[highlight_content]

श्रीवैकुण्ठगद्यम् -रहस्यरक्षा

श्रीमते रामानुजाय नमः ।

श्रीमद्वेदान्तदेशिकैरनुगृहीतम् रहस्यरक्षायाम् गद्यत्रयभाष्यम् – श्रीवैकुण्ठगद्यम्



यानुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्न संदर्शयाम्यहम् ॥ १ ॥

स्वाधीनत्रिविधचेतना चेतनस्वरूप स्थितिप्रवृत्ति मेदम्, क्लेशकर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवाधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजः प्रभृत्यसंख्येयकल्याण गुणगणौघमहार्णवम्, परमपुरुषम् भगवन्तं नारायणं स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य, ऐकान्ति- कात्यन्तिकतत्पादाम्बुजद्वपपरिचर्येकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्रयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्त्रानः, तस्यैव भगवतो नारायणस्य अखिलत- चदयैकसागरस्य अनालोचित [गुणागुण] गुणगणाखण्ड जनानुकूला मर्यादशीलवतः, स्वाभा- विकानवधिकातिशयगुणवत्तया देवतिर्यद्मनुष्याद्यखिल जनहृदयानन्दनस्य, आश्रितवात्सल्यै- कजलघेः, भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यादिभोगसामग्रीतमृद्धस्य महाविभूतेः श्रीमतश्चरणारविन्दयुगलम् अनन्यात्मसंजीवनेन तद्भतसर्वभावेन शरणमनुव्रजेत् ॥ २ ॥

ततश्च प्रत्यहमात्मोजीवनायैवमनुस्मरेत् ॥ ३ ॥

चतुर्दशभुवनात्मकमण्डं दशगुणितोत्तरं च आवरणसप्तकं समस्त कार्यकारणजात- मतीत्य वर्तमाने, परमव्योमशब्दाभिधेये, ब्रह्मादीनां वाच्यनसागोचरे, श्रीमति वैकुण्ठे दिव्यलोके, सनकविधिशिवादिभिरप्यचिन्त्यस्वभावैश्वर्यैर्नित्य सिद्धैरनन्तैर्भगवदानुकूल्यै- कभोगैर्दिव्य पुरुषैर्महात्मभिरापूरिते, तेषामपि ‘इयत्परिणामम् इयदैश्वर्यम् ईदृशस्वभावम्’, इति परिच्छेत्तुमयोग्ये दिव्यावरणशतसहस्रावृते, दिव्यकल्पकतरूपशोभिते, दिव्योद्यान- शतसहस्रको टिभिरावृते, अतिप्रमाणे दिव्यायतने, कस्मिंश्चिद् विचित्रदिव्यरत्नमयदिव्या- स्थानमण्टपै, दिव्यरत्नस्तम्भशतसहस्रको टिभिरुपशोभिते, दिव्यनानारत्नकृतस्थलविचित्रिते, दिव्यालङ्कारालंकृते, परितः पतितैः पतमानैः पादपस्थैश्च नानागन्धवर्णैर्दिव्यपुष्पैः शोममा- नैर्दिव्यपुष्पोपवनैरुपशोभिते, सङ्कीर्णपारिजातादिकल्पद्रुमो पशोभितैरसङ्कीर्णैश्च कैश्चिदन्तस्थ- पुष्परत्वादिनिर्मितदिव्यलीलामण्टपशतसहस्रोपशोभितः सर्वदाऽनुभूयमानैरप्यपूर्ववदाश्चर्यमा- वहद्भिः क्रीडा शैलशतसहसैरलंकृतैः कैश्चिन्नारायणदिव्यलीलासाधारणैः कैश्चित् पद्मवना- लया दिव्यलीला साधारणैः साधारणैश्च कैश्चित् शुकशारिकामयूरकोकिलादिभिः कोमल कूजितैराक्कुलैर्दिव्योद्यानशतसहखैरावृते, मणिमुक्ताप्रवालकृत सोपानैर्दिव्यामला मृतरसोद- कैर्दिव्याण्डजवरैरतिरमणीयदर्शनैरतिमनोहर मधुरस्वरैरा कुलैरन्तस्स्थमुक्तामय दिव्यक्रीडा स्था नोपशोभितैर्दिव्यसौगन्धिकवापीश्शतसहखैर्दिव्यराजहंसावलीविराजितैरावृते, निरस्ताति- शयानन्दैकरसतया च आनन्त्याच्च प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैर्विराजिते, तत्रतत्र कुतदिव्यपुष्पपर्यक्ङ्कोपशोभिते, नानापुष्पासवास्वादमत्तभृङ्गावलीभिरुद्ट्रीय मानदिव्यगान्ध- वेंणापूरिते, चन्दनागुरुकर्पूरदिव्यपुष्पावगाहिमन्दा निलासेव्यमाने, मध्ये दिव्यपुष्प- सञ्चयविचित्रिते महति दिव्ययोगपर्यङ्के अनन्तभोगिनि, श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोक- मात्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादिकं सर्व परिजनं भगवतस्तत्तदवस्थोचित- परिचर्यायामाज्ञापयन्त्या शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनम्, प्रत्यग्रोन्मीलितसरसिजसदृशनयनयुगलम्, स्वच्छनीलजीमूतसङ्काशम्, अत्युज्ज्वलपीत- बाससम्, स्वया प्रभया अतिनिर्मलया अतिशीतलया [अतिकोमलया] स्वच्छया माणि क्याभया कृत्न जगदुद्भासयन्तम् * अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमया- मृतसागरम्, अतिसौकुमार्यादीषत्प्रस्विन वदा लक्ष्यमाणललाटफलक दिव्यालकावली विरा- जितम्, * प्रबुद्धमुग्धाम्बुजचारुलोचनम्, सविभ्रमभ्रूलतम्, * उज्ज्वलाधरम्, * शुचिस्मितम्, * कोमलगण्डम्, उन्नतम्, उदद्यपी नांसविलम्बिकुण्डलालका- वलीबन्धुरकम्बुकन्धरम्, * प्रियावतंसोत्पलकर्ण भूषण श्लथालकाबन्धविमर्दशं सिभिश्चतुर्भि- राजानुविलम्विभिर्भुजैर्विराजितम्, अतिकोमलदिव्यरेखालंकृताताम्रकरतलम्, दिव्याङ्गुली- यकविराजितम्, अतिकोमलदिव्यनखावलीविराजिता [जु] तिरक्ताङ्गुली मिरलंकृतम्, तत्क्ष- णोन्मीलितपुण्डरीकस दृञ चरणयुगलम्, अति मनोहर किरीट मकुटचूडावतंस मकर कुण्डलप्रैवे- यकहारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीतांबरकाञ्चीगुण नुपुरादिभिरत्यन्तसु- खस्पर्शेर्दिव्यगन्धैर्भूषणैर्भूषितम्, श्रीमत्या वैजयन्त्या वनमालया विराजितम्, शङ्खचक्रगदाऽसिशार्द्धादिदिव्यायुधैः सेव्यमानम्, स्वसङ्कल्पमात्रा वक्लप्त जगञ्जन्मस्थि तिध्वंसादिके श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम्, वैनतेयादिभिः स्वभावतो निरस्तस मस्तसां सारिकस्वभावैर्भगवत्परिचर्या करणयोग्यैर्भगवत्परिचयैकभोगैर्नित्यसिद्धेरनन्तैः यथायोगे सेव्यमानम्, आत्मभोगेनाननुसंहितपरादिकालम्, दिव्यामलकोमला- वलोकनेन विश्वमाह्लादयन्तम्, ईषदुन्मीलितमुखाम्बुजोदरविनिर्गतेन दिव्याननार- विन्दशोभाजननेन दिव्यगाम्भीयौदार्यसौन्दर्यमाधुर्याद्यनवधिकगुणगणविभूषितेन अति- मनोहरदिव्यभावगर्भेण दिव्यलीलालापामृतेन अखिलजनहृदयान्तराण्यापूरयन्तं भगवन्तं नारायणं ध्यानयोगेन दृष्ट्ठा, [ततो] भगवतो नित्यस्वाम्थम् आत्मनो नित्यदास्यं च यथावस्थितमनुसन्धाय, ‘कदाऽहं भगवन्तं नारायणं मम फुलनाथम्, मम कुलदैवतम्, मम कुलधनस्, मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि चक्षुषा ? कदाऽहं भगवत्पादाम्बुजद्वयं शिरसा संग्रहीष्यामि ? कदाऽहं भगवत्वादाम्बुजद्वय- परिचर्याशया निरस्तसमस्तेतर भोगाशोऽपगतसमस्तसांसारिकस्वभावस्तत्पादाम्बु अद्वयं प्रवेक्ष्यामि ? कदाऽहं भगवत्पादाम्बुजइयपरिचर्याकरण योग्यस्तदेकभोगस्तत्पादौ परि- चरिष्यामि ? कदा मां भगवान् स्वकीयया अतिशीतलता दृक्षाऽवलोक्य खिग्धगम्भीरमधुरया गिरा परिचर्यायामाज्ञापयिष्यति ?’ इति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य दूरादेव भगवन्तं शेपभोगे थिया सहासीनम्, वैनतेयादिभिः सेव्यमानम्, ‘समस्तपरिवाराय श्रीमते नारायणाय नमः’ इति प्रणम्योत्था- योत्थाय पुनःपुनः प्रणम्य, अत्यन्तसाध्वसविनयावनतो भूत्वा, भगवत्पारिषदगणनाय- कैद्वारपालैः कृपया स्नेहगर्भया दृशा अवलोकितः, सम्यगभिवन्दितैस्तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण, ‘मानैकान्तिकात्यन्तिकपरिचर्चाकरणाय परिगृह्णीष्व’ इति याचमानः प्रणम्य, आत्मानं भगवते निवेदयेत् ॥ ४ ॥

ततो भगवता स्वयमेवात्मसंजीवनेनामर्यादशीलवता अतिप्रेमान्वितेनावलोकने- नावलोक्य सर्वदेशसर्वकाल सर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातच, अत्यन्त- साध्वसविनयावनतः किंकुर्वाणः, कृताञ्जलिपुटो भगवन्तनुपासीत ॥ ५ ॥

ततश्चानुभूयमानभावविशेषः, निरतिशयश्रीत्या अन्यत्किंचित् कर्तुं द्रष्टुं समर्तु- मशक्तः, पुनरपि शेषभावमेव याचमानः, भगवन्तमे वा विच्छिन्नस्रोतोरूपेणावलोकनेनाव- लोकयन्नासीत ॥ ६ ॥

ततो भगवता स्वयमेवात्मसंजीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तल्ले- शापहं निरतिशयसुखावहमात्मीयं श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वा अमृतसाग- रान्तर्निमग्रसर्वावयवः सुखमासीत ॥ ७ ॥


॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीवैकुण्ठगचं समाप्तम् ॥

॥ समाप्तं च गयत्रयम् ॥



अनया गद्यद्वयोक्तगमनिकयैव श्रीवैकुण्ठगद्यनपि गतार्थप्रायम् । एतयोः स्वानुष्ठानोक्तिमुखेः। शिष्यशिक्षणं कृतम् ; तस्तिस्तु उपदेशमुखेनेति विशेषः । तन्त्र यदादौ पठ्थते- यानुनार्यसुधा- म्भोधिप्रवगाह्य यथामति। आदाय भक्तिपोयाख्यं रवं संदर्शवाम्यहमिति इहासो भक्तियोगशब्दः स्वयंप्रयोजनभगवदनुसंधानपरः; अन्यथा, * तत्प्राप्तये च तत्पादाम्बुजद्वयप्र- पत्तेरन्यन्न मे कल्पको टिसहस्रेणापि साधनमस्तीति मन्वानः इति वक्ष्यमाणविरोधात । अत एव * प्रत्यहमात्मोञ्जीवनायेत्यादिकमपि न मुक्तितत्साधनपरम्; अपि तु ज्ञानी तु परमैकान्ती परायत्तात्मजीवनः (गीतार्थसंग्रहेद्दे २९) इत्यादिप्रसिद्धे अत्रत्यावस्था विशेषे मरुदेशपथिकपानीयन्यायेन अलभ्यलाभाश्वासनाभिप्रायम् ॥

तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्ये इति दिव्या- यतनविशेषणे तु महत्तरत्वमेव विवक्षितम्, दिव्यावरणसंवृतत्वादिकथनेनैव तत्परिमाणसिद्धेः । अत्र स्वभावशब्दोऽपि निरतिशयभोग्यत्वादिविषयः । न खेवंवित्रविषयेषु परिच्छेदायोग्यत्वोक्त्या सूरीणां सार्वश्यहानिः, दिव्यायतनगुणप्रकर्षे तात्वर्याच्च। प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैः इत्यत्रापि हर्षप्रकर्षजनकत्वे तात्पर्यम् ।

श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकम् इत्यत्र तु वैकुण्ठशब्देन नगराद्यवान्तरप्रदेशो विवक्षितः ; स एव प्रशस्तविभूतिरूपत्वादैश्वर्यशब्देनोपचर्यते । नित्यमुक्तविषयं देव्या आज्ञापनम् परिचर्यावि- शेषेष्विच्छोत्पादनमात्रम्, तेषां सर्वज्ञत्वेन ज्ञानोत्पादननैरपेक्ष्यात् ।

पुण्डरीकसदृशचरणयुगलम् इति । अत्र पुण्डरीकशब्दः पद्मत्तामान्यमुखेन रक्ताम्बुजपरः ।

यत्क्तूक्तम्-संकल्पमात्रावक्लप्तजगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम् इति, तत्र यद्यपि जगद्वयापारमोक्षप्रदत्वे ब्रह्मलक्षणतया मुक्तेषिव नित्यसूरिष्वपि सर्वेषु न संभवतः यद्यपि च भगवान् स्वतः सर्वज्ञः; तथाऽपि सेनापतिना निवेदितं तथाऽनुजानन्तमुदारवीक्षणैः (स्तोल. ४२) इति न्यायेन भगवद्दत्तता दृशाधि- कारतया तत्तदवसरे जगत्सृष्टद्याद्यर्थ भगवते विज्ञापनवाक्यं विष्वक्सेनो व्याहरति; तदा स्वतः सर्वज्ञो भगवान् तन्निवेदितकारीव क्रीडति; तावन्मात्रेण विष्वक्सेनस्य जगद्यापारव्यपदेशरूपस्तुति ः ; न्यस्ततमस्तात्मैश्वर्यम् इत्येतदपि सेना निर्वहणाद्यर्थाधिकारप्रदानपरम् ; *स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति (छा.८-२-१) इत्यादिन्यायेन परिमितविषयो वाऽत्र जगच्छन्दः; अतो हिरण्यगर्भादिवत् काचित्कप्रभूतसृष्टद्यादिमात्रान्नास्मिन् ब्रह्मलक्षण प्रसङ्गः ।

यदपि आत्मभोगेनाननुसंहितपरादिकालमिति, तदपि भगवतः कालविषयमज्ञानं नामित्रैति, आनन्दप्रकर्षप्रशंसायां तात्पर्यात् ।

यच्च तत्पादाम्बुजद्वयं प्रवेक्ष्यामि इति मुमुक्षोरभिसंधिरुच्यते, तत्र पूर्वोक्तस्य शिरसा संग्रहणस्य गाढतमत्वं प्रवेशशब्देनाभिमेतम् ।।

यदपि शेषभावाय स्वीकृतः इति, तत्र यावदात्मभाविकैङ्कयेकरणाय संकल्पित इत्यर्थः । एवमन्यदपि सबै सुसंगतम् – इति ।।

द्वयवचनधनानां द्विःप्रयोग। नपेक्षे मुषितनिखिलदोषे मुक्त्युपाये स्थितानाम् ।

अमृतमिव पयोथेराप्तमेतद् यतीन्द्राद् व्यवृणुत मितगद्यं वेङ्कटेशः सुमेघाः ॥ १ ॥



इति रहस्यरक्षायां श्रीवैकुण्ठगद्याधिकारः समाप्तः ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु रहस्यरक्षा यां गद्यत्त्रयभाष्यं समाप्तम् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

श्रीमते निगमान्तमहागुरवे नमो नमः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.