदवान्तर- शिल्प विशेषै (मेदै) श्च प्रत्येकं वैषम्यं ब्रूतः । अनन्तशब्दश्च आश्वर्यविशेषकः । असंख्येयत्वविवक्षायाम् अपरिमितशब्दः पृश्रुतरत्वपरः । नित्यनिरवद्यत्वाभ्यां प्राकृतभूषणव्यावृत्तिः; * स्रग्वस्त्राभरणैर्युक्तम् (पौष्करसंहिता) इति हि नित्यं रूपं प्रतिपाद्यते; सर्वदा निरवद्यत्वेन वा कादाचित्कावद्यशङ्का- व्युदासः । सर्वगन्धस्यापि दिव्यरूपस्य आमोदातिशयहेतुतया निरतिशयसुगन्धत्वम् । अनभिमत- काठिन्याद्यभावात् निरतिशयसुखस्पर्शत्वम्। सूर्यादितेजोऽभिभावक दिव्य विग्रह तेजसाऽप्यनभिभूतत्वात् निरतिशयोज्ज्वल्यत्वम् । कर्णिकामकुटव्यावृत्त्या सर्वाधिपत्यसूचनार्थ किरीटशब्देन मकुट- विशेषणम् ; घारकपुरुष मेदेन हि मकुटद्वैविध्यं शिल्पशास्त्रादिप्रसिद्धम् । यद्वा (अथवा) * नाकुण्डली नामकुटी (रामा. बाल. 6-10) इति प्रयोगात् शिरोभूषणमात्रे मकुटशब्दः । अथवा, किरीटस्योर्ध्वमागो मकुटशब्देनोच्यते । मकरसंनिवेशं कुण्डलं मकरकुण्डलम् । अविभक्तलक्षण रूप- स्यापि श्रीवत्सस्य भूषणसमानत्रया भूषणत्वोक्तिः । तादृशपृथक्संस्थानयोगाच्च, भूषणदेवताध्याने (ध्यानेन) तदभिव्यक्तिः। मुक्तादामानि एकावलीत्रिसरादीनि । पीताम्बरस्य भूषणतयोक्तिः शोभाति- शयहेतुत्वमहार्घत्वाद्यभिपाया; यथा- अतसीपुष्पसंकाशः पीतवासा जनार्दनः । व्यआजत सभामध्ये हेम्नीवोपचितो मणिः (भार. उद्यो. 94-65) इति । आदिशब्देन हस्तबन्धाङ्गुलीयकादिसंग्रहः । उक्त गुणोत्कर्ष हेतुभू नद्रव्य वै लक्षण्यज्ञापनाय भूषणायुधयोर्दिव्यशब्दः ॥

स्वानुरूपाचिन्त्यशक्तिशङ्खचक्रगदाऽसिशाङ्गाद्यसंख्येयनित्यनिश्वद्यनिरतिशय – कल्याणदिव्यायुध !

एवमाश्रितानामनुभवार्थानि भूषणान्युक्त्वा तदनुभवतद्रक्षणयोरुपयुक्तानि दिव्यायुध। न्याह- स्वानुरूपेति ॥ पूर्वोक्त विग्रहादिविशिष्ट । पेक्षया स्वशब्दः । तत्तदानुरूप्यं यथोचितं ग्राद्याम् । सर्वेषामायुधानां सर्वायुषकार्यशक्त (कर) त्वात् अचिन्त्यशक्तित्वोक्तिः । कुठारटङ्ककुद्दालादि कार्य सालशैलवसुधातलभेदन मेकेन हि शरेण कृतमुच्यते * बिमेद च पुनः सालान् (रामा. बाल. 1-67) * सहायकृत्यं किं तस्य (रामा. कि. 36-8) इत्यादिभिः । यद्वा, नित्यसूरिसमाविष्टतया तदिच्छानुगुण विचित्र कार्यसामर्थ्यमिह विवक्षितम्; उक्तं च उत्तरश्रीरामायणे (109-7)-* शरा नानाविधाश्वापि धनुरायत विग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविप्रहाः, इति । चक्रस्य हेतिराजत्वेऽपि शङ्खस्य पूर्वोक्तिः, सर्वशक्तेर्भगवतो मोक्षप्रदानशक्तिसूचकतया अभ्यर्हितत्वाभिप्राया; यथोक्तं परमसंहितायाम्-* सृष्टिबीजं तथा पद्म, चक्रं स्थितिनिबन्धनम् । गदा संहारबीजं तु, शङ्ख मुक्तिनिबन्धनम् ॥ इति। एवमन्यत्रापि । अत्र पश्चानां कण्ठोक्तिः प्राधान्यात् । पश्च्चायुवानि पञ्चभूतशक्तिरूपाणीति भा [रते] गवते प्रोक्तम्। अस्त्रभूषणाध्यायादिषु (वि. पु. 1-22 अ.) तु महदादितत्त्वरूपाणीति; तदुभयं तात्पर्थभेदाद‌विरोधेन नेयम् । आदिशब्देन हलमुसला दिसंग्रहः । सहस्रभुज विश्वरूपादिविद्महेष्वायुधानामसंख्येयत्वम् * अनेकदिव्याभरणं दिव्याने कोद्यतायुधम् (गीता 11-10) इत्यादिभिः सुव्यक्तम् । नित्यनिरवद्यत्वं पूर्ववत् । शुभलक्षणपौष्कल्यात्, आभरण- कोटावपि निविश्य शोभातिशयहेतुत्वात्, अनुकूलतमस्वभावत्वात्, मुमुक्षुध्येयविग्रह विशेषणतया मोक्षोपयोगित्वाच्च निरतिशयकल्याणत्वम् ।।

स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशया – संख्येय कल्याणगुणगणश्री वल्लभ !

अथैव विधभूषणायुधादिविशिष्टस्य निरुपाविकभोग्यस्य भर्तुः प्रधानभोक्तृत्वेनावस्थिता देवीः प्रतिपादयन् प्रथम व्याख्येये प्राप्यपापकदशयोर्नित्यान्वितत्वेन निर्दिष्टां श्रियमादरातिशया- दुक्तप्रकारविशिष्टत्वे प्रमाणद। यद्योतनाय पूर्ववत् पुनराह-स्वाभिमतेति ॥ श्रियो बल्लभ इति बिग्रहे * नित्यानुकूलं स्वतः (चतुःश्लोकी 2) इत्यादिप्रसिद्धस्वभावायाः श्रियोऽप्यसौ नित्यनिरतिशयभोग्य इति दर्शितं स्यात् । श्रीः वलमा यस्येति विग्रहे तु, प्रियतमया तया निवेदितं न प्रत्याख्यातीति फलति । ईडशं चाभिमतत्वम् न जीवेयं क्षणमपि विना तामसितेक्षणाम् (रामा. सु. 66-10) * न त्वहं तां बिना सीतां जीवेयं हि कथंचन (रामा. आर. 62-17) * कञ्चिन्न तद्धेमसमानवर्णम् (रामा. सु. 36-28) * कुशली यदि काकुत्स्थः (रामा. सु. 36-13) * मत्कृते काकमात्रे तु (रामा. सु. 38-39) * यदि रामः सनुदान्ताम् (रामा. सु. 16-13) * दुष्करं कृतवान् रामः (रामा. सु. 15-53) इत्यादिभिस्तात्वर्थवृत्त्या व्यज्यते ॥

एवंभूतभूमिनीलानायक !

नित्यनियतप्राधान्य तारतम्यक्रमेण श्रिया सह एकासनस्थे देव्यौ तच्छायासंकाशतया दर्शयति-एर्वभूतेति ॥ तदाहुः- देवि ! त्वामनु नीलया सह मही देव्यः सहते तथा (श्रीगुण- रलकोशे 26) इति । * उपदिश्यमानधर्माधार। दतिदिश्यमानधर्माधारस्य स्वतः प्राप्तवैषम्या बिरोधेन साम्य व्यवस्थाप्यम् । पररूपेऽपि देवीत्रयसम्बन्धः प्रमाणसंमतः / यथोक्तं बलपौष्करे – * देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तु चाखिलैः ॥ शङ्खचक्रधरो नित्यं जानुन्यस्तै कहस्तवान् । अभयप्रदहस्तश्च नीलजीमूतसंनिभः ॥ ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलप्रदः ॥ इति । नित्यग्रन्थोक्तध्याने तु* नागभोगे विन्यस्तवामभुजम्, इत्येतत् संहितान्तरमूलम् । एतेन वर्णसुजादिविप्रतिपत्तिरपि निरस्त।। अचिन्त्यशक्तेरीश्वरस्य स्वच्छन्दवृत्तेः परसंज्ञितरूपेऽपि तत्तत्पत्तिपत्त्यर्थे तत्तत्संहितोक्ता विशेषा नान्योन्यं बाधमर्हन्ति । यथा नरसिंहरूपे सप्तसप्ततिमेदाः; यथा च कृष्णरूपाण्यनन्तानि (पाश्चरात्रे) इत्युच्यते । एवं परव्यूहादिष्वपि यथोपदेशं सर्वस्य सत्यत्वम् । गीयते (11-5) च पश्य मे पार्थ। रूपाणि शतशोऽथ सहस्रशः, इति । कचिद्वल्लभतया कचिन्नायकतया निर्देशस्य तत्तद्देव्यनुगुणं तात्पर्य ग्राह्यम् ।

स्वच्छन्दानुवर्तिस्वरूपस्थितिप्रवृत्ति मेदाशेषशेषतै कर तिरूपनित्यनिरवद्यनिरतिशय- ज्ञानक्रियैश्वर्याद्यनन्तकल्याणगुणगणशेषशेषाशनगरुड प्रमुखनानाविधानन्तपरिजनपरि चारिकापरिचरितचरणयुगल !

एवं देवीपर्यन्तैराग्रेडितातिशयस्य परमभोग्यस्यारण्यचन्द्रिकात्वव्युदासाय नित्यभोक्तवर्ग- माह-स्वच्छन्देति ॥ सूरयो हि स्वाम्यभिमतं स्वयं साक्षात्कृत्य, आत्मात्मीय सर्वं तदर्थ विनियुज्य तमनुवर्तन्त इति ज्ञापनाय स्वच्छन्दानुवर्तीत्युक्तम् । स्वशब्दः पूर्वोत्तरवदीश्वरविषयः । स्थितिरिह स्वरूपस्य सर्वकालानुवृत्तिः । प्रवृत्तिः एषां कैंकर्यरूपो व्यापारः । स्वरूपादीनां मेदः तत्तत्प्रतियोग्य- पेक्षया विलक्षणव्यवहारहेतुभूत आकारः । अशेषेत्यादिकं व्याख्यातम् । स्वरूपनित्यत्वे सर्वात्म- साधारणेऽपि सूरिषु विशेषत उक्तेन सदा (सर्वदा) सर्वज्ञत्वलक्षणेन नित्यत्वेन मुक्तव्यावृतिः; नित्य- निरवद्यतया वा; निरवद्यत्वं हि दुःखादिदोषगन्धरहितत्वम् । यथोक्तम्-* इताखिलक्लेशमलैः स्वभावतः (स्तोत्ररले 41) इति । ज्ञानादिविशेषणं वा नित्यनिरवद्यत्वम्; तेन कैङ्कर्ये स्वाधीनस्वार्थ कर्तृत्व- भोक्तृत्वभ्रमराहित्यसिद्धिः । ज्ञानस्य निरतिशयत्वमीश्वरज्ञानवत् सर्वविषयत्वम् । क्रियाथा ऐश्वर्यस्य च निरतिशयत्वं कैङ्कर्यमात्रे स्थाप्यम् । सर्वविषयत्वे तु परवत् सर्वशरीरत्वादिप्रसङ्गः । अत एव [हि] * शक्तानामपि जगद्यापारेषुदासीनत्वम्, इति आपातास्तिकपक्षोऽपि निरस्तः । प्रवृत्तिशब्देन क्रियायाः पृथ‌निर्दिष्टत्वादत्र क्रियाविषयमैश्वर्यमिति वा योज्यम् । तदप्येषां परार्थ पराधीनं च । आदिशब्देन कैंकर्यानुगुणबलवीर्यादिसंग्रहः । तत्तत्सेवा विशेष नियता संख्यातावान्तरेच्छादिवैचिच्याभिप्रायेण अनन्तगुणगणशब्दः । शेषादीनां विशेषाः * तया सहासीनम्, (स्तोत्र. 39) इत्यादिश्लोकेषु द्रष्टव्याः । आसनवाहनसेनेशद्वारपालादिमेदेन नानाविधत्वम् । अनन्तत्वमिह असंख्यातत्वम् । इह परिजनाः छत्त्रधारकादयः। परिचारिकाः अनुग्रहाविमलाद्याः, तथा कान्ति- वारुणीसूत्रवतीरुद्रासुकीर्तिप्रभृतयः शेषादिपत्न्यः; ता अपि हि तेषां यथाई सान्तः पुरस्वा मिसेवा- विशेषार्था एव । एवम् गुणैर्दास्यमुपागतः (रामा. कि. 4-12) इति न्यायेन स्वामिविग्रहगुणैरपि कैंकर्ये प्रेरितत्वमित्यभिप्रेत्याह–परिचरितचरणयुगलेति ॥

परमयोगिवान नसा परिच्छेद्यस्वरूपस्वभावस्वाभिमतविविधविचित्रानन्तभोग्यभोग- स्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्य निश्वद्य निरतिशयश्रीवैकुण्ठनाथ !

एवं नित्यविग्रहादियुक्तस्य नित्यसूरिसेव्यस्य मुक्तगम्य निवासस्थानमाह-परमेति ॥ * परमयोगिवाध्यनसाप रिच्छेद्यस्वरूपस्वभाव, इति संबुद्धयन्तं केचिद् व्याचक्षते; तदा पूर्वोक्तानां सर्वेषां परत्वसौलभ्योपयोगित्वज्ञापनाय तदुभये स्वरूपस्वभावशब्दाभ्यां विवक्षितम् ; स्वरूपनिरूपकं निरूपितस्वरूपविशेषकं चेति धर्मवर्गद्वये वा । एवं सति पूर्वोक्तमेव मुखान्तरेणानवसरे निगमितं स्यात्; इतो बरमनुक्त परमव्योमप्रकर्षकथनम् । तथा च तद्विशेषणतयैव सप्तम्यन्तत्वेन श्रीवैकुण्ठगद्येऽप्येतत् पठितम् । परमयोगिनः साक्षात्कृतपरब्रह्मस्वरूपाः श्वेतद्वीपवासिनः ; * ये तु मुक्ता भवन्तीह नरा भरतसत्तम ।। तेषां लक्षणमेतद्धि यच्छेतद्वीपवासिनाम् (भार. शा. 335-14) इति हि स्मर्थते। परमव्योन्नः स्वरूपं शुद्धसत्त्वमयम्। तमसः परस्यापि परमव्योमस्वरूपस्या- परिच्छेद्यत्वमूर्ध्वादिमागेन व्यवस्थाप्यम् । तत्स्वभावो भोग्यतमत्वादिरूपः । विविधशब्दो भोग्यप्रभृतिषु त्रिष्वप्यन्वेतव्यः । भोग्यम् अप्राक्कृतं स्वाश्रयं शब्दादि । तदुपस्थापकतया स्वीकृतानि भोगोपकरणानि । भोगस्थानानि क्रीडा पर्वतादीनि । स्वरूपगुणसंस्थानादिवैचित्रयातिशयेन नित्यनपूर्ववदनुमाव्यतया अनन्ताश्वर्यत्वम्। प्रत्येकं महद्भिरसंख्यातैश्च रत्नभूषण भद्रासना दिभिर्योगात् अनन्तमहाविभवत्वम्; पर्यङ्कविद्यादिषु हि विचित्रनदीहृदसभादिविशिष्टं मुक्तगम्य स्थानमुपदिश्यते । * सहस्रस्थूणे विमिते दृढ उभे यत्र देवानामधिदेव आस्ते (जैमिनीयब्राह्मणे 4-884) इति च तलवकारा अधीयते । पूर्वोक्तापरिच्छेद्यत्वे हेतुरनन्तपरिमाणत्वम् । अनित्यसावद्यस्थानान्तख्यवच्छे- दार्थमिह नित्यनिश्वद्यत्वोक्तिः । अत्र पश्चोपनिषत्प्रतिपाद्यानां भूतानां तत्संघातरूपाणां च केषांचित् भगवन्नित्येष्टत्वेन नित्यत्वमविरुद्धम् । त्रिगुणवत् कर्मिणां भगवत्त्वरूपतिरोधाना दिहेतुत्वाभावात् निरवद्यत्वम् । निरतिशयत्वं स्थानगुणैः सर्वैः सर्वस्थानातिशायित्वम् । यथोक्तं महाभारते (शा. 196-4)-* रम्याणि कामचारा (री) राणि विमानानि सभास्तथा, इत्युपक्रम्य, एते वै निरयास्तात ! स्थानस्य परमात्मनः (भार. शा. 196-6) इति, * आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति । ईदृशं परमं स्वाने निरयास्ते च तादृशाः (भार. शा. 96-11) इति च । * कुठि गतिप्रतिघाते, इति घातुः। गतिश्वगतिः । शानपतियातककर्ममसङ्गरहिता नित्यपुर यो विकुण्ठाः, तैः संबन्धादत्र वैकुण्ठ- शब्दोऽपाकृतस्थानपरः ; * विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः । सोऽध्वनः पारमा मोति तद्विष्णोः परमं पदम् (कठ. 1:8-9) ॥ इत्यादिभिस्तत्सिद्धिः । अत्र हि व्यतिरेकविभक्तिस्वारस्यात् परमे व्योमन् (तै. आर. 2-8-9-6) इत्यादिभिरैकार्थ्याच्च परमपदशब्दों न परमात्मस्वरूपपरः। * नाकस्य पृष्ठमारुह्य गच्छेद् ब्रश्ातलोकताम्, * दिव्यं स्थानमजरे चाप्रमेयम् (मार. मौस, 5-27) एकान्तिनः, इत्यारभ्य तेषां तत् परमे स्थानं यद्वै पश्यन्ति सूरयः (वि. पु. 1-6-39) इत्यादिभिः स्थान- विशेषस्य स्पष्टोक्तेः । न चैतेषामण्डान्तर्वर्तिभगवलोकविषयत्वम्; तदन्तर्वर्तिनां सर्वेषामुत्पति- विनाशश्रवणात्, एतस्य च नित्यत्वाक्षरत्वाजरत्वोक्तेः, अण्डे मित्वा तथोद्वता (लक्ष्मीतन्त्रे) इत्यादिभिरण्डबहिर्भूतत्वसूचनाच । तथा दर्वाचां सुबालोपनिषदि प्रलयप्रतिपादनात्, मुक्तगतौ शीर्षकपालप्रभृति तमः पर्यन्तं तत्त्वमेदेन तथाऽपि त्रिगुणान्तर्भावोऽस्त्विति चेत्, न; तमस्तत्त्वा- गन्तव्यदिव्यदेशाभिधानात्, * आदित्यवर्णं तमसः परस्तात् (उत्तरनारायणानुवाके) * तमसः परमो बाता शङ्खचक्रगदाधरः (रामा. यु. 118-15) इत्यादेश्ध। नाथः ईश्वरः। * नाथू नाधु याच्छो- पतापेश्वर्याशीःषु, इति नाथतेरैश्वर्थार्थत्ववचनात् तस्मिन् दिव्यदेशे मगबत ऐश्वर्य स्वेनाप्य- पहोतुमशक्यमिति भावः ॥

स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिस्वशेषतैकस्वभावप्रकृतिपुरुषकालात्मकवि- विधविचित्रानन्तभोग्यभोक्तृवर्गभोगो पकरण भोगस्थानरूप निखिलजगदुदयविभवलयलील !

एवं नित्यविभूतियोग उक्तः। अथ तत्प्रतिद्वन्द्विलीला विभूतियोगं बदन् * कारणं तु ध्येयः (अथर्व.) * यो ब्रह्माणं विदधाति पूर्वम् (श्वे. उ. 6-18) इत्यादिप्रसिद्धस्य मुमुक्षुसमाश्रयणीयस्य यतो वा इमानि भूतानि जायन्ते (तै. भृ. 1) * जन्माद्यस्य यतः (ब्र. सू. 1-1-2) इत्याद्युक्तं लक्षणमप्याह- स्वसंकल्पेति ॥ वद्धानामीश्वरा भिमतापरिज्ञानेन प्रायशः प्रवृत्तिरिति ज्ञापयितुम् अचित्समभिव्याहारेण सर्वचिदचित्साधारणं संकल्पानुविधायित्वमुक्तम् ; प्रकृत्यादीनां स्वरूपस्थित्योरीश्वर नित्येच्छावशेन नित्यसिद्धत्वमिहाभिप्रेतस्; प्रवृत्तिषु तु संकल्प- जन्यत्वम् । प्रक्कृतेः स्वरूपं त्रैगुण्येन निरूप्यम्; संसारिपुरुषस्य तु संकुचितज्ञानत्वेन; कालस्य तु कला मुहूर्तादिमयत्वेन ; त्रयाणां स्थितिः पूर्ववत् । प्रवृत्तिः व्यापारः । अत्र प्रकृतिग्रहणं प्राकृता- नामप्युपलक्षणम् । तेन नारायणशब्देन नराज्जातानि (तत्त्वानि) (भार, आनु. 186-7) इत्यायुक्तनिरुक्तिः सूच्यते। प्रकृत्यात्मकजगदुक्त्या वा कार्यत्तत्त्वसंग्रहः । लीलाविभूतेरशेषत्वान्यशेषत्व- भ्रमसंभवस्थानत्वात् तदपनोदनाय अत्र स्वशेषतैकस्वभावत्वमुक्तम् । शेवत्वस्य शरीरलक्षणत्वसिद्धचै यावत्सत्ताकत्वमिह विवक्षितम्; तथा निरुपाधिकान्यशेषत्वराहित्यं च । अत्र शरीरस्वभावेष्वाधेयत्वा- दिषु संकल्पानुविधायित्वोक्त्या नियाम्यत्वं शाब्दम् । आधेयत्वमप्यभिप्रेत्तम्। प्रकृत्यात्मकत्वं भोग्य-भोगोपकरणादौ । समष्टिव्यष्टिपुरुषविभागरूपतया पुरुषात्मकत्वं भोक्तूबर्गे । अत्र भोक्तृत्वं कर्मों- पाधिकम् । परमपदे तु निरुपाधिकभोक्तृणां सतामप्यनुक्तिस्तत्रत्यानां स्वाधीनस्वार्थभोक्तृत्वश्रम- राहित्याभिप्रायेण । क्षणलवादिषु कालावच्छेदेषु कालात्मकत्वम् । तेषां जगच्छब्देन ग्रहणम्-अभूत्, अस्ति, भविष्यतीत्यादिरूपेण जगद्विशेषणत्वप्रतीत्यनुसारात् । व्याप्तस्यापि कालस्य लीलाविभूतिमात्रे पठनम् * कालं स पचते तत्र न कालस्तत्र वै प्रभुः (भार. मोक्ष. 196-9) * कला मुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः (बि. पु. 4-1-84) इति नित्यविभूतेरकालकाल्यत्वज्ञापनार्थम् । तत्र तत्तदनित्यसद्भावेऽपि लीलाविभूतिवत् कालनियमो नास्तीति बिशेषः । भोग्यप्रभृति सबै प्रत्येकं विविधम् । तत्तदवान्तरविशेषविवक्षया विचित्रत्वोक्तिः । आश्चर्यतया वा ; * जगदेतन्महाश्चर्य रूपं तस्य महात्मनः (वि. पु. 5-11-7) इति बुच्यते। एकैकवर्गव्यक्तीनामसंख्यातत्वादनन्तत्वम् । भोग्य- भोगोपकरणादीनि पूर्ववत् । प्राक्कृतत्वादिरिह विशेषः । भोगश्चात्र सुखदुःखानुभवात्मकः । महदा- दीन्यनन्तब्रह्माण्डादीनि च संगृह्णता निखिलशब्देन कतिपयजगत्कारण [त्वभयोजक] विरिष्यादिव्या- वृत्तिः । निखिलजगदुदयादेरेकैकस्यैव ब्रह्मलक्षणत्वे संभवत्यपि व्यष्टिसृष्टद्यादिनीत्या संभवन्तीं भिन्न- कर्तृकत्वादिशङ्कां निरसितुमिह त्रितयोक्तिः । जगन्निष्ठानामुदयविभवलयानां परमपुरुषलीलात्वोक्तिः सर्व- शरीरतया तत्तद्विशिष्टरूपेण तत्तदवस्थो भवतीत्युपादानत्वसूचनार्था । परिपूर्णतया प्रयोजननिरपेक्षस्य कथं जगव्यापार इति शङ्कानिरसनाय लीलाशब्दः । * क्रीडतो बालकस्येव (वि. पु. 1-2-18) * क्रीडा हरेरिदं सर्वम् (भार. शा. 206-59) * हरे ! विहरसि क्रीडाकन्दुकैरिव जन्तुभिः (भार सभा. 90-31) * लोकवतु लीला कैवल्यम् (ब्र. सू. 2-1-38) इत्यादिभिस्तत्सिद्धिः । लीलारूप- प्रयोजनवतोऽप्यवाप्तस मस्तकामत्वं सर्वत्रा विहतेच्छत्वम् । एवं नारायणशब्दोक्तं शरण्यत्वं यथानि- रुक्ति संबोधितम् ।

सत्यकाम ! सत्यसंकल्प ! परब्रह्मभूत ! पुरुषोत्तम ! महाविभूते ! श्रीमन् ! नारायण ! वैकुण्ठनाथ !

अथ सत्यकाम * इत्यादेः पूर्वापरपुनरुक्तिपरिहाराय * प्रागुक्तेष्वेवार्थेषु इदं समाख्याष्टकं प्रमाणीक्रियते, इति केचित् व्याचख्युः । तत्त्र चतुर्णां समाख्यात्वं व्यक्तम्। सत्यकामादिशब्दानां कथंचित् समाख्यात्वं कल्व्यम् । परब्रह्मभूतेत्यत्र तु ब्रह्मशब्दमात्रं समाख्या; अन्यथा- ऽपि नामत्वकल्पने गौरवं स्यात् । अत्र परशब्देन विशेषणं तु औपचारिकपयोगव्यवच्छेदार्थम् । सत्यकामसत्यसंकल्पशब्दौ पूर्व विशेषणमात्रपरतयोक्तौ ; इह तु तत्प्रमाणतया यथाश्रुति तत्तद्विशिष्टविषयतयेति विशेषः । लीलापदसूचितं जगन्निमित्तत्वमपि सत्यसंकल्पत्वेन स्थापितम् ; जगदुदयादिलील त्वद्योतितमुपादानत्वं तु परब्रह्मभूत इत्यनेनाभिप्रेतम्, * सर्व खल्विदं ब्रझ तज्जलान् इति शान्तः (छा. 3-14-1) इत्याद्यनुसाराव ।

एवममेदश्रुतिबलादुपादान [त्वा] त्वेनाभिमतस्य ब्रह्मणः स्वरूपपरिणामपक्षेण चिदचिङ्गतसर्व- दोषान्वयः शङ्क्येतेति तत्परिहाराय खयमेव गीतं श्रुत्यर्थमाह-पुरुषोत्तमेति ।। अत्र पश्चम्यादि- विभक्तित्रयेऽपि समासो द्रष्टव्यः ।

नन्वेवं भेदाभेदश्रुत्योर्विरोधादन्यतरबाधः स्यादित्यत्र घटकश्रुतिसिद्धमाह-महाविभूते इति । विभूतिशब्दोऽत्र नियन्तव्यपरः । * यदण्डम् (स्तोत्र. 17) इति श्लोकार्थ इद्द। नुसंधेयः । शरीर- तया विभूतित्वादत्र स्वरूपसेदेऽपि सामानाधिकरण्यं मुख्यमिति भावः । एवं सर्वविलक्षणस्य सर्व- नियन्तुर्जगद्व्यापारलीलायां स्वबल्लभासामरस्यमभिप्रेत्याह-श्रीमन्निति ॥ * विमूर्ति प्रति शेषित्वं द्विष्ठ मित्यभिप्रयन् (पायेण) आइ-श्रीमन्निति, इति व्यासार्याः । विभूतीनामाधेयत्वादिनियमैः शरीरत्वं व्यञ्जयितुमाह-नारायणेति ॥ नित्यविभूतियोगं शुद्धसृष्टयुपादानत्वं च प्रभूतोपकारकत्वज्ञापनाय विशेषतः सूचयति-वैकुण्ठनाथेति ॥ इदं संबुद्धिद्वयं वा; तदा तु तत्त्वादिसाक्षात्कारप्रतिघातक- रहितदेशादिसंबन्धी वैकुण्ठः । अपेक्षितसिद्धयर्थ सर्वैरपि याचनीयस्तत्पदानादावीश्वरश्च नाथः ॥

* एतत् * सत्यकामेत्यादिपदाष्टकं प्राप्याकारनिष्कर्षार्थम् इति पक्षमपि प्रगुणी कुर्मः – * सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (तै. आन.) इति कामशब्दोदितानां ब्रह्मगुणाना – मपि प्राप्यतोक्तिमभिप्रेत्याह-सत्यकामेति ॥ प्राप्यानुप विष्ट नित्य विग्रद विभूतिद्वययोगेऽपि केचित् सत्यकामशब्दं प्रमाणयन्ति । यद्वा, मुमुक्षूणां भोक्तञ्यसृष्टेर्भागस्य च उपकरणतया मता नित्याः पदार्था अस्य सन्तीति भावः । प्राप्तिदशायां विभूतिद्वयेऽप्यपूर्वानन्तभोग्यस्रष्टृत्वमाह-सत्य संकल्पेति ॥ प्रकृष्टभोग्यतयाऽपि निरतिशयबृहत्त्वमाह-परब्रह्मभूतेति ॥ * ब्रह्म वेद ब्रह्मव भवति (मुण्ड. 3-2-9) इत्यादिभिरभेदापत्तिशङ्कां परिहरन् बद्धमुक्त विलक्षणतया कैङ्कर्योद्देश्यत्वसंभवमाह-पुरुषोत्तमेति ॥ कैङ्कर्यस्थानोपकरणादिसमृद्धिमत्त्वमाह-महाविभूते इति ॥ सपत्नीकस्य कैङ्कर्योद्देश्यत्वं सूचयति- श्रीमन्निति ॥ संबन्धगुणविमूतिव्यापारैः सर्वैरपि भोग्यत्वातिशयं प्रकाशयितुमाह-नारायणेति ॥ सूरिसेव्यविग्रह विभूतिविशिष्टस्य देवयानपथिकविश्रमस्थानत्वमभिसंधायाह-वैकुण्ठनाथेति ॥

अत्र तृतीयमपि पक्षं ब्रूमः- प्रकृतस्य शरण्यस्य स्वीकृतसर्वेभरनिर्वहणक्रमः सत्यकामा- दिभिरष्टभिः पदैरेव बोध्यते । सत्यकाम ! – काम इह प्रपन्नेभ्यो निरतिशयानन्दप्रदानेच्छा, तस्याः सामर्थ्याविनाभावात् सत्यत्वम्; तच्च अमोघत्वम् । सत्यसंकल्पोऽत्र प्रतिबन्धनिवर्तनविषयः । * सर्वपापेभ्यो मोक्षयिष्यामि (गीता 18-66) इति हि त्वमेवात्थेति भावः । परब्रह्मभूत ! निरतिशयबृहत्त्वविशिष्टस्त्वं स्वाश्रितानपि ज्ञानतो भोगतश्च परमसाम्बपर्यन्तं वृंदयिताऽसि । पुरुषोत्तम । * यो मामेवमसंमूढः (गीता. 15-19) इत्यादिना त्वद्विदां कृतकृत्यत्वोक्त्या त्वन्निर्वाहासर्वभरत्वं त्वयैव सूचितम् । यद्वा * षणु दाने, पुरु सनोतीति पुरुषः; बहुप्रदेभ्यः सर्वेभ्य उत्तमत्वात्
पुरुषोत्तमः । महाविभूते ! विभूतिरिह विभवनम् प्रभवनम्, नियमनमित्यर्थः । तस्य महत्त्वम् अपरिच्छिन्नत्वम्, संथितान् संसारकारागृहात् निर्गमय्य तदर्थतया सर्व नियच्छसीति भावः; * अनन्तो देशकालादिपरिच्छेदविवर्जितः । महाविभूत्तिरित्युक्तो व्याप्तिः सा महती यतः (पाश्चरात्रे) ॥ इत्यत्रापि नियन्तृत्वेन व्याप्तिर्विवक्षिता । श्रीमन् ! श्रिया नित्यसंयुक्तस्त्वं त्वदभिमतमाश्रितक्कृत्यं निर्वहसि । नारायण। संबन्धमनुसंधाय दायविभागन्यायेन स्वामितया स्वार्थं स्वयं स्वात्मानं प्रापयितासीति भावः । वैकुण्ठनाथ ! दिव्यपर्यङ्कसुखासिकायां निजपादमूलसेवां दातुमवस्थितोऽसि । इति त्रिष्वपि पक्षेषु मुखमेदैः पुनरुक्तिपरिहारः सिद्धः ॥

अथ शरण्यस्य समर्पितसर्वभरस्वीकरणानुगुणाः स्वस्य च अधिकारोपायनिष्पादका उक्ताश्चानुक्ताश्वाकारा अष्टादशभिः पदैर्निष्कृष्यानुसंधीयन्ते; तत्र स्वापराधस्वनिकर्षस्वहेयसम्बन्ध- स्वरक्षण विसंवादादिदोषपरिहारोपयुक्तानां गुणविशेषाणां प्रकर्षः प्रथममुच्यते-अपारेति ॥ कारुण्यस्य अपारत्वम् अवश्यदण्डनीयेष्वस्मादृशेष्वपि प्रवृत्तेः; यथा- बघाईमपि काकुत्स्थः कृपया पर्यपालयत् (रामा. सु. 38-34) इति । स्वेनाप्युक्तम् मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि (रामा. यु. 41-69) इति, * गच्छानुजानामि रणार्दितस्त्वम् (रामा. यु. 59-144) इत्यादि च । न्यूनाधि- कत्वदर्शनजनितावज्ञासाध्वसपरिहारार्थमिह सौशील्योक्तिः । तस्य अपारत्वं विशेषज्ञेषु विरिश्चादिषु विष्ण्वाद्यवतारैः, अनभिज्ञेषु च मत्स्यकूर्मादिषु तत्तत्स्वरूपैरवतारैः निर्विशेषनीरन्ध्रसंश्लेषात् । वात्सल्यस्य अपारत्वं * रिपूणामपि वत्सल (रामा. यु. 50-56) इत्युक्तम् । औदार्यस्य अपारत्वम् अर्थिपूदा रत्ववचन हेतु भूतमर्थितप्रदा ने स्वपयोजनाभिसन्धिमत्त्वम्, संश्रितेभ्यः सविभूतिकं स्वात्मानं दत्त्वा तदनुबन्धिषु पशुपनुष्यपक्ष्यादिष्वपि अविश्रान्तत्वं वा; श्रूयते हि-नास्यावर पुरुषाः क्षीयन्ते (छा. 4-12-2) इति, नास्याब्रह्मवित् कुले भवति (छा.) इति च । ऐश्वर्यस्य कथनमिहानादिकालं स्वरक्षणविपरीतप्रवृत्तान् केनचिय। जेन स्वयमेव नियम्याभिमुखीकरोतीति ज्ञापयितुम् । तस्य अपारत्वम् संसारन्यूनताभीतास्त्रिदशाः परिपन्थिनः (विष्णुधर्मे 2-25) इति न्यायेन ब्रह्मादिषु देवेषु, सुग्रीवादिषु सुहृत्यु वा वि(नि) रुन्धानेषु तानपि शरणागतानुगुणीकर्तुं समर्थत्वम् । सौन्दर्यस्य अपारत्वं विरुद्ध- प्रकृतीनां शूर्पणखादीनाम्, सत्त्वस्थानामृषीणामप्यविशेषेण दृष्टिचित्तापहारितया तुष्टृषाजनकत्वम्, असद्वासनादिशामकत्वं च; यथोक्तं श्रीपौष्करे (1-31, 32) अर्चावतारप्रकरणे – संदर्शनादक- स्माच्च पुंसां संमूढचेतसाम् । कुवासना कुबुद्धिश्व कुतर्कनिचयश्च यः । कुहेतुश्ध कुभाबश्व नास्तिकत्वं लयं व्रजेत्, इति । अतिसुन्दर [नित्य] बिग्रहेण भगवतः परत्वानुसंधाने तत्सांनिध्य- कारणमिति च तत्रोक्तम्- नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर ।। यस्यास्ति सत्ता [सक्तिः] हृदये तस्यासौ संनिधि व्रजेत् (पौष्करे. 38-38) इति । तत्सूचनार्थमैश्वर्यसौन्दर्य- योरिहाव्यवहितपठनम् ॥

अपारकारुण्यसौशील्यवात्सल्यौदा वैश्वर्यसौन्दर्य महोदधे !

* सर्वस्य शरणं सुहृत् (श्वे. उ. 3-17) सुहृदं सर्वभूतानाम् (गीता. 5-29) * सर्व- लोकशरण्याथ (रामा. यु. 17-55) * सर्वयोग्यमनायासम् (विष्णुधर्मे) इत्यादिप्रसिद्धस्वभावस्य बायसवानरराक्षसादिविशेषानादरेणाङ्गीकुर्वतस्ते माहशजनेऽपि गुणवृत्तादिनिकर्षो न त्यागकारणमित्याह –

अनालोचित विशेषाशेषलोकशरण्य !

अनालोचितविशेषेति । अत्र विशेषशब्द‌विवक्षितम् अनालोचितगुणगण । इति श्रीवैकुण्ठगद्ये व्यञ्जितम् । प्रपत्तेः सर्वाधिकारत्वमपि अनेन प्रकाशितम् ।

* दुर्गसंसारकान्तारमवारन मिचावताम् । एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः (विष्णुधर्मे 1-18) * प्रणम्य कृष्णं सहसा (वि. घ. 4-35) * एकोऽपि कृष्णे सुकृतः प्रणामः (भार. आ. 46-123) इत्यादिषूक्त मल्पयत्नप्रसाद्यत्वमाह –

प्रणतार्तिहर !

प्रणतार्तिहरेति । अनेन स्वस्य एवंविधावस्थाहेतुः अवतार विशेषोऽप्यनुसंहितः; उक्तं हि स्वयमेव – निरस्तेतरभोगाशो बरदं शरणं गतः। इति अत्र प्रणतशब्दः प्रकृतानुगुण्यात्, * प्रपन्नार्तिहरं विष्णुस् (बि. पु. 1-9-87) इत्याद्यनुसाराच्च प्रक्कृष्टप्रद्दीभावयुक्तप्रपन्न विषयो वा ।

प्रस्तुतावतारे व्यक्ततमं स्वस्मिन् उपकारकतमं च वात्सल्यगुणं पूर्व द्विरुक्तमपि मित्र- भावेन संप्राप्तम् (रामा. यु. 17-83) * दोषो यद्यपि तस्य स्यात् (रामा. यु. 17-88) इत्यादि- स्मरणाय पुनराह-

आश्रितवात्सल्यैकजलधे ।

आश्रितेति । वात्सल्यगुणोदधौ निग्रहादिकं निमझं भवतीत्यभिप्रायेण एकशब्दः । अत एव हि सर्वज्ञत्वादौ स्थितेऽपि अविज्ञातृत्वायुक्तिः ।

उपायान्तरं स्वीक्रियतामित्यत्र * अस्मान् वेत्थ परान् वेत्थ (भार. उद्योग. 72-101) इति प्रकारेण मादृशानामकिंचनानामधिकर्तव्यं हिततमं त्वमेव जानासि; त्वदायत्तानुकूल्यस्य च *शेषवृत्तिविधानेऽपि किं त्वं सुप्तोऽथ वा [मृ] गतः (न त्वं घुप्तो नवा गतः) (विष्णुधर्मे); सर्वज्ञस्य ते, *त्वयाऽपि लब्धं भगवन्निदानीम् (स्तोत्ररने 34) * यदि मे न दयिष्यसे (स्तोत्र. 50) इत्यादिकं न विज्ञापनीयमित्यभिप्रायेणाह–

अनवरत विदितनिखिलभूतजातयाथात्म्य !

अनवरतेति । अनवरतनिखिलशब्दाभ्यां ज्ञानस्य कालतो विषयतश्च संकोचो व्युदस्तः ।

* त्वमेवैवं कुरुष्व माम्, * कुरुष्व मामनुचरम् (रामा. अयो. 31-24) इत्यादिन्यायेन त्वदधीनव्यापारस्य मे त्वयैव प्रातिकूल्यनिवर्तनादिकमपि कार्यमित्याह-

अशेष चराचरभूतनिखिलनियमन निरत !

अशेषचराचरेति । निखिलशब्दः स्वरूपस्थित्या दिनियन्तव्यकात्स्न्येपरः, सार्वका- लिकनियमनका स्र्त्यपरो वा । आगमैराचार्यादिभिरन्तरात्मतया च बहुपकारं हि नियमनम् । न हि अविधेयं ते किंचित्, येन मे अभिमतं प्रतिबन्धाद्विलम्बेत, अलभ्यं या स्यात् इति भावः ।

परिपूर्णस्य मे त्वदङ्गीकारेण न किंचित् प्रयोजनमित्यत्राह –

अशेषचिदचिद्वस्तुशेषिभूत !

अशेषचिदचिदिति । न हि मदेकवर्ज तब सर्वशेषित्वम् । अतो ममाप्यतिशये तव चार्थः प्रकल्पते (रामा. अयो. 31-24) इति भावः ।

तथाऽपि यथावस्थितरक्षापेक्षा तब नास्ति, कथं च त्वं रक्षणीयः? इति शङ्कायामाह –

निखिलजगदाधार !

निखिलजगदाधारेति । गुणादिवत् त्वदपृथक्सिद्धविशेषणस्य ममापेक्षामन्तरेणैव मस्सत्तादिकं त्वयैव रक्ष्यते । तत्क्षाफल्यार्थं रक्षापेक्षा दिकमपि त्वयैव कारयितव्योऽहम् । न हि त्वदधीनसत्ताकस्य मे त्वन्निरपेक्षवृत्तिः संभवतीत्यभिप्रायः ।

एवमेव हि शेषभूतानां स्वतन्त्रस्वामिना त्वयैव यथेष्टं स्वमुद्दिश्य विनियोगः क्रियते इत्याह-

अखिलजगत्स्वामिन्निति ।

अखिलजगत्स्वामिन् !

इष्टानिष्टप्रदानसाधारणेऽस्मिन् मद्विनियोगे किं तवायात मित्यत्राह–

अस्मत्स्वामिन् !

अस्मत्स्वामिन्निति । मदाचार्यसन्ततिसांमुख्येन ममैवंविधत्वत्संबन्धज्ञानाद्यवस्थाप्रदान- रूपोपकारे प्रवृत्तेन त्वया शेषपूरणं कार्यमिति भावः ।

परिपूर्णत्तया पूर्वोपकारप्रत्युपकारनिरपेक्षस्य तव अकिंचन नित्यसापेक्षसंश्रितरक्षणमात्मीय- नित्यगुणपरित्राणमिति सूचयति-सत्यकामेति ।

सत्यकाम ।

सर्वशतेस्तव नित्यसू‌रिवर्गे मनिवेशनमीषत्करम्, न हि त्वहूर्त केनापि इन्तुं शक्यमित्याह-सत्यसंकल्पेति ।

सत्यसंकल्प !

तथाऽप्यपेक्षितार्थमन्यः कश्चिदा श्रीयतामित्यत्राह सकलेतरविलक्षणेति ।

सकलेतरविलक्षण !

* विष्णुपोत बिना नान्यत् किंचिदस्ति प्ररायणम् (वि. घ. 1-59) * भवतां कथ्यते सत्यं विष्णुरेकः परायणम्, (बि. घ. 1-59) इत्यादिभिः अन्येभ्यस्तव मोक्षप्रदत्यादिरूपं विशेष पश्यन्नई मुमुक्षुः कमन्यमाश्रयेयम्; न हि परतन्त्रः कश्चित् स्वतन्त्रकृत्ये प्रार्थनीयः; न च स्व परतन्त्र इति भावः ।

यथर्थिनं मां नाद्रियसे, कथं तब औदार्यनथा श्रीचेदित्यभिप्रायेणाइ-अर्थिकल्पकेति ।

अर्थिकल्पक !

अर्थी च कल्पकश्वेति विमहः । अर्थिनां कल्पद्रुम इति था। उक्तं हि- स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्य च (रामा. अयो. 16-27) इति। अर्थिनः कल्पद्रुमा यस्य सः अर्थिकल्पक इति वा विवक्षितम्; यद्गीयत उदाराः सर्व एवैते (गीता. 7-18) इति । अभिमतपुरुषार्थदानार्थम् अर्थिनामुत्पादकः शास्त्र। दिनुखेनार्थित्वापादकश्वेति बा। एर्व पूर्वोक्तस्याप्यौदार्यस्य अतिशयप्रदर्शने तात्पर्यादपुनरुक्तिः ।

*ज्ञातं मया वसिष्ठेन, (भा. स. 90-42) इत्यादिकमनुसंदधानः पाञ्चालीगजेन्द्रादिवद् आपन्नस्यानन्यगतिकस्य मम एतामापदमवेक्ष्य रक्षितुमईसीत्याह-आपत्सखेति ।

आपत्सख !

आपदि सखिवत् संरक्षक इत्यर्थः । विश्वसनीयत्व स्नेह विषयत्वा दिसूचनाय सखिशब्दः । शत्रुमपि हि * तस्मात् परिश्रान्त इति व्यवस्य न त्वा शरैर्मृत्युवशं नयामि (रामा. यु. 59-143) इत्यबोचत् । 1

एवं द्वाभ्यामिष्टप्रापकत्वम्, अनिष्टनिवर्तकत्वं च दर्शितम्। अथ तत्र समानाभिप्रायतया नित्ययुक्तामखिलजगन्मातरं पुरस्कुर्वतो मे महान्तोऽप्यपराधास्त्वया क्षन्तव्या इत्याह-श्रीमन्निति !

संबन्धगुण विभूतिप्रयोजनव्यापारास्ते मदुपेक्षया मन्दफला मा भूवन् । अत आत्माने नातिवर्तथा इत्याह-नारायणेति ।

नारायण !

उत्तरखण्डस्थापेक्षया पूर्वे *श्रीमन् इत्याद्युक्तम्; इह तु पूर्वखण्डस्था पेक्षया ।

उक्तैः स्वभाबैः फलितमाह – अशरण्यशरण्येति ।

अशरण्यशरण्य !

स्मर्यते हि-* अगतीनां गतिर्भवान् (वि. ध. 4-49) इति । अत एव * अनालो- चितेत्यादिना न पुनरुक्तिः, तत्र हि तारतम्यानादरे तात्पर्यम् । एतत् सर्वं व्याख्येय विवक्षित- प्राप्यप्रापका कारप्रपञ्चनम् ।

अस्म्यहमेबम् । एतावताऽपि किं त्वया लब्धम् । सर्वत्र हि शास्त्रार्थे अधिकारोऽपेक्षित इत्यत्राह – अनन्य शरण इति ।

अनन्यशरणः त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये ॥ ५ ॥

तत्त्व विदो ऽनन्यप्रयोजनस्य मम सिद्धोपायान्तरं नास्ति । * अहमस्म्यपराधानाम् (अहि. सं. 37-30) * न धर्मनिष्ठोऽस्मि (स्तोत्र. 22) इत्याद्युक्तावस्थाविशेषविदश्व मे साध्योपायान्तरमपि नास्तीति प्रतिबुद्धोऽस्मि । अयमेव हि ममात्राधिकार इति भावः । इदं तु व्याख्येयस्थोत्तमपुरुषाभिप्रेतमिति ज्ञापनाय, अहमपि न मम शरणमिति व्यञ्जनाय च, अधिकोऽहं- शब्दः । अथवा अनन्यशरण इत्युपायान्तरशून्यत्वम्, अहमित्युपायभीरुत्वम्, अतिशङ्काराहित्यम्, प्रयोजनान्तरतदुपायप रित्या गित्वम्, मोक्षार्थप्रपत्त्युन्मुखत्वं च व्यज्यते । एतत्सूचितः कार्पण्यविस्तरः प्रतिवचनवाक्येषु, गद्यान्तरयोश्च द्रष्टव्यः । त्वदित्यादिना पूर्वखण्डपदक्रमानुसरणम् । त्वच्छब्दः शरण्यत्वोपयुक्त सर्वाकार वैशिष्टयपरः। पादेत्यादिकं प्रागुक्तार्थम् ।

अत्र द्वयम् ।

अत्र द्वयम्, इत्यस्य व्याख्यातप्रायमिति शेषः । तात्पर्थे तु पूर्वमेवोक्तम् । यद्वा, द्वयम् अर्थानुसंधानेन सह एवमुक्तमिति वा, वक्तव्यमिति वा विवक्षितम् । वाक्यान्तरैः पुनःपुनः प्रपद्यत इति तु नाशङ्कनीयम्, एकसाध्यसिद्धयर्थं प्रपत्त्यावृत्तेः प्रतिषेधात्, इह साध्यान्तरायोगाच्च ।

* पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥

* सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् ।

लोकविक्रान्तचरणौ शरणं तेऽवजं विभो ! ॥ (विहगेश्वरसंहिता; जितन्ते स्तोत्लम्) ।।


पितरमित्यादिकं तु स्ववाक्यवनिबन्धनसंवादमुखेन अनन्यशरणत्वादिकं विशवीकृत्य बक्ष्यमाणफलमार्थनामस्तावनात्मकमिति द्वयार्थस्य समुदितोक्तिः । तथा सत्र सोपाधिकभोग्यतदुपाय- त्यागे निरुपाचिकभोग्यतदुपायविशेषपरिग्रहं च स्पष्टयित्वा प्रसादय इत्यादिना * सोडुमित्यन्तेन उत्तरखण्डस्थदोषनिवृत्तिप्रार्थना संगृद्यते । कैमुत्यसिद्धः । बन्धुशब्द इह संबन्ध्यादिपरः । रत्नानीत्यादिकमुत्कटमोग्यत्वमोगसाधनत्वानामचेत- पित्रादीनां त्यागोक्त्या भृत्यादिचेतनान्तरत्यागः नान्तराणानुपलक्षणम् । चकारेण वा अनुक्तसमुच्चयः । प्रियेषु हितेषु च मोक्षतदुपायानुपयुक्तेषु कुत्रचित् सङ्गोऽपि न युक्त इति ज्ञापनाय पितरमित्यादिविविधोक्तिः ।

एवं लोकसिद्धप्रियहितान्युदाहृत्य सर्वधर्मानित्यादिना शास्त्रवेद्यानि साधनानि साध्यानि च आह। तत्र सर्वधर्मशब्दः सिद्धसाध्यरूपसपरिकरधर्मकात्स्न्यपरः । सर्वकामानिति हिरण्यगर्भादि- पदपर्यन्तकाम्यविषयः । अक्षरशब्द इह आत्ममात्रानुभवगोचरः । धर्माणां कामानां च उपयोगित्वेन बा पित्रायुदाहरणम् । तच्च यथासंभवं द्रष्टव्यम् । पित्रादीनां त्यागश्चात्र काम्यधर्मोपयोगितया अर्थकामोपयोगितया वा अनुपादानम् । अत एव * मातृदेवो भव, (तै. शी. 11) पितृदेवो भव, * आचार्यदेवो भव (तै. शी. 11) * वृद्धौ च मातापितरौ (भार.) इत्याद्युक्तमगवदाज्ञानुपालनं न विरुध्यते । सर्वधर्मशब्देन मोक्षसाधनमूतोपासनवर्गसंग्रहेऽपि तन्निवृत्तौ विहितत्याच्याश्रमकर्मापि (ब्र. सू. 3-4-32) इति न्यायेन वर्णाश्रमधर्माणामनिवृत्तिः । तदिद्ध त्रैवर्गिकधर्मेषु प्रयोजनान्तरेषु मोक्षोपायान्तरेषु च साधारणं नैराश्यं त्यागः। तत्र पुरुषार्थान्तरेष्वल्पा स्थिरत्वा दिदोषदर्शनानैराश्यम् । तत एव तदुपायेष्वपि मुक्तिसाधनेष्वन्येषु स्वावस्थादर्शनेन दुष्करत्वादिना नैराश्यमिति विशेषः । संत्यज्य सम्यक् त्यक्त्वा, सवासन परित्यज्येत्यर्थः । यद्वा पश्चाङ्गसंयुक्तायाः प्रपत्तेरङ्गत्वेनाङ्गित्वेन बा अनुपादानमिह धर्माणां त्यागः । सोऽयं प्रपत्त्युत्पकारकत्वबुद्धिविरहः संप्रतिपन्नेषु पुरुषार्थान्तर- तदुपायेषु मुक्त्युपायान्तरेषु नित्यनैमिचिकेषु च समान इति सहोक्तिः। लोकविक्रान्तचरणावित्ति चरणे लोकविक्रान्तत्ववचनमनाश्रितानामप्यात्मप्रकाशनेन सौलभ्या दिव्यञ्जकम् । लोकविक्रान्तेति व्यस्तं वा; तदा तु लोकेषु विक्रान्तः अधिष्ठातेत्यर्थः । ते स्वतन्त्रस्वामिनः परमप्राप्यस्य च। विभ्रुशब्देन फलप्रदानौपयिकगुणपौष्कल्यं व्यज्यते । यद्वा विश्रुशब्देन परत्वम्, ते इत्यनेन सौलभ्यं च संगृह्यते । अग्रजम्-बजामीत्यर्थः । अनद्यतनत्वमत्रा विवक्षितम् भूतत्वेन निर्देशस्तु कर्तव्यशेषनैर- पेक्ष्यव्यञ्जनपरः । त्याज्यानां त्यागस्य पूर्वमस्पष्टत्वादिह तत्पश्चने तात्त्वत्यम् ॥ ६ ॥

उपायत्वमुपेयत्वं च माता पिता आता (सुबाल 6) इत्यादिश्रुतिसिद्धसर्वविधबान्धवस्य नारायणस्यैवेत्यभिप्रायेण त्यक्तं सर्वं त्वमेवेत्याह –

* त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्व मम देवदेव ।। (गान्धारीवाक्यम् ) ॥

स्वमेवेति । त्वत्पादेत्यत्र त्वच्छन्द्राभिप्रेतं च अनेन विशदीकृतम्। सर्वेषां जन्तूनां सर्वेषु जन्मसु सर्वविधोपकारकत्वं त्वयि समुचितमित्यभिप्रायेण प्रत्येकं त्वमेवेति सावधारणावृत्तिः । मातापित्राद‌यो हि तत्प्रयुक्तास्तत्सहकृताश्च तद‌भिमतयत्किचित्करणेनोपकुर्युः, अयं च अनन्यप्रयोज्यो निरपेक्षब्ध स्वेच्छयैव सर्वप्रकारेणोपकरोति । माता, प्रलयदशायामुदरे स्थापयित्वा प्रसवनात् । प्रियपवर्तकत्वादिभिश्व पिता; * अहं बीजपदः पिता (गीता 14-4) इति प्राह । हितप्रवर्तकश्च । बन्धुः, संबन्धान्तरेणाप्यहितनिवर्तनाईः । गुरुः, गुशब्दः, इत्याधुक्तान्धकारनिरोधित्वात्; तत्र च असौ गुरुशरीरकः; आदिगुरुश्ध। विद्या, उपायभुतविद्याप्रवर्तकत्वात् तत्फलप्रदत्वाच्च, अकिंचनाना- पासनरूपविद्यायाः स्थाने निवेशाद्वा । द्रविणम्, * अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः (पाश्वरात्रे) इत्युक्तात् साधनत्वात्, साध्यत्वाच्च । त्वमेव सर्वमिति उक्तानुक्तसर्वकात्स्न्यपरम् । मम-तत्त्वविदोऽकिंचनस्य त्यक्तान्यसाध्यसाधनस्य त्वयि न्यस्तभरस्य च। देवदेवेत्ति सर्वपकारोत्कर्ष- परम् ॥ ७ ॥

एवं स्वविषयेऽनुसंहितस्य सर्वविधबन्धुत्वस्य सर्वविषयत्वेन निरुपाधिकत्वं सूचयति-

* पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्वमोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ! ।। (गीता 11-43)

पिताऽसीति । लोकस्य-हिरण्यगर्भादिजन्तु आतस्य । पूज्यश्च पितृत्वगुरुत्वादिभिः सर्वकर्मा- राध्यत्वश्रुतेश्य समाराध्यः । * गरीयान् ब्रह्मदः पिता, इत्युक्तमाह-गरीयानिति । *गरीयान् पूज्यतमः, इति तु भाष्योक्तम् (गीताभाष्ये 11-43)। लोकत्र ये-बद्धमुक्त नित्यरूपचेतनवर्गत्रये । यद्वा, लोकत्रयशब्देन सर्वलोकवर्तिनां लक्षणा। प्रभावतोऽप्रतिमत्वस्य कण्ठोक्तत्वात् न त्वत्समो- ऽस्तीत्यादिकमिह कारुण्यादिषु बोजितम् ॥ ८ ॥

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीडयम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ।। (गीता 11-44)

तस्मात्-तबैव [वं] सर्वविधबन्धुत्वात्, प्रभावतः कारुण्यादिगुणैश्च सर्वाधिकत्वात्, त्वद्विष- यापराधस्य पित्रादिसर्वविषयापराधरूपत्वात् सर्वविषयापराधानां त्वदाज्ञ। तिलङ्घनरूपत्वेन त्वदपराध- त्याच्चेति भावः । प्रणम्येत्यादिकं * प्रपद्ये इत्यस्य विवरणम् । प्रकृष्टः प्रद्दीभावश्चात्र प्रकरणातू प्रपत्तिरूपः । स च पूर्वकृत एवं फलविशेषप्रार्थनार्थमिहानुयते । कायप्रणिधानमत्र स्वरक्षणार्थ – स्वव्यापारान्तर निवृत्तिव्यञ्जकमात्रम् । प्रणम्य प्रसादये-प्रपदनरूपं मसादनमनुतिष्ठामि । भक्तिवत् प्रपत्तिरपि प्रसादन विशेषः । तदिष्टविधाता निष्टप्राप्तिहेतुभूतमत्कृतापराध जनिताप्रीतिरूपकालुष्यरहितं करोमीत्यर्थः । त्वाम्-स्वतः सर्वभूतानां सुहृदं मदपराधात् कलुषितबुद्धिम् । अहम्-अकिंचनोऽनन्यगतिः त्वत्वत्न्या दत्तवरः त्यक्तत्वदितरसाध्यसाधनश्च । ईशम्-सापराधनिमहादिसमर्थम् । ईडयम्- क्षमादिभिः स्तुत्यम् । * न तस्येशे कश्धन तस्य नाम महद्यशः (तै. ना. 1-1-2) इति श्रुत्युक्त- मनैन पदद्वयेन दर्शितम् । क्षुद्रोऽपि जन्तुः संबन्धविशेषादपराधं सहते, किं पुनस्त्वमित्यभिप्रायेण पित्रादिदृष्टान्तः । प्रियः प्रियाय-मत्प्रीतिविषयस्त्वं त्वत्पीतिविषयाय माम् । * प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम मियः (गीता 7-17) इति हि स्वयमेवात्थ। अर्हसि देव सोदुमिति बक्ष्यमाणसंग्रहः । संसारमोचनमपि ते लीलैवेति देवशब्दाभिप्रायः । एतावदन्त पूर्वखण्डबिवरणमिति केचित् ॥ ९ ॥

मनोवाकायैरनादिकालप्रवृत्तानन्ताकृत्यकरणकुत्या करण भगवदपचारभागवताप- चारासह्यापचाररूपनानाविधानन्तापचारान् आरब्धकार्यान्, अनारब्धकार्यान्, कृतान्, क्रियमाणान्, करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ॥ १० ॥

अथोत्तरखण्डस्थस्यापि सविशेषणनारायणशब्दस्य पूर्वमेव व्याख्यातत्वात्, अवशिष्टयोश्च चतुर्थीनमसोः पाठक्रमादर्थक्रमस्य बलीयस्त्वात् प्रथमं मनोवाक्कायैरित्यादिभिस्त्रिभिर्वाक्यैरिष्टप्राप्तेः पूर्वभाविनीं ममकारनिवृत्तिवाचिनमः शब्दविवक्षितां सर्वानिष्टनिवृत्ति प्रार्थयते। तत्र सर्वस्य चानिष्टस्येष्ट- विधातस्य च कर्ममूलत्वात् तन्निवृत्तिः पूर्वमभ्यध्यते । मानसादिमेदेन त्रिविधः पापराशिः, तद्विपाकश्च मन्वादिभिर्विभक्त इति ज्ञापनाय करणत्रयोपादानम् । अकृत्य करणा देर हेतुकत्वमन्योन्याश्रयादिकं च परिहर्तुमाह-अनादिकालप्रवृत्तेति ॥ हितप्रवृत्तियोग्यैः करणैरेत। वन्त कालमहिते प्रवृत्तोऽस्मीति निर्वेद- श्चात्र व्यञ्जितः । * यद्रसकल्प (श्रीवैकुण्ठस्तवे 62) इत्यादिप्रक्रियया अनादिकालप्रवृत्तम्, अत एवं अनन्तम्। प्रथमो ऽनन्तशब्दोऽकृत्यकरण कृत्या करणरूपसामान्यापचारयोरन्वेतव्यः । द्वितीयस्तु भगवदपचारादौ । अकृत्य करणादिपञ्चकमुत्तरोत्तरं क्रूरतरम्। यद्यपि केषांचित् कृत्यानामकरणम् अकृत्यकरणात्मकम्, तथाऽपि शरणागतरक्षणादिकृत्याकरणं महत्तरपातककोटौ समर्यत इति ज्ञापयितुमकृत्य करणा [नन्तरं] दुत्तरं कृत्याकरणोक्तिः। अनुत्यकरणान्त [में] गतस्यापि भगवदपचारादेः ब्राह्मणपरिव्राजकन्यायेन प्रकृष्टत्वज्ञापनाय पृथगभिधानम् । यद्यपि अकृत्यकरणादेरप्याज्ञा तिलङ्घनरूप- तया भगवदपचारत्वम्, तच्चात्र अपचारान् इति विशेष्यनिर्देशेन व्यज्यते; तथाऽपि शिशुपालादीना- मिवाव्यवधानेन भगवत्परिवाद। दिकमिह भगवदपचारशब्दोक्तम्। अकृत्यकरणशब्देन तु स्वस्थवर्णा- श्रमादिनिषिद्धानुष्ठानमात्रम् । कृत्या करणशब्देन स्ववर्णादिनियतधर्मस्य प्राप्तकाले शक्तेन अननुष्ठानम् । भगवदपचाराश्च द्वात्रिंशदपचारादिप्रकरणेषु (बराहपुराणे) द्रष्टव्याः। भगवदीयेषु वस्तुषु स्वीय- त्वबुद्धिः, अर्चावतारपर्यन्तेष्ववतारेषु प्राकृतत्वबुद्धिः इत्यादयोऽपि भगवदपचाराः । त्वदपचारेति वक्तव्येऽप्यत्र भगवदपचारशब्दस्तत्तत्प्रमाणोपात्तप्रकार सूचनार्थः । अयथाशास्त्रमर्थाद्युपाधिभिर्भागव- तबिरुद्धाचरणमिह भागवतापचारः । इमौ विपर्यासेन केचित् वर्णयन्ति । एतयोरेवाप बारवर्गयोः *न क्षमामि (बराहपुराणे) इत्यादिभिर्विशेषिताः केचित् पूर्वोक्तन्यायाद‌सह्यापचारा इति विभज्यन्ते। तेच विद्याचोरो गुरुद्रोही, * एकाक्षरप्रदातारम् (अत्रिस्मृतिः 1-10) यः शूद्रं भगवद्भक्तम् (इतिहाससमुषणये 26-26) * मयि द्वेषानुबन्धोऽभूत् संस्तुतावुद्यते तब, (वि. पु. 1-20-21) इत्यादिषु द्रष्टव्याः । एवं निर्निबन्धनभगवद्भागवतद्वेषावज्ञापरिहासादयश्च यथा लोकमसद्यापचारा इत्यनुशिष्यन्ते । एते पश्चापि प्रत्येकमवान्तरोपाधिभिः नानाविधाः; तत्तद्विधास्वपि अवान्तरव्यक्ति- [वृत्ति] मेदैरनन्ताः ।

आरब्धकार्यान् – जात्यायुर्भोगरूपविपाकसंज्ञफलप्रदाने प्रवृत्तान्। यद्यपि, अना- रब्धकार्य एव तु पूर्वे तदबधेः (ब्र. सू. 4-1-15) इति उपासने सूत्रितम्, तथाऽपि * साध्यमक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी (सात्यकितन्त्रम्) इति प्रपत्तौ विशेषवचनाद् अत्रारब्धकार्योपादानम् । अर्थितार्थप्रदस्य शरण्यस्य प्रपत्तृणामार्तितारतम्यानुसारेण यथाप्रार्थितफल- प्रदानात् तदिष्टदेह। [भोगा] द्यनुवृत्तौ न प्रत्यक्षादिविरोधः । अनारब्धकार्यान्-प्रारब्धका र्यकर्म नि- रुद्धावसस्तया अनुपक्रान्तफलान् । द्विविधानपि कृतान् इत्यवच्छिनत्ति। क्रियमाणान्-आनु- कूल्यसङ्कल्पादिमत्त्वेऽपि देशकालादिवैगुण्यात् पूर्वनियुक्तदूरस्थदुर्निवारभृत्यादिमुखेन वा उपक्रा न्तान् अपरिसमाप्तान् । करिष्यमाणान् तद्वदनुबन्धादिमुखेनागत्या प्रमादाद्वा संपतिष्यतः । बुद्धि- पूर्वोत्तराबानां पश्चादेव प्रायश्चित्तविधानात् । तेषामप्यत्र संग्रहे तु यथाईं प्रायश्चित्तप्रेरणं क्षमाफलं प्रायम्। सर्वान् अशेषत इति व्यक्तिशक्तिका त्र्त्यपरम् । सन्ति हि पापानां बढ्यः शक्तयः-तत्त्वतिरोधायकत्वम्, प्रत्यवायजनकत्वम्, कर्मान्तरानर्हतापादकत्वम्, सजातीयपापारम्भ- रुचिजनकत्वं चेति । एतास्वन्तिमा वासनेत्युच्यते । सा च प्रत्युत्तरे व्यक्तमनुवदिष्यते । पापशक्तिश्च निग्रहसंज्ञः परमपुरुषबुद्धिविशेष एवेति क्षमस्वेत्यनेन व्यज्यते । निग्रह निवृत्तिरूपो हि प्रसादविशेष इह क्षमा । अत्र भागवतापचारेषु तद्विदितेषु तत्प्रसादनमुखेन भगवतः प्रसादनम् ; * मया त्वं परुषाण्युक्तस्तञ्च त्वं क्षन्तुमर्हसि (रामा. कि. 36-20) इत्यादिन्यायात् । तदविदितेषु तु अव्यवधानेन, रहस्यप्रायश्चित्तन्यायात् ॥ १० ॥

अनादिकालप्रवृत्तं विपरीतज्ञानमात्मविषयं कृत्स्त्र [त्स्नं] जगद्विषयं [च] विपरीतवृत्तं च अशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वे क्षमस्व ॥ ११ ॥

एवं निषिद्धक्षमा प्रार्थिता। अथ सहेतुककाम्यक्षमा प्राध्येते-अनादि‌कालेति । क्षुद्रपुरुषार्थकामनाया विपरीतज्ञानसापेक्षतया अपचाराणामिव शास्त्रार्थज्ञानपूर्वकका म्यानामपि मात्रया आन्तिहेतु [क] त्वं व्यञ्जयितुमिह विशेषतो विपरीतज्ञानस्य सहोक्तिः । यथावस्थितविषयविरुद्धा- कारा बगा हिज्ञानमिह विपरीतज्ञानम् । तञ्चात्र योऽन्यथासन्तमात्मानम् अन्यथा प्रतिपद्यते, (भार, उद्योग. 42-35) इत्यादिभिरुक्तः स्वात्मनो जगतश्च स्वनिष्ठत्वस्वतन्त्रत्वशेषत्वभगवदन्यनिष्ठत्वा-
दिश्रम इत्यभिप्रायेणाह आत्मविषयं कृत्स्र [त्स्नं] जगद्विषयं चेति । वृत्तशब्दस्य शास्त्रीये प्रसिद्धि- प्रकर्षमुपजीव्य विपरीतवृत्तमिति बन्धकं काम्यकर्मोच्यते; अन्यथा पूर्वोक्तेन पुनरुक्तिप्रसङ्गाव । काम्पत्य च विपरीतवृत्तत्वं सात्त्विकत्यागसमदर्शित्वादिविशिष्टहिततमधर्मविपरीतत्वात् । विपरीत- वृत्तेऽपि स्वविषयतया पुत्रादिपरविषयतया च [द्वै] वैविध्यं दर्शयति-अशेषविषयमिति । अद्यापि वर्तमानं वर्तिष्यमाणं च । सद्गुरूपदेशादिभिः परोक्षसम्यग्ज्ञाने निष्पन्नेऽपि बाधितानुवृत्त्या दिनयाद् बासनारागादिभिरनुवर्तमान मित्यर्थः । अन्न चकारेण पूर्वकृतविपरीतवृत्तसमुच्चयः । अद्यापीत्यनेन च अनादिविपरीतवृत्तसन्ततिः सूच्यते । अत्रापि सर्वशब्दः पूर्ववत् काल्त्स्न्र्त्यपरः। अशेषत इति चानुसन्धेयम् ॥

इह यथाधिकारं यथाचोदितमनुष्ठितानामपि संसारहेतुधर्माणामभिचाराणामिव अनर्थ- पर्यवसायितया मुमुक्ष्वपेक्षया पापत्वोक्तेः स्वर्गादिहेतुभूतस्वतन्त्रसंकल्पेऽपि निग्रह हेतुत्वबुद्धया काम्यक्षमाप्रार्थनं युक्तम् । यद्यप्येवं पूर्वकृतेषु काम्येषु गतिः, तथाऽपि वर्तमानवर्तिष्यमाणकाम्यक्षमा- र्थिनां स्वयं तदारम्भ एव न संभवतीति कथं तत्क्षमाप्रार्थनम् ॥ इत्थम् । अज्ञातयादृच्छिकसु कृतन्यायात् सुहृज्जनबुद्धया वा संभवत्यु नेदं चोद्यम् । स्वबुद्धिपूर्वमपि वर्तमानेषु काम्येषु मध्ये निर्विण्णानामपि प्रक्रान्तसमापनम् अन्तरा लब्धवृष्टेः कारीरीशेषसमापनन्यायेन स्यात् । तत्र पश्चिमांशस्य आज्ञासिद्धत्वान्न काम्बत्वदोषः । पूर्वाशस्य तु क्षुद्रफलकामनामूलस्य तत्फलजनकत्वाभावेऽपि तादृशवासनाजनकत्व- संभवात् कर्मयोगस्येव नेहाभिक्रमनाशोऽस्ति (गीता 2-40) इति न्यायेन केषांचित् कर्मणाम् असमाप्तार्ना कृतांशस्य विलम्बकारिसाधनान्तर पर्यवसितफलजनकत्वात् तत्क्षान्तिः प्रार्थनीया। अत्र पूर्वापरांशयोरधिकार मेदेऽप्या समातेरै ककर्त्याद् बर्तमानव्यपदेशोऽपि युक्तः। उत्तरकालेऽपि केनचिद्धे- तुना निर्वेदविच्छेदात् नित्यत्वभ्रमात् स्वप्नदोषाद्वा काम्पे संभाव्यते । तस्यानुत्पन्नस्यापि क्षमावेक्षणं शीघ्रं स्वोचितप्रायश्चित्तप्रेरणार्थम्, सौभर्यादिन्यायेन क्रमेण वैराग्यजननार्थं वा। उक्तं हि प्रपन्नमधिकृत्यैव – अथोपायप्रसक्तोऽपि भुक्त्वा भोगान् अनामयान् । अन्ते विरक्तिमासाद्य विशते वैष्णवं पदम् ॥ (लक्ष्मीतन्त्रे 17-103) इति ॥ ११ ॥

एवं कर्म निवृत्तिः प्रार्थिता; अथ कर्महेतुप्रकृतिसंबन्ध निवृत्तिः कर्मनिवृत्त्यैव भवस्त्यषि सर्वेश्वरबुद्धिविशेषाधीनेति ज्ञापयितुमभ्यर्थ्यते-

मदीयानादिकर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां दैवीं गुणमयीं मायाम्, “दासभूतः (तं) शरणागतोऽस्मि तवास्मि दासः” इति वक्तारं मां तारय ॥ १२ ॥

मदीयेति । ईश्वरस्य वैषम्यनैर्युण्यपरिहारार्थ मदीयेत्युक्तम् । अन्योन्याश्रयादिनिवारणाय बीजाङ्कुरा दिन्यायमभिप्रेत्याह-अनादि कर्मप्रवाप्रवृत्तामिति । प्रकृतिस्वरूपस्य पुरुषवत् अनादित्वात् तत्प्रवृत्तिमात्रे कर्महेतुकत्वमुक्तम् । तत्र च * गुणमायासमाश्नुतः (जितन्ते 1-3) इत्यादि- प्रसिद्धं प्रतिकूलपवृत्तिन्त्रयं भगवत्स्वरूपेत्यादिभिराह। भगवत्स्वरूपतिरोधानं नाम क्षेत्रज्ञानां भगवत्स्वरूप विषयज्ञान पसरनिरोषः। तथा च अत्यन्ततिरोधानादसत्त्वबुद्धिम्, सामान्यतो बिदिते- ऽपि भगवति [तः] सर्वाश्रयत्वादिधर्म तिरोधान। दवरत्वा दिबुद्धिम्, तदन्येषु स्वनिष्ठत्वादिबुद्धि च करोतीत्याह– विपरीतज्ञानजननीमिति । इदं च जीवस्वरूपतिरोधानतन्मूलदेहात्मअमादे- रुपलक्षणम् । एवं तत्त्वत्रयतिरोधानफलमूतं विपरीतज्ञानान्तरमाह-स्वविषयाया इति । प्रकाश- मानेषु बस्तुषु तिरोधानं नाम तत्तद्भेदकधर्मग्रहणनिवारणम् । इदमेव हि सर्वत्र आन्तेर्निदानम् । उक्तस्याप्या (अप) कारत्रयस्य हेतुमृतमवस्था चतुष्टयं देहेत्यादिभिरुच्यते। देहेन्द्रियत्वेन भोगायतनतया भोगोपकरणतया च । भोग्यत्वेन शब्दादिगुण विशिष्ट भूतपश्च करूपत्वेन । सूक्ष्मरूपेण-देहादि- परिणामरहितांशेन । सेयं प्रकृतिरिदानीं चतुर्भिरप्यशैस्पकरोति । प्रलयदशायां तु सूक्ष्मरूपेणैव तिरोधानमात्रं करोतीति व्यवस्था * देहयोगाद्वा सोऽपि (ब्र. सू. 3-2-5) इति सूत्रभाष्ये द्रष्टव्या । ईदृश्याः प्रकृतेः दुरत्ययत्वं स्वतन्त्रलीलाप्रवृत्ततयेति दैवी ह्येषा गुणमयी (गीता 7-14) इत्यादिना त्वयैव गीतमिति सूचयति-दैवीमिति । तिरोधानादिहेतुभूतैरवस्थाचतुष्टयानुवृत्तेर्वन्धहेतुभिः सत्त्वादि- गुणैः प्रचुरतामाह-गुणमयीमिति । * सत्त्वादिगुणसमुदाय एव प्रकृतिः, इति सांख्यपक्षस्तु, * गुणाः प्रकृतिसंभवाः (गीता 14-5) * प्रकृतेर्गुणसंमूढाः (गीता 3-29) इत्यादिव्यधिकरणप्रयोग- बलात् निरस्तः । कचितु सत्त्वरजस्तमः शब्दानां द्रव्यपर्यन्तः प्रयोगः * तद्रुणसारत्वात्तु तथ्यपदेशः (ब्र. सू. 2-3-39) इति न्यायेन नेतव्यः । एवमनन्तैर्विभागैर्व्यापारैः परिणामैर्गुणैश्च प्रख्यात- माश्चर्यत्वं समाख्याविशेषेणाह-मायामिति । मायां मां तारयेति द्विकर्मकतयाऽन्वयः । दासभूत इत्यादिभिर्मूलमन्त्रपदत्रयार्थः सूच्यते । दासभूताः स्वतः सर्वे (मन्त्रराजपदस्तोत्रे 12) * आत्मदास्यं हरेः स्वाम्यम् (विष्णुत्तत्त्वे) इत्यादिप्रसिद्धं स्वभावतो दासत्वं च्विप्रत्ययाभावेन व्यज्यते । द्वयेऽपि नारशब्दवाच्यानां जीवानां तात्पर्यवृत्त्या दासत्वं आध्यम् । दुरं पलायितेऽपि मयि त्वसंबन्धस्तावत् दुस्त्यजः । दास्यप्रतिबोधश्च मे संपति जात इति भावः । * शरणागतोऽस्मि तवास्मि दासः इति पूर्वोत्तरखण्डार्थनिष्ठत्वं समुच्चित्योक्तम् ।

स्वरूपभरला मेषु तवैव न ममेति यत् ।

प्रपन्नस्यानुसन्धानं सारं तदिह दर्शितम् ॥ १३ ॥

अस्मीति प्रार्थनाभिप्रायम् । दासोऽस्मि दासवृत्तिपरः स्यामित्यर्थः । अन्यथा तु दासभूत इत्युक्तस्यैव पुनर्वचनमात्र स्यात् । * शरणागतोऽस्मि तवास्मि दासः इति निर्देशौ प्रार्थनात्मनिश्शेपपरौ, इति केचित् । आर्तो वा हप्तो वा द्वययक्ताऽहं तव दयनीय इत्यभिप्रायेणाइ- इति वक्तारमिति । यद्यप्यत्र फलप्रार्थनार्थ प्रपत्तिकर्तृत्वानुवाद एव युक्तः, तथाऽपि तद्वचनकर्तृ- स्वानुवादः * भव शरणमितीरयन्ति (वि. पु. 3-7-33) इत्याद्यभिप्रेतवचनप्राशस्त्यादिव्यञ्जनार्थः । माम्-* स्वयं सृत्पिण्डभूतस्य (भार. शा. 294-19) इत्यादिभसिद्धं स्वरक्षणासमर्थम् । त्रिगुणद्रव्यस्य नित्यतया नाशाभावात् तारयेत्युक्तम् । एतेन, * दुरत्यया (गीता 7-11) इत्युक्तं स्वयत्नेन दुस्तरत्वम्, * मामेब ये प्रपद्यन्ते (गीता 7-11) इत्यादिनाऽभिप्रेतं पराधीनतरणं च गम्यते । एवं नमःशब्दे निवर्तनीयतयाऽभिप्रेतस्य पापस्य अमस्य प्रकृतिसंबन्धस्य च मिथःकार्यत्वं कारणत्वं च यथायोगं द्रष्टव्यम् ॥ १२ ॥

* तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ (गीता 7-17)

* उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ (गीता 7-18)

* बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ (गीता 7-19)

इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ॥

अथ निर्वेदमान्धाद् ईषद्विलम्बक्षमाणामत्रत्यविशदज्ञानभक्त्योरपि कैङ्कर्योपयोगितया चतुर्थ्यभि प्रेतफलको टिघटितत्वात् स्वयंप्रयोजनं तदुभयं तेषामित्यादिना प्रार्थते । * तत्यादभक्तिज्ञाना- भ्यां फलमन्यत् कदाचन । न याचेत् पुरुषो [प्रणतो] विष्णुं याचनान्नश्यति ध्रुवम् (पाश्चरात्रे) इति तावन्मात्रप्रार्थना ह्यनुज्ञाता । अत्र परभक्तिवचनं तदनन्तरभाविपरज्ञानपरमभक्त्योरप्युपलक्षणम् । तच्च प्रतिवचनभागे व्यञ्जयिष्यते । ज्ञानी- प्रकृतिं विद्धि मे पराम् (गीता 7-5) इत्यादिप्रतिपादितभगव- च्छेषतै करसात्मस्वरूपवित् भगवन्तमेव परमप्राप्यं मन्वानः । नित्ययुक्तः ऐश्वर्याद्यर्थिनां स्वाभिलषि- तप्राप्तौ सिद्धायां भगवता योगो निवर्तते, ज्ञानिनस्तु न तथेति भावः । एकभक्तिः- न तु प्रयो- जनान्तरविभक्तभक्तिरित्यर्थः । एतदुभयं ज्ञानी विशिष्यत इत्यस्य हेतुः । अत्यर्थम्-अत्यभिधेयम् ; सर्वज्ञेन सर्वशक्तिना मयाऽपि दुर्वचमिति भावः । स च मम प्रियः इत्यत्रापि अत्यर्थमित्येतदनुषज्यते । यद्वा, स्वप्रीत्यपेक्षया स्वभक्तपीतेः प्रकर्षोक्त्या स्तुतिः ॥

आत्मैव-सर्वान्तरात्मनो ममाप्यन्तरात्मैव। नन्विदं प्रमाण विरुद्धमित्यत्राह-मे मतमिति ॥ प्रकृष्टप्रीतिविषयत्वेनातिवादान्न विरोधः ॥

तथाऽत्यादरे हेतुमाह-आस्थित इति । युक्तात्मा-मद्विरहस्यातिदुःसहत्तया मयि नित्य- योगप्रवृत्तमनाः । अनुत्तमां गतिम्-परमनाप्यम् । जन्मनाम्-पुण्यजन्मनाम् । ज्ञानवान् पूर्वोक्तज्ञानवान् । वासुदेवः सर्वमिति प्रपद्यते इत्यन्वयः । सर्वम्-प्राप्यपापकादि । * रामस्य व्यब- सायज्ञः (रामा, सु. 16-4) इत्यादिनिदर्शितज्ञानविशेषवत्त्वात् महात्मत्वोक्तिः । * महामनाः, इति भाष्यम् (गीताभाष्यम् 7-19) । सुदुर्लभः मत्तः प्रयोजनान्तरार्थिन आर्तादयोऽपि दुर्लमाः । अयं तु कर्मवश्यमध्ये भक्तला मार्थिना मया देशिकार्थिभिश्वान्यैः सुदुर्लभः, लब्धश्वेद यमलभ्यला म इति भावः । उक्तं हि श्रीपौष्करे * दुर्लमा भगवद्योगभाविनो सुबि मानवाः । तद्दर्शनात् तदालापात् सुलभं शाश्वतं पदम् ॥ इति । माम्- अज्ञो जन्तुरनीशोऽयम् (भार. शा. 12-36) इत्युक्तेषु मूर्धाभिषिक्तम् । श्लोकत्रयोदितज्ञानिनं कुरुष्व-क्रियाफलं त्वगामीत्यात्मनेपदेन व्यज्यते । अव्यवहितत्वादिह श्लोकत्रयेत्युक्तम् । परभक्तिश्लोकानां भिन्नप्रकरणस्थतथा स्थानत्रयेत्युक्तम् । माम्-* या प्रीतिरविवेकानाम् (बि. पु. 1-19-20) इत्युक्तेषु बाह्यविषयसक्तेष्वग्रगण्यम् ॥ १३ ॥

* पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया (गीता 8-22)

* भक्त्या त्वनन्यया शक्यः, (गीता 11-54)

* मद्भक्ति लभते पराम् (गीता 18-54)

इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ॥ १४ ॥

परभक्तिपरज्ञान परम भक्त्येकस्वभावं मां कुरुष्व ॥ १५ ॥

परभक्तिपरज्ञान परमभक्तिकृतपरिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधि- कातिशयप्रियभगवदनुभवोऽहं तथाविधभगवदनुभवजनितानवधिकातिशयप्रीति-

कारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥ १६ ॥

अथ शरीरपातसमयभाविनो बुद्धया कारान् अभ्यर्थयते परभक्तीति । अथवा, मुक्ति- दशाभाविनां परभक्त्यादीनामिदमपेक्षणम् । एकस्वभावत्वोक्तिर्हि अत्रत्यपरभक्त्यादिव्यवच्छेदार्था । उक्तानामेव तत्रत्यपरभक्त्यादीनां सादरानुवादेन कैङ्कर्यपर्यन्ततां याचते-परेति । अत्र त्वदिति वक्तव्ये भगवच्छब्दः अनुभाव्यपौष्कल्यस्फुटी करणार्थः । किंकरविशेषणे शेषतैकरतिरूपशब्दे शेषतैकरतिरेव रूपं निरूपकं यस्येति भाव्यम् । भवानि इति प्रार्थना । त्वत्किङ्करभावात् पूर्वमसत्कल्पोऽहमिति [च] सूच्यते । एवं द्वयार्थो व्याख्यातः ॥

सर्वज्ञेऽपि स्वतो देवे याच्ञा विज्ञापनादिभिः ।

तत्तदिष्टपदित्सात्मा प्रीतिरेव प्रसाध्यते ॥ १४ ॥

तदेव चोदनोपज्ञमपूर्व तत्त्ववेदिनाम् ।

आराध्येन्द्राद्यपायेऽपि फलदानाय तिष्ठति ॥ १५ ॥

एवं भूत मत्कैर्यप्राप्त्युपायतयाऽजवलप्ससमस्तवस्तुविहीनोऽपि अनन्ततद्विरोधि पापाक्रान्तोऽषि, अनन्तमदपचारयुक्तोऽपि, अनन्तमदीयापचारयुक्तोऽपि, अनन्तासह्या- पचारयुक्तोऽपि, एतत्कार्यकारणभूतानादि विपरीताहङ्कारविमूढात्मस्वभावोऽपि, एतदुभय- कार्यकारणभूतानादि विपरीतवासनासंबद्धोऽपि, एतदनु पुणप्रकृतिविशेषसंबद्धोऽपि, एतन्मू- लाध्यात्मिकाधिभौतिकाधिदै विकसुखदुः स्वतद्धेतुतदितरोपेक्षणीय विषयानुभवज्ञानसङ्कोच- रूपमचरणारविन्दयुगलैकान्तिकात्यन्तिक परभक्तिपरज्ञान परमभक्तिविन्नप्रतिहतोऽपि,

येनकेनापि प्रकारेण द्वयवक्ता त्वम्।

केवलं मदीययैव दद्यया निश्शेषविनष्ट सहेतुकमच्चरणारविन्द्‌युगलैकान्तिकात्य- न्तिकपरभक्ति परज्ञानपरमभक्तिविप्नः, मत्प्रसादलब्धमचरणारविन्द्युगलैकान्तिकात्यन्तिक- परभक्तिपरज्ञानपरमभक्तिः, मत्प्रसादादेव साक्षात्कृतयथात्र स्थित मत्स्वरूपरूपगुणविभूति- लीलोपकरणविस्तारः अपरोक्ष सिद्धमनियाभ्यता महास्यै कस्वभावात्मस्वरूपः, मदेकानुभवः, महास्यैकप्रियः, परिपूर्णानवस्त नित्यविशद‌त मानन्यप्रयोजनानवधिका तिशयप्रिय मदनुभव- स्त्वं तथाविधमद‌नुभवजनितानवचिकातिशयप्रीतिकारिताशेषा व स्थोचिताशेपशेषतै करति- रूपनित्यकिङ्करो भव ॥ १७ ॥

अथैवमभ्यर्थितस्य भगवतस्तदभ्यनुज्ञादिविषयैः प्रपत्तिजनितप्रसादपरिवाहैः प्रतिवचनैः प्रकृतौपयिकवक्ष्यमाण चरम श्लोकार्थोऽपि प्रतिबोध्यते । तथाहि अत्र प्रतिहतोऽपीत्यन्तेन अशक्ति- पूर्त्या अनागतानन्तकालसमीक्षयाऽप्यदृष्टसन्तारोपायतां प्रकाशयता अनन्यशरणः इत्युक्तविस्तर- रूपेण प्रथमपादतात्पर्योक्तिः । येनकेनापीत्यादिना त्वमित्यन्तेन द्वितीयपादोक्ताधिकारिकृस्यलाष- वादिव्यञ्जनम् । केवलमित्यादिना तु अहं त्वा (गीता 18-66) इति वाक्याभिप्रेतानिष्टनिवृत्ति- पूर्वकेष्टप्राप्तिभकाशनम् । एवंभूतोऽसीत्यादिभिः प्रपल विषयशोकापनोदनवाक्याभिप्रेतप्रपश्चन मिति [विषय] विभागः ।

एवंभूतमत्कैङ्कर्येति । अत्र एवंभूतेति कैङ्कर्यविशेषणम्। उपायत्तयेत्यत्र गद्यान्तरोक्त- क्रमेण साक्षात् परम्परवा वेति भाव्यम् । अवक्लप्तम्-मन्नित्येच्छा नियमितमित्यर्थः, मदा देशात्मकैः शास्त्रैर्विहितमिति बा । समस्तवस्तुशब्देन प्रस्तुतप्रपत्तिव्यतिरिक्तास्तत्त्वज्ञानपूर्वकाः कर्मयोगादय उपासनपर्यन्ता निवृत्तिधर्माः, तदुपयुक्ताश्चामा नित्वाद्यास्त्मगुणाः संगृह्यन्ते । एतेन परिशब्दद्योतित- सपरिकरत्यागव्यञ्जनम् । एवं पश्चादपि तदर्हता न संभवतीति नैराश्यरूपत्यागसिद्धचर्थमाह- अनन्ततद्विरोधिपापाक्रान्तेति । उपासना दि विरोधित्वात् प्रवृत्तिधर्मो ऽप्यत्र पापशब्देन संगृहीतः । अनन्तमदपचारेत्यादिभिः पूर्ववत् विशेषापचाराभिभूतत्वस्य पृथगुक्तिः । एकैकवर्गस्य दुस्तरत्वद्योतनाय प्रत्येकमा नन्त्यनिर्देशः । उक्तानां पापानां निदानं भक्तियोगादिप्रतिबन्धे द्वारभूतम् अई कारविमूढास्मा (गीता 8-97) इत्यादिषु प्रसिद्ध पूर्व विपरीतज्ञानशब्दोपाचेष्वश्यतममाह- एतत्त्वकायेंति । कार्यस्याप्यईकारस्थानादित्वं बीजाहुरन्यायात् प्रवाहरूपेण भाग्यम् । अथातोऽहंका- रादेशः (छा. 7-25-1) इत्यायुक्तयथावस्थिताहंकाराद् व्यवच्छेदार्थ विपरीतशब्दः ; अनद्दमर्थे अई- त्वाभिमानात्, स्वातन्त्र्यारोषाच्च विपरीतत्वम् । विमूढत्वमिह तिरोहितत्वम् । नित्यं प्रकाशमानस्या – प्यात्मनस्तिरोहितत्वम् आधेयत्व विधेयत्वशेषत्वादिधर्माणामनवभासादिति ज्ञापनाय स्वभावशब्दः । पापस्याईकारस्य च प्रवाहनिर्वाहकम् अशेषतः इति पूर्वत्र संक्षिप्तं विशदमनुभाषते एतदुभयेति । वासनाया अपि प्रवाहरूपेणानादित्वम् । यथावस्थिततत्त्वहितपुरुषार्थवासनाव्यावृत्त्यर्थाऽन्न विपरी- तत्वोक्तिः। पायस्य वासना पापान्तरारम्भरुचिजनकनिग्रहांशः; अहंकारस्य वासना सूयोभूयस्ता- दृशअमजनकबुद्धिसंस्कारः । * भगवत्स्वरूपतिरोधानकरी मित्यायुक्तमनुवदति-एतदनुगुणेति । एतच्छब्देन पूर्वोक्तपापाई कारवासनारूपत्रित्यपर। मरीः। अत्रापि कार्यत्वं कारणत्वं च विवक्षितम् । सात्त्विकमक्कृतिव्यवच्छेदाय विशेषशब्दः । संबद्धः दृढबद्ध इत्यर्थः । एतच्च मितगद्ये दुर्विवेचेति पदेन बिद्युतम्। प्रतिसंवन्धस्या भिमतप्रतिबन्धकत्वे द्वारं प्रपञ्चयति-एतन्मूलेति । दुःखस्य संसारोद्धे- गजनकत्वमपि संभवति । सुखस्य तु संसाररुचिजनकत्वेन विन्नत्वमधिकमित्यभिप्रायेण पूर्वे सुखस्योक्तिः । दुःखवत् सुखमपि आध्यात्मिकादिभेदेन त्रिविधम् । आध्यात्मिकम्-आत्माश्रिता- चित्समुदायमधानहेतु कम् । तादृशं दुःखं द्विविधम्-शारीरं मानसं चेति । तत्र शारीरम् * शिरो [क्ष्मा] रोगः प्रतिश्यायः (वि. पु. 6-5-8) इत्यादिनोक्तम् । मानसम् * कामक्रोधभबद्वेष- (वि. पु. 6-5-5) इत्यादिना। आधिभौतिकं तु पशुपक्षिमनुष्याचैः (बि. पु. 6-57) इत्यादिना । आधिदैविकं च शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवम् (बि. पु. 6-5-8) इति । अत्र दुःखशब्दस्य पूर्वकालिकदुःखविषयत्वात् उत्तरत्र दुःखविनगन्धरहितत्वोक्ते- रुत्तरकाळस्वास्थ्यपरत्वात् तितिक्षायां वा तात्पर्यादविरोधः । त्रिविधमप्येतत् प्रत्येकमवान्तर हेतु- स्वरूपवैषम्यादनन्तप्रकारमिति सूचयितुं तद्धेतुशब्दः । सुखदुःखहेतवश्च स्वरूपतो बुद्धिविषयतयाऽपि परभक्त्यादिविनाः । तदितरेति उपेक्षणीयविशेषणम् । उपेक्षणीयविषयश्व तृणादिः; तदनुभबोऽपि अब्रह्म मकानुभवरूपत्वेन पूर्वोक्तविपरीतज्ञानविशेषतया स्वरूपतः संस्कारतश्च प्राप्तविषयानुभव- विरोधी । ज्ञानसंकोचः-तर्कोपदेशसहकृतैः शास्त्रैरपि पररावरतत्त्व विषययथावस्थितज्ञानपसराभावः । मञ्चरणारविन्द‌युगलेति स्वयमुक्तिरिह न दोषाय, ईश्वरस्य यथाभूतार्थशंसिनः सर्वत्र स्वगुणाविष्क्रिया- दोषरहितत्वात्, तेनापि चरणयोः स्वाश्रितरक्षणसाधनतया संप्रीतिविषयत्वेन स्तुत्यत्वोपपत्तेश्च । तथा चाहुः- तस्य स्वात्मप्रदाने तु साधने स्वपदद्वयम्, इति। अत्र परभक्त्यादिशब्दैः देहपातात् पूर्वमाविनः, पश्चाद्धाविनश्वावस्थाविशेषाः संगृद्यन्ते । प्रतिइतोऽपीत्यन्तेषु अपिशब्दैस्त्यागानुवादो धोत्यते ।

धर्मान्तरनैरपेक्ष्यविशिष्टविधानमपि द्वयवक्तेत्यनेन सूचितम् । न चैतावता प्रपत्तेस्त- दविनाभूताङ्गानां वा निवृत्तिः, शरणमहं प्रपद्ये इति पूर्वोक्तानुबादत्वेन प्रपत्त्युपश्लिष्टस्यैव द्वयवचनस्यात्र विवक्षितत्वात् । येन केनापीत्यस्य तु * आर्तो वा यदि वा दृप्तः (रामा. यु. 18-28) * मित्रभावेन संप्राप्तम् (रामा. यु. 18-3) * विभीषणो वा सुग्रीव (धर्मात्मा] यदि वा रावणः स्वयम् (रामा. यु. 18-35) इत्याद्युक्ताधिकारिविशेषानियमे तात्पर्यम् । * शरण्यस्य प्रपन्नेष्वादरातिशयादी- दृशव्याजमात्रानुभाषणम्, इति केचित् । एतेन जीव [गत व्यापार निरपेक्षमोक्षप्रदाना दिपक्षाश्च निरस्ताः ।

इतः परं त्वत्प्रवृत्त्यन्तरमनपेक्षितमित्याह-केवलमिति । मदीययैव-नान्यदीयता, न सहकार्यन्तरसापेक्षयेति भावः । दद्याऽत्र प्रपत्त्युल्लसिता रक्षणेच्छा । प्रपत्तिजनितप्रसाद्‌वैशिष्टचे सत्यपि सहजदयायाः प्राधान्यमिह सूचितम् । कर्मणां सुखदुःखजननशक्तिवत् तिरोधायकत्वादिशक्तिरपि निवृत्तेत्यभिप्रायेण निःशेषशब्दः । तेन अशेषतः इत्युक्तस्यानुक्तिः । हेतुभूतपापादिसद्भावे पुनरपि विघ्न उत्पचेतेति तत्परिहारार्थमुक्तम्-सहेतुकेति । विघ्न्नाः पूर्वोक्ताः । एवमनिष्ट निवृत्तिरुक्ता ; अथेष्टप्राप्तिं वदन् प्रथमं * तेषां ज्ञानी (गीता 7-17) इत्यादिप्रार्थितज्ञानपूर्वकपरभक्त्या दिप्रदानमाह – मत्प्रसादलब्धेति । इह हि परभक्त्यादिवचनं तत्पूर्वभाविज्ञानविशेषस्याप्युपलक्षणम् । अत्र मत्प्र- सादशब्दः प्रपत्तिजनितप्रसाद निरस्तपतिबन्ध [क] निरुपाधिकसौहार्दपरः । एवं मत्प्रसादादेव इति वक्ष्यमाणेनाप्यवधारणेन सहकारिनैरपेक्ष्यं द्योत्यते । मत्स्वरूपेत्या दि कमुत्तरखण्डस्थनारायणशब्दार्थः । विभूतिशब्दोऽत्र नित्यविभूतिविषयः । उपायदशायां शास्त्रविहिततत्तत्स्थानगुणादिपरिच्छिन्नस्वरूपा- द्यनुभवाद् तद्व्यावृत्त्यर्थ यथावस्थितविस्तारशब्दौ; आरोपशङ्का निवृत्त्यर्थं वा यथावस्थितशब्दः । हेत्वभावादत्र अमाभावः । एवं सर्वविशिष्टपरमभोक्तव्यसाक्षात्कारे नारशब्दार्थस्वस्वरूपा विर्भावमपि स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रम निवृत्तिपूर्वकतद्भोक्तृत्वज्ञापनाय पृथगाह-अपरोक्षेति । नियाम्य- त्वोक्त्या अत्र व्याप्यत्वधार्यत्वे च आकृष्टे, अन्तः प्रविष्टः शास्ता जनानाम् (तै. आ. सुवर्णधर्मानुबा के) * एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृह. 5-8-9) इति श्रुत्यनुसारात् । एतेन * स स्वराद् (छा. 7-25-2) इत्युक्तेऽपि मुक्ते पारतन्त्र्यादेरनपायो दर्शितः । नियाम्यत्वं चिदचित्साधारणम् ; दासत्वं तु चेतनैकनिष्ठम्; तयोः प्रातिस्विकं प्रयोजनमाह – मदेकानुभवो मदास्यैकप्रिय इति । ऐश्वर्यकैवल्यपुरुषार्थयोरिव स्वनिष्ठतया स्वतन्त्रतयाच स्वात्मानुभवप्रसङ्गोऽपि तथा न संभवतीत्यभिप्रायेण मदेकानुभवशब्दः । स्वाम्यनुभवप्रधाने स्वानुभवे स्वप्राधान्यगन्धनिवृत्त्यर्थं मद्दास्यैकप्रिय इत्युक्तम् । पूर्वोक्तमेवानुभव परमपुरुषार्थत्वमतिबोधाय पूर्ववत् पौष्कल्यादिभिर्विशिनष्टि-परिपूर्णति । तत्मयुक्तप्रीतिं तत्परिवाई च * नित्यकिङ्करो भवानीत्यन्तेन प्रार्थितं प्रयच्छति तथाविधेति ॥ १७ ॥

ईदृशस्वकैङ्कर्यसा । ज्ययोग्यतामलभ्यलाभत्वव्यक्त्या संतोषार्थमुत्तरक्कृत्य विधानार्थं च

अनुवदति –

एवंभूतोऽसि ॥ १८ ॥

एवंभूतोऽसीति । प्रकृत्यात्मविवेकाद्धार्मिकः, परावरत्तत्त्वविवेकाद्भागवतः, परावरपुरुषार्थ- विवेकादनन्यप्रयोजनः, स्वपराधिकारविवेकादनन्यसाधनः, पूर्वोक्तात् * अस्तु ते इत्यनुग्रह विशेषात् प्रमितानुष्ठितभरन्यासः, ततश्च मया स्वीकृतमरः, * नित्यकिङ्करो भवेति दत्तवरश्व त्वं मुक्तप्रायो- ऽसीत्यर्थः । आख्यातेन * सन्तमेनम् (तै. आ. 6-1) इत्यवस्था व्यज्यते । यद्वा, नित्यकिङ्करो भवेति सत्यसंकल्पेनोक्ते, तेन वा स्वेन [अन्येन ?] वा प्रत्याख्यातुमशक्यत्वे निवारकान्तराभावे च तदानीमेव तथाविभात्मानमपश्यतः क्रमात् तत्सिद्धिमाह-एवमिति । एवं भवितुमुपक्रान्तो- ऽसीत्यर्थः ॥ १८ ॥

भयावहायां देहेन्द्रियादिविशिष्टदशायां कथं कुत्र च निरपायः कालक्षेप इत्यत्राह –

आध्यात्मिकाधिभौतिकाधिदैविकदुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छरीरपातमत्रैव श्रीरङ्गे सुस्वमास्स्व ॥ १९ ॥

आध्यात्मिकेति । अत्रत्योत्कट सुखस्याप्युपलक्षणार्थमिह दुःखोक्तिः । श्लोकत्रयाद्युक्तज्ञान- भक्तिशालिनं प्रति प्रातिकूल्याविशेषाद्वा दुःखशब्देन सुखस्यापि संग्रहः । गन्धशब्देन वा तद्विवक्षा । तेन सर्वसाधारणः क्षुदादिर्वाऽभिप्रेतः । दुःखस्य द्वयार्थानुसन्धानं प्रति विघ्नत्वं स्यात्, अतस्तद्राहि- त्योक्तिः । इह च पूर्णविवेकानामाभिमानिकं दुःखं सुखं च नास्ति । सांस्पर्शिकानां तु प्रारब्ब – कर्मवशात् संभवतामपि प्रतिदिनं कर्मक्षयमोक्षासक्तिदर्शनश्रीत्या द्वयार्थानुसंधानविन्नत्वं नातीवास्ति । अतो न प्रत्यक्षादिविरोधः । त्वम् – अ[त्रत्य] नन्यज्ञानभक्त्यादिप्रार्थनावान् । उच्चारणं प्राधान्येन स्तोतुमर्थानुसन्धाने सहशब्दः । एवमर्थानुसंधान नेत्यन्वयः । एवम् – * अखिलहेय…. इत्याद्युक्त- विशदप्रकारेणेत्यर्थः । एतच्चात्र कृतकृत्यत्व [[नु] प्रतिसंधानप्रीत्यर्थम्, अस्य च स्वयंप्रयोजनकैक्ङ्कर्यरूपत्वात् । * यन्मुहूर्तम् (गारुडपुराणपूर्वखण्डे (222-22) इत्यादिन्यायेन भगवदनुभवप्रीत्यनुवृत्त्यर्थे, संभवद्- द्वन्द्वतितिक्षार्थ, निर्भरत्वानुसन्धानरसानुवृत्त्यर्थम्, निषिद्धकाम्यादिसङ्गनिवृत्त्यर्थे च सदेत्युक्तिः । इर्द तु स्वभावार्थशास्त्रभाप्ताविरोधेन नेयम्, अन्यथा सर्वप्रमाणविरोधात् । * तस्य तावदेव चिरं बावन्न विमोक्ष्ये (छा. 6-14-2) * प्रारब्धमात्रं सुक्त्वाऽत्र [मालमुक् तत्त्र] तत्त्वत्वित् सुखमाप्नुयात् (पाश्चरात्रे) * प्रारब्धमेव भोक्तव्यं कर्म ब्रह्मविदामपि (पाश्चरात्रे) * अनारब्धकार्ये एव तु पूर्वे तदवधेः (ब्र. सू. 4-1-15) इति दर्शितः प्रक्रान्तकर्मफलभोगोऽपि प्रपन्नस्य यथाभिलाषं प्रपत्त्युत्पत्तिशरीरा- वधिरित्यप्रायेणाह–यावच्छरीरपातमिति । आर्तितारतम्यादत्र [त्य] स्थितितारतम्यम् । अत्रैव अत्यन्तासन्नमत्सेवानुगुणे, नतु मत्कैङ्कर्यविरुद्ध देशेष्वित्यर्थः । अत्र अनेकपुराणादिप्रसिद्धश्रीरङ्गो- पादाने भागवताभिमतस्वयंव्यक्त। दिभगवत्क्षेत्रान्तराणामप्युपलक्षणम् । सुखमास्स्व – कृतकृत्यत्व- प्रतिसन्धानेन प्रतिदिनं कर्मक्षयदर्शनेन अविलम्बितानायासपरमपुरुषार्थलाभञ्यवसायेन विषमधुकल्प- वैषयिकर सबैमुख्य हेतु मृतद्वयार्थानुसन्धानसारस्येन च संतुष्टो वर्तस्वेत्यर्थः। स चायमत्रत्यसेवासौकर्यार्थ उपदेशः; सुखी भवेतिवदनुग्रहोक्तिर्वा । एवमर्थानुसंधानद्वयव चनसुखा सिका मिर्मनोवाक्कायानामयोग्य- व्यापारनिवृत्तिरपि स्यात् ॥ १९ ॥

भवत्वेवं कृतकृत्यस्योत्तरकृत्य फलम्; देहपातदशा कीदृशी ? परमफलं च कदा ! इत्याकाङ्क्षायां प्रारब्धशरीरानुवर्तकप्रतिबन्धनिवृत्तौ दयार्णवस्य दिव्यशक्तेः स्वस्य पूर्वक्कृतरक्षासँक- ल्पानुगुणमन्यैर निवार्यमुत्तर कृत्यमाह-

शरीरपातसमये तु केवलं मदीययैव दद्यया अतिप्रबुद्धो मामेवावलोकयन्, अप्रच्युतपूर्वसंस्कार मनोरथः, जीर्णमिव वस्त्रं सुखेनेमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य, तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगलैकान्तिकात्यन्तिक परभक्तिपरज्ञान वरमभक्ति- कृतपरिपूर्णानवरत नित्यविशदतमानन्यप्रयोजनानवधिका तिशय प्रिय मद‌नुभवजनितानवधि- का तिशयप्रीतिकारिताशेषावस्थोचिता शेषशेष तै कर तिरूपनित्यकिङ्करो भविष्यसि ॥ २० ॥

शरीरपातसमय इति । * वाच्यनसि (छा. 68-6) इत्यादिश्रुतिसिद्धाया मनःसंपत्तेः पूर्वावस्थायामित्यर्थः । एतेन * निशि नेति चेत् न (ब्र. सू. 4-2-18) इत्याद्युक्तः कालनि- यमाभावश्च सूचितः * ततस्तं श्रियमाणं तु (बराहपुराणे) इतिवत् । अत्र तुशन्द्रोऽधि- कार्यन्तराद्विशेषमनुग्रहकार्य द्योतयति । यद्वा, काष्ठपाषाणसंनिभतया स्वेन वा परैर्वा तदार्नी प्रबोधस्य दुःसंपादत्वम् । एवं तुशब्दद्योतितमेव विशेषं व्यनक्ति केवलमित्यादिना । केवलं पूर्वाभ्यासान- पेक्षम्, * यं योगिनः (भार. शा. 46-139) इत्याद्युक्ततादात्विकस्वयलनिरपेक्षं च । मदीययैव- मत्स्वभावभूतयैब, नान्यदीयता, नापि पुर्वोक्तक्षेत्रवासद्वयार्थानुसंधानजन्यया, नच तादात्विकप्रार्थनासा- पेक्षयेत्यर्थः । अतिप्रबुद्धः शरीरपातात् पूर्वकाल इव ज्ञानपौष्कल्यवान् । यद्वा, न केवलं संकोचा- भावमात्रम्, किंतु प्रत्यूषप्रकाश कल्पपूर्वावस्थातो ऽतिशयोऽपि स्यादित्यर्थः । अपरिच्छिन्नस्तु प्रबोधो विशिष्टदेशगत्यनन्तरभावी । अन्तिमदशायाम् आदिभरवादिवदन्यदर्शनं तव न स्यादित्याह – मामेवावलोकयन्निति । नित्यमनुचिन्तितं मामेव शुभाश्रयविग्रहविशिष्ट विशदमनुसंदधान इत्यर्थः । अविच्छिन्नसाक्षात्कारं कुर्वन्निति वा, तदानीमवलोकनीय सर्व भगवदपृथक्सिद्धतयैव भातीति वा अवधारणस्याभिधायः । एवं ज्ञानदर्शने प्रोक्ते; अथ बक्ष्यमाणायाः प्राप्तेः पुरुषार्थत्वाय तदिच्छानु- वृत्तिमाह- अप्रच्युतेति । मगवानेव मे परमप्राप्य इति शास्त्रजन्यानुभवसंस्कारस्य कालविप्रकर्ष- काय विश्लेषक्लेशादिभिः प्रच्युतिर्न भविष्यति; तत एव संस्कारमूलः प्राप्तिमनोरथोऽपि तदानीं भवतस्त्य [1] ज्यमानेषु देहतवनुबन्धिषु रागाद्वा, किं भविष्यतीति भयाद्वा न प्रच्यवत इति भावः । * अतिप्रबुद्धः इत्यादिभिः परभक्त्पादित्रयं वा, परमात्मनि विश्रमादनन्तरभाविप्रचोघादिकं वा विव- क्षितमिति केचित् । लब्धनुतनशुभवस्त्रान्तरस्य जीर्णवस्त्र इव अत्यासन्नदिव्यदेहलाभस्य चिरपरिचितेऽपि भोगायतने जिहासोत्पत्तिमनायासहानप्रीतिं च निदर्शयति- जीर्णमिव बस्त्रमिति । * कृतकृत्याः प्रतीक्षन्ते (इति. समु. 6-37) * नोपजनं स्मरनिदं शरीरम् (छा. 8-12-3) इत्यादिभिरभिप्रेतं लब्धपरित्यागक्लेशाभावम्, यमकिंकरादिभयाभावम्, चिकित्सकशल्यप्रयोगन्यायशङ्कितो त्क्रमणदुःखा- भावम्, अत्यासन्नपरमपुरुषार्थानुसन्धानहार्दानुग्रहतादात्विकभगवदनुभवातिवाहिकदर्शनजनितहर्षे च अभिप्रेत्याइ – सुखेनेति । इमाम् अनायनुवृत्तां भगवत्वरूपतिरोधानादिभिरपकारिणीं कारागृहनरकादिबदनुसंहितां दुरत्ययां मदन्यैः त्याजयितुमशक्यां चेति भावः । प्रकृतिम्– सतत- विकारशीलं त्रिगुणद्रव्यम्। उत्क्रान्तिपादे [च] अचिरादिपादे चोक्तं सर्वमभिप्रेत्याह-स्थूलसूक्ष्म- रूपां विसृज्येति । स्थूलमक्कृतित्यागोऽत्रैव; सूक्ष्मप्रकृतित्यागस्तु * त्रिभावभावनातीतो मुक्तये योगिनां नृप ।। देवयानं परः पन्था योगिनां क्लेशसंक्षयः (वि. पु. 6-7-76) इत्याद्युक्तदेवयानपथेन दिव्यदेशगमनदशा यामेव भवति । एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य (छा. 8-3-4) * स एवं विद्वानस्म। च्छरीरभेदा दृर्ध्वमुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्वा अमृतः समभवत् (ऐतरेयोपनिषदि 4 खण्डे) इत्यादिषु ब्रह्मप्राप्तिपर्यन्ताभिधानात् तिरोधायकसूक्ष्म- प्रकृतिविश्लेषोऽप्यभिप्रेतः । सुबालोपनिषदि (11 खण्डे) तु- अपुनर्भवाय नाख्या कोशं मिनत्ति, कोशं भित्त्वा शीर्षकपालं भिनत्ति, शीर्षकपालं भित्त्वा पृथिर्वी भिनत्ति, इत्यारभ्य अक्षरं भित्त्वा सृत्युं भिनत्ति (सुबाल 11 खण्डे) इत्यन्तेन स्थूलशरीरत्यागपूर्वकतमः पर्यन्तसर्वतत्त्वातिक्रम उक्तः । तदेवं क्रमेण सूक्ष्म प्रकृतिविमोक्षानन्तरं स्वस्यैव प्रसादेन अविलम्बितमनोरथपूर्तिमाह तदानीमेवेति । अपेक्षणीयान्तर।भावात् न विलम्ब इति भावः । प्रसाद इह तिरोबायकांशपर्यन्तस्य निग्रहरूप- कालुष्यस्य निःशेषनिवृत्त्या सूरिष्विव स्वभावत एवावस्थिते सौहार्दम्; तच्चात्र निर्दुःखनित्यनिरति- शयानन्दमनुभवत्यसावितीच्छैव ॥ २० ॥

अत्र तावदस्ति क्षुद्रफलेब्वप्युपायगौरवम्; मोक्षे तु अनेकजन्मसंसिद्धः (मीता 6-45) * क्लेशेन महता सिद्धैः (लघुतन्त्रे) * क्षपयित्वा ऽधिकारान् स्वान् शश्वत् कालेन भूयसा (लक्ष्मीतन्त्रे 17-18) इत्यादिभिः कृच्छ्रसाध्यतयोक्ते विधिशिवसनकायैर्ध्यातुमत्यन्तदृरे गुरूपायसाध्ये न्यास- मात्रनिष्ठस्य मादृशस्य निर्यत्तलब्धिवचनमुपच्छन्दनमिति केषांचिच्छङ्का जायेत, अतस्तान् बिलम्मयितुं भाष्यकारमपदिश्याह-

मा ते भूदत्र संशयः ॥ २१ ॥

मा ते भूदत्र संशय इति । ननुपायलाघवप्राप्यगौरवादिनिमित्तशक्ङ्का विधूननेन महा- विश्वासपूर्वकं शरणमुपगतस्य संशयप्रसङ्गाभावादत्र तत्प्रतिषेधो निरर्थकः ? मैवम्; तादात्विक- महाविश्वासेनोपाये निष्पन्नेऽपि तस्य फलाविनाभावेऽपि केषांचित् प्रारब्धकर्मविपाकवैचिच्यात् संशयोऽपि संभवति ; न च तेनोपायवैकल्यम्, फलप्रतिबन्धो वा । मतिकालुष्यनिवृत्तिस्तु अत्रत्यपर- भक्तयादिवत् स्वयं पुरुषार्थः; अतः प्रसन्नेन भगवता संशयनिवर्तनमुपपद्यत इति । यद्वा, यावत्फललाभं विमर्शदशायामक्षोभणीयो विश्वासो महाविश्वासः; स च तात्कालिक उपायाङ्गन् ; पश्चातु मदभिप्रायं मद्वाक्यं च परामृशतां मदनुग्रहादेव संशयो न भवत्येवेति ज्ञापनार्थमिह * मा ते भूदित्यादि * निःसंशयः इत्यन्तमुच्यते इति । ते निश्चितशास्त्रार्थस्य सर्वसुहृदि सर्वशक्तौ [च] मयि न्यस्तमरस्य च । अत्र-मत्प्रयोजनप्रधानायां मन्नित्यकिंकरत्वप्राप्तौ ॥ २१ ॥

यद्येतदुपच्छन्दनम् ; तदा मे स्ववचनविरोधः स्यादित्यभिप्रायेणाह –

* अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन (रामा. कि. 7-22)

* रामो द्विर्नाभिभाषते (रामा. अयो. 18-30)

* सकुदेव प्रपन्नाय तवास्मीति च याचते ।

अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम (रामा. यु. 18-33) ॥

* सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (गीता 18-66) ॥

इति मयैव द्युक्तम् ॥ २२ ॥

अनृतं नोक्तपूर्वं मे इति । इयमनृतानुक्तिराश्रितविषया, आसुरेषु प्रतारणदर्शनात् । अनुक्तपूर्वमप्यनृतं पश्चात् खातन्त्र्यादुच्येतेत्यत्राह–न च वक्ष्ये कदाचनेति । इतः पूर्वमिवेति भावः । इदमपि त्वद्वाक्यतया पूर्ववदाशङ्कनीयनित्यत्र * सत्यवादी च राघवः (रामा. अयो, 2-33) इति प्रसिद्ध लोकोक्तिच्छायया स्वयमेवाह-रानो दिनाभिमाषत इति । स्वोक्तविरुद्धं नाभिभाषत इत्यर्थः । मम सकृदुक्त्यैवार्थिनामपेक्षितार्थः सिध्येदिति वा तात्पर्थम् । एवं सामान्यतः प्रत्या- यितस्य प्रकृतपर्यवसानाय रावणानुजपरिग्रहे पार्थोपदेश नयेवसाने च विशेषत उक्तं श्लोकद्रयमाह- सकदेवेति, सर्वधर्मानिति च । वेदवैदिकवाक्यमात्रातिशाथिकोरनथेः शरण्यवाक्ययोरर्थं तदधि- कारयोरभिधास्यामः । इदं मोक्षप्रदानोत्सुकेन मथैवोक्तम्; न तु मदादेश भूतदुरधिगमार्थवेदनु खेन वा संभवद्भमादिदोषपुरुषान्तरसुखेन वेत्याह-मरैव बुक्तमिति । हिः प्रसिद्धी, हेडी वा ॥ २२ ॥

उक्तमेव स्थिरीकरणार्थ संतोषातिशयार्थं च निगमयति –

अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः सुखमास्स्व ॥ २३ ॥

अन्त्यकाले स्मृतिर्या तु तव कैङ्कर्यकारिता । तामेनां भगवन्नद्य क्रियमाणां कुरुष्व मे ॥ २४ ॥



॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये शरणागतिगद्य।ख्यं पृथुगद्यम् ॥


अत इति । अतः सत्यवादिना सत्यव्रतेन मयोक्तस्य वाक्यस्य विश्वसनीयतमत्वात् । त्वम् प्रामाणिकः । तत्र- ये प्रपन्ना महात्मानस्ते मे नयनसंपदः (पाञ्चरात्रे) इति मत्प्रशंसनीयस्य, मत्स्वीकृतभरस्य च । तच्चतः- संशयविपर्ययशहित्येन । मज्ज्ञानदर्शनप्राप्तिषु, यथायोगमत्र परत्र च अपेक्षितास्त्रिति शेषः । * निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । सप्तंशयान् हेतुबलान्नाध्यावसति माधवः (भार. शा. 359-71) इत्यादिप्रमाणसूचना याह-निःसंशय इति । सिद्धस्यैव ज्ञानस्य अनुवृत्तौ संशय इह निवार्यते । अनेनैव निर्भरत्वादिकमप्याकृष्यते । सुखमास्स्व * आध्यात्मिकेत्यादिना पूर्व मयोक्तमेव तवोचितमिति भावः । * यात्रच्छरीरपातमिति पूर्वोक्तस्यात्त्रानुक्तेश्यमभिप्रायः- मत्प्राप्तेः प्रारब्ध कर्मप्रतिनियतायुरवसाननिर्बन्धो नास्ति ; यावदत्रत्यनदनुभवापेक्षा तावदत्र सुखमास्स्व ; परिपूर्णानुभवालाभादिह सुखासिकायामप्युद्वेगे सति आयुःशेषश्शृङ्खलामप्यपोह्य आत्यन्तिकमत्कैङ्कर्याय मत्पदं गमिष्यसि इति । एतेनानादिकालमा ज्ञातिलङ्घनमूलभगवदप्रसादेन संसरतो मे भगवत्कृपा- मूलसदाचार्याङ्गीकारेण द्वयोच्चारणानुच्चारणपूर्वकस्वरक्षाभरन्यासे सिद्धे, प्रसादनेष्वस्मादभ्यधिकस्या- भावात् स्वीकृतभरः श्रियः पतिर्नारायणः कालत्रयवर्तिनः सर्वान् अप्रसादहेतुन् यथाईं क्षान्त्वा, स्वयमेव स्वार्थमेव मां खज्ञानदर्शनप्राप्त्यादिप्रदानेन रक्षेदिति विश्वस्तो निर्भरो निर्मयः संतुष्टो भवे [दि] ति निगमितं भवति ॥ २३ ॥ २४ ॥


इति शरणागतिगद्यं यतीशरङ्गेशसंलपनरूपम् । व्यवृणुत देशिकदृष्ट्या विमृश्य निश्चित्य वेङ्कटेशकविः ॥ १६ ॥

वितमसि निगमान्ते विश्रता देशिकत्वं कृतिभिरनुमतेन क्षेमबुद्धया मयैवम् । यतिपतिपृथुगद्यञ्याक्रियायां यथावत् कथितमकथितं च क्षम्यतां नः सयूथ्यैः ॥ १७ ॥

॥ इति रहस्यरक्षायां पृयुगधाधिकारः ॥

——-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.