जगद्व्यापारवर्जाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः जगद्व्यापारवर्जाधिकरणम् ॥ ६ ॥      मुक्तस्य ऐश्वर्यम् किम् जगद्व्यापारसहितम्, उत तद्रहितम् अनुभव-मात्रविषयमिति सम्शये जगद्व्यापारसहितमेवेति पूर्वपक्षः । *निरञ्जनः परमम् साम्यमुपैती*(मुण्ड.३-१-३)ति परमसाम्यप्रतिपादिकया श्रुत्या सत्यसङ्कल्पत्वश्रुत्या च मुक्तस्य जगन्नियमनस्यापि सिद्धेः । न हि जगन्नियमनमन्तरा परमसाम्यसत्यसङ्कल्पत्वे सिध्यतः । अतस्त-दन्यथानुपपत्त्या जगन्नियमनरूपैश्वर्यस्याप्यावश्यकत्वादिति । सिद्धा-न्तस्तु – जगद्व्यापारवर्जम् प्रकरणादसन्निहितत्वाच्च ॥४-४-१७॥ निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनरूपजगदैश्वर्यस्य परब्रह्मासाधारणत्वेन तल्लक्षणत्वात् मुक्तसाधारणत्वे ब्रह्मलक्षणत्वा-सम्भवात् […]

अभावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः अभावाधिकरणम् ॥ ४ ॥ अभावम् बादरिराह ह्येवम् ॥ ४-४-१० ॥ शरीरेन्द्रियाणामभावम् बादरिराचार्यो मन्यते । *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती*(छान्.८-१२-१)त्येव श्रुतिराहेत्यर्थः । भावम् जैमिनिर्विकल्पामननात् ॥ ४-४-११ ॥ मुक्तस्य देहेन्द्रियादिसद्भावम् जैमिनिराचार्यो मन्यते । कुतः । विकल्पामननात् । विविधःकल्पः विकल्पः वैविध्यमित्यर्थः । *स एकधा भवति त्रिधा भवति पञ्चधा […]

सङ्कल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः सङ्कल्पाधिकरणम् ॥ ४ ॥      सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि राजादीनामभिलषितसृष्टेः प्रयत्नान्तरसापेक्षत्व दर्शनात् मुक्तस्यापि सिसृक्षितपितृलोकादिसृष्टिः सङ्कल्पव्यतिरिक्तप्रयत्नान्तरसापेक्षवैति प्राप्त उच्यते –   सङ्कल्पादेव तच्छ्रुतेः ॥ ४-४-८॥ सङ्कल्पमात्रादेव सृष्टिः । न प्रयत्नान्तरसापेक्षा कुतः । *सङ्कल्पादेव पितरस्समुत्तिष्ठन्ती*(छान्.८-२-१)ति एवकारश्रुतेः । न च एवकारस्य अयोगव्यवच्छेदकत्वमत्यन्तायोगव्यवच्छेदकत्वम् वाऽर्थः । विशेषण-क्रियासङ्गतयोरेव एवकारयोरयोगात्यन्तायोगव्यवच्छेदार्थकत्वेन एतस्य चातथात्वेन अन्ययोगव्यवच्छेदपरत्वस्यैव न्याय्यत्वात् । अत […]

ब्राह्माधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः ब्राह्माधिकरणम् ॥३॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४-४-५ ॥ *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्युच्यमानम् स्वरूपम् किमित्याकाङ्क्षायाम् अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेवो-पन्यासात् सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च ब्रह्मसम्बन्धिना अपहत-पाप्मत्वादिगुणलक्षणेन रूपेणाविर्भवतीति जैमिनिराचार्यो मन्यत इति । चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥४-४-६॥ *प्रज्ञानघन एव*(बृह.६-५-१३), *विज्ञानघन एवे*(बृह.४-४-१२)ति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात् ज्ञानमात्रस्वरूपोणावि-र्भवतीति । एवमप्युपन्यासात्पूर्वभावादाविरोधम् बादरायणः॥४-४-७॥ तस्य चायमर्थः एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन “ब्राह्मेण जैमिनिरुपन्यासादिभ्य*(ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूप-स्यापि सम्भवात् सैन्धवघनस्य कृत्स्नस्य […]

अविभागेनदृष्टत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥      किमयम् मुक्तः परञ्ज्योतिरुपसम्पन्नः स्वात्मानम् परमात्मनः पृथग्भूतमनुभवति उत परमात्मप्रकारतया परमात्मनः अविभागेन अनुभवतीति विशये *सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता*(तै. आन.१-२), *परमम् साम्यमुपैति*(मुण्ड.३-१-३) *मम साधर्म्यमागता*   (गी.१४-२) इत्यादिश्रुतिस्मृतिभ्याम् मुक्तस्य परेण साम्यसाहित्यसाधर्म्य प्रतिपादनात् तेषाम् भेदगर्भत्वात् पृथग्भावेनैवानुभवतीति पूर्वपक्षे प्राप्त उच्यते – अविभागेन दृष्टत्वात् ॥४-४-५॥ परब्रह्मणः स्वात्मानम् अविभागेन अनुभवति […]

सम्पद्याविर्भावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः सम्पद्याविर्भावाधिकरणम् ॥ १ ॥      स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इति देवादिरूपवत् साध्येन रूपेणाभिनिष्पत्तिरुच्यते । अभिनिष्पत्तिशब्दस्यागन्तुकधर्मोत्पत्तिपरत्वात् स्वशब्दः स्वात्मीयवचनः । आगन्तुकस्यापि रूपस्यात्मीयत्वात् स्वेन रूपेणेत्युपपद्यते । न तु *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यत्र स्वशब्दस्यात्मार्थकत्वम् वा निष्पत्तिशब्दस्याविर्भावार्थकत्वम् वा युक्तम्, स्वरूपस्य नित्यत्वेन तत्प्राप्तेरपुरुषार्थत्वप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते – सम्पद्याविर्भावः स्वेनशब्दात् ॥ ४-४-१ ॥ परञ्ज्योतिरुपसम्पद्य स्वस्य रूपस्यैवाविर्भावः नत्वागन्तुकात्मीय-धर्मोत्पत्तिः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.