29 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। 5.29.1।। तथागतामित्यादि । तथागतां “रहस्यं च प्रकाशं च” इत्युक्तरीत्या सर्वं यथावत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्थमिति परिच्छिद्य वक्तुमशक्यदुःखाम् । तां धर्मिस्वरूपातिरिक्तयत्किंचिदतिशयरहिताम् । व्यथिताम् । “आशंसायां भूतवच्च” इति निष्ठा । तथा च पूर्वोक्तं सर्वं धर्मिस्वरूपमात्रम् । इतः परमेव व्यसनानि […]

28 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टाविंशः सर्गः सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। 5.28.1।। सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। 5.28.2।। सा राक्षसेन्द्रस्येत्यादि ।। 5.28.12।। सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। 5.28.3।। सुखाद्विहीनं बहुदुःखपूर्णमिदं […]

27 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तविंशः सर्गः इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। 5.27.1।। इत्यक्ता इत्यादि । तत् मरणाध्यवसायम् ।। 5.27.1।। ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। 5.27.2।। तत इत्यादि । एकार्थं पूर्वोक्तवचनैरेकाभिधेयम् । अनर्थार्थम् अनर्थफलकम् । एकाक्ष्यादयः पूर्वोक्तार्थमेव परुषवचनं पुनरब्रुवन्नित्यर्थः ।। 5.27.2।। अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यन्ति […]

26 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। 5.26.1।। उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। 5.26.2।। प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः” इत्युक्तेः । प्रमत्ता अनवधाना । “प्रमादो ऽनवधानता” इत्यमरः । भ्रान्तचित्ता अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता । किशोरीव बडवेव ।। 5.26.12।। राघवस्य प्रमत्तस्य रक्षसा […]

25 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। 5.25.1।। तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ।। 5.25.1।। एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। 5.25.2।। एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ।। 5.25.2।। न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां […]

24 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ।। 5.24.1।। किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ।। 5.24.2।। तत इत्यादि ।। 5.24.12।। मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। 5.24.3।। त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ।। 5.24.4।। […]

23 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। 5.23.1।। निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। 5.23.2।। ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः । परं परुषया वाचा वैदेहीमिदमब्रुवन् ।। 5.23.3।। पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। […]

22 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। 5.22.1।। सीताया इत्यादि ।। 5.22.1।। यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। 5.22.2।। सान्त्वयिता अनुनेताः ।। 5.22.2।। सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतो ऽमार्गमासाद्य हयानिव सुसारथिः ।। […]

21 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। 5.21.1।। तस्येत्यादि ।। 5.21.1।। दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता । तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।। 5.21.2।। निवर्तय मनो मत्तः स्वजने क्रियतां मनः । न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ।। 5.21.3।। […]

20 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः स तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ।। 5.20.1।। स तामित्यादि । साकारैः सेङ्गितैः । “आकाराविङ्गिताकृती ” इत्यमरः । न्यदर्शयत, स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ।। 5.20.1।। मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ।। 5.20.2।। अदर्शनं अदृश्यत्वम् ।। 5.20.2।। कामये त्वां विशालाक्षि बहु मन्यस्व […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.