50 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । कोपेन महताऽविष्टो रावणो लोकरावणः ।। 5.50.1।। शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। 5.50.2।। तमुद्वीक्ष्येत्यादि ।। 5.50.1,2।। येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा । सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। 5.50.3।। स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् […]

49 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। 5.49.1।। ततः स इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थं रावणेनागन्तवन्यमिति यत्नः कृतः । स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ।। 5.49.1।। भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। 5.49.2।। वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव […]

48 Sarga सुन्दरकाण्डः

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे । मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। 5.48.1।। ततस्त्वित्यादि । मनः समाधाय धैर्यं कृत्वेत्यर्थः ।। 5.48.1।। त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनस़ञ्चितास्त्रः ।। 5.48.2।। त्वमिति । अस्त्रवित् ब्रह्मास्त्रवित् । सञ्चितास्त्रः सञ्चितास्त्रविशेषः ।। 5.48.2।। तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः […]

47 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। 5.47.1।। सेनापतीनित्यादि । समीक्ष्य विज्ञाय ।। 5.47.1।। स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। 5.47.2।। ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। 5.47.3।। […]

46 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। 5.46.1।। हतानित्यादि । संवृताकारः अन्तर्मनाः । मतिं चिन्ताम् ।। 5.46.1।। स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् । प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। 5.46.2।। सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। 5.46.3।। स इति ।। 5.6.23।। यात सेनाग्रगाः सर्वे […]

45 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। 5.45.1।। ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् । सप्तार्चिवर्चस इत्यत्र सप्तार्चीति इकारान्तत्वमार्षम् ।। 5.45.1।।३ महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। 5.45.2।। कृतास्त्राः शिक्षिताश्त्राः । आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञानसिक्षे उभे अप्येषां स्त […]

44 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दकाण्डे चतुश्चत्वारिंशः सर्गः सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। 5.44.1।। संदिष्ट इत्यादि ।। 5.44.1।। रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। 5.44.2।। विवृत्तनयनः मण्डलीकृतनयनः ।। 5.44.2।। धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। 5.44.3।। रुचिरसायकं रुचिरसायकार्हम् । विस्फारयानः विस्फारयमाणः, ज्याकर्षणं कुर्वन्नित्यर्थः । वज्राशनिसमस्वनमिति विस्फारणक्रियाविशेषणम् […]

43 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः ।। 5.43.1।। ततः स किङ्करानित्यादि ।। 5.43.1।। वनं भग्नं मया चैत्यप्रसादो न विनाशितः । तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् । इति स़ञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ।। 5.43.2।। वनमित्यादि । ध्वंसनफलमाह दर्शयन् बलमिति । बलदर्शनार्थमित्यर्थः ।। 5.43.2।। चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः […]

42 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। 5.42.1।। विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः । रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। 5.42.2।। ततो गतायां निद्रायां राक्षस्यो विकृताननाः । तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। 5.42.3।। स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः । चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। 5.42.4।। ततः पक्षीत्यादि […]

41 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया । तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। 5.41.1।। स चेत्यादि ।। 5.41.1।। अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। 5.41.2।। अल्पेति । “अभिगम्य तु वैदेहीं निलयं रावणस्य च” इत्युक्तकार्यद्वये सीतादर्शनरूपं कार्यं जातम् । इदं कार्यं रावणनिलयपरिज्ञानरूपम् । अल्पशेषम् अल्पावशिष्टम् । सान्तःपुरलङ्कायाः सम्यक् परिज्ञातत्वे ऽपि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.