सम्पद्याविर्भावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

सम्पद्याविर्भावाधिकरणम् ॥ १ ॥

     स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इति देवादिरूपवत् साध्येन रूपेणाभिनिष्पत्तिरुच्यते । अभिनिष्पत्तिशब्दस्यागन्तुकधर्मोत्पत्तिपरत्वात् स्वशब्दः स्वात्मीयवचनः । आगन्तुकस्यापि रूपस्यात्मीयत्वात् स्वेन रूपेणेत्युपपद्यते । न तु *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यत्र स्वशब्दस्यात्मार्थकत्वम् वा निष्पत्तिशब्दस्याविर्भावार्थकत्वम् वा युक्तम्, स्वरूपस्य नित्यत्वेन तत्प्राप्तेरपुरुषार्थत्वप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते –

सम्पद्याविर्भावः स्वेनशब्दात् ॥ ४-४-१ ॥

परञ्ज्योतिरुपसम्पद्य स्वस्य रूपस्यैवाविर्भावः नत्वागन्तुकात्मीय-धर्मोत्पत्तिः । तथाहि सति *स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यत्र स्वेनशब्दवैयर्थ्यप्रसङ्गात् । अतः स्वशब्दो नात्मीयवचनः अपि त्वात्मवचन एव । आविर्भावेऽप्यभिनिष्पत्तिशब्दो दृश्यते – युक्त्याऽय-मर्थो निष्पन्नः *इदमेकम् सुनिष्पन्नमि*त्यादिषु । नन्वात्मनः पूर्व-सिद्धत्वात् कथम् तस्य पुरुषार्थत्वम् तत्राह –

मुक्तःप्रतिज्ञानात् ॥ ४-४-२ ॥

*स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्यस्य मुक्तो भवतीत्यर्थः । निवृत्ताविद्यातिरोधानो भवतीति यावत् । कथमिदमवसीयत इति चेत् प्रतिज्ञानात् जागराद्यवस्थात्रयकलुषितम् जीवम् प्रस्तुत्य *एतम् त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मादि*(छान्.८-८-३)ति तस्यैव अशरीरत्वलक्षणमुक्तत्वम् *मघवन्मर्त्यम् वा इदम् शरीरमि*(छान्.८-१२-१)त्यादिना चतुर्थेन पर्यायेण प्रतिपादयिष्यामीति प्रतिज्ञानात् । निवृता-विद्यातिरोधानस्य स्वेन रूपेण साध्यत्वमस्त्येवेति न पुरुषार्थत्वहानिः ।
ननु निवृत्ततिरोधानस्याप्यात्मस्वरूपस्य कथञ्चित्साध्यत्व-सम्भवेऽपि तस्य न पुरुषार्थत्वे प्रमाणमस्तीत्यत्राह ।

आत्माप्रकरणात् ॥ ४-४-३ ॥

*य आत्माऽपहतपाप्मे*(छान्.८-७-१)त्यादिवाक्यसन्दर्भप्रतिपाद्या- पहतपाप्मत्वादिगुणाष्टकविशिष्टतयाऽत्यन्तानुकूलत्वेन परमपुरुषार्थ-भूतोऽयमात्मा । अपहतपाप्मत्वादीनाम् कथम् जीवसम्बन्धित्वम् इत्यत्राह – प्रकरणादिति । अवस्थात्रयकलुषितम् जीवम् प्रकृत्यैवाप-हतपाप्मत्वादिगुणानामाम्नानादित्यर्थ इति ॥

इति सम्पद्याविर्भावाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.