60 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। 5.60.1 ।। तस्येत्यादि ।। 5.60.1 ।। अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः । समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। 5.60.2 ।। दृष्टा देवी न चानीता इति तत्र निवेदनम् । अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। 5.60.3 ।। न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे । तुल्यः सामरदैत्येषु […]

59 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। 5.59.1 ।। एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ।। 5.59.1 ।। सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः । शीलमासाद्य सीताया मम च प्रवणं मनः ।। [आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ।] ।। 5.59.2 ।। अथ संप्रत्येव रावणं जित्वा सीतया सहैवास्माभिः […]

58 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। 5.58.1 ।। ततस्तस्येत्यादि ।। 5.58.1 ।। तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् । जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। 5.58.2 ।। तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ।। 5.58.2 ।। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते । तस्यां वा स कथंवृत्तः […]

57 Sarga सुन्दरकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः [आप्लुत्य च महावेगः पक्षवानिव पर्वतः ।] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।। ‘उत्पपात नभो हरिः’ इत्युक्तम् । तल्लङ्घनं रूपकेण चतुर्भिर्वर्णयति सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः । कादम्बः कलहंसः । “कादम्बः कलहंसः स्यात्” इत्यमरः । अभ्रशैवालशाद्वल मेघस्य शैवालत्वेन पर्यन्तस्थशाद्वलत्वेन च रूपणम् ।। 5.57.1 ।। पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं […]

56 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।। ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।। प्रस्थितं प्रस्थानोद्युक्तम् ।। 5.56.2 ।। काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।। वनभङ्गाक्षवधादिना हनुमतश्शक्तिं विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं […]

55 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः । निर्वापयामास तदा समुद्रे हरिसत्तमः ।। 5.55.1 ।। सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् । अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ।। 5.55.2 ।। लङ्कामित्यादि । लाङ्गूलाग्नि समुद्रे निर्वापयामासेत्यन्वयः ।। 5.55.1,2 ।। तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत । लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ।। 5.55.3 ।। धन्यास्ते […]

54 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।। किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।। वीक्षमाण इत्यादि । कृतमनोरथः पर्याप्तमनोरथः ।। 5.54.1,2 ।। वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः । बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।। बलैकदेशः सेनैकदेशः […]

53 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।। तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ।। 5.53.1।। सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।। कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।। दूतवध्या दूतवधः ।। 5.53.2,3।। […]

52 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। 5.52.1।। तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ।। 5.52.1।। वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ।। 5.52.2।। दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तन्निवेदितवतः उक्तवतः । नानुमेने, वधमित्यनुवर्तनीयम् । निवेदितमतौ दूत्यमिति पाठान्तरम् । मन्यत इति […]

51 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः । वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। 5.51.1।। तं समीक्ष्येत्यादि । समीक्षणोक्तिक्रियाभेदात्तच्छब्दद्वयम् ।। 5.51.1।। अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। 5.51.2।। अहं रामदूत एव, सन्देशास्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाद्धेतोः, सन्देशप्रापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात्” इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.