32 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः सीतया मायानिर्मितशिरसि सादृश्याद्रामशिरस्त्वप्रत्यभिज्ञानेन शोकाद्वहुधाविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहितदूतान्हानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेन सेनासंनाहनम् ॥ ३ ॥ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ।। १ ।। अथ सीताप्रलापो द्वात्रिंशे–सा सीतेत्यादिश्लोकत्रयमेकं वाक्यं ॥ हनुमता पूर्वं कथितं । सुग्रीवप्रतिसंसर्ग रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखाच्छ्रुत्वेतिशेषः । […]

31 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः रावणेनमन्त्रिमुखात्ससैन्यरामस्य सुवेलाचलागमनश्रवणान्मन्त्रिभिस्सहालोच्यकर्तव्य निर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिह्वेनमायानिर्मितरामशिरश्शरासनसदृश -शिरश्शरासनप्रदर्शनेन सीताविमोहनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।। अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व सर्गोक्तमनुवदति – तत इति ॥ स्पष्टः ॥ १ ॥   चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ।। […]

30 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः शार्दूलेनरायणप्रति निजबलेगरुडव्यूहरचनयारामस्वसु वेलाचल समीपेऽवस्थान निवेदनपूर्वकं प्रविष्टमात्रस्य स्वस्यविभीषणेन निवेदनेवानरैर्बलाद्ग्रहणेनसर्वतः संचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांच पृथक्पितृनामादिनिवेदनम् ॥ २ ॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।। अथ शार्दूलादिचारवचनं त्रिशे-तत इति ॥ सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेलस्य समीप इति पूर्वमुक्तत्वात् ॥ १ […]

29 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्सनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमाय शार्दूलादिचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानर सेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिष्टैः कृपयारामविमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥ शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् । समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ।। १ ।। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।। २ ।। [गजं गवाक्षं गवयं मैन्दं द्विविदमेव […]

28 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः शुकेनरावणंप्रति सारणानुक्तानांहनुमदादिवानरवीराणां रामलक्ष्मणादीनांच प्रभावादिप्रशंसनपूर्वकं पृथङ्गामनिर्देशन प्रदर्शनम् ॥ १ ॥ तथा लक्षकोढ्यादिसर्वसंख्यालक्षणकथनपूर्वकं वानरसेनासु तावसंख्या पर्याप्तिनिवेदनम् ॥ २ ॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ।। १ ।। एवं सारणेनोक्तं श्रुत्वाशुकस्तेन कार्त्स्न्येनानुक्ते: स्वयं तत्सर्वं दर्शयत्यष्टाविंशे सर्गे-सारणस्येति ॥ शुकः सारणस्य वचः श्रुत्वा तेन कार्त्स्न्येनानुक्तेः स्वयं तत्सर्वं बलं आदिश्य अङ्गुल्या […]

27 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः रावणंप्रतिसारणेनपृथक्पृथङ्नामनिर्देशेनतत्तस्पराक्रमादिप्रशंसनपूर्वकमृक्षवानरादियूथाध्यक्षप्रदर्शनम् ॥ १ ॥   तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ।। १ ।। पुनरुक्तेभ्योप्युत्कृष्टान्प्रधानयूथपतीन्वक्तुं प्रतिजानीते – तांस्त्वित्यादि । ये राघवार्थे पराक्रान्ताः सन्तः जीवितं न रक्षन्ति तान् यूथपान् ते तुभ्यं प्रवक्ष्यामीयन्वयः ॥ १ ॥ स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः […]

26 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः           वानरबलावलोकनाय शुकसारणाभ्यांसहोच्चप्रासाद मारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तद्बलपराक्रमवर्णमपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥ तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ।। १ ।। अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति  अक्वीबं अकातरं । प्रत्यभाषत अनिन्ददित्यर्थः ॥ १ ॥ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। २ ।। अभियुञ्जीरन् युद्ध्येरन् […]

25 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशः सर्गः विभीषणेन रावणप्रेरणया रामसेनागणनाद्यर्थंप्रहितयोः कपिरूपधारणेनकपिसेना -प्रविष्टयोः शुकसारणनाम्नो राक्षसयोग्रहणेन रामेप्रत्यर्पणम् ॥ १ ॥ स्वप्रार्थनया रावणे संदेशनिवेदनचोदन पूर्वकं राममोचिताभ्यांशुकसारणाभ्यां रावणमेत्य तंप्रति विभीषणकृतस्वग्रहणादिनिवेदनम् ॥ २ ॥ तथा वानरसेनाया अपरिच्छेद्यत्व निवेदन पूर्वकं रामप्रभाववर्णनेनसीताप्रदानपूर्वकं तेनसन्धिविधानम् ॥ ३ ॥ सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ।। १ ।। अथ शुकसारणप्रेषणं पञ्चविंशे – सबल […]

24 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः लङ्कासमीपंगतैरन्तर्गतराक्षस सेनाक्रोश मसहमानैर्वानरैरुच्चैरुद्घोषणम् ॥ १ ॥ रामेणलक्ष्मणप्रति लङ्कावर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छु – राक्षसमोक्षणम् ॥ ३ ॥ शुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धादिनिवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्यवा करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यात्मश्लाघनपूर्वकं रामेणस्वस्याजय्यत्वादिप्रलपनम् ॥ ५ ॥   सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥ […]

23 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः तीर्णार्णवेनरामेण लक्ष्मणंप्रति घोरतरसमरसूचकोत्पातप्रदर्शन पूर्वकमुत्साहेन सेनयाविभीषण सुग्रीवादिभिस्सहलङ्कांप्रति प्रस्थानम् ॥ १ ॥ निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ १ ॥ एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान्महोत्पातान्दृष्ट्वा चिरप्रार्थिताभीष्टसिद्धिर्भविष्यतीति सन्तुष्टो दृष्टानि निमित्तानि निमित्तज्ञाय लक्ष्मणाय दर्शयति — निमित्तानीति  निमित्तज्ञत्वे लक्ष्मणादप्याधिक्यं दर्शयितुं लक्ष्मणपूर्वज इत्युक्तं । संपरिष्वङ्गश्चिरप्रार्थितसमरस्यासन्नत्वात् । निमित्तापेक्षणस्यावश्यकत्वमुक्तं कामन्दके – निमित्तान्येव शंसन्ति शुभाशुभफलोदयम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.