श्रीभाष्यम् 03-01-04 तत्स्वाभाव्यापत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥ (अधिकरणार्थः – अवरोहतो जीवस्य श्रुत्युक्तः आकाशादिभावः आकाशादिसादृश्यरूपः) ३०९. तत्स्वाभाव्यापत्तिरुपपत्ते: ॥ ३–१–२२ ॥ (उक्तार्थानुवादः सङ्गत्यर्थम्) इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च  अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम् आकाशाद्वायु: वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति (छा.५.१०, ५.६) इति वचनात्  यथेतमनेवञ्च इत्युक्तम् ॥ (प्रकृतो विचारणीयोंशः)       तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभाव:, उत तत्सादृश्यापत्तिमात्रमिति विशये, (पूर्वपक्षः सदृष्टान्तः) श्रद्धावस्थस्य […]

श्रीभाष्यम् 03-01-03 अनिष्टादिकार्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अनिष्टादिकार्यधिकरणम्॥३॥ (अधिकरणार्थः – केवलपापकारिणां चन्द्रारोहावरोहौ विनैव गतागती) २९९. अनिष्टादिकारिणामपि च श्रुतम् ॥ ३–१–१२ ॥ (सङ्गतिः, अधिकरणविचार्योंशश्च) केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्; इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति, नेति चिन्त्यते । ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोऽनिष्टादिकारिण: । (पूर्वपक्षारम्भः सयुक्तिकः) किं युक्तम्? तेऽपि चन्द्रमसं गच्छन्तीति, कुत:? तेषामपि हि तद्गमनं श्रुतं –  ये वै […]

श्रीभाष्यम् 03-01-02 कृतात्ययाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम्॥२॥ (अधिकरणार्थः सुकृतफलमनुभूय अमुष्माल्लोकान्निवर्तमानस्य भुक्तशेषेण कर्मणा सहैव जीवस्य प्रत्यवरोहः) २९५. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ३–१–८ ॥ (सङ्गतिप्रतिपादनं विषयश्च) केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनं चाम्नातं  यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनिर्निवर्तन्ते (छा.५.१०.३) इति  ॥ (अधिकरणीयः संशयः) तत्र प्रत्यवरोहन् जीव: किमनुशयवान् प्रत्यवरोहति, उत नेति संशय्यते । (पूर्वपक्षः सयुक्तिकः) किं युक्तम्? कर्मण: कृत्स्नस्योपभुक्तत्वात् नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म। […]

श्रीभाष्यम् 03-01-01 तदन्तरप्रतिपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये तृतीयः साधनाध्यायः  ॥3 ॥ (अधिकरणानि – 55, सूत्राणि 182) (अध्यायार्थः – परमकारण-परमपुरुषार्थभूतब्रह्मणः प्राप्त्युपायतया वेदान्तनिहितानां विद्यानां चिन्तनम्)  प्रथम: वैराग्यपादः 3-1 (अधिकरणानि – 6, सूत्राणि – 27) (पादार्थः – संसारचक्रे परिवर्तमानस्य जीवस्य जाग्रदवस्थाशेषभूतानां अपुरुषार्थभूतानां दोषाणां चिन्तनम्)  तदन्तरप्रतिपत्त्यिधकरणम्॥ (पञ्चाग्निविद्याविषयम् – छा.उ.5-3-10) (अधिकरणार्थः – देहाद्देहान्तरं गच्छतां जीवानां गतागती देहारम्भहेतुभिः भूतसूक्ष्मैः सहैव) २८८. तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् ॥ […]

श्रीभाष्यम् 02-04-08 संज्ञामूर्तिकॢप्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्तिकॢप्त्यधिकरणम्॥८॥ (अधिकरणार्थः – नामरूपव्याकरणात्मकप्रपञ्चव्यष्टिसृष्टेः त्रिवृत्कर्तृसमानकर्तृता) २८५. संज्ञामूर्तिकॢप्तिस्तु त्रिवृर्त्कुवत उपदेशात् ॥ २–४–१७ ॥ (पेटिकासङ्गतिः) भूतेन्द्रियादीनां समष्टिसृष्टि:, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात्। जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्। (संशयो विचारार्थः) या त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टि:, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म, उत तेज: प्रभृतिशरीरकस्य परस्याबादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मण, इतीदानीं चिन्त्यते। (सहेतुकः पूर्वपक्षः)             किं युक्तम्? समष्टिजीवस्येति; कुत:? […]

श्रीभाष्यम् 02-04-07 इन्द्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम्॥७॥ (अधिकरणार्थः – श्रेष्ठप्राणं विहायैव प्राणानां इन्द्रियरूपता) २८३. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २–४–१५ ॥ (विचारोपयोगी संशयः) किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरक्ता एवेति विशये (पूर्वपक्षः) प्राणशब्दवाच्यत्वात्, करणत्वाच्च सर्व एवेन्द्रियाणि॥ (सिद्धान्तमुखेन सूत्रार्थविवरणम्) इति प्राप्त उच्यते – श्रेष्ठव्यतिरिक्ता एव प्राणा इन्द्रियाणि कुत:? श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा: (भ.गी.१३.५) इत्यादिभिर्हि चक्षुरादिषु समनस्केष्वेव […]

श्रीभाष्यम् 02-04-06 ज्योतिराद्यधिष्ठानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्॥६॥ (अधिकरणद्वयार्थनिगमनम्) २८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ २–४–१३ ॥ (अधिकरणद्वयार्थनिगमनम्) सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम्; तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (शारी.२.१.५) इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्; जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृ.४.१.१८) इत्यादिश्रुतिसिद्धं च। (प्रकृतोपयोगी संशयः, पूर्वपक्षश्च) तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्; उत परमात्मायत्तमिति विषये नैरपेक्ष्यात्स्वायत्तम् […]

श्रीभाष्यम् 02-04-05 श्रेष्ठाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥५॥ (अधिकरणार्थः – मुख्यप्राणस्याप्यणुत्वमेव, न विभुत्वम्) २८०. अणुश्च ॥ २–४–१२ ॥ अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृ.३.५.३) इत्यादिषु। अधिकाशङ्का तु सम एभिस्त्रिभिर्लोकैस्समोऽनेन सर्वेण (बृ.३.३.२२) प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम्  इत्यादिश्रवणात् महापरिमाण इति॥१२॥ परिहारस्तु – उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्ति: – इति॥१२॥ इति श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥ ५॥

श्रीभाष्यम् 02-04-04 वायुक्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥ (अधिकरणार्थः – श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः) २७६. न वायुक्रिये पृथगुपदेशात् ॥ २–४–८ ॥ (विचारोपयोगी संशयः) सोऽयं श्रेष्ठ: प्राण: किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्न: – इति विशये – (पूर्वपक्षः सहेतुकः) वायुरेवेति प्राप्तम्, य: प्राणस्स वायु: इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव – (सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्) […]

श्रीभाष्यम् 02-04-03 प्राणाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम् ॥३॥ (अधिकरणार्थः – इन्द्रियाणाम् अणुपरिमाणतास्थापनम्) २७४. अणवश्च ॥ २–४–६ ॥ (पूर्वपक्षः सप्रमाणः)             त एते सर्व एव समा: सर्वेऽनन्ता: (बृह.३.५.१३) इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् – (सिद्धान्तरूपः सूत्राशयः) इति प्राप्तेऽभिधीयते – प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.६.४.२) इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा:। आनन्त्यश्रुतिस्तु अथ यो हैताननन्तानुपास्ते (बृ.३-५-१३) इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥ २७५. श्रेष्ठश्च ॥ २–४–७ ॥ (मुख्यप्राणस्यापि उत्पत्तिमत्ता) […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.