श्रीवेदान्तसार: Ady 01 Pada 02

श्रीभगवद्रामानुजविरचित:

श्रीवेदान्तसार:

अथ प्रथमाध्याये द्वितीय: पाद:

१-२-१

३३। सर्वत्र प्रसिद्धोपदेशात् – सर्वं खल्विदम् इति निर्दिष्टेन सामानाधिकरण्येन निर्दिष्टं ब्रह्म परमात्मा। कुत:? प्रसिद्धोपदेशात् – तज्जलानिति हेतुत: सर्वात्मकत्वोपदेशादित्यर्ध:। प्रसिद्धं हि हेतुतया व्यपदिश्यते। सकलोपनिषत्सु ब्रह्मैव हि जगज्जन्मलयजीवनहेतुतया प्रसिद्धम् यतो वा इमानि इत्यादिषु॥१॥

३४।  विवक्षितगुणोपपत्तेश्च – मनोमयत्वसत्यसङ्कल्पत्वादयो विवक्षितगुणा: ब्रह्मण्येवोपपद्यन्ते॥२॥

३५। अनुपपत्तेस्तु न शारीर: – दु:खमिश्रपरिमितसुखलवभागिनि शारीरे त्वेषां गुणानामनुपपत्तेर्न शारीरोऽयम्॥३॥

३६। कर्मकर्तृव्यपदेशाच्च – एतमित: प्रेत्याभिसंभवितास्मि इति अभिसंभाव्याभिसंभवितृत्वेन प्रस्तुतब्रह्मजीवयोर्व्यपदेशात् अभिसंभाव्यं ब्रह्म जीवादर्थान्तरम्॥४॥

३७। शब्दविशेषात् – एष म आत्मान्तर्हृदय इति षष्ठ्या प्रथमया च जीवो ब्रह्म च व्यपदिश्यते ततश्चार्थान्तरम्॥५॥

३८।  स्मृतेश्च – अत्रापि प्रथमया निर्दिष्ट: पुरुषोत्तम इति निश्चीयते। सर्वस्य चाहं हृदि सन्निविष्ट: इति हि स्मृतिः॥६॥

३९। अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च – एष म आत्माऽन्तर्हृादये अणीयान् व्रीहे: इत्यादिनाऽल्पायतनत्वात्, स्वरूपाल्पत्वस्य व्यपदेशाच्च, नायं पर इति चेन्न, उपास्यत्वाद्धेतो: तथा व्यपदेश: न तु स्वरूपाल्पत्वेन, व्योमवत्, स्वरूपमहत्वं चात्रैव व्यपदिश्यते ज्यायान् पृथिव्या: ज्यायानन्तरिक्षात् इत्यादिना॥७॥

४०। संभोगप्राप्तिरिति चेन्न वैशेष्यात् – परोऽप्यन्तश्शरीरे वसति चेत्, जीववत् सुखदु:खोपभोगप्राप्तिस्स्यादिति चेन्न, हेतुवैशेष्यात्। परस्य हि छन्दतो जीवरक्षायै शरीरान्तर्वास:॥८॥ इति सर्वत्र प्रसिद्ध्यधिकरणम् ॥

१-२-२

४१। अत्ता चराचरग्रहणात् – यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन: मृत्युर्यस्योपसेचनम् क इत्था वेदयत्र स: ॥ इत्यत्र ओदनोपसेचनसूचितोऽत्ता परमपुरुष:। ब्रह्मक्षत्रोपलक्षितस्य चराचरस्य कृत्स्नस्य मृत्यूपसेचनत्वेन अदनीयतया ग्रहणात् ॥९॥

४२। प्रकरणाच्च – महान्तं विभुमात्मानं मत्वा धीरो न शोचति, नायमात्मा प्रवचनेन लभ्य: इत्यादिना परस्यैव प्रकृतत्वात् स एवायम्॥१०॥

   ४३। गुहां प्रविष्टावात्मानौ हि तद्धर्शनात् – अनन्तरम्, ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये इत्यादिना जीवपरमात्मानावेव प्रयोज्य प्रयोजकभावेन कर्मफलाशनेऽन्वयादुपदिष्टौ। तयोरेवास्मिन् प्रकरणे गुहाप्रवेश दर्शनात्, तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितम् इति परस्य, , गुहां प्रविश्य या प्राणेन संभवत्यदितिर्देवतामयी तिष्ठन्ती इति जीवस्य कर्मफलादनाददितिर्जीव:॥११॥

४४। विशेषणाच्च – जीवपरावेव हि सर्वत्रास्मिन्प्रकरणे विशेष्येते, न जायते म्रियते वा विपश्चित् इत्यादौ जीव:, अणोरणीयान् महतो महीयान्, महान्तं विभुमात्मानम्, नायमात्मा प्रवचनेन, विज्ञानसारथिर्यस्तु मन: प्रग्रहवान्नर: ,  सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् इत्यादिषु पर:। त्रिपादस्यामृतं दिवि, अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वत: पृष्ठेषु सर्वत: पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु इति विश्वत: प्राकृतात् स्थानात् परम् विष्णो: परस्थानमेव हि संसाराध्वन: पारभूतम् मुमुक्षुभि: प्राप्यम्, परमं पदं सदा पश्यन्ति सूरय:, तदक्षरे परमे व्योमन्, क्षयन्तमस्य रजस: पराके, विश्वं पुराणं तमस: परस्तात्, ते ह नाकं महिमानस्सचन्ते, यत्र पूर्वे साध्यास्सन्ति देवा: इत्यादि सकलोपनिषत्प्रसिद्धम् ॥१२॥ इति अत्त्रधिकरणम्   ॥ २ ॥

१-२-३

४५। अन्तर उपपत्ते: – य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृत मभयमेतद्ब्रह्म इत्यत्र अक्ष्याधार: परमपुरुष: निरुपाधिकामृतत्वाभयत्वसंयद्वामत्वादीनाम् अस्मिन्नेवोपपत्ते:॥१३॥

४६। स्थानादिव्यपदेशाच्च – यश्चक्षुषि तिष्ठन् इत्यादिना स्थितिनियमनादिव्यपदेशाच्चायं पर:॥१४॥

४७। सुखविशिष्टाभिधानादेव च – कं ब्रह्म खं ब्रह्म इति पूर्वत्रास्यैव सुखविशिष्टतया अभिधानाच्चायं पर:     ॥१५॥

४८। अत एव च स ब्रह्म – यतस्तत्र भवभीताय उपकोसलाय ब्रह्मजिज्ञासवे कं ब्रह्म खं ब्रह्म इत्युपदिष्ट: यद्वा यदेव कं तदेव खम् इति सुखरूप:, अतस्सुखशब्दाभिधेय: आकाश: परमेव ब्रह्म॥१६॥

४९। श्रुतोपनिषत्कगत्यभिधानाच्च – श्रुतब्रह्मस्वरूपाणामधिगन्तव्यतया अर्चिरादिगतेरक्षिपुरुषं श्रुतवते, तेऽर्चिषमेवाभिसंभवन्ति इत्यादिनाऽभिधानाच्चायं परमपुरुष:॥१७॥

५०। अनवस्थितेरसंभवाच्च नेतर: – परस्मादितरो जीवादिर्नाक्ष्याधार:। चक्षुषि नियमेन अनवस्थिते:, अमृतत्वाद्यसंभवाच्च॥१८॥ इति अन्तरधिकरणम् ॥ ३ ॥

१-२-४

५१।      अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् – य: पृथिव्यां तिष्ठन् इत्यादिषु अधिदैवादिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमणोऽन्तर्यामी परमपुरुष:, सर्वान्तरत्वसर्वाविदितत्वसर्व- शरीरकत्वसर्वनियन्तृत्वादिपरमात्मधर्मव्यपदेशात्॥१९॥

५२। न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च – नायं प्रधानं जीवश्च, तयोरसंभावितसर्वाविदितत्वादि -धर्माभिलापात्। असंभावनया यथा न स्मार्तम्, तथा जीवोऽपीत्यर्थ:॥२०॥

५३। उभयेऽपि हि भेदेनैनमधीयते – उभये – काण्वा माध्यन्दिनाश्च यो विज्ञाने तिष्ठन्, य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति इति प्रत्यगात्मनो भेदेन एनम् – अन्तर्यामिणमधीयते, अत: पर एवायम्॥२१॥ इति अन्तर्याम्यधिकरणम्॥४॥

१-२-५

५४। अदृश्यत्वादिगुणको धर्मोक्ते: – अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् इत्यारभ्य यद्भूतयोनिं परिपश्यन्ति धीरा:, अक्षरात् परत: पर इत्यादौ प्रधानात्प्रत्यगात्मनश्च अर्थान्तरभूत: परमात्मा प्रतिपाद्यते। यस्सर्वज्ञस्सर्ववित् इत्यादिधर्मोक्ते:॥२२॥

५५। विशेषणभेदव्यपदेशाभ्यां च नेतरौ – एकविज्ञानेन सर्वविज्ञानरूपविशेषणव्यपदेशान्न प्रधानम्। अक्षरात्परत: पर: इति प्रधानात्परत: प्रत्यागात्मनोऽपि पर इति भेदव्यपदेशात् न प्रत्यगात्मा च। अथवा, सामानाधिकरण्येन परतोऽक्षरात् पञ्चविंशकात् पर इति भेदव्यपदेश:॥२३॥

५६। रूपोपन्यासाच्च – अग्निर्मूर्धा इत्यादिना त्रैलोक्य शरीरोपन्यासाच्च परमात्मा॥२४॥ इति अदृश्यत्वादिधर्मोक्त्यधिकरणम् ॥ ५ ॥

१-२-६

५७।      वैश्वानरस्साधारणशब्दविशेषात् – आत्मानमेवेमं वैश्वानरम् इत्यादौ वैश्वानर: परमात्मा, जाठराग्न्यादिषु साधारणस्यापि वैश्वानरशब्दस्यास्मिन्प्रकरणे परमात्मासाधारणै: सर्वात्मकत्वब्रह्मशब्दादिभिः विशेष्यमाणत्वात्॥२५॥

५८। स्मर्यमाणमनुमानं स्यादिति – द्युलोकप्रभृतिपृथिव्यन्तं रूपम् अग्निर्मूर्धा इत्यादिषूक्तम् अत्र प्रत्यभिज्ञायमानमस्य परमात्मत्वे अनुमानं – लिङ्गमित्यर्थ:॥२६॥

५९। शब्दादिभ्योऽन्त: प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषमपि चैनमधीयते – स एषोऽग्निर्वैश्वानर: इति अग्निशब्दसामानाधिकरण्यात् प्राणाहुत्याधारत्वादिभि:, पुरुषेऽन्त: प्रतिष्ठितम् इत्यादेश्च  नायं परमात्मेति चेत्, नैतत् जाठराग्निशरीरकत्वेनोपास्यत्वोपदेशात्, केवलजाठराग्ने: त्रैलोक्यशरीरकत्वाद्यसंभवाच्च। स एषोऽग्निर्वैश्वानरो यत्पुरुष: इत्येनं वैश्वानरं पुरुषमप्यधीयते वाजिन:। निरुपाधिकपुरुषशब्दश्च परमात्मनि नारायणे एव सहस्रशीर्षम् इत्यारभ्य, विश्वमेवेदं पुरुष: इत्यादिषु प्रसिद्ध:॥२७॥

६०। अत एव न देवता भूतं च – यतोऽयं वैश्वानर: त्रैलोक्यशरीर: पुरुषशब्दनिर्दिष्टश्च, ततोऽयं नाग्न्याख्यदेवता, तृतीयमहाभूतं च॥२८॥

६१। साक्षादप्यविरोधं जैमिनि: – नावश्यमग्निशरीरकत्वेन उपास्यत्वायेदमग्निशब्द- सामानाधिकरण्यम्, अग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षात् वृत्तेस्सामानाधिकरण्य- अविरोधं जैमिनिराचार्यो मन्यते॥२९॥

६२। अभिव्यक्तेरित्याश्मरथ्य: – यस्त्वेतमेवं प्रादेशमात्रम् इत्यनवच्छिन्नस्य द्युप्रभृतिपरिच्छिन्नत्वम् उपासकाभिव्यक्त्यर्थमिति आश्मरथ्य:॥३०॥

६३।      अनुस्मृतेर्बादरि: – द्युप्रभृतिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वकल्पनं, तथानुस्मृत्यर्थं – ब्रह्म प्रतिपत्तय इति बादरि:॥३१॥

६४।      संपत्तेरिति जैमिनिस्तथा हि दर्शयति – उर एव वेदिर्लोमानि बर्हिर्हृादयं गार्हापत्य: इत्यादिना उपासकहृदयादीनां वेद्यादित्वकल्पनम् विद्याङ्गभूताया: प्राणाहुते: अग्निहोत्रत्वसंपादनार्थमिति जैमिनि: । दर्शयति च श्रुति: य एतदेवं विद्वानग्निहोत्रं जुहोति इति। एते पक्षास्स्वीकृता:, पूजार्थमाचार्यग्रहणम्॥३२॥

६५। आमनन्ति चैवमस्मिन् – एनम् – परमात्मानम्, अस्मिन् – उपासितृशरीरे प्राणाहुति- वेलायाम् अनुसन्धानार्थं तस्य ह वा एतस्य मूर्धैव सुतेजा: इत्यादि अमनन्ति च, उपासकस्य मूर्धादिरेवास्य परमात्मनो मूर्धादिरित्यर्थ:॥३३॥ इति वैश्वानराधिकरणम् ॥ ६ ॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमस्याध्यायस्य द्वितीय: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.