श्रीपरमार्थस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीपरमार्थस्तुतिः

श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे ।

यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ 1 ॥

गुरुभिः त्वदनन्यसर्वभावैः

गुणसिन्धौ कृतसंप्लवस्त्वदीये ।

रणपुङ्गव वन्दिभावमिच्छन्

अहमस्म्येकमनुग्रहास्पदं ते ॥ 2 ॥

भुवनाश्रयभूषणास्त्रवर्गं

मनसि त्वन्मयतां ममातनोतु ।

वपुराहवपुङ्गव त्वदीयं

महिषीणामनिमेषदर्शनीयम् ॥ 3 ॥

अभिरक्षितुमग्रतः स्थितं त्वां

प्रणवे पार्थरथे च भावयन्तः ।

अहितप्रशमैरयत्नलभ्यैः

कथयन्त्याहवपुङ्गवं गुणज्ञाः ॥ 4 ॥

कमला निरपायधर्मपत्नी

करुणाद्याः स्वयमृत्विजो गुणास्ते ।

अवनं श्रयतामहीनमाद्यं

स च धर्मस्त्वदनन्यसेवनीयः ॥ 5 ॥

कृपणाः सुधियः कृपासहायं

शरणं त्वां रणपुङ्गव प्रपन्नाः ।

अपवर्गनयादनन्यभावाः

वरिवस्यारसमेकमाद्रियन्ते ॥ 6 ॥

अवधीर्य चतुर्विधं पुमर्थं

भवदर्थे विनियुक्तजीवितः सन् ।

लभते भवतः फलानि जन्तुः

निखिलान्यत्र निदर्शनं जटायुः ॥ 7 ॥

शरणागतरक्षणव्रती मां

न विहातुं रणपुङ्गवार्हसि त्वम् ।

विदितं भुवने विभीषणो वा

यदि वा रावण इत्युदीरितं ते ॥ 8 ॥

भुजगेन्द्रगरुत्मदादिलभ्यैः

त्वदनुज्ञानुभवप्रवाहभेदैः ।

स्वपदे रणपुङ्गव स्वयं मे

परिचर्याविभवैः परिष्क्रियेथाः ॥ 9 ॥

विमलाशयवेङ्कटेशजन्मा

रमणीया रणपुङ्गवप्रसादात् ।

अनसूयुभिरादरेण भाव्या

परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ 10 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.