आसीनाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

आसीनाधिकरणम् ॥५॥


आसीनस्सम्भवात् ॥४-१-७॥

    आसीन एव उपासीत | तस्यैव उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात् शयानस्य निद्राप्रसक्तेश्च उपासनस्य ध्यान-रूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् चित्तैकाग्र्यस्यासन सापेक्षत्वा-च्चासीन एव कुर्यात् ।

ध्यानाच्च ॥ ४-१-८ ॥

सजातीयप्रत्ययान्तराव्यवहितचिन्तालक्षणध्यानलक्षणत्वादुपासनस्य तत्र च चित्तैकाग्र्यावश्यम्भावेन तत्सिद्धये आसीनत्वस्यापेक्षितत्वाच्च ।

अचलत्वञ्चापेक्ष्य ॥ ४-१-९ ॥

*ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षमि*(छान्.७-३-७)त्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षि-तत्वात् निश्चलत्वस्य चासिकान्तरेणासम्भवात् आसीन एव कुर्यात् ।

स्मरन्ति च ॥ ४-१-१० ॥

*उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये*(गी.६-११) इति ध्याना-ङ्गतया आसीनता स्मर्यते । अतो ध्याने चित्तैकाग्र्यस्य अत्यावश्य-कत्वात्तदर्थमासीनत्वमपेक्षितम् ।

यत्रैकाग्रता तत्राविशेषात् ॥४-१-११॥

यत एव चित्तैकाग्र्यम् प्रधानहेतुः अत एव यस्मिन्देशे चित्तैकाग्र्यम् भवति स देशोऽपेक्षितः । देशविशेषनियमस्यापि चित्तैकाग्र्यसिध्यर्थत्वात् चित्तैकाग्र्यविरोधे सोऽपि नादर्तव्यः । *समे शुचौ शर्करावह्निवालुका-विवर्जिते*  इत्यविशेषेण एकाग्रतानुकूलदेशविशेषस्यैवाङ्ग-त्वकीर्तनात् तेनैव च न्यायेन एकाग्रतानुकूलसनस्यापेक्षितत्वमस्तीति अवसीयत इति ॥

इति आसीनाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.