07 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालिवधः ॥ १ ॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। १ ॥ श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः । वृतोञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥ श्याम: सन्नवदातः शुभ्र: श्यामावदात: निर्मल इत्यर्थ: । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥   शलभा इव केदारं मशका इव पर्वतम् । यथाऽमृतघटं दंशा मकरा इव […]

06 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषांस्वावध्यत्वकथनपूर्वकं श्रीनारायणशरणीकरणचोदना ।। १ ।। सुरादिभिः सप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेषणम् ।। २ ।। विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृभ्यां -रक्षोगणैश्चसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमेत्य रक्षोभिः सहयुद्धारंभः ॥ ४ ॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्  ।। १ ॥ जगत्सृष्टन्तकर्तारमजमव्यक्तरूपिणम् । आधारं […]

05 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवर -दृप्तैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥ सुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥ तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा ॥ […]

04 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः अगस्त्यमुखाल्लङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशात्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वती -परमेश्वराभ्यां तस्मैवरदानम् ॥ ४ ॥ श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥ लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः अपःस्थानादिसंभवः इति यदुक्तं तच्छ्रुत्वा विस्मयमागत इत्यन्वयः ॥ १ ॥ […]

03 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुष्टेनपरमेष्ठिना तस्मै दिक्पतित्वधन -पतित्ववरदानम् ॥ २ ॥ कुबेरेण स्वपितृतियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैः सहनिवासः ॥ ३ ॥ अथ पुत्र: पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥ सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः […]

02 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः रामेणेन्द्रजित्प्रतापातिशयंपृष्टेनागस्त्येन तदुपोद्धाततया रावणकुलमूलानुकीर्तनारंभः ।। १ ।। पुलस्त्यविश्रवसोरुत्पत्तिः ।। २ ।। तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १ ॥ शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥ असौ रावणिः न च शत्रुभिर्वध्यः । तत्कारणं शृण्विति संबन्धः ॥ […]

01 Sarga उत्तरकाण्डः

।। श्रीः ।। श्रीमद्वाल्मीकिरामायणम् ।। श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्तरकाण्डम् ।। ७ ।। श्रीरामचन्द्राय नमः ॥ श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिषिक्तेश्रीरामे कदाचनसिंहासनमलङ्कु -र्वाणे अगस्त्येनदिक्चतुष्टयनिवासिमुनिगणैःसह श्रीरामसमीपंप्रत्यागमनम् ॥ १ ॥ रामेण यथार्हम -र्चितेषुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैःसह श्रीरामंप्रति रावणादिविजयप्रशंसन -पूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजित्प्रतापादिप्रश्नः ॥ २ ॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजमुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥ […]

131 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः भरतेनरामंप्रति हेतूक्तिपूर्वकंराज्यस्वीकारप्रार्थना ॥ १ ॥ तत्प्रार्थनांसफलीकृतवता -रामेण भरतलक्ष्मणाभ्यांसह जटाशोधनमाङ्गलिकाभ्यङ्गस्नानालंकरणादिकरणपूर्वकं भरतप्रेर्यमाणरथारोहणेन पौरनारीनरनिकरैर्मानुषवेषधारिभिर्वानरतन्नारीनिकरैरप्यनुगम्यमानेन राजोपचारैरुपचर्यमाणेनचसताऽयोध्याप्रवेशेन राजवीथी परिक्रमणेनदशरथगृहप्रवेशः ॥ २ ॥ वामदेवादिमहर्षिभिस्सहितेनवसिष्ठेन श्रीसीतयासह श्रीरामभद्रस्य भद्रतररत्नपीठोपवेशन -पूर्वकं नानामणिगणखचितसुवर्णघटपूर्णहनुमदादिसमानीतनदीसमुद्रशुभसलिलैः पट्टाभिषेकः ॥ ३ ॥ रामेण निजराज्याभिषेकोत्सवे ब्राह्मणादिभ्योनानामणिगणादिवितरणम् ॥ ४ ॥ सुग्रीवादीनां यथार्हंसंमानम् ॥ ५ ॥ सीतया हनुमते रामानुमत्यास्वकण्ठस्थहारप्रदानम् ॥ ६ ॥ श्रीरामेण […]

130 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः हनुमतोरामागमनंश्रुतवताभरतेन शत्रुघ्नंप्रत्ययोध्यामार्गशोधन नगरालंकरणगणिका गणतूर्यसेवादि सहितनागरिकजनप्रत्युद्गमनादिचोदनचोदना ॥ १ ॥ कौसल्यादिभिः सकलनागरिकैश्चसह सवाद्यघोषंप्रत्युद्गतवताभरतेन रामागमनानुपलंभखेदेन हनुमन्तंप्रति तत्रहेतुप्रश्ने तेनतंप्रति तदागमनचिह्ननिवेदनसमयसमागतविमानप्रदर्शनम् ॥ २ ॥ पुष्पकावलोकनहर्षेणसमुद्ध्रुष्यत्सुपौरनिकरेषु भरतेचदूरादभिवन्दमाने रामेण स्वाज्ञयाधरणितलमवतीर्णेपुष्पके भरतस्यसमारोपणम् ॥ ३ ॥ तथा पुनर्निजचरणप्रणामिनो -भरतस्य सहर्षपरिष्वङ्गः ॥ ४ ॥ भरतेन लक्ष्मणसमागमपूर्वकं सीताचरणप्रणामः ॥ ५ ॥ शत्रुघ्नेन सीतारामलक्ष्मणचरणप्रणामः ॥ ६ ॥ रामेण कौसल्यादिमातृप्रभृतिपादाभिवादनम् ॥ रामेण […]

129 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशदुत्तरशततमः सर्गः हनुमता भरतप्रश्नेनतंप्रति रामस्यनगरनिर्गमप्रभृतिपुनर्भरद्वाजाश्रमागमनावधिकालमध्य -वृत्ततदीयसर्ववृत्तान्त निवेदनम् ॥ १ ॥ बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ १ ॥ कल्याणीत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २ ॥ बहूनीत्यादिश्लोकद्वयमेकान्वयं ॥ बहूनि वर्षाणि वनं गतस्येति संबन्धः । वर्षशतादपीत्यत्रेतिकरणं द्रष्टव्यं । वर्षशतात्परमिति शेषः ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.