[highlight_content]

श्रीस्ङ्गगद्यम् -रहस्यरक्षा

श्रीमते रामानुजाय नमः ।

श्रीमद्वेदान्तदेशिकैरनुगृहीतम् रहस्यरक्षायाम् गद्यत्रयभाष्यम् – श्रीस्ङ्गगद्यम् ॥

चिश्वित्परतत्त्वयामां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥



स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम्, क्लेशकर्माद्यशेषासंस्पृष्टम्, स्वा- भाविकानवाधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःसौशील्यवात्सल्य माईवार्जवसौहार्दसाम्य – कारुण्य माधुर्यगाम्भीर्यो दार्यचातुर्यस्थैर्यधैर्यशौर्य पराक्रमसत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञता – ऽऽद्यसंख्येयकल्याणगुणगणौघ महार्णवम्, परब्रह्मभूतम्, पुरुषोत्तमम्, श्रीरङ्गशायिनम्, अस्म- त्स्वामिनम्, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं तदेकानुभवस्तदेकप्रियः परिपूर्ण भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तद‌नुभवजनितानवधिका विशयप्रीति- का रिता शेपावस्थोचिताशेषशेपतैकरतिरूपनित्यकिङ्करो भवानि ॥ १ ॥



।। रहस्यरक्षायां मितगद्याधिकारः ॥

श्रीमल्लक्ष्मणमुनिना शिष्यहितैकाग्रचेतसा कथितम् ।

मितगद्यम [मृ] मितसारं व्यक्तं व्याख्याति वेङ्कटेशकविः ॥ १ ॥

अत्र द्वयार्थानुसंधानरसिकेन भगवता भाष्यकारेण वृहद्भद्ये [य] व्याख्यातमपि द्वयम् * बहुधा श्रोतव्यम्, इति मन्यमानेभ्यः शिष्येभ्यः पुनरप्याकिंचन्यादिप्रपश्ञ्चनपूर्वकस्वानुष्ठानप्रकाशन- प्रक्रिययैव संक्षेपेण व्याक्रियते ।

तथा हि-अत्रादिमं वाक्यमुत्तरखण्डस्य विवरणम्; द्वितीय पूर्वखण्डस्य । तेनैवाधिकार- विशेषः कार्पण्यरूपमङ्गं च प्रदर्शितम् [भवति। तृतीयं तु महाविश्वासाद्यङ्गान्तरज्ञापकम् । अनन्तरं श्लोकद्वयानुपठनेन पूर्वोक्त एवार्थः प्रमाणतः प्रतिष्ठाप्यते । ततः परेण वाक्येन पूर्णप्रपत्त्य कुशले जनेऽपि तत्पूरणानुगुणप्रपत्तिवाक्योच्चारणवैभवं ख्याप्यते । तत्सिद्धयर्थं पश्चाच्चतुर्दशभिः संबुद्धि- भिर्नारायणशब्दोक्ताः शरण्याकारविशेषाः प्रकाश्यन्ते । * नमोऽस्तु ते इत्यनेन तु प्रकृतोपाये प्रधानमुतो भरन्यासांशः, फलपाथेनं वा निगद्यत इति विभागः ॥

इह च प्रथमं सविभूतिकस्य भगवतः परमप्राप्यत्वादिसिद्धयर्थ चतुर्थन्तपद‌प्रदर्शितं सर्वेश्वरत्वादिकमाह-स्वाधीनेति। स्वशब्देन मुक्तप्राप्यस्य कैङ्कोद्देश्यस्य सर्वेश्वरस्य श्रुत्यादि- प्रसिद्धं निरतिशयानन्दत्वादिकं सूच्यते । स्वाधीनशब्देन भगवत्स्वरूपाचीनत्वम्, तदिच्छाधीनत्वं च विवक्षितम् । सर्वस्य साक्षात् परम्परया वा तदा [श्रय] श्रिततया तत्त्वरूपाधीनत्वम् । तत्र नित्यानां पदार्थानां तदिच्छाधीनस्वरूपत्वं तदभावे तेषामभावः प्रसजेदिति प्रसङ्गमुखेन स्थाप्यम् तद‌भिप्रायेण बाहुः – * इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्रनिजस्वरूपा भावत्कमङ्गलगुणा हि निदर्शनं नः ॥ (श्रीवैकुण्ठस्तवे 36) इति । अभाषि च शारीरकान्ते – परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य, परमपुरुषस्य नित्येष्ठत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते (श्रीभाष्ये 4-4-20 सू.) इति। अनित्यानां तु तदिच्छाधीनस्वरूपत्वं तदायतोत्पत्तिकतया हि प्रसिद्धम । गुरुद्रव्याणां पतनप्रतिबन्धेन घार्यत्वमपि तदिच्छाधीनत्वविशेष एव । चेतनशब्द इह जीवविषयः; बद्धमुक्तनित्यरूपेण जीवानां त्रैविध्यम्। अचेतनशब्दश्चात्र अचिद्रव्यपरः । त्रिगुणकालशुद्धसत्त्वरूपेण अचेतनत्रैविध्यम् । द्रव्याणां तदधीनत्वोक्त्या तत्तद्धर्माणां तादधीन्य कैमुत्यसिद्धमिति तदनुक्तिः । अचेतनद्रव्यस्यापि धर्मभूतज्ञानस्य चेतनमहणे विशेषणतयोपात्तत्वादत्र पृथगनुपादानम् । चेतनमात्रे वा त्रैविध्यान्वयः । चेतनाचेतनानां स्वरूपं स्वासाधारणस्वभावैर्निरूप्यं घर्मि, तस्य मेदः तचद्वचक्तितो वर्गतश्च परस्परव्यावृत्तिरूपो घर्मः । स्थितिः- कालान्तरेऽपि विद्यमानता; सा च द्रव्याणां स्वरूपेण सर्वकालानुवृत्तिरूपा । तेषां तत्तदवस्थाविशिष्टवेषेण तु कालपरिच्छिन्ना काळतारतम्यवती चेति तद्भेदः । प्रवृत्तिः – व्यापारः । निवृत्तिरप्यकरणसंकल्परूपा प्रवृत्तिविशेषः । एतद्भेदस्तत्तत्कार्यादिभिर्द्रष्टव्यः । अत्र स्वेच्छाधीनसर्वत्वोक्त्या स्वार्थसर्वोपादा [न] तृत्वसूचनात् सर्वशेषित्वमपि सिध्यति । तदाहुः- * उपादते सत्तास्थितिनियमनायैश्चिद‌चितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । (श्रीरङ्गराजस्तवे 2-57) इति ।

एवं भगवतः सर्वाधारत्वादिव्यञ्जनात् तदन्येषां चेतनाचेतनद्रव्याणां तं प्रति आधेयत्व- विधेयत्वशेषत्वनियमेन तदपृथक्सिद्धविशेषणतया तच्छरीरत्वं श्रुतिसिद्धं मुख्यमेव स्थापितं भवति । अत्र च कारणवाक्यार्थः, धर्मवर्निमेदः, चिदचिद्भेदः, जीवेश्वरभेदः, जीवानामन्योन्यभेदः, तेषां ज्ञातृत्वम्, तत एव कर्तृत्वभोक्तृत्वे, ज्ञातृत्वादेः सर्वथा पराधीनत्वम्, परस्य च विभुतिद्वयवत्त्वम्, सावेत्रिकत्रैकालिकसर्व नियन्तृत्वम्, त्रिविधपरिच्छेदराहित्यम्, कालपरमब्योम्नो लिगुणविकाराति- रिक्तत्वम्, प्राज्ञानविष्ठितमक्कृतिकारणत्वनिरासादिकं च शारीरकस्थापितमर्थसिद्धम् ॥

अथ भगवत उक्ताकारान्तर्गतसर्वकारणत्वसर्व नियन्तृत्वादिभिः शङ्कितान् दोषान् परिहरति-क्लेशकर्मेति । * अविद्यास्मितारागद्वेषाभिनिवेशाः पश्च क्लेशाः (योगसूत्रम् ४-३) । *पुण्या- पुण्यरूपं कर्म (योगभाष्यम् 2-12) । आदिशब्देन * क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (योगसूत्रम् 1-24) इत्यादिप्रसिद्ध विपाका दिसंग्रहः । जात्यायुर्भागादयो विपाकाः(. ‘जात्यायुभोंगा विपाकाः। इत्येव योगशास्त्रेषु दृश्यते । अत्र आदिपई न स्यादिति भाति । ) । पूर्वानुभवभाविता आफडोदयं शयानाः संस्कारा आशयाः । कतिपयदोषरहितव्यावृत्त्यर्थ मशेष- शब्दः । असंस्पृष्टशब्देन स्वभावतोऽनईतया कदाचिदपि दोषस्वशो नास्तीति विवक्षितम् । एवं पदद्वयेन * परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे (वि. पु. 8-5-85) इत्यस्यार्थ उक्तः ॥

अथ तेजोबलैश्वर्य (वि. पु. 6-5-85) इत्यादिभिरुक्तान् निरूपितस्वरूपविशेष- कधर्मानाह–स्वाभाविकेति । स्वाभाविकत्वमिह नित्यत्वम्, अनन्याधीनत्वं च । तेन नित्यानां मुक्तानां च ज्ञानादिभ्य एतज्ज्ञानादेव्यवच्छेदः । तडूलादिभ्यो व्यवच्छेदस्तु अनवधिकातिशयत्वादपि । स्वापेक्षया उत्कृष्टावषिरहितोऽतिशयो येषां ते अनवधिकातिशयाः । ज्ञानमिह सर्वविषयनित्यसाक्षात्काररूपम् । बलम् – अन। प्र। तश्रमप्रसङ्गं सर्वधारकत्वम् । ऐश्वर्यम् सर्वनियन्तृत्वम् । वीर्यम्– सर्वोपादानत्वादावपि अविकृतस्वभावत्वम् । शक्तिः- विश्वोपादानताईत्यम्, स्वैतरसर्वदुर्घटनशक्तिर्वा । तेजः अस्वाधीनसहकारिनिरपेक्षत्वम्, परामि- भवनसामथ्यै वा । अत्र व्यूहव्यक्त्यादिक्रमेण ज्ञानबलादिद्वन्द्वत्रिक निर्देशः । षाड्गुण्यस्य प्रथममुपा- दानम्-अन्येषां गुणानां तदन्तर्भावेन तत्प्राधान्यात् परत्वज्ञापकत्वात् आश्रितानाश्रितगोचरव्यापार- मेदसाधारण्याच्च ।।

अथ षाड्गुण्यविततिरूपाः सौलभ्यज्ञापकाः संश्रितसंग्रहणादौ विशेषत उपयुक्ता गुणा उच्यन्ते । अत्र सौशील्यं महतो मन्दैः सह नीरन्ध्रसंश्लेषरसिकता । वात्सल्यम् – आश्रितेषु दोषतिरस्कारिणी प्रीतिः ॥ मार्दवम् – अकठिनस्वभावतया सुप्रवेशत्वम्, दण्डनीयेष्वपि साम- प्रधानत्वं वा ।। आर्जवम् – कायवाग्बुद्धिव्यापाराणां परस्परमविसंवादित्वम् ॥ सौहार्दम्-स्वतः सर्वहितैषित्वम् ॥ साम्यम् – सर्वैरप्याश्रयणीयत्वे समत्वम्, स्वतोऽपक्षपातित्वं वा ॥ कारुण्यम्- स्वप्रयोजनान्तर। मुद्देशेन परतुः खनिरा चिकीर्षा ॥ माधुर्यम्-उपायदशायामपि रञ्जकत्वेन रसावहत्वम्, द्विषतां जिघांसितानामपि दृष्टिचित्तापहारित्वं वा ॥ गाम्भीर्यम्-मक्तानुग्रहादेरगाधत्वम्, आश्रित- दोषदर्शनादेः सतोऽपिगोपनेन दुर्ब्रइत्वं वा ॥ औदार्यम्-पात्रलाघवदेयगौरवप्रत्युपकाराद्यनादरेण वितरणशीलत्वम् ॥ चातुर्यम्-शुभाश्रयपकाशनाद्ययत्नोपायैर्विमुखवशीकरण-विस्रम्भजनन-संश्रितदो- षाच्छादन-विरुद्धानुकूलीकरणादिषु कुशलत्वम् ॥ स्थैर्यम्- शरणागतसंग्रहे दोषप्रदर्शकैः सुहृद्धिर- व्यकम्पनीयत्वम् ॥ धैर्यम्- अभिमत वियोगप्रसङ्गे ऽप्यभग्नपतिज्ञत्वम् । व्यत्ययेन वा स्थैर्यधैर्ययो- व्र्व्याख्यानम् । प्रबलप्रतिपक्षोपनिपातेऽपि सावज्ञदृढचित्तत्वं वा धैर्यम् ॥ शौर्यम् तु भीमेष्वपि परसैन्येषु असहायस्यापि स्वसैन्येष्विव निर्भयप्रवेशसामर्थ्यम् ॥ तत्र प्रविष्टस्य परनिराकरणपर्यन्तो व्यापारः पराक्रमः ।। सत्यकामसत्यसंकल्पशब्दौ इह भावप्रचानौ, कर्मधारयवृत्तौ वा; सत्य- कामत्वम् — नित्यभोग्यवत्त्वम् ; सत्यसंकल्पत्वम् – स्वावतारपर्यन्तापूर्व भोग्यसृष्टयादावमोघसंकल्प- त्वम् ॥ कृतित्वम्– परोपकारकत्वम्, आश्रितरक्षणेन कृतकृत्यत्वं वा, न मे पार्थास्ति कर्तव्यम् (गीता. 3-22) इत्याद्युक्तं विहितकर्तव्यनिरपेक्षत्वं वा, धर्मसंस्थाप [ता] कानुष्ठानवत्त्वं वा, परेषां स्वहितप्रवृत्तेः पूर्वमेव कर्तुमुपक्रान्तपरहितत्वं वा, स्वेन कृतं सर्वे प्रति स्वस्यैव शेषित्वं वा ॥ कृतज्ञता सकृदञ्जलिकर्तुरपि अनुबन्धिपर्यन्तसंरक्षणाय तत्कृतानुदर्शनम्, अवसरे संश्रितापेक्षित- करणाय स्वकृतप्रत्याख्यानानुदर्शित्वं वा; * शिरसा याचतस्तस्य वचनं न कृतं मया (रामा. यु. 24-21) इति ह्याह ॥

आदिशब्देन तत्र तत्र प्रसिद्धा आनृशंस्या‌द्यो गृह्यन्ते । * दथा रत्नानि जलधेर संख्ये- यानि पुत्रक ! (वामन. 74-40) इत्यादिस्मारणाय असङ्ख्येयत्वोक्तिः । अत्र दोषासंस्पृष्टत्वं कल्याणगुणयुक्तत्वं च वदता निर्गुणश्रुतेः पशुच्छागोत्सर्गापवादनयाभ्यां दोषरूपविशेषनिषेधपरत्वं सूच्यते ॥

उक्तं सर्वस्मात् परत्वं स्वसाम्यप्रदानपर्यन्तं सौलभ्यं च * नारायणः परं ब्रह्म (मैत्राय- णीयोपनिषत्) * परं ब्रह्म परं धाम (गीता. 10-12) इत्यादिश्रुतिस्मृतिसिद्धप्रकारेण स्थिरीकरोति– परब्रह्मेति । यद्यपि * ब्रह्म परिवृढं सर्वतः, (निरुक्ते 1-3) इति निरुक्तकारवचनात् ब्रह्मशब्द एव परत्वं वदन् नाम च भवति, तथाऽप्यौपचारिकपयोगव्यवच्छेदाय परशब्दः ॥

अत्र * वृइति वृंड्यति (अथर्वशिखा २ खण्डे) इति निरुक्तिभ्यां व्यापित्वकारणत्वादि- सिद्धया शङ्कितान् दोषान् परिहर्तु भेदश्रुत्याद्यर्थगर्भया भगवद्गीता (15-18) निरुक्तया समाख्यया विशिनष्टि–पुरुषोत्तममिति । अनेन ब्रह्मशब्दार्थतया कुदृष्टिविकसितप्रकारान्तराणि, तामस- तन्त्राद्युक्तव्यक्त्यन्तराणि च व्यवच्छिद्यन्ते । अस्य च पञ्चम्यादिविभक्तित्रयेऽपि समासः संभवति ॥

एवं सर्वाधिकत्वेन अस्मदादिभिर्दुरधिगमः स्यादिति शङ्कां परिहरन्, द्वाभ्यां विशेषणाभ्यां सौलभ्यकाष्ठां व्यनक्ति- श्रीरङ्गशायिनम् अस्मत्स्वामिनमिति । स्वरूपाद्विग्रहस्य सुखानुसंधेयतया सौलभ्यमधिकम् ; तस्मादप्यर्चावतारस्य भक्ताभिमतसर्वदेशकालसंनिधायितया परव्यूहादिभ्योऽधिकतमम् । तदा काष्ठाप्राप्त परत्वमपि तत्र भक्तोपलभ्यं शास्त्रादवसेयम् ; यथोक्तम्- * सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः (विष्वक्सेनसंहिता) इति । अत्र मनुष्याणामपि कैङ्कर्योद्देश्यतया अवस्थितस्य निर्भयसेवादियोग्यत्वम् अस्मत्स्वामिशब्दाभिप्रेतम् । यथाऽऽहुः — * अर्च्यः सर्वसहिष्णुरर्चकपराधीना खिलात्मस्थितिः (श्रीरङ्गराजस्तवे 2-74) इति । यद्वा, स्वाचार्य- संतान सेवितत्वेन प्रीत्यतिशय हेतुत्वमभिप्रेत्यास्मत्स्वामिशब्दः । प्राचीनरामानुज इव अमप्यस्य शीला दिगुणैर्दास्यमुपागतः (रामा. किष्कि. 4-12) इति च भावः । एवं कैङ्कर्यप्रतिसंबन्धितया अनुभाव्यं निर्धारितम् ।

अथात्मा भिमानानुगुणपुरुषार्थव्यवस्था सिद्धचर्थमनुभवितुः किंकरस्य स्वात्मनः स्वरूपा- विर्भावदशामाह-प्रबुद्धेति । प्रबुद्धम्-प्रकर्षेणावगतम्, स्वाधीनस्वार्थ कर्तृत्वभ्रम विरहेण सम्यग्दृष्टमित्यर्थः । नियाम्यत्वदासत्वे * स स्वराद्ध भवति (छा. 7-25-2) इत्याग्नातायां मुक्तिदशायाम- व्यनुवृत्ते इति ज्ञापनाय द्वयोरपि नित्यत्वोक्तिः । निरपेक्षस्वातन्त्र्यनिरुपाधिकशेषित्वप्रसङ्गपरिहाराय एकरसशब्दः । अत्र आत्मशब्दः स्वविषयः । स्वभावशब्दो यावदात्मभाव्याकारमाह । ईदृशात्म- स्वरूपमपि * व्यतिरेकस्तद्भावभावित्वात् (ब्र. सू. 3-3-54) इति नयेन परमप्राप्यविशेषणतया फलको टिनिविष्टमनुसंधेयमिति व्यज्जयितुम् अधिको ऽहंशब्दः । नित्यनियाम्यत्वप्रबोधकाष्ठामाह- तदेकानुभव इति । तस्मिन्नेकस्मिन्नेव प्रधानतया अनुभवो यस्य स तथोक्तः । आविर्भूतस्वरूपस्य हि भगवदपृथक्सिद्धविशेषणतया तत्प्रधानतयैव स्वानुभवम् अविभागेन दृष्टत्वात् (ब्र. सू. 4-4-4) इत्यसूत्रयत् । नित्यदास्यैकर सत्वाविर्भावस्य फलमाह-तदेकप्रिय इति । स एव प्रधानतया नित्यं प्रियो यस्य स तदेकप्रियः। न हि तद्दास्यैकरसस्यास्य * रसो बै सः (तै. आ. 7) इत्याद्युक्तत्वा- भाविक निरवधि कातिशयर सस्वरूपात् तस्मादन्यत् तदानीं प्रधानतया आस्वाद्यं भवति । तदेवमनु- भाव्यानुभबितारा वुक्तौ ।

अथात्रत्यानुभवाद्यावृत्तमनुभवप्रकारमाह-परिपूर्णमिति । अनन्तगुणविभूतिविशिष्टस्व- रूपे अननुभूतांशरहितमित्यर्थः । भगवन्तम्-पराशरादिनिरुक्तप्रकारेणोभयलिङ्गम् । तस्मिन् सामान्यतः सर्वा कारविषयवपरोक्षज्ञानात् परिमिताकारविषयप्रत्यक्षज्ञानाच्च व्यावृत्त्यर्थमाह-विशदतमा- नुभवेनेति । तत्राप्यपरिच्छिन्नविषयसान्तरप्रत्यक्षाद् व्यवच्छिनत्ति-निरन्तरमिति । अनुभवेन अनुभूय-अनुभवेन विषयीकृत्येत्यर्थः । तद्नुभवेति । अनेन पूर्वोक्तभगवदनुभवानुवादः ; यद्वा, तच्छब्देन भगवदनुभवः परामृश्यते; तस्यानुभवोऽपि स्वयंप्रकाशस्य तस्यैव स्वरूपम् ; ईदृशो- ऽयमनुभूयते मयेत्यनुकूलतमभगवदनुभवस्वरूपोल्लेखांशेन जनिता प्रीतिरिहोच्यते । तस्या अनवधि- कातिशयत्वेन ऐश्वर्याद्यनुमवजनितप्रीतेर्व्यवच्छेदः । ईश्वरेच्छाधीनेऽपि कैङ्क स्वप्रीतिकारितत्वोक्ति : नियोगनैरपेक्ष्यम्, प्रीतेः मेरकत्वातिशयं च व्यनक्ति । कारितशब्द इह शेषतायां वा, तदेकरतौ बा, शेषवृतं प्रति प्रयोज्यकर्तरि किंकरे वा अन्वेतवः । अशेषावस्थाशब्देन सेव्यत्य भगवतः परत्वव्यूइत्वादयः, सेवकस्य च मुक्तत्य सदेहत्वविदेहत्वादिरूपा अवस्थाः सर्वा विवक्षिताः । शेषता अत्र शेषवृत्तिः । अभिमततर्वशेषवृतिषु अभिघातमभिनेत्य अशेष धब्दः । स्वामिश्रीत्यर्थत्वाविशेषेण परस्परैकरस्यात् परकृताऽपि शेषवृत्तिः स्वक्कृतेव भवतीति भावः । ईश्वरस्य मुक्तस्य च स्वच्छन्दानेक- देहपरिग्रहेण वा अनन्तगरुडादिवृत्तिसजातीयकैङ्कर्यसिद्धिः । आत्मा आत्मीय वा सर्वमशेष शब्दे- नोच्यते ; तदा तस्य शेषता शेषभाव एव । एवंविधायामशेषशेषतायामेव रतिः प्रीतिरिच्छा वा रूपम्-निरूपकधर्मो यस्य सः अशेषशेषतैकरतिरूपः । नित्यकिंकरो भवानि-उचरावधि- रहितकैङ्कमेसाम्राज्यवान् भवेयमिति भावः ॥ १ ॥

स्वात्मनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वक भगवद नत्रधिकाति- शयस्वाम्माद्यखिलगुणगणानुभवजनिता नवधिकातिशयप्रीतिकारिताशेष ।वस्थोचिताशेषशेषतैकर- तिरूपनित्यकैङ्कर्यप्राप्त्युपायभूतभक्तित्तदुपायसम्यग्ज्ञानतदुपायसमीचीनक्रियातदनुगुण – सात्त्विकताऽऽस्तिक्यादि समस्तात्मगुणविहीनः, दुरुत्तरानन्ततद्विपर्ययज्ञान क्रियानुगुणाना- दिपापवासनामहार्णवान्तर्निमनः, तिलतैलवत् दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभावा- चेतनप्रकृतिव्याप्तिरूपदुरत्यय भगवन्माया तिरोहितस्वप्रकाशः, अनाद्यविद्यासञ्चितानन्ताश- क्यविस्तंसनकर्मपाशप्रग्रथितः, अनागतानन्तकालसमीक्षयाऽप्यदृष्टसन्तारोपायः, निखिल- जन्तुजातशरण्य ! श्रीमन्नारायण ! तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥

एवं न्यासोपासनसाधारणाधिकारसिद्धयै प्रथमं फलपर उत्तरखण्डो विवृतः । अथोपायपरं पूर्वस्वण्डं विवृण्वन्-तत्रोत्तमपुरुषविवक्षितमा किंचन्यरूपं प्रपत्तेर्विशेषाधिकारम्, कार्पण्यरूपमङ्गं च व्यनक्ति-स्वात्मनित्यनियाम्येति । स्वात्मशब्दोऽनुसंध। तृस्वरूपपरः । अत्र शेषशेपितत्कैङ्कर्य- चिन्तनरसेन तदनुवृत्तिवान्छया च पूर्वोक्तस्यैव परमपुरुषार्थस्य विस्तरेणानुवादः । नियाम्यशब्दोऽत्र भावप्रधानः । अनवधिकातिशयस्वाभ्यम्- अनवच्छिन्न सर्वविषयस्वामित्वम् । आदिशब्देन तथाविधनियन्तृत्वादिसंग्रहः । ऐश्वर्यादिफलान्तरात् कादाचित्कभगवत्कैङ्कर्याच्च व्यावृत्त्यर्थं नित्य- कैङ्कर्यशब्दौ । उपायभूतेति च्विप्रत्ययरहितप्रयोगेण मोक्षप्रदत्वं भगवद्भक्तेः स्वभावप्राप्त [प्रवृत्त] मिति व्यज्यते । भक्तिशब्द इह वेदान्तोदितसपरिकरभक्तियोगपरः । ज्ञानक्रियाशब्दाभ्यां ज्ञानकर्म- योगौ विवक्षितौ; तयोः सम्यक्त्वं यथावस्थिततकलाङ्गोपसंहारवत्त्वम् । ज्ञानयोगमन्तरेणापि कर्म- योगेनैवात्मावलोकन पूर्वकम क्तियोगा [धिकारा] रोहणस्य भगवद्गीताभाष्य (8-19) प्रपश्चितस्याधिकारि- विशेषनियततया तदनादरेणात्र स्वारसिकक्रमनिर्देशः । सात्त्विकता * नित्यसत्त्वस्थः (गीता 2-45) इत्युक्तस्तत्त्वन्निष्ठता; तस्याः फलम् आस्तिक्यादिगुणजातम्, अवस्था भेदेन तस्या हेतुश्च । * अमानित्वमदम्भित्वम् (गीता 13-7) * दया सर्वेषु भूतेषु (वि. पु. 3-8-53) इत्याद्युक्तात्मगुणा- न्तरसंग्रहाय समस्तशब्दः । प्रपत्त्यपेक्षितञ्ज्ञानविश्वासादेस्त्विह न प्रतिषेधः । एवमुपायान्तरतदु- पायपरंपराहा निरुक्ता ।

अथ पूर्व पश्चाच्च उपायप्रतिबन्ध कापायपरंपरान्बयमाह – दुरुत्तरेति । दुरुत्तरत्त्वं भगवत्संकल्पमन्तरेण सनकादिभिरपि लङ्घयितुमशक्यत्वम् । तच्छब्देन पूर्वोक्तसम्यग्ज्ञानादि- परामर्शः । विपर्ययशब्दोऽत्र विपरीतपरः; सच ज्ञानादिषु त्रिष्वन्बीयते । त्रयाणां हेतुः पापवासना । बीजाङ्कुरन्यायसूचनाय अनादिशब्दः । पापानां वासना-सजातीयपापान्तरारम्भरुचि- हेतुभूतः स्वभावविशेषः । षडूर्मिसंकुलत्वादिविवक्षया महार्णवत्वरूपणम् । एवंविधस्य पापस्य आत्मतिरोधायकत्व प्रकारमाह-तिलतैलवदिति । दृष्टान्तद्वयेन दारुण्यग्मिर्थथा तैलं तिले तद्वत् पुमानपि । प्रधानेऽवस्थितो व्यापी (वि. पु. 2-7-28) इति वचनं स्मार्यते । अल्पश्रुतेः पृथक् ज्ञातुम्, अयोगिभिः पृथक् द्रष्टुम्, अनीश्वरैः पृथक्कर्तुं च अशक्यतया दुर्विवेचत्वोक्तिः । चतुर्दशाघ्यायोक्तगुणत्रयबन्धकत्वप्रकारज्ञापनाय त्रिगुणशब्दः । अनुकूलपरिणतेः क्षणमपि व्यवस्थापयितु- मशक्यत्वमभिप्रेत्याह-क्षणक्षरणस्वभावेति । * अचेतना परार्था च नित्या सतत विक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते ॥ व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः ।॥ इति परमसंहितोक्तम् अचेतनप्रकृतिव्याप्तिशब्दैर्देशितम् । प्रकृतौ व्याप्तिः अनुप्रवेशः ; प्रकृतेर्व्याप्तिः सर्वतः संबन्धः । अत्र तस्या इव तत्संबन्धस्यापि विचित्रसृष्टयुपयोगित्वा- विशेषात मायात्वोक्तिः । दुरत्ययभगवन्मायेत्यनेन * मम माया दुरत्यया (गीता 7-14) इति पदत्रयसूचनम् । यद्यप्यात्मस्वरूपं नित्यस्वप्रकाशम् ; तथाऽपि तस्य भगवच्छेषत्वादिविशिष्टाकार- गोचरधर्मभूतज्ञाननिरोधमभिप्रेत्य तिरोहितस्वप्रकाश इत्युक्तम् । स्वस्वरूपतिरोधानवचनेन * भग- वत्स्वरूपतिरोधानकरीम्, इत्याद्युक्तमप्युपलक्ष्यते ॥

प्रकृतेस्तिरोधायकत्वं कर्मोपाधिकम् । कर्म च भोगैस्तत्तत्पतिपदोक्तप्रायश्चित्तैर्वा निःशेषयितुमशक्य मित्यभिप्रायेणाह–अनाद्यविद्येति । अत्र अविद्याशब्देन अज्ञानं देहात्मभ्रमादिकं च गृह्यते; तस्याश्च कर्महेतुत्वं रागद्वेषद्वारा । * यद्ब्रह्मकल्प (श्रीवैकुण्ठस्तवे 62) इत्याद्युक्त- प्रक्रियया अनाद्यविद्यासंचितत्वेनानन्त्यात्, प्रत्येकं प्राबल्याच्च भगवद्यतिरिक्तैरशक्यविसं- सनत्वम् । * पशवः पाशिताः पूर्व परमेण स्वलीलया । तेनैव मोचनीयास्ते नान्यैर्मोचयितुं क्षमाः (श्रीविष्णुतत्त्वे 1-2-10) इत्याद्युक्तसूचनाय कर्मणः पाशत्वरूपणम् । प्रग्रथितः – दृढं निबद्धः ; * नाभुक्तं क्षीयते कर्म (ब्रह्मवैवर्ते प्रकृतिखण्डे 26-70) इति हि स्मर्यते । उक्तप्रतिबन्धकभूयस्त्वात् * त्वत्पादकमलादन्यत् (जितन्ते 1-10) इत्याद्युक्तप्रकारेण कालान्तरेऽप्यु- पायान्तरसंभावनां प्राङ्न्यायेन प्रतिषेधति – अनागतेति । वक्ष्यमाणश्रीमत्त्व नारायणत्वाभ्यां फलितम् * सर्वस्य शरणं सुहृत् (श्वे. उ. 3-17); * देवानां दानवानां च (जितन्ते 1-2) * सर्वलोकशरण्याय (रामा. यु. 17-15) * विभीषणो वा सुग्रीव (धर्मात्मा) यदि वा रावणः स्वयम् (रामा. यु. 18-35) इत्यादिप्रसिद्धं स्वसंग्रहोपयुक्तं स्वभावमाह – निखिलजन्तुजातशरण्येति । हिरण्यगर्भादीनामपि संग्रहाय निखिलशब्दः; तेऽपि हि कर्माधीनजन्मभागितया जन्तवः । * पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् (शाण्डिल्यस्मृतिः 1-15), * एतन्निष्ठस्य मर्त्यस्य मुक्तिर्हस्तस्थिता सदा । तत्संबंधिन एवापि मुक्तिमेष्यन्ति वै ध्रुवम् (भारद्वाजस्मृतिः) इत्याद्यर्थमभिप्रेत्य जातशब्दः । स चात्र गुणप्रधानतया अन्वितत्रातपरः । पूर्वखण्डपदक्रमानुसारेण श्रीमदित्यादीनि पदानि । श्रीमच्छब्देन * लक्ष्म्या सह हृषीकेशः (लक्ष्मीतन्त्रे 28-14) इत्याद्युक्तं सूच्यते । सर्वशरण्यत्वौपयिकसंबन्धगुणविशेषादि- प्रदर्शनाय नारायणशब्दः । कृपोत्तम्भकत्वातिशयादौचित्याच्च चरणग्रहणम् । उपायदशायामपि भोग्यत्वसूचनाय अरविन्दत्वरूपणम् । शरणशब्द इहोपायपरः । उत्तमपुरुषविवक्षिताधिकारिविशेषव्यञ्जनाय अहंशब्दः; अधिकारविरहादुपायान्तरेषु निराशः, प्रत्यबायभयादिदानीमपायेभ्य उपरतः, शरण्यगुण विवेकादतिशङ्का निर्मुक्तः, संसारे दोषदर्शनात् परित्यक्तप्रयोजनान्तर तदुपायः, परमपुरुषार्थसङ्गात् प्रार्थना न्वित [पूर्वक] भरन्यासोद्यतश्चेति भावः । शरणं प्रपद्ये – उपायतया आश्रयामि । अकिंचनो ऽनन्यगतिरहं श्रीमति नारायणे स्वात्मरक्षाभरं निक्षिपामीत्युक्तं भवति । सविशेषणनारायणशब्देन विरोधि भूयस्त्वप्राप्यगौरवोपायलाघवादिमूलशङ्का निरासहेतवः अत्र शरण्याकारा विवक्षिताः ॥ २ ॥

अथ तत्फलितं सोपसर्गधातुक्तम् * रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम् (लक्ष्मी- तन्त्रे 17-77) । * गोप्तृत्वबरणं नाम स्वाभिप्रायनिवेदनम् (लक्ष्मीतन्त्रे 17-78) इति विभज्य निर्दिष्टमङ्गद्वयम् * प्रार्थनामात्रसंतुष्टो जन्तोर्यच्छति वान्छितम् । इति निश्चित्य भगवत्प्रार्थना शरणागतिः (अहिर्बुध्न्य.) ॥ इत्युक्तप्रकार विशेषोपलक्षितप्रकारिवैशिष्टया भिप्रायेणाह –

एवमवस्थितस्याप्यर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीतै- कान्तिकात्यन्तिक नित्य कैङ्क यै कर तिरूपनित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ २ ॥

एवमिति । एवमवस्थितस्येत्यनेन अधिकार [रि] वैगुण्यं विरोधिभूयस्त्वं च पूर्ववाक्योक्तमेव शरण्यगुणप्रकर्षव्यञ्जना यानुदितम् । अर्थित्वमात्रेणेति उपायलाघवोक्तिः; अहृदयप्रार्थनावाक्यमात्र- मपि * नेहाभिक्रमनाशोऽस्ति (गीता. 2-40) इति न्यायात् अन्ततः कार्यकरमिति भावः । अथ वा, अत्र सकृत्कर्तव्यभरन्यासलक्षणतया सद्यः स्वाभीष्टसिद्धिः । स्वानुभवप्रीत्येत्यादिना प्राप्यगौरव- प्रकाशनम् । उक्तैर्हेतुभिः संभवन्तीं शङ्कामपाकर्तुं परमकारुणिको भगवानिति सुलभत्वपरत्वसूच- कपदद्वयोक्तिः ; ईदृशस्य हि सर्वविरोधिनिवर्तनार्हता । समर्थस्य निर्दयत्वे, दयालोश्वासमर्थत्वे शरण्य- त्वं न स्यादिति तत्सिद्धद्यर्थमुभयोक्तिः । स्वानुभवेत्यत्र स्वशब्दः परमात्मविषयः । ऐकान्तिकत्वम् अनन्यविषयत्वम् । आत्यन्तिकत्वमिह फलान्तरोपाधिकनिवृत्तिरहितत्वम्, अत एव पश्चाद् यावत्का- लमनुवर्तमानत्वं वा । दास्यकिंकरताशब्दाविह वृत्तिपरौ । रतिशब्देन विश्वासस्य महत्त्वरूपप्रकारो- ऽभिप्रेतः । प्रार्थनाशब्दस्य इच्छामात्रेऽपि प्रयोगसंभवात् तव्यावृत्त्यर्थम् * तदेकोपायता याच्ञा (भरतमुनिवाक्यम्) इत्युक्तयाचनरूपत्वं व्यञ्जयितुं द्विकर्मकप्रयोगः । सर्वस्य प्रार्थितप्रदानसामर्थ्यम्, कैङ्कर्यप्रतिसंबन्धिनस्तस्योभयलिङ्गत्वं च ज्ञापयितुम् – भगवन्तमित्युक्तम् । अस्मिन् बाक्ये प्राति- कूल्यवर्जनस्य [च] आनुकूल्यसंकल्पस्य च अर्थसिद्धत्वमवगन्तव्यम् ॥

उक्तप्रकारसाध्यसाधनरूपमर्थद्वयं व्याख्येयक्रमेण सुखप्रतिपत्त्यर्थम् ऐतिहासिकश्लोकद्वयेन स्ववाक्यायमानेन संक्षिप्याह –
* तवानुभूतिसं भूतप्रीतिकारितदासताम् । देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥

तवेति । यद्यपि प्रथमश्लोकेऽपि पूर्वार्ध फलमुपादीयते, तथाऽप्यसौ देहीत्युक्तप्रार्थना- प्राधान्यादुपायपरः । अत्र दासताशब्देन दासवृत्तिर्विवक्षिता, दासभावमात्रस्य च नित्यसिद्धत्वेन साध्यत्वायोगात् । मे – अनन्यप्रयोजनस्य अनन्योपायस्य च । कृपया नाथेति पदाभ्यां गुण- विशेषसंबन्धविशेषविशिष्टस्योपायभाव इति व्यज्यते; नाथशब्दो हि नाध्यत इति व्युत्पत्त्या रक्षणार्थं प्रार्थनीये स्वामिनि रूढः । न जाने गतिमन्यथा इति । उक्तप्रकारात् प्रपत्तिमात्र- वशीकार्थात् त्वत्तोऽन्यथाभूतं मदईमुपायं सर्वशास्त्रपरामर्शेऽपि न पश्यामि, देवतान्तराणां साक्षात् मोक्षप्रदत्वाभावात् मोक्षोपायतया चोदितस्य त्वदुपासनस्य मया दुःसाधत्वादिति भावः । यद्वा, अन्यथेत्यनेन त्वय्यदातरीति विवक्षितम् ॥

एवं प्रार्थिते कैङ्कर्यरूपे पुरुषार्थे प्रीतिशब्दोक्तं हेत्वंशं विशिषन्, स्वाभीष्टप्रदाने स्वप्रयत्नान्तरनैरपेक्ष्यं च अपेक्षते–

* सर्वावस्थोचिताशेषशेषतैकरतिस्तव । मवेयं पुण्डरीकाक्ष ! त्वमेवैवं कुरुष्व माम् ॥ ५ ॥

सर्वेति । सर्वावस्थाशब्दशेषताशब्दौ पूर्वोक्तार्थों । तत्तद्दशायां स्वाम्यभिमतप्रकार उचितशब्दः । * जायमानं हि पुरुषम्, (भार. शा. 358-73) * कृपामयमपाङ्गं ते सकृन्मयि निपातय (विष्णुधर्मे) इत्याद्युक्तेन सत्त्वोन्मेषहेतुना कटाक्ष विशेषेण मामेव कुरु- ब्वेत्यभिप्रायेणोक्तम्– पुण्डरीकाक्षेति । यद्वा * पुण्डरीकं परं धाम (भार. शा. 69-6) इत्यादिनिरुक्तेनानेन नाम्ना परमपदवासिनः परिचरणं प्रार्थ्यत इति सूच्यते । त्वदितराशक्ये अस्मिन्नर्थे त्वयि च निरपेक्षोपाये किमीदृशभरन्यासरूपव्या जातिरिक्तमत्प्रयत्नेनेत्यभिप्रायेणाह — त्वमेवेति । त्वम्-सर्वज्ञः सर्वशक्तिः परमकारुणिकः । माम्–आकिंचन्यानन्यगतित्वार्थित्व- शालिनम् । नितोर्धात्वोरिह * देहि * कुरुष्वेति परस्मैपदात्मनेपदाभ्यां स्वस्य भगवतश्च यथाहै क्रियाफलान्वयः सूच्यते ॥

नन्विह शरण्यशरणागतितत्फलविशेषनिर्धारणपूर्विका फलकामना हि अधिकारिविशेषणम्, न पुनस्तद्वत इव तथाविधतद्वचनमात्रमित्यत्र * अनिच्छन्नप्येवम् (स्तोत्तरत्ने 59) इति श्लोकोक्त- प्रकारेण सप्रश्रयं प्रतिवक्ति–

एवंभूततच्त्वयाथात्म्यावबोधतदिच्छारहितस्याप्येतदुच्चारणमात्रावलम्बनेनोच्य – मानार्थपरमार्थनिष्ठं मे मनस्त्वमेवाद्यैव कारय ॥ ६ ॥
एवंभूतेति । तदिच्छेति इच्छा विषयत्वेन परामृश्यमानार्थत्वात् तत्त्वशब्द इह पुरुषार्थपरः, पुरुषार्थविशेषनिष्कर्षाय जीवात्मपरमात्मतत्त्वत्परो वा । अवधोघेच्छा वा तदिच्छेत्यु- च्यते; तदा पुरुषार्थेच्छा विरहः कैमुस्यात् सिध्यति । श्रियःपत्युस्तव प्रसादादद्य साथिकारोऽस्मि, निरधिकारत्वेऽपि लब्धव्याजेन त्वया शेषपूरणं कार्यमिति द्योतयितुम् अपिशब्दः । एवमधि- कारवैकल्यमङ्गवैकल्यमङ्गि-वैकल्यं च अन्वारुथोक्तम्- उच्चारणमात्रेति । वैषम्यदोषप्रसङ्गपरिहार- हेतुस्तव सिद्ध इत्यभिप्रायेण अवलम्बनशब्दः । उच्यमानार्थः – उपायोपेयरूपः । एतच्छन्दो ऽध्यत्र तद्विषयः । अन्यतरविषयत्वेऽपि तदितरस्यार्थात् सिद्धिः । परमार्थनिष्ठत्वम् अज्ञानसंशय- विपर्ययरहितव्यवसायानुवृत्तिमत्त्वम् । मे- सकृदुच्चारो भवति (द्वयोपनिषत्) * सकृदुच्चरितं येन (वि. घ. 70-84) * भव शरणमितीरयन्ति ये वै (वि. पु. 3-7-33) इत्याद्युक्तव चनमात्रधनस्य त्वदायत्तसर्वसिद्धेः । मनः- चञ्चलं हि मनः कृष्ण ! (गीता. 6-34) * मनो दुर्निग्रहं चलम् (गीता. 6-35) * बन्धाय विषयासङ्गि (वि. पु. 6-7-29) इत्यायुक्तदोषमपि हृषीकेशेन त्वया अनुगृहीतानां सम्यध्यननसाधनम् । शरण्यस्यापेक्षणीयान्तराभावम्, आत्मनस्त्वरातिशयं च व्यनक्ति- त्वमेवाद्यैवेति । कारयेत्यनेन प्रपत्तावपि स्वस्य प्रयोज्यकर्तृत्वम्, अध्यात्मशास्त्रैराचार्यमुखेनान्तर्या- मितया च भगवतः प्रयोजककर्तृत्वं च प्रकाश्यते । अविकलप्रपत्तिप्रयोगस्यापि भाष्यकारस्येदं वाक्यं विकलप्रयोगाणामन्येषामपि शरण्यानुकम्पया क्षिनमुपायपूर्तिः स्यादिति ख्यापनार्थम् ।

अथाधिकारोपायफलप्रदानेषु यथाईनुपयुक्तान् भगवतः प्रकारान् वदन्, प्रथमं सर्वो १यो गिगुण विशेषप्रकर्षमाह –

अपारकरुणाम्बुघे ! अनालोचितविशेषाशेषलोकशरण्य ! प्रणतातिहर ! आश्रितवात्स- ल्यैकमहोदधे ! अनवरतविदितनिखिलभूतजातयाथात्म्य ! सत्यकाम ! सत्यसङ्कल्प ! आपत्सख । काकुत्स्थ ! श्रीमन् ! नारायण ! पुरुषोत्तम । श्रीरङ्गनाथ! मम नाथ ! नमोऽस्तु ते ॥ ७ ॥


॥ इति श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीरङ्गगयम् ।



अपारेति । स्वस्मिन्नपि व्याप्तिमभिप्रेत्य अपारत्वोक्तिः । तत्कलितं स्वेनाप्याश्रयणी- यत्वमभिप्रेत्याह- अनालोचितेति । जातिगुणादिनिकर्षानादरेण सर्वैः शरण्यतया बरणीयेत्यर्थः । अनेन प्रपत्तेः सर्वाधिकारत्वं दर्शितम् । कारुणिकोऽपि यदि विषमः स्यात्, समोऽपि यदि निर्वृणः स्यात्, न तदा सर्वशरण्यः स्यादिति तदर्थमुमयोक्तिः । शरणागतिसमनन्तर- लक्षणीयौ गुणा बाह-प्रणतार्तिहर ! आश्रितवात्सल्यैकमहोदधे ! इति । प्रणताः इद प्रकृष्ट- प्रद्दीभावयुक्ताः प्रपन्नाः, तेषां तत्तद‌भिमतालाभनिमित्तामार्ति हरतीति प्रणतातिहरः । अनेन तु प्रपत्तेः सकलफलप्रदत्वं च सूच्यते । प्रणतशब्दस्य प्रद्दीभावमात्रपरत्वे तदातिहरणादल्पप्रयत्नप्रसाध्यत्वं प्रकाश्यते । वात्सल्येन गुणान्तर तिरस्कारमभिप्रेत्य एकशब्दः, येन सर्वज्ञोऽप्यबिज्ञातेव, स्वतन्त्रोऽप्यस्वतन्त्र इव स्यात् ॥ कारुण्या दिसद्भावेऽप्यज्ञस्यापूर्णस्याशक्तस्य च निरपेक्षरक्षकत्वं न स्यात्, अतस्तत्सिद्ध्यर्थं गुणत्रयम् अनवरतेत्यादिभिरुच्यते । अनवरतनिखिलशब्दाभ्यां ज्ञानस्य कालतो विषयतश्च निःसंकोचत्वोक्तिः; मम अनिष्टनिवर्तनेष्टप्रापणोपयोगिष्बधिकारादिषु किंचिदपि कदाचिदपि तवाज्ञातं नास्तीति भावः। नच तब मादृश। किंचनपरित्यागहेतुभूतप्रत्युपकारपूर्वो- पकारादिप्रयोजनान्तरसापेक्षत्वं गुणवैकल्यं वा कदाचिदप्यस्ति; अतो मद्रक्षणेन स्वगुणान् संरक्षेत्यभिप्रायेणाइ-सत्यकामेति । नित्यभोग्यानन्तकल्याणगुणा दिविशिष्ठेत्यर्थः ॥ संकल्पमात्र- साधितजगत्सृष्टयादेस्तव मद्रक्षणेऽपि न हि संकल्पादतिरिक्तं संपादनीयमित्यभिप्रायेणाह-सत्य- संकल्पेति । अमोघ संकल्पेत्यर्थः; त्वयैव ख्यापितं प्रपन्नविषयं त्वहुतं न कैश्चिदपि प्रतिहन्तुं शक्यमिति भावः ॥ उक्तगुण वर्ग हे तुकद्रौपदी गजेन्द्रादिसंरक्षणप्रकारं तद्वत् स्वस्याप्या पत्नशमनायोद्धा- ट्यति-आपत्सखेति । आपदि सखा भवतीत्यापत्सखः; सखेव प्रीतिविश्वासगोचरः संरक्षकश्वेति भावः ॥ तदेतत् निषादवानरराक्षससर्वजातिसुलमे सकृत्पपन्नसंरक्षणत्रतिनि सर्वलोकशरण्ये विषय- बासमात्र संरक्षितजङ्गमस्थावरजन्तुजाते अवतारविशेषे सुव्यक्तमित्यभिप्रायेणाह-काकुत्स्थेति । अनेन * बघाईमपि काकुत्स्थः कृपया पर्यपालयत् (रामा. सु. 38-34) इत्यादिवाक्यमपि स्मार्यते । अस्य सापराधेष्वप्याश्रितेषु निग्रहोष्मलता निवारिकया सहधर्मचारिण्या नित्ययोगमाह- श्रीमन्निति ॥ परहितेष्वपि स्वार्थप्रवृत्त्यनुगुणसंबन्धादिविशेष व्यनक्ति-नारायणेति ॥ इदं च पदद्वयं व्याख्येयगत- विशिष्ट सिद्धोप। यो पेयप्रकाशकम्। नारायणशब्दवाच्यजगत्संबन्धा दिशङ्कितदोष निवृत्त्यर्थ पञ्चदशा- ध्यायोक्तं काष्ठाप्राप्त परत्वरूपं वैलक्षण्यं समाख्याति-पुरुषोत्तमेति ॥ पुरु सनोतीति पुरुषशब्द- व्युत्सत्त्या बहुप्रदेषूत्तमत्वं वा विवक्षितम्-स्वाश्रितेभ्यः स्वात्मानमपि सविभूतिकं ददातीति । सर्वा- पेक्षित साधकसेवानुगुणां सौलभ्यकाष्ठां सूचयति-श्रीरङ्गनाथेति ॥ उक्तं च अर्चावतारं प्रस्तुत्य भगवता शौनकेन – तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् । विशत्यपास्त दोषस्तु तामेव ब्रश्वरूपिणीम् (वि. घ. 103-30) इति । श्रीपौष्करे (1-31,32) तु अर्चावतारस्योपायविरोधि- वर्ग निवर्तकत्वमपि दर्शितम्- संदर्शनादकस्माच्च पुंसां संमूढचेतसाम् । कुवासना कुबुद्धिश्व कुतर्कश्च कुनिश्चयः ॥ कुहेतुश्च कुमावश्च नास्तिकत्वं लयं व्रजेत्, इति। स्थानविशेषोऽप्यत्र सेवकानां सत्त्वोन्मेष हेतुत्वाभिप्रायेणोपात्तः । स्वयं॰ १क्तसैद्धवैष्णवरूपभगवत्क्षेत्रवासिनामपि फलविशेषः प्रदर्शितः श्रीसाच्चते-(7-120) *दुष्टेन्द्रियवशाञ्चितं नृणां यत् कलुषै(कल्मषै) वृतम् । तदन्तकाले संशुद्धि याति नारायणालये ॥ इति । तत्रापि स्वाचायपरम्पराचिरसेवनजनितप्रसादातिशयात् स्वदोषाना- दरेण स्वस्यैवंविधावस्थापदत्वेन प्रार्थितपूरणानुगुणतामभिप्रेत्याह-मम नाथेति ॥ स्वापेक्षित सिद्धचवे याचनीयः स्वामी नाथः । एवमभिमुखीकृते भगवति प्रकृतोपायस्य भरन्यासरूपं प्रधानांशं दमथ- न्त्यादिवृत्तान्तेषु शरणागतिविषयतया प्रतिद्धेन भगवच्छास्त्रोक्तस्थू कसूक्ष्मा दियो जनवता नमः शब्देन निगमयन्, प्रयुज्यमानः सोऽयमुपायस्त्वच्छेषतयैव स्वीक्रियतामित्यभिप्रायेणाइ नमोऽस्तु ते इति ॥ यद्वा, अत्र परत्र च अपेक्षितं निर्ममत्वसंस्कृतं कैङ्कयै नमःशब्दाभिप्रेतम् । अस्त्विति आशा- सनम् । ते इत्यत्र प्रकृत्येशेन प्राप्यत्व पापकत्वशेषित्वादिशालितया निरुपाधिकनमः प्रयोगयोग्यत्व- मभिप्रेतम् । चतुर्थी च अत्र तादर्थ्यपरा। इदमेव वाक्यम् [आवृत्त्या] आवर्त्यमानं पृथुगद्योक्तस्य प्रतिवचनविस्तरस्य संग्रहोऽपि भवति सूत्रादिष्विव प्रयोजनप्रकर्षे सत्यावृत्तेरभियुक्तसंमतत्वात् ।

तत्रायमर्थः- मत्प्रपन्नस्य ते यथामनोरथं मत्कैङ्कर्य भवत्विति। तदेवं रहस्यत्रयोक्तशरण्य- शरणागतितत्फलविशेषाः संदर्शिताः ॥



यदत्र संग्रहेणोक्तमनुक्तमपि किंचन । बृहद्गध्याधिकारे तव्यक्तं प्रत्यवमृश्यताम् ॥ २ ॥

॥ इति रहस्यरक्षायां श्रीरङ्गगगद्याधिकारः समाप्तः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.