श्रीगोपालविंशतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीगोपालविंशतिः

वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।

जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥

वाचं निजाङ्करसिकां प्रसमीक्षमाणः

वक्त्रारविन्दविनिवेशितपाञ्चजन्यः ।

वर्णत्रिकोणरुचिरे वरपुण्डरीके

बद्धासनो जयति वल्लवचक्रवर्ती ॥

आम्नायगन्धिरुदितस्फुरिताधरोष्ठम्

आस्राविलेक्षणमनुक्षणमन्दहासम् ।

गोपालडिम्भवपुषं कुहनाजनन्याः

प्राणस्तनन्धयमवैमि परं पुमांसम् ॥

आविर्भवत्वनिभृताभरणं पुरस्तात्

आकुञ्चितैकचरणं निभृतान्यपादम् ।

दध्ना निमन्थमुखरेण निबद्धताळं

नाथस्य नन्दभवने नवनीतनाट्यम् ॥

हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं

दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।

पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन्

मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥

व्रजयोषिदपाङ्गवेधनीयं मधुराभाग्यमनन्यभोग्यमीडे ।

वसुदेववधूस्तनन्धयं तत् किमपि ब्रह्म किशोरभावदृश्यम् ॥

परिवर्तितकन्धरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि ।

विटपित्वनिरासकं कयोश्चित् विपुलोलूखलकर्षकं कुमारम् ॥

निकटेषु निशामयामि नित्यं निंगमान्तैरधुनाऽपि मृग्यमाणम् ।

यमळार्जुनदृष्टबालकेळिं यमुनासाक्षिकयौवनं युवानम् ॥

पदवीमदवीयसीं विमुक्तेः अटवीसंपदमम्बुवाहयन्तीम् ।

अरुणाधरसाभिलाषवंशां करुणां कारणमानुषीं भजामि ॥

अनिमेषनिषेवणीयमक्ष्णोः अजहद्यौवनमाविरस्तु चित्ते ।

कलहायितकुन्तळं कलापैः करणोन्मादकविभ्रमं महो मे ॥

अनुयायिमनोज्ञवंशनाळैः अवतु स्पर्शितवल्लवीविमोहैः ।

अनघस्मितशीतळैरसौ माम् अनुकम्पासरिदम्बुजैरपाङ्गैः ॥

अधराहितचारुवंशनाळाः मकुटालम्बिमयूरपिञ्छमालाः ।

                               हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥

अखिलानवलोकयामि कालान् महिळाधीनभुजान्तरस्य यूनः ।

अभिलाषपदं व्रजाङ्गनानाम् अभिलापक्रमदूरमाभिरूप्यम् ॥

हृदि मुग्धशिखण्डमण्डनो लिखितः केन ममैष शिल्पिना ।

मदनातुरवल्लवाङ्गनावदनाम्भोजदिवाकरो युवा ॥

महसे महिताय मौळिना विनतेनाञ्जलिमञ्जनत्विषे ।

कलयामि विमुग्धवल्लवीवलयाभाषितमन्जुवेणवे ॥

जयति लळितवृत्तिं शिक्षितो वल्लवीनां

शिथिलवलयशिञ्जाशीतळैर्हस्तताळैः ।

अखिलभुवनरक्षागोपवेषस्य विष्णोः

अधरमणिसुधायामंशवान् वंशनाळः ॥

चित्राकल्पः श्रवसि कलयन् लाङ्गली कर्णपूरं

बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।

गुञ्जाबद्धामुरसि लळितां धारयन् हारयष्टिं

गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम्

अंसे देव्याः पुळकरुचिरे संनिविष्टान्यबाहुः ।

मेघश्यामो जयति लळितो मेखलादत्तवेणुः

गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥

प्रत्यालीढस्थितिमधिगतां प्राप्तगाढाङ्कपाळिं

पश्चादीषन्मिळितनयनां प्रेयसीं प्रेक्षमाणः ।

भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्यात्

वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥

वासो हृत्वा दिनकरसुतासंनिधौ वल्लवीनां

लीलास्मेरो जयति लळितामास्थितः कुन्दशाखाम् ।

सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने

कामी कश्चित् करकमलयोरञ्जलिं याचमानः ॥

इत्यनन्यमनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् ।

दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यौवतप्रियम् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.