श्री वेदान्तदेशिकमङ्गळाशासनम्

श्री वेदान्तदेशिकमङ्गळाशासनम् (कुमारवरदाचार्यकृतिः) श्रीमुल्लक्षणयोगीन्द्र-सिद्धान्त-विजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ।। सर्वतन्त्र-स्वतन्त्राय सिंहाय कविवादिनाम् । वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गळम् ।। (१) नभस्यमासि श्रोणायामवतीर्णायसूरये । विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गळम् ।। (२) पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्ज्वनः । पौत्रो यस्तनयस्तोतारांबायास्तस्य मङ्गळम् ।। (३) वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् । यतीन्द्रांशोऽथवेत्येवं वितर्क्क्यायास्तु मङ्गळम् ।। (४) श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः । उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गळम् ।। (५) यो […]

श्री वेदान्तदेशिक प्रपत्तिः

श्री वेदान्तदेशिक प्रपत्तिः श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। श्रीमद्वेङ्कटनाथाख्यौ साधुचक्रमहादरौ । परमानन्दनिलयौ प्रपद्ये देवदेशिकौ ।। (१) (वेङ्कटाध्वरिकृतिः) स्थित्वा पुरो यस्य गुरोस्स्ववक्त्रात् लालासुधां वाजिमुखः प्रसन्नः । विश्राणयामास विबोधहेतुं तं वेदचूडार्यमहं प्रपद्ये ।। (२) (महाचार्यकृतिः) श्रीभाष्यकार-चरणांबुज-चञ्चरीकं रामानुजार्य-मतघोषणबद्धदीक्षम् । सर्वेषु तन्त्रविषयेषु निरङ्कुशं तं वेदान्तदेशिकमहं शरणं प्रपद्ये ।। (३) (सुदर्शनदासकृतिः) प्रख्यापयन् निगममौळियुगं बुधानां तद्रक्षणाय […]

श्री वेदान्तदेशिकस्तोत्रम्

श्री वेदान्तदेशिकस्तोत्रम् श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। गुरुतरगर्वशर्वपरपर्वतपर्वभिदा- भिदुरविधानुधावि विविधाकृतयः कृतयः । श्रितजनताहिताय महिता इह यद्विहिताः कथमधुना नुमस्तमथ वेङ्कटनाथगुरुम् ।। (१) स्थिरतरवैनतेय-करुणापरिणामवता हयवदनप्रमोद-सदनायित दिव्यहृदा । विदितनिजापदानविलसत् बिरुदावलिना कविकथकाळि-मौळिमकुटेन जगद्विजितम् ।। (२) वकुळभृदाततान पृतनापतिरेकतरो यतिपतिरेवमेव निगमान्तमनन्ततनुः । तदुभयपक्षरक्षण-विलक्षणपक्षयुगः श्रुतिमय एष विश्रुतगतिर्निगमान्तगुरुः ।। (३) सरसवसन्तदान्त दिवसान्त सितान्तलसत्- विसृमरमल्लिकाकुसुमतल्लजगन्धपुषः । वचनसरास्सतां परिपचेळिमपुण्यचयोः मनसि […]

श्री वेदान्तदेशिक सुप्रभातम्

श्रीमते रामानुजाय नमः श्री वेदान्तदेशिक सुप्रभातम् (श्रीकृष्ण ब्रह्मतन्त्रमुनिवर्यकृतिः) श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। पादारविन्दयुगळीनतचेतनौघ- खेदापहारिकरुणादि-गुणामृताब्धे । मोदाय सर्वजगतां भवतान्नितान्तं वेदान्तदेशिकमणे! तव सुप्रभातं ।। (१) निद्रानुभूतिशबलैरमलैः कटाक्षैः विद्रावितार्तिभिरुपाश्रितलोकरक्षैः । भद्राणि सर्वजगतां भगवन् विधातुं निद्रां विमुञ्च निगमाञ्चलदेशिकेन्द्र ।। (२) अन्तर्हरौ लसति धामनिधौ प्रकाशम् अत्यन्तमेत्य जगतां जनयन् प्रबोधम् । प्राचीप्रदेश इव भाति भवान् […]

श्रीगरुडपञ्चाशत्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडपञ्चाशत् अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्यशुद्धास्त्रबन्धाः । पक्षिव्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ।। वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां सिद्धिः सांकर्षणी सा परिणमति यया सापवर्गत्रिवर्गा । प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ।। नेत्रं गायत्रमूचे त्रिवृदिति […]

श्रीगरुडदण्डकः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडदण्डकः नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने । श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ 1 ॥ गरुडमखिल-वेद-नीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागति-प्रीत-रुद्रा-सुकीर्तिस्तनाभोग-गाढोपगूढस्फुरत्कण्टकव्रात-वेध-व्यथा-वेपमान-द्विजिह्वाधिपाकल्प-विष्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटा-राजि-नीराजितं कान्ति-कल्लोलिनी-राजितम् ॥ 2 ॥ जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पति-क्षिप्त-दम्भोळिधारा-किणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरायितोद्यच्चमत्कार दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ 3 ॥ नम इदमजहत्सपर्याय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-पाथोधिवीची-चपेटाहतागाध-पाताळ-भांकार-संक्रुद्ध-नागेन्द्रपीडासृणीभाव-भास्वन्नखश्रेणये चण्डतुण्डाय […]

श्रीषोडशायुधस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीषोडशायुधस्तोत्रम् स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ 1 ॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ 2 ॥ यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः । स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ 3 ॥ हेलया हेतिराजेन यस्मिन् दैत्याः […]

श्रीसुदर्शनाष्टकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीसुदर्शनाष्टकम् प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण । निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ शुभजगद्रूपमण्डन सुरगणत्रासखण्डन शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित । प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर परिगतप्रत्नविग्रह पटुतरप्रज्ञदुर्ग्रह । प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन […]

श्रीन्यासतिलकम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासतिलकम् गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ 1 ॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्माम् अव्यादभयमुद्रितः ॥ 2 ॥ अनादेर्निःसीम्नो दुरित जलधेर्यन्निरुपमं विदुः प्रायश्चित्तं यदु रघुधुरीणाशय विदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिल नाथस्य […]

श्रीन्यासविंशतिः

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासविंशतिः सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयाळुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ 1 ॥ अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात् जन्मप्रध्वंसिजन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् । निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ 2 ॥ सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.