जगद्व्यापारवर्जाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

जगद्व्यापारवर्जाधिकरणम् ॥ ६ ॥

     मुक्तस्य ऐश्वर्यम् किम् जगद्व्यापारसहितम्, उत तद्रहितम् अनुभव-मात्रविषयमिति सम्शये जगद्व्यापारसहितमेवेति पूर्वपक्षः । *निरञ्जनः परमम् साम्यमुपैती*(मुण्ड.३-१-३)ति परमसाम्यप्रतिपादिकया श्रुत्या सत्यसङ्कल्पत्वश्रुत्या च मुक्तस्य जगन्नियमनस्यापि सिद्धेः । न हि जगन्नियमनमन्तरा परमसाम्यसत्यसङ्कल्पत्वे सिध्यतः । अतस्त-दन्यथानुपपत्त्या जगन्नियमनरूपैश्वर्यस्याप्यावश्यकत्वादिति । सिद्धा-न्तस्तु –

जगद्व्यापारवर्जम् प्रकरणादसन्निहितत्वाच्च ॥४-४-१७॥

निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनरूपजगदैश्वर्यस्य परब्रह्मासाधारणत्वेन तल्लक्षणत्वात् मुक्तसाधारणत्वे ब्रह्मलक्षणत्वा-सम्भवात् *यतो वा इमानी*(तै.भृगु.१त्यादिश्रुतिभिः तत्तत्प्रकरणे ब्रह्मण एव जगन्नियमनरूपैश्वर्यप्रतिपादनात् तादृशश्रुतिषु मुक्तस्य असन्निधानाच्च जगद्व्यापारवर्जम् मुक्तस्यैश्वर्यमिति । ननु अनाद्यनन्तकल्पानुवृत्तसर्वप्रपञ्चजन्मादिकारणत्वम् ब्रह्मलक्षणम् । मुक्तानान्तु स्वमुक्तिप्राचीनकालवर्तिप्रपञ्चकर्तृत्वाभावात् न लक्षणत्व-विरोध इति चेन्न । जगत्सृष्ट्यादिषु वर्तमानानाम् मुक्तानामैकमत्य-नियमाभावात् कस्यचित् सिसृक्षायामन्यस्य सञ्जिहीर्षापि भवेदिति किमपि कार्यम् न निवर्तेत । न च सर्वेऽपि परमात्माधीना एव जगत्सर्गादौ प्रवर्तन्त इति ऐकमत्त्यमुपपद्यत इति वाच्यम् । तर्हि तदधीनत्वेन तत्साम्याभावेन साम्यश्रुतेस्सङ्कोचनीयत्वावश्यम्भावात् *भोगमात्रसाम्यलिङ्गच्चे*(ब्र.सू.४-४-२१)ति वक्ष्यमाणसूत्रन्यायेन  भोग-मात्रसाम्यमादायापि तुलाधृतयोस्सुवर्णशिलाशकलयोर्गुरुत्वसाम्येनाप्यत्य-न्तसाम्यव्यवहारवत् साम्यव्यवहारस्य जगत्कारणत्वमन्तरेणाप्युपपतेः  न मुक्तस्य जगद्व्यापारप्रवृत्तिरिति भावः।

प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ ४-४-१८ ॥

ननु *स स्वराड् भवति*(छान्.७-२५-२) *ससर्वेषु लोकेषु कामचारो भवति*(छान्.७-२५-२) *इमान् लोकान् कामान्नी कामरूप्यनु सञ्चरन्नि*(तै.भृगु.१०-५)ति श्रुतिभिः कामान्नित्वकामरूपित्वसर्वलोक-सञ्चारप्रतिपादनात् कामान्नित्वादीनाम् जगतः मुक्ताधीनत्वमन्तरा असम्भवात् जगद्व्यापारोऽपि मुक्तस्य स्यादिति चेन्न । मुक्तस्य उभय-विभूतिविशिष्टब्रह्मानुभवे आधिकारिकहिरण्यगर्भादिलोकस्थभोगस्यापि अन्तर्गतत्वेन तन्मात्रविषया उपात्तश्रुतयः न तु जगद्व्यापारपरा इति ।

विकारावर्ति च तथा हि स्थितिमाह ॥ ४-४-१९ ॥

विकारे जन्मादिकेन वर्तत इति विकारावर्ति । विकारशब्देन हेय-सामान्यमुपलक्षितम् । ब्रह्मैव विशेष्यम् । निखिलहेयप्रत्यनीककल्याणै-कतानस्य सविभूतिकस्य ब्रह्मण एव मुक्तानुभाव्यत्वात् तादृशविभूत्यन्त-र्गतत्वेन विकारवर्तिलोकानामपि मुक्तभोग्यत्वम् । *यदा ह्येवैष एतस्मि-न्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयम् प्रतिष्ठाम् विन्दतेऽथ सोऽभयम् गतो भवति*(तै.आन.७-२), *रसम् ह्येवायम् लब्ध्वानन्दी भवती*(तै. आन.७-१)त्यादिका श्रुतिः सविभूतिकब्रह्मानुभवितृत्वेन मुक्तस्य स्थितिम् दर्शयति । सर्वलोककामचारादिश्रुतीनामत्रैव तात्पर्यम् न जगद्व्यापारे । अतो न मुक्तस्य सृष्ट्यादिविषयम् जगदैश्चर्यम् ।

दर्शयतश्चैवम् प्रत्यक्षानुमाने ॥४-४-२०॥

*भीषास्माद्वातः पवते*(तै.आन.८-१) *एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विघृतौ तिष्ठतः*(बृह.५-८-९) *विष्टभ्याहमिदम् कृत्स्नमेकाम्शेन स्थितो जगत्*(गी.१०-४२) *मयाऽध्यक्षेण प्रकृतिस्सूयते स चराचरमि*(गी.९-१०)त्यादिश्रुतिस्मृतिभिः सकलजगन्नियमन- रूपजगदैश्वर्यस्य परब्रह्मासाधारणत्वप्रतिपादनात् सत्यसङ्कल्प-त्वपरमसाम्ये जगद्व्यापारवर्जम् सम्भवतः ।

भोगमात्रसाम्यलिङ्गाच्च ॥ ४-४-२१ ॥

*सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेती*(तै.आन.१)ति श्रुत्या ब्रह्मानुभवरूपभोगमात्र साम्यप्रतिपादनलिङ्गाच्च जगद्व्यापारवर्जमैश्वर्यम् मुक्तस्येति प्रतीयते सामान्यत: साम्यप्रतिपादकश्रुतेः सामान्यविशेष-न्यायेन भोगसाम्यपरत्वावश्यकत्वात् ॥

अनावृश्शिब्दादनावृत्तिश्शब्दात्  ॥ ४-४-२२ ॥

मुक्तैश्वर्यस्य सर्वेश्वरसङ्कल्पाधीनत्वे स्वातन्त्र्यान्मुक्तस्य पुनरावृत्ति-शङ्कायामिदम् सूत्रम् । मुक्तस्य पुनरावृत्तिहेतुत्वेन सम्भावितानाम् स्वेच्छाकर्मभगवत्सङ्कल्पानाम् मध्ये कस्यापि पुनरावृत्तिहेतुत्वम् न सम्भवति । तथाहि निरवधिकातिशयानन्दब्रह्मानुभवसागरनिमग्नस्य मुक्तस्य निरयतुल्यभोगान्तरापेक्षाया अप्रसक्तिः । सर्वबन्धविनिर्मुक्तस्य पुनरावृत्तिहेतुभूतकर्मविशेषस्य अप्रसिद्धत्वेन कर्माधीना पुनरावृत्तिर्न सम्भवति । भगवतस्सत्यसङ्कलपत्वेन मुक्तान् पुनर्नावर्तयिष्यामीति सङ्कल्पविशेषस्य अन्यथाभावासम्भवेन भगवतः निरतिशयप्रियमुक्त-विषये कदाचिदपि न प्राथमिकसङ्कल्पविरोधिपुनरावृत्तिसङ्कल्पोदय-स्सम्भवतीति । तथैव प्रतिपादयन्ति श्रुतिस्मृतयः – *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते*(छान्.८-१५-१)। *मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानस्सम्सिद्धिम् परमाम् गता*(गीता.८-१५) इत्यादिकाः। सूत्राभ्यासश्शास्त्रपरिसमाप्तिद्योतकः ॥

इति जगद्व्यापारवर्जाधिकरणम् ॥
*****
इति चतुष्षष्टिप्रबन्धनिर्माणसम्सूचितसर्वतन्त्रस्वतन्त्रताबिरुदाञ्चितैः श्रीमद्रङ्गरामानुजमुनिभिरनुगृहीतायाम् श्रीशारीरकब्रह्मसूत्रव्याख्यायाम् श्री शारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ अध्यायश्च समाप्तः ॥

शास्त्रञ्च परिसमाप्तम् ॥
समुदिताधिकरणसङ्ख्या १५६ समुदितसूत्रसङ्ख्या ५४५ ॥
*****
येनोपनिषदाम् भाष्यम् रामानुजमतानुगम् ।

रम्यम् कृतम् प्रपद्ये तम् रङ्गरामानुजम् मुनिम् ॥
श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥
*************
॥ श्रीः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.