श्री वेदान्तदेशिक प्रपत्तिः

श्री वेदान्तदेशिक प्रपत्तिः

श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।

श्रीमद्वेङ्कटनाथाख्यौ साधुचक्रमहादरौ ।

परमानन्दनिलयौ प्रपद्ये देवदेशिकौ ।। (१) (वेङ्कटाध्वरिकृतिः)

स्थित्वा पुरो यस्य गुरोस्स्ववक्त्रात्

लालासुधां वाजिमुखः प्रसन्नः ।

विश्राणयामास विबोधहेतुं

तं वेदचूडार्यमहं प्रपद्ये ।। (२) (महाचार्यकृतिः)

श्रीभाष्यकार-चरणांबुज-चञ्चरीकं

रामानुजार्य-मतघोषणबद्धदीक्षम् ।

सर्वेषु तन्त्रविषयेषु निरङ्कुशं तं

वेदान्तदेशिकमहं शरणं प्रपद्ये ।। (३) (सुदर्शनदासकृतिः)

प्रख्यापयन् निगममौळियुगं बुधानां

तद्रक्षणाय विविधाः कुरु सत्कृतीस्त्वम् ।

इत्युक्तवान् यतिपतिर्गुरवे तु यस्मै

स्वप्ने तमद्भुतगुणं शरणं प्रपद्ये ।। (४) (महाचार्यकृतिः)

भवावर्ते भीमे भ्रममुपगतानां प्रतिपदं

जनानां रक्षार्थं जगति गतिमन्यामविदुषाम् ।

प्रकृष्टां यश्चक्रे परमपदसोपानपदवीं

प्रपद्ये तं वादिद्विप-विघटनासिंहमनिशम् ।। (५)

यदीयचरितं सतां सुचरितव्यवस्थापकं

यदीयवचनं परं सकलसंशयोन्मूलनम् ।

यदीयकरुणागतिः सकलधर्मशून्यात्मनां

स नश्शरणमस्त्वसौ सकलतन्त्रनिर्वाहकः ।। (६) (प्रतिवादिभयङ्करम् अर्ण्णन् कृतिः)

श्रीभाष्यटीका सुभगा रणाग्रे संरक्षिता येन गुरूत्तमेन ।

प्रवर्तिता सन्नतशिष्यवर्गे पादांबुजं तस्य शुभं प्रपद्ये ।। (७)

विश्वोपकार-करणाय कृतावतारौ

विस्तारसंसृति-महार्णव-कर्णधारौ ।

वेधोमुखैरपि सुरैर्विहितप्रणामौ

वेदान्तसूरिचरणौ शरणं प्रपद्ये ।। (८)

वीथीषु रङ्गनगरे कृतचंक्रमौ यौ

विद्याविनीत-जनता-विहितानुसारौ ।

विद्वेषिवादि-मुकुटीकृतकुट्टनौ तौ

वेदान्तसूरिचरणौ शरणं प्रपद्ये ।। (९) (कुमारवेदान्ताचार्यकृतिः)

विख्यातता-मरसशङ्खरथाङ्गचिह्नौ

विस्मेरकेसरलसन्मृदुलाङ्गुलीकौ ।

विश्वंभरामतितरामपि पावयन्तौ

वेदान्तसूरिचरणौ शरणं प्रपद्ये ।। (१०)

विश्वासविष्णुपदभक्तिविरक्तिशून्यं

विभ्रष्टकृत्यमपि मां विषयेषु सक्तम् ।

विद्वत्सभानुगतियोग्यमिहादधानौ

वेदान्तसूरिचरणौ शरणं प्रपद्ये ।। (११) (कुमारवेदान्ताचार्यकृतिः)

किं च मम मानसमिदं च समुदञ्चितमिहान्यविषये

आञ्चति न जातु कविवादिकरिपञ्चमुख! तावकपदम् ।

वञ्चनपरं शठमकिञ्चन जनप्रिय! सपञ्चशरधिं

चञ्चलमिदं पुनरचञ्चलतरं कुरु भवच्चरणगम् ।। (१२) (प्रतिवादिभयङ्करं अण्णन् कृतिः)

कर्माद्युपाया इह केचन स्युः केचित्तु लक्ष्मीरमणाङ्घ्र्युपायाः ।

श्रीमद्यतीन्द्रप्रियवेङ्कटेश-गुर्वङ्घ्र्युपाया वयमेव धन्याः ।। (१३) (प्रतिवादिभयङ्करं अण्णन् कृतिः)

कवितार्किकसिंहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.