वेदान्तदीप: Ady 01 Pada 02

श्रीभगवद्रामानुजविरचित

वेदान्तदीप:

॥अथ प्रथमाध्याये द्वितीय: पाद:॥

१।२।१

३३।  सर्वत्र प्रसिद्धोपदेशात् – छान्दोग्ये श्रूयते सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु क्रतुमयोऽयं पुरुषो यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेत: प्रेत्य भवति स क्रतुं कुर्वीत मनोमय: प्राणशरीर: इति।  अत्र सर्वं खल्विदं ब्रह्म इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म किं प्रत्यगात्मा, उत परमात्मेति संशय:। प्रत्यगात्मेति पूर्व: पक्ष:। सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते। परस्य तु ब्रह्मणस्सकलहेयप्रत्यनीककल्याणैकतानस्य समस्तहेयाकरसर्वतादात्म्यं विरोधादेव न संभवति। प्रत्यगात्मनो हि कर्मनिमित्तो ब्रह्मादिस्तम्बपर्यन्तसर्वभाव उपपद्यते। सृष्ट्यादिहेतुकत्वं च तत्तत्कर्मनिमित्तत्त्वेन सृष्ट्यादेरुपपद्यते।  ब्रह्मशब्दोऽपि बृहत्वगुणयोगेन तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते इतिवत्तत्रैव वर्तते। राद्धान्तस्तु तज्जलान् इति सर्वं खल्विदं ब्रह्म इति तज्जन्मस्थितिलयहेतुकं तदात्मकत्वं प्रसिद्धवन्निर्दिश्यमानं परस्यैव ब्रह्मण उपपद्यते।  परस्माद्ब्रह्मण एव हि जगज्जन्मस्थितिलया: प्रसिद्धा: सोऽकामयत बहु स्यां प्रजायेयेति,  इदं सर्वमसृजत इत्यादिषु।  तथा सर्वात्मकत्वं च जन्मादिहेतुकं परस्यैव ब्रह्मण: प्रसिद्धं सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्टा:,  ऐतदात्म्यमिदं सर्वम् इति।  हेयप्रत्यनीक-कल्याणैकतानात्मनश्च परस्य हेयाकरसर्वभूतात्मत्वमविरुद्धम्।  य: पृथिव्यां तिष्ठन् – यस्य पृथिवीशरीरम्। य आत्मनि तिष्ठन् ॥। यस्यात्माशरीरं स त आत्माऽन्तर्याम्यमृत इत्यादिना शरीरात्मभावेन सर्वात्मत्वोपपादनात्। शरीरात्मनोश्च स्वभाव व्यवस्थापनात्।  सर्वं ब्रह्मेति सामानाधिकरण्यनिर्देशश्च सर्वशब्दस्य सर्वशरीरके ब्रह्मण्येव प्रवृत्तेरुपपद्यते।  शरीरवाची हि शब्द: शरीरिण्यात्मन्येव पर्यवस्यति। देवमनुष्यादिशब्दवत्। सूत्रार्थस्तु – सर्वत्र सर्वं खल्विदं ब्रह्म इति निर्दिष्टे वस्तुनि सर्वशब्दवाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव। कुत:? प्रसिद्धोपदेशात्। तज्जलानिति, सर्वमिदं ब्रह्म खलु इति प्रसिद्धवत्तस्योपदेशात्।  तदेव हि जगज्जन्मस्थितिलयहेतुत्वेन वेदान्तेषु प्रसिद्धम्॥१॥

३४। विवक्षितगुणोपपत्तेश्च – मनोमयत्वादिकास्सत्यसङ्कल्पत्वमिश्रा विवक्षिता: गुणा: परस्मिन्नेवोपपद्यन्ते     ॥२॥

३५। अनुपपत्तेस्तु न शारीर: – एतेषां गुणानामनन्तदु:खमिश्रपरिमितसुखलवभागिन्यज्ञे कर्मपरवशे शारीरे प्रत्यगात्मन्यनुपपत्तेश्चायं न शारीर:।  अपि तु परमेव ब्रह्म॥३॥

३६।  कर्मकर्तृव्यपदेशाच्च –  एतमित: प्रेत्याभिसंभवितास्मि इति प्राप्यतयोपास्यो निर्दिश्यते, प्राप्तृतया च जीव:।  अतश्च जीवादन्यदेवेदं परं ब्रह्म॥४॥

३७।  शब्दविशेषात् – एष म आत्माऽन्तर्हृदय इति शारीरष्षष्ट्या निर्दिष्ट:, उपास्य: प्रथमया।  अतश्च जीवादन्य:॥५॥

३८।  स्मृतेश्च – सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च इति स्मृतेश्च। अतश्च जीवादन्य उपास्य: परमात्मा॥६॥

३९।  अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च – एष म आत्माऽन्तर्हृदय इति अल्पस्थानत्वात् अणीयान्व्रीहेर्वा यवाद्वा इत्यल्पत्वव्यपदेशाच्च न परं ब्रह्मेति चेन्न। निचाय्यत्वादेवम् – एवमुपास्यत्वाद्धेतोरल्पायतनत्वाल्पत्वव्यपदेश:। न स्वरूपाल्पत्वेन।  ज्यायान्पृथिव्या: इत्यादिना सर्वस्माज्ज्यायस्त्वोपदेशात्। ज्यायसोऽप्यस्य हृदयायतनावच्छेदेन अल्पत्वानुसन्धानमुपपद्यते।  व्योमवत् यथा महतोऽपि व्योम्नस्सूचिपथादिष्वल्पत्वानुसन्धानम्। च शब्दोऽवधारणे तद्वदेवेत्यर्थ:।  स्वाभाविकं चास्य महत्त्वमत्राभिधीयत इत्यर्थ:। ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्य: इति ह्यनन्तरमेव व्यपदिश्यते॥७॥

४०। – संभोगप्राप्तिरिति चेन्न वैशेष्यात् – यद्युपासकशरीरे हृदयेऽयमपि वर्त्तते ततस्तद्वदेवास्यापि शरीरप्रयुक्तसुखदु:खसंभोगप्राप्तिरिति चेन्न,  हेतुवैशेष्यात्। न हि शरीरान्तर्वर्त्तित्वमेव सुखदु:खोपभोगहेतु:।  अपितु कर्मपरवशत्वम्। तत्त्वपहतपाप्मन: परमात्मनो न संभवति॥८॥ इति सर्वत्र प्रसिद्ध्यधिकरणम्॥१॥

१।२।२

४१।  अत्ता चराचरग्रहणात् – कठवल्लीष्वाम्नायते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन: मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति। अत्रोदनोपसेचनसूचितोऽत्ता किं जीव उत परमात्मेति संशय:। जीव इति पूर्व: पक्ष:। कुत:? भोक्तृत्त्वस्य कर्मनिमित्तत्त्वाज्जीवस्यैव तत्संभावात्। राद्धान्तस्तु – सर्वोपसंहारे मृत्यूपसेचनमदनीयं चराचरात्मकं कृत्स्नं जगदिति तस्यैतस्यात्ता परमात्मैव । न चेदं कर्मनिमित्तं भोक्तृत्त्वम्। अपि तु जगत्सृष्टिस्थितिलयलीलस्य परमात्मनो जगदुपसंहारित्वरूपं भोक्तृत्वम्। सूत्रार्थ: – ब्रह्मक्षत्रौदनस्यात्ता परमात्मा। ब्रह्मक्षत्रशब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात्। मृत्यूपसेचनो ह्योदनो न ब्रह्मक्षत्रमात्रम्। अपि तु तदुपलक्षितं चराचरात्मकं कृत्स्नं जगदेव॥९॥

४२।  प्रकरणाच्च –  महान्तं विभुमात्मानं मत्वा धीरो न शोचति नायमात्मा प्रवचनेन लभ्यो न मेधया इति परस्यैव हीदं प्रकरणम्।  अतश्चायं परमात्मा॥१०॥

नन्वनन्तरम् ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये इति द्वयो: कर्मफलादनादनश्रवणात्, परमात्मनश्च कर्मफलादनान्वयात्, अन्त:करणद्वितीयो जीव एव तत्रात्तेति प्रतीयते, अतोऽत्रापि स एव जीवोऽत्ता भवितुमर्हातीत्याशङ्क्याह –

४३।  गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् – गुहां प्रविष्टौ जीवात्मपरमात्मानौ।  जीवद्वितीय: परमात्मैव तत्र प्रतीयत इत्यर्थ:।  स्वयमनश्नतोऽपि परमात्मन: प्रयोजकतया पानेऽन्वयो विद्यते।  जीवद्वितीय: परमात्मेति कथमवगम्यते? तद्दर्शनात् – तयोरेव ह्यस्मिन्प्रकरणे गुहाप्रवेशव्यपदेशो दृश्यते तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम्, अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति इति परमात्मन: या प्राणेन संभवत्यदितिर्देवतामयी, गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत इति जीवस्य।  कर्मफलान्यत्तीत्यदिति: जीव:॥११॥

४४।  विशेषणाच्च – अस्मिन्प्रकरणे ह्युपक्रमप्रभृत्योपसंहाराज्जीवपरमात्मानावेवोपास्यत्व- उपासकत्वप्राप्तृत्वादिभिर्विशिष्येते महान्तं विभुमात्मानं मत्वा धीरो न शोचति। विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नर:, सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम्  इत्यादिषु। अतश्चात्ता परमात्मा॥१२॥ इति अत्त्रधिकरणम् ॥ २॥

१।२।३

४५।  अन्तर उपपत्ते: – छान्दोग्ये य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म इत्यत्राक्ष्याधार: पुरुष: किं प्रतिबिम्बात्मजीवदेवताविशेषान्यतम: उत परमात्मेति संशय:। एष्वन्यतम इति पूर्वपक्ष:। कुत:? य एष – दृश्यते इति प्रसिद्धवत्साक्षात्कानिर्देशात्। राद्धान्तस्तु – परमात्मैवायमक्ष्याधार: पुरुष: अक्षिपुरुषसंबन्धितया श्रूयमाणा निरुपाधिकात्मत्वामृतत्व-अभयत्वब्रह्मत्वसंयद्वामत्वादय: परमात्मन्येवोपपद्यन्ते।  प्रसिद्धवन्निर्द्देशश्च यश्चक्षुषि तिष्ठन् इत्यादि श्रुत्यन्तरप्रसिद्धेरुपपद्यते।  साक्षात्कारश्च तदुपासननिष्ठानां योगिनाम्। सूत्रार्थस्तु – अक्ष्यन्तर: परमात्मा।  संयद्वामत्वादीनां गुणानामत्रैवोपपत्ते:॥१३॥

४६।  स्थानादिव्यपदेशाच्च – स्थानं स्थिति:। परमात्मन एव यश्चक्षुषि तिष्ठन् इत्यादौ चक्षुषि स्थितिनियमनादीनां व्यपदेशाच्चायं परमात्मा॥१४॥

४७।  सुखविशिष्टाभिधानादेव च –  प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति सुखविशिष्टतया प्रकृतस्यैव परस्यैव ब्रह्मणोऽक्ष्याधारतया उपास्यत्वाभिधानाच्चायं परमात्मा।  एवकारोऽस्यैव हेतोर्नैरपेक्ष्यावगमाय॥१५॥

   प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इत्यत्र सुखविशिष्टं परमेव ब्रह्माभिहितमिति कथमिदमवगम्यते, यावता नामादिवत्प्रतीकोपासनमेवेत्याशङ्क्याह –

        ४८।  अत एव च स ब्रह्म –  यतस्तत्र भवभयभीतायोपकोसलाय ब्रह्मस्वरूपजिज्ञासवे कं च तु खं च न विजानामि इति पृच्छते यदेव कं तदेव खं तदेव खं यदेव कम् इत्यन्योन्यव्यवच्छेदकतया अपरिछिन्नसुखस्वरूपं ब्रह्मेत्यभिधाय प्राणं च हास्मै तदाकाशं चोचु: इत्युक्तम्। अत एव खशब्दाभिधेयस्स आकाशोऽपरिछिन्नसुखविशिष्टं परं ब्रह्मैव॥१६॥

     ४९।  श्रुतोपनिषत्कगत्यभिधानाच्च – श्रुतोपनिषत्कै: – अधिगतब्रह्मयाथात्म्यै: ब्रह्मप्राप्तये या गतिरर्चिरादिरधिगन्तव्यतयाऽवगता श्रुत्यन्तरे तस्याश्चेहाक्षिपुरुषं श्रुतवतोऽधिगन्तव्यतया तेऽर्चिषमेवाभिसंभवन्ति इत्यादिनाऽभिधानादक्षिपुरुष: परमात्मा॥१७॥

       ५०।  अनवस्थितेरसंभवाच्च नेतर: – परमात्मन इतर: जीवादिक:,  तस्याक्ष्णि नियमेन अनवस्थिते:, अमृतत्वसंयद्वामत्वादीनां चासंभवान्न सोऽक्ष्याधार:॥१८॥इति अन्तराधिकरणम् ॥३॥

१।२।४

५१।  अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् – बृहदारण्यके य: पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः इत्यादिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किं प्रत्यगात्मा उत परमात्मेति संशय:। प्रत्यगात्मेति पूर्वपक्ष:। वाक्यशेषे द्रष्टा श्रोता मन्ता इति द्रष्टृत्वादिश्रुते:। नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तरनिषेधाच्च। राद्धान्तस्तु – पृथिव्याद्यात्मपर्यन्तसर्वतत्त्वानां सर्वैस्तैरदृष्टेनैकेन नियमनं निरुपाधिकामृतत्वादिकं च परमात्मन एव धर्म इत्यन्तर्यामी परमात्मा ।  द्रष्टृत्वादिश्च रूपादिसाक्षात्कार:। स च पश्यत्यचक्षु: इत्यादिना परमात्मानोऽप्यस्ति।  नान्योऽतोऽस्ति द्रष्टा इति च जीवेनादृष्टान्तर्यामिद्रष्टृवत् अन्तर्यामिणाऽपि अदृष्टद्रष्ट्रन्तरनिषेधपर:। सूत्रार्थ: – अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमात्मा।  सर्वान्तरत्वसर्वाविदितत्व-सर्वशरीरकत्वसर्वनियमनसर्वात्मत्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात् ॥१९॥

५२।  न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च – स्मार्त्तं प्रधानम्।  शारीर: प्रत्यगात्मा।  स्मार्त्तं च शारीरश्च नान्तर्यामी।  तयोरसंभावितोक्तधर्माभिलापात्।  यथा स्मार्तस्याचेतनस्यासंभावनया नान्तर्यामित्वप्रसक्ति: तथा प्रत्यगात्मनोऽपीत्यर्थ:॥२०॥

५३।  उभयेऽपि हि भेदेनैनमधीयते – उभये काण्वा माध्यन्दिना अपि यो विज्ञाने तिष्ठन्।  य आत्मनि तिष्ठन् इति यत: प्रत्यगात्मनो भेदेनैनम् – अन्तर्यामिणमधीयते अतोऽयं तदातिरिक्त: परमात्मा॥२१॥  इति अन्तर्याम्यधिकरणम् ॥ ४ ॥

१।२।५

५४।  अदृश्यत्वादिगुणको धर्मोक्ते: – आथर्वणे अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् इत्यारभ्य यद्भूतयोनिं परिपश्यन्ति धीरा:,  अक्षरात्परत: पर: इत्यादौ किं प्रधानपुरुषौ प्रतिपाद्येते, उत परमात्मैवेति संशय:। प्रधानपुरुषाविति पूर्व: पक्ष:।  पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयचेतनं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते। तथा अक्षरात्परत: पर इति च तस्याधिष्ठाता पुरुष एवेति। राद्धान्तस्तु – उत्तरत्र यस्सर्वज्ञस्सर्ववित् इति प्रधानपुरुषयोरसंभावितं सार्वज्ञ्यमभिधाय तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते इति सर्वज्ञात्सत्यसङ्कल्पाज्जगदुत्पत्ति-श्रवणात् पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम्, अक्षरात्परत: पर: इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञायते। सूत्रार्थस्तु – अदृश्यत्वादिगुणक: परमात्मा। सर्वज्ञत्वादि तद्धर्मोक्ते:॥२२॥

५५।  विशेषणभेदव्यपदेशाभ्यां च नेतरौ – विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरमेक- विज्ञानेन सर्वविज्ञानादिना। तथा अक्षरात्परत: पर इति, अक्षरात् अव्याकृतात् परतोऽवस्थितात्पुरुषात् पर इति पुरुषाच्चास्य भूतयोन्यक्षरस्य भेदो व्यपदिश्यते। अतश्च न प्रधानपुरुषौ। अपि तु परमात्मैवात्र निर्दिष्ट:        ॥२३॥

५६।  रूपोपन्यासाच्च – अग्निर्मूद्धा इत्यादिना समस्तस्य चिदचिदात्मकप्रपञ्चस्य भूतयोन्यक्षर-रूपत्वेन उपन्यासाच्चायमदृश्यत्वादिगुणक: परमात्मा॥२४॥ इति अदृश्यत्वादि-गुणकाधिकरणम् ॥५॥

१।२।६

५७।  वैश्वानरस्साधारणशब्दविशेषात् – छान्दोग्ये आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि। तमेव नो ब्रूहि इत्यारभ्य यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इत्यत्र किमयं वैश्वानर: परमात्मेति शक्यनिर्णय:, उत नेति संशय: । अशक्यनिर्णय इति पूर्व: पक्ष: । वैश्वानरशब्दस्य जाठराग्नौ, भूततृतीये देवताविशेषे परमात्मनि च वैदिकप्रयोगदर्शनात्, अस्मिन् प्रकरणे सर्वेषां लिङ्गोपलब्धेश्च । राद्धान्तस्तु को न आत्मा किं ब्रह्म इति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रक्रमात्, उत्तरत्र च आत्मानं वैश्वानरं इति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाच्च, वैश्वानरात्मा सर्वेषां जीवानामात्मभूतं परं ब्रह्मेति विज्ञायते । सूत्रार्थ: – वैश्वानरशब्दनिर्दिष्ट: परमात्मा, वैश्वानरशब्दस्यानेकार्थसाधारणस्यापि अस्मिन् प्रकरणे परमात्मासाधारणविशेषणै: सर्वात्मत्वादिभि: विशेष्यमाणत्वात् । विशेष्यत इति विशेष:॥२५॥

५८.   स्मर्यमाणमनुमानं स्यादिति – स्मर्यमाणं – प्रत्यभिज्ञायमानम्, अनुमीयते अनेनेति अनुमानम्। इति शब्द: प्रकारवचन:, इत्थं रूपं स्मर्यमाणं वैश्वानरस्य परमात्मत्वे अनुमानं स्यात्   द्युप्रभृति पृथिव्यन्तं अवयवविभागेन वैश्वानरस्य रूपमिहोपदिष्टम् । अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ, द्यां मूर्धां यस्य विप्रा वदन्ति इइति श्रुतिस्मृतिप्रसिद्धं परमपुरुषरूपमिह प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे लिङ्गं स्यादित्यर्थ:        ॥२६॥

५९. शब्दादिभ्योऽन्त: प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते – अनिर्णयमाशङ्क्य परिहरति – शब्दादिभ्योऽन्त:प्रतिष्ठानाच्चेति । शब्दस्तावत् वाजिनां वैश्वानरविद्याप्रकरणे स एषोऽग्निर्वैश्वानर इति वैश्वानरसमानाधिकरण: अग्निशब्द: । अस्मिन् प्रकरणे च हृदये गार्हापत्य इत्यारभ्य वैश्वानरस्य हृदयादिस्थानस्याग्नित्रयपरिकल्पनं प्राणाहुत्याधारत्वं चेति प्रतीयते । वाजिनामपि स यो ह वै तमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्त: प्रतिष्ठितं वेद इति वैश्वानरस्य शरीरान्त: प्रतिष्ठितत्वं प्रतीयते । अत: एतै: लिङ्गै: वैश्वानरस्य जाठराग्नित्वप्रतीते: नायं परमात्मेति शक्यनिर्णय इति चेत् तन्न। तथा दृष्ट्युपदेशात् । दृष्टि: – उपासनम्, तथोपासनोपदेशादित्यर्थ: । जाठराग्निशरीरतया वैश्वानरस्य परमात्मान: उपासनं ह्यत्रोपदिश्यते । अयमग्निर्वैश्वानर: पुरुषेऽन्त: प्रतिष्ठित: इत्यादौ। कथमवगम्यत इति चेत्, असम्भवात् – केवलजाठराग्ने: त्रैलोक्यशरीरत्वाद्यसम्भवात् । पुरुषमपि चैनमधीयते – च शब्द: प्रसिद्धौ, वाजिनस्तत्रैव स एषोऽग्निर्वैश्वानरो यत्पुरुष: इति एनं वैश्वानरं पुरुषमपि ह्यधीयते । पुरुषश्च परमात्मैव पुरुष एवेदं सर्वं, पुरुषान्न परं किञ्चित् इत्यादिषु प्रसिद्धे:॥२७॥

६०। अत एव न देवता भूतं च – यत: त्रैलोक्य शरीर: असौ वैश्वानर:, यतश्च निरुपाधिकपुरुष शब्दनिर्दिष्ट:, अत एव नाग्न्याख्या देवता, महापुरुषतृतीयश्च वैश्वानरश्शङ्कनीय: ॥२८॥

६१ । साक्षादप्यविरोधं जैमिनि: – अग्निशरीरतया वैश्वानरस्य उपासनार्थं अग्निशब्द-सामानाधिकरण्यनिर्देश इत्युक्तम् । विश्वेषां नराणां नेतृत्वादिना सम्बन्धेन यथा वैश्वानरशब्द: परमात्मनि वर्तते, यथैव अग्निशब्दस्यापि अग्रनयनादिना योगेन साक्षात्परमात्मनि वृत्तौ न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते    ॥२९॥

यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम् इति द्युप्रभृतिपृथिव्यन्तप्रदेश-सम्बन्धिन्या मात्रया परिच्छिन्नत्वमनवच्छिन्नस्य परमात्मन: वैश्वानरस्य कथमुपपद्यत इत्यत्राह-

६२। अभिव्यक्तेरित्याश्मरथ्य: । अनवच्छिन्नस्यैव परमात्मन: उपासनाभिव्यक्त्यर्थं द्युप्रभृतिपृथिव्यन्तप्रदेशपरिच्छिन्नत्वमिति आश्मरथ्य आचार्यो मन्यते ॥३०॥

द्युप्रभृतिप्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मन: द्युभ्वादित्यादीनां मूर्धाद्यवयवकल्पनं किमर्थमिति चेत् तत्राह –

६३ । अनुस्मृतेर्बादरि: – अनुस्मृति: उपासनम् । ब्रह्मप्राप्तये व्रतोपासनार्थं मूर्धप्रभृति- पादान्तदेहपरिकल्पनमिति बादरिराचार्यो मन्यते ॥३१॥

अयं वैश्वानर: परमात्मा । त्रैलोक्यशरीर: उपास्य उपदिश्यते चेत्, उर एव वेदिर्लोमानिबर्हिर्हृादयं गार्हापत्य: इत्यादिना उपासकशरीरावयवानां गार्हापत्यादिपरिकल्पनं किमर्थमित्यत्राह –

  ६४ । सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति – वैश्वानरविद्याङ्गभूताया: उपासकै: अहरह: क्रियमाणाया: प्राणाहुते: अग्निहोत्रत्वसम्पादनाय गार्हापत्यादिपरिकल्पनमिति जैमिनिराचार्यो मन्यते। तथा हि अग्निहोत्रसम्पत्तिमेव दर्शयतीयं श्रुति: प्राणाहुतिं विधाय, अथ य एवं विद्वान् अग्निहोत्रं जुहोति इति । उक्तानामर्थानां पूजितत्वख्यापनाय आचार्यग्रहणम् ॥३२॥

 ६५। आमनन्ति चैनमस्मिन् – एनं परमपुरुषं वैश्वानरं द्युभ्वादिदेहम्, अस्मिन् – उपासकदेहे प्राणाग्निहोत्रेणाराध्यत्वायामनन्ति हि – तस्य ह वा एतस्य वैश्वानरस्य मूर्धैव सुतेजा इत्यादिना। उपासकमूर्धादिपादान्ता एव द्युप्रभृतय: परमपुरुषस्य मूर्धादय इति प्राणाग्निहोत्रवेलायामनुसन्धेया इत्यर्थ:॥३३॥ इति वैश्वानराधिकरणम् ॥ ६ ॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य द्वितीय: पाद:॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.