॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥
आदित्यादिमत्यधिकरणम् ॥ ४ ॥
*य एवाऽसौ तपति तमुद्गीथमुपासीते*(छान्.१-३-१)त्यत्र कर्माङ्गभूत-उद्गीथे आदित्यदृष्टिः कर्तव्या उतादित्ये उद्गीथदृष्टिरिति विशये *ब्रह्मदृष्टि-रुत्कर्षादि*(ब्र.सू.४-१-५)ति सूत्रोक्तन्यायेनोत्कृष्टदृष्टेरेवापकृष्टे कर्तव्यत्वात्, कर्माङ्गस्योद्गीथस्य कर्मोपकारकत्वेनोत्कृष्टतया तद्बुद्धिरेवादित्ये कर्तव्येति पूर्वपक्षे प्राप्ते उच्यते –
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४-१-६ ॥
अत्र चशब्दोऽवधारणे । अङ्ग एवादित्यादिमतयः कार्याः । कर्मा-राध्यतया आदित्यादीनामेवोत्कृष्टत्वस्योपपत्तेरिति ॥
इति आदित्यादिमत्यधिकरणम् ॥