श्रीवेदान्तसार: Ady 03 Pada03

श्रीवेदान्तसार:

अथ तृतीयाध्याये तृतीय: पाद:

३५५। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् – सर्ववेदान्तप्रत्ययं दहराद्युपासनमेकमेव,  विद्यात्, उपासीत इति कर्मविधिष्विव चोदनाफलसंयोगरूपाख्यानामविशेषात्॥१॥

३५६। भेदान्नेति चेदेकस्यामपि – अविशेषपुन:श्रुतिर्भेदापादिकेति न विद्यैक्यमिति चेत्, विद्यैक्येऽपि शाखान्तरे प्रतिपत्तृभेदान्न भेद:॥२॥

३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियम: – आथर्वणवेदे तेषामेवैतां ब्रह्मविद्यां वदेत इति शिरोव्रतवतां नियम: शिरोव्रतस्य स्वाध्यायाङ्गत्वेन नैतदचीर्णव्रतोऽधीयीत इति तस्याध्ययनसंबन्धावगमात्, समाचाराख्यग्रन्थे इदमपि वेदव्रतेन व्याख्यातमिति वेदव्रतत्वावगमाच्च। ब्रह्मविद्यामित्यत्र ब्रह्मशब्दो वेदविषय:।यथा सवहोमास्तेषामेव, तथा शिरोव्रतमिति तन्न विद्याभेदलिङ्गम्॥३॥

३५८। दर्शयति – श्रुतिरेव विद्यैक्यं दर्शयति; छान्दोग्ये दहरविद्योक्तं गुणाष्टकं तैत्तिरीयके केवलं तस्मिन्यदन्त: इति वदति॥४॥

३५९। उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने – एवं सर्वत्र विद्यैक्ये अन्यत्रोक्तानामन्यत्र उपसंहार: तद्विद्योपकाररूपार्थैक्यात्; यथैकविधिशेषतया विहिताङ्गानामिति॥५॥ इति सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥

पूर्वकाण्डोक्तं स्वीकृत्यात्र वक्तव्यमाह –

३६०। अन्यथात्वं शब्दादिति चेन्नाविशेषात् – वाजिनां छन्दोगानां चोद्गीथे प्राणदृष्ट्योपासनं शत्रुपरिभवफलं हि विहितम्। तत्र विद्यैक्यं पूर्वपक्षं हृदि निधाय राद्धान्तच्छायया चोदयति। वाजिनां प्राणदृष्ट्योपासनमुद्गीथकर्तृविषयमितरत्र कर्मविषयमिति शब्दादेव प्रतीयते; अथ हैममासन्यं प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य उदगायत् इत्यादिनोद्गीथकर्तृविषयं वाजिनाम्; छन्दोगानां तु एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथविषयमिति चेत्, तदिदमाह – अन्यथात्वं शब्दादिति चेदिति, न, उपक्रमाविशेषात् । हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इत्येकत्र, अन्यत्रापि, तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्याम इति॥६॥

३६१। वा प्रकरणभेदात् परोवरीयस्त्वादिवत् – नैवम्, प्रकरणं ह्युभयत्र भिद्यते; ओमित्येतदक्षरमुद्गीथमुपासीत इत्युद्गीथावयवभूतप्रणवविषयं छन्दोगानाम् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति तु वाजिनां कृत्स्नोद्गीथविषयमिति रूपभेदाद्विद्याभेद:। यथा एकस्यामपि शाखायामुद्गीथोपासने हिरण्मयपुरुषदृष्टे: परोवरीयस्त्वादिविशिष्टदृष्टिर्भिद्यते॥७॥

३६२। संज्ञातश्चेत्तदुक्तमस्ति तु तदपि – उद्गीथविद्येति संज्ञैक्याद्विद्यैक्यमुक्तं चेत्, विधेयभेदेऽपि संज्ञैक्यमस्त्येव, यथा नैयमिकाग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे चेत्येवमादिषु॥८॥

३६३। व्याप्तेश्च समञ्जसम् – प्रथमप्रपाठके उपक्रमवदुत्तरास्वपि प्रणवस्योपास्यत्वव्याप्ते:, मध्ये च उद्गीथमुपासाञ्चक्रिरे इति प्रणवविषयत्वमेव समञ्जसम्॥९॥ इति अन्यथात्वाधिकरणम्॥२॥

३६४। सर्वाभेदादन्यत्रेमेयो वै ज्येष्ठं श्रेष्ठं वेद प्राणो वा ज्येष्ठश्च श्रेष्ठश्च  इति वाजिनां छन्दोगानां कौषीतकिनां च प्राणविद्यायां वागादिकरणग्रामस्थिते: तत्कार्यस्य च प्राणहेतुकत्वेन तिसृष्वप्येकरूपेण प्राणज्यैष्ठ्यमुपपादितम्। वागादिगतवसिष्ठत्वादिसंबन्धित्वमपि प्राणस्योभयत्रोक्तम्। कौषीतकिनां तु तन्नोक्तम्। तथाऽपि सर्वत्र ज्यैष्ठ्योपपादनप्रकारस्य सर्वस्याभेदाद्विद्यैक्यमिति कौषीतकिप्राणविद्यायामपि वसिष्ठत्वादय उपसंहार्या:॥१०॥ इति सर्वाभेदाधिकरणम्  

३६५। आनन्दादय: प्रधानस्य – अभेदादिति वर्तते। ब्रह्मस्वरूपनिरूपणान्तर्गतामलत्व-ज्ञानानन्दादयो गुणा: सर्वासु परविद्यासूपसंहार्या:, गुणिनो ब्रह्मणस्सर्वत्राभेदात्॥११॥

३६६। प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे – तस्य प्रियमेव शिर: इति प्रियशिरस्त्वादीनामप्राप्ति:, ब्रह्मगुणत्वाभावात्तेषाम्। शिर:पक्षादिभेदे ब्रह्मगुणे सति ब्रह्मण उपचयापचयप्रसक्ति:॥१२॥

३६७। इतरे त्वर्थसामान्यात् – आनन्दादय: स्वरूपनिरूपणान्तर्गततया ब्रह्मसमाना इत्युपसंहार्या एव॥१३॥

३६८। आध्यानाय प्रयोजनाभावात् – प्रियशिरस्त्वाद्युपदेश: ब्रह्मणोऽनुचिन्तनार्थ:। प्रयोजनान्तराभावात्॥१४॥

३६९।      आत्मशब्दाच्च – अन्योऽन्तर आत्माऽऽनन्दमय:, इत्यात्मशब्दाच्च प्रियशिर:पक्षादयो न ब्रह्मगुणा:॥१५॥

३७०। आत्मगृहीतिरितरवदुत्तरात् – परमात्मन एवात्मशब्देन ग्रहणमिति सोऽकामयत, बहु स्यां प्रजायेयेति उत्तरात् बहुभवनसङ्कल्पाभिधायिनो वाक्यादवगम्यते; आत्मा वा इदमेक एवाग्र आसीत् इत्यात्मशब्दादिवत्॥१६॥

३७१। अन्वयादिति चेत् स्यादवधारणात् – पूर्वत्र प्राणमयादिष्वात्मशब्दान्वयात्कथमुत्तरात् निर्णय इति चेत्, आत्मन आकाशस्संभूत: इत्यवगतस्यात्मन एव प्राणमयादिष्ववधारणात् स्यादेव परमात्मैवेति निर्णय:॥१७  इति आनन्दाद्यधिकरणम्

३७२। कार्याख्यानादपूर्वम्यो वै ज्येष्ठं श्रेष्ठंच वेद इति प्राणविद्यां विधाय, अपां प्राणवासस्त्वमुक्त्वा, तस्मादेवं विदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुत इत्याचमनस्य सदाचारप्राप्तत्वादाचमनमनूद्य आचमनीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तं विधीयत इति युक्तम्, अप्राप्तस्यैव विधेयतया ख्यापनात्। अत्रानुवादसरूपो विधि: कल्प्यत इत्यर्थ:॥१८॥  इति कार्याख्यानाधिकरणम्

३७३। समान एवं चाभेदात् – अग्निरहस्ये, बृहदारण्यके चाम्नाता शाण्डिल्यविद्या। एकत्र आत्मानमुपासित मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् इति। इतरत्र मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वम् इदं प्रशास्ति इति। उभयत्र मनोमयत्वादिके समानेऽपि वशित्वादेस्सत्यसङ्कल्पत्वविततिरूपेणाभेदादैक्यम्॥१९  इति समानाधिकरणम् ॥६॥

            ३७४। सम्बन्धादेवमन्यत्रापि – बृहदारण्यके – एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन् इत्युपक्रम्य, सत्यस्य ब्रह्मण: आदित्यमण्डले अक्षिणि चोपास्यत्वमुक्त्वा, तस्योपनिषदहरित्यधिदैवतम् तस्योपनिषदहम् इत्यध्यात्म इति द्वे नामनी आम्नायेते। उभयत्रैकस्यैवोपास्यस्य संबन्धाद्विद्यैक्यमित्युभयत्रोभे नामनी॥२०॥

३७५। वा विशेषात् – नैतत्।  आदित्याक्षिस्थानसंबन्धभेदादुपास्यस्य विद्याभेद इति तत्र नियते नामनी॥२१॥

३७६। दर्शयति – दर्शयति च श्रुतिर्विद्याभेदं तस्यैतस्य तदेव रूपं यदमुष्य रूपम् इति रूपातिदेशं ब्रुवती॥२२॥ इति सम्बन्धाधिकरणम्

३७७। संभृतिद्युव्याप्त्यपि चात: – ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्यादि ज्येष्ठानां वीर्याणां ब्रह्मणि संभृति: द्युव्याप्तिश्च ब्रह्मण इत्येतदनारभ्याधीतमपि न सर्वोपासनशेषभूतम्। अतो द्युव्याप्तिसामर्थ्यादल्पस्थानव्यतिरिक्तेषूपासनेषु प्राप्नोति। संभृत्याद्यपि द्युव्याप्तिसह पठितं तत्रैव॥२३॥ इति सम्भृत्यधिकरणम्

३७८। पुरुषविद्यायामपि चेतरेषामनाम्नानात् – छान्दोग्ये तैत्तिरीयके चाम्नाता पुरुषविद्याभिन्ना, यजमानपत्न्यादीनां यज्ञावयवानामितरेषां सवनत्रयादीनां चैकत्राम्नातानामन्यत्रानाम्नानात्, फलभेदाच्च, तैत्तिरीयके आत्मादीनां यजमानत्वकल्पनं सायंप्रातर्मध्यन्दिनानां सवनत्वकल्पनं ब्रह्ममहिमप्राप्तिफलम्। अत्र फलस्याश्रवणात् पूर्वप्रस्तुतफलं ब्रह्मविद्याङ्गम्। छान्दोग्ये चाशिशिषादीनां दीक्षात्वकल्पनं त्रेधा विभक्तपुरुषायुषस्य च सवनत्रयकल्पनं शतं जीवतीति च फलम्॥२४॥ इति पुरुषविद्याधिकरणम् ॥९॥

१०

३७९। वेधाद्यर्थभेदात् – उपनिषदारंभेष्वधीत शुक्रं प्रविध्य हृदयं प्रविध्य इत्यादिमन्त्रवत्, महाव्रतादिमन्त्रवच्च, शं नो मित्र:, सहनाववतु इति मन्त्रावपि मन्त्रसामर्थ्येन प्रयोजनभेदावगमात् अध्ययनशेषभूताविति न विद्याङ्गभूतौ॥२५॥ इति वेधाद्यधिकरणम्  १०

११

३८०। हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् – विदुषो ब्रह्म प्राप्नुवत: पुण्यपापयोर्विमोचनमेकस्यां शाखायां विदुषस्तच्चिन्तनार्थमधीतम्। विमुक्तयो: प्रवेशस्थानमेकस्यां शाखायां पुण्यप्रवेशस्थानं सुहृद:, दुष्कृतस्य शत्रव इति। एकस्यां शाखायां विमोचनं प्रवेशस्थानं चेत्युभयमाम्नातम्। सर्वं तच्चिन्तनार्थम्। हानाविति प्रदर्शनार्थम्। हानावुपायने चेत्यर्थ:। हानि: – विमोचनम्, उपायनं – प्रवेशनम्। केवलहानावाम्नातायां केवले चोपायने आम्नाते इतरेतरसमुच्चयो न्याय्य:, न विकल्प:, उपायनशब्दस्य हानिवाक्यशेषत्वात्। तच्छेषत्वं च त्यक्तयो: प्रवेशस्थान-वाचित्वेन तदपेक्षत्वात्। यथा वानस्पत्या: कुशा इत्येतद्वाक्यशेषभूतम् औदुंबर्य: कुशा इति प्रदेशान्तरस्थम्; यथा च देवासुराणां छन्दोभि: इत्येतद्वाक्यशेषभूतं देवच्छन्दांसि पूर्वम् इति प्रदेशान्तरस्थम् यथा च हिरण्येन षोडशिनस्तोत्रमुपाकरोत् इत्येतद्वाक्यशेषभूतम्, समयाविषिते सूर्ये षोडशिनस्तोत्रम् इति; यथा च ऋत्विज उपगायन्ति इत्येतच्छेषभूतं नाध्वर्युरुपगायेत् इति। एवमुपायनवाक्यस्य हानिवाक्यशेषतया संभवन्त्यां गतौ न विकल्पो न्याय्य:। तदुक्तम् अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य इत्यादिना॥२६  इति हान्यधिकरणम् ११

१२

            ३८१। साम्पराये तर्तव्याभावात् तथा ह्यन्ये – सुकृतदुष्कृतयोर्हानि: अश्व इव रोमाणि विधूय धूत्वा शरीरम् इति देहवियोगकाले श्रुता। शाखान्तरे स आगच्छति विरजां नदीं तत्सुकृतदुष्कृते धूनुते इत्यध्वन्यपि श्रुताऽपि, सांपराये – चरमदेहवियोगकाल एव चिन्तनीया, देहवियोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरेकेण तरितव्यभोगाभावात्, तथा ह्यन्ये शाखिन: – तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये, इति देहवियोगसमन्तरं ब्रह्मप्राप्तिमधीयते॥२७॥

३८२। छन्दत उभयाविरोधात् –  देहवियोगकाले पुण्यपापविमोचनश्रुते:, देहवियोगादूर्ध्वं ब्रह्मप्राप्तिश्रुतेश्चेत्युभयश्रुत्यविरोधाद्धेतो: सुकृतदुष्कृते धूनुते इत्ययं श्रुतिखण्ड: छन्दतो नेतव्य:, एतं देवयानं पन्थानमापद्यत, इति वाक्यखण्डात् प्रागनुगमयितव्य इत्यर्थ:॥२८॥

चोदयति-

३८३। गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: – देवयानगतिश्रुतेरर्थवत्त्वं उभयत्र चिन्तायामेव। अन्यथा – देहवियोगकाले एव चिन्तायां तस्मिन्नेव सर्वकर्मक्षयाद्देहाभावेन गतिर्नोपपद्यत इति हि गतिश्रुतिविरोध:॥२९॥

परिहरति –

          ३८४। उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् – देहवियोगकाले सर्वकर्मक्षयेऽपि गतिविधिरुपपन्न:। ब्रह्मोपासीनानामकर्मलभ्यार्थोपलब्धे:, स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति, इत्यादौ, यथा लोके राजानमुपासीनानाम् इतरपुरुषासाधारणसर्वार्थसिद्धि:॥३०॥

३८५। यावदधिकारमवस्थितिराधिकारिकाणाम् – वसिष्ठादीनां ज्ञानिनामपि देहपातादूर्ध्वं फलान्तरानुभव:, प्रारब्धाधिकारहेतुकर्मविनाशाभावात्, यावदधिकारसमाप्ति तद्धेतुकर्मफलानुभवाय तेषां तत्रैव स्थिति:, नार्चिरादिप्राप्ति:। ज्ञानिनामपि प्रारब्धकर्म अनुभवेनैव नश्यतीति वक्ष्यते॥३१॥ इति सामपरायाधिकरणम् १२

१३

३८६। अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् –  येषूपकोसलादिषूपासनेष्वर्चिरादिगतिः आम्नाता, तन्निष्ठानामेव तया प्राप्तिरिति तच्चिन्तनमपि तेषामेवेति नियमाभाव:, अपि तु सर्वोपासननिष्ठानाम्, तथा सत्येव श्रुतिस्मृतिभ्यामविरोध:। श्रुतिस्तावत् पंचाग्निविद्यायां ये चेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसंभवन्ति, इति विशेषेण श्रुता। स्मृतिरपि, अग्निर्ज्योतिरहश्शुक्ल: इत्यादिका॥३२॥  इति अनियमाधिकरणम् १३

१४

३८७। अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्एतद्वै तदक्षरं, अथ परा यया तदक्षरम् इत्यारभ्य अस्थूलमनण्वह्रस्वमदीर्घमलोहितम्यत्तदद्रेश्यमग्राह्यम् इत्याद्यस्थूलत्वाद्रेश्यत्वादिविषयाणामक्षरब्रह्मसंबन्धिनीनां धियां सर्वपरविद्यासु संग्रह:। गुणिनो ब्रह्मणस्सर्वत्रैकत्वात्, एतैर्गुणैर्विना सकलेतरव्यावृत्तब्रह्मानुसन्धानानुपपत्तेश्च। हेयसंबन्धानर्हानन्दादयोऽपि प्रत्यगात्मनो ब्रह्मव्यावर्तका:। प्रधानानुवर्तित्वं हि गुणस्वभाव:। यथा जामदग्न्यचतूरात्रपुरोज्डाश्युपसद्गुणभूतमन्त्रस्य प्रधानभूतोपसदनुवर्तित्वेनोपांशुगुणकत्वम्। तदुक्तम् – गुणमुख्यव्यतिक्रमे इत्यादिना॥३३॥

नैतावता सर्वत्र सर्वोपसंहारव्याप्तिरित्याह –

३८८। इयदामननात्आमननम् – आभिमुख्येन मननं, इयदेव गुणजातं सर्वत्रोपसंहार्यं, येन गुणजातेन सकलेतरव्यावृत्तब्रह्ममननम्॥३४॥ इति अक्षरध्यधिकरणम् १४

१५

३८९। अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् – बृहदारण्यके आत्मेति इत्युषस्तिप्रश्न:, भूतग्रामवत्प्रत्यगात्मविषय:; अन्यथा : प्राणेन प्राणिति आत्मा इति प्रतिवचनस्य कहोलविषयादशनायाद्यतीतत्वादे:, भेदानुपपत्तिरिति चेत्, न।  य आत्मा सर्वान्तर: इत्युभयत्र प्रश्नैकरूप्यात् परमात्मैवोभयत्र प्रतिवचनगत:, प्राणनादिहेतुत्वमशनायादि अतीतत्वं च परमात्मन्येवोपपद्यते। प्राणानादिहेतुत्वं हि परमात्मन एव। को ह्येवान्यात् क: प्राण्यात् इत्यादि श्रुते: सद्विद्योपदेशवत् प्रश्नप्रतिवचानावृत्तिरेकविषया॥३५॥

प्रष्टृभेदोऽपि न भेदक इत्याह –

३९०। व्यतिहारो विशिंषन्ति हीतरवत् – अर्थैक्ये निश्चिते सति प्रष्ट्रोर्बुद्धिव्यतिहार: कार्य:-  उषस्तिना अशनायाद्यतीतत्वधी: कार्या; कहोलेनापि प्राणनादिहेतुत्वधी: कार्या। उभयत्र प्रकरणगतवाक्यानि हि परमात्मानमेव विशिंषन्ति, यथा इतरत्र सद्विद्यायामपि॥३६॥

प्रश्नाद्यावृत्तौ कथमैक्यमित्यत्राह –

३९१। सैव हि सत्यादय: – सेयं देवतैक्षत, इति प्रस्तुता देवतैव सर्वत्र प्रश्नगता, प्रतिवचनेषु च तत्सत्यं आत्मा इत्यादय इत्यैक्यम्॥३७॥  इति अन्तरत्वाधिकरणम् १५॥

१६

३९२। कामादीतरत्र तत्र चायतनादिभ्य: – दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तः तदन्वेष्टव्यम् इत्युक्त्वा, एष आत्मापहतपाप्मा इत्यारभ्य, सत्यकामस्सत्यसङ्कल्प इति छान्दोग्ये। वाजिनां च       एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान: इत्युभयत्र हृदयायतनत्वसत्यसङ्कल्पत्वतद्विशेषरूपवशित्वादिभिर्दहरविद्याप्रत्यभिज्ञानात्सत्यसङ्कल्पत्वसह-चारिणः अपहतपाप्मत्वादिसत्यसङ्कल्पत्व-पर्यन्ता: उभयत्रोपसंहार्या:॥३८॥

३९३। आदरादलोप: – नेह नानाऽऽस्ति किञ्चन, एष नेति नेत्यात्मा इति निषेधो न वशित्वादिगुणविषय:, सर्वस्य वशी सर्वस्येशान: इति तेषामज्ञातानामादरेण विधानात्। अतो न लोप:। सर्वस्य ब्रह्मकार्यतयैक्यात् नेह नानास्ति इत्यब्रह्मात्मकनानात्वं प्रतिषिध्यते एष नेति नेत्यात्मा इत्यादि च प्राकृतविशेषविषयम्॥३९॥

३९४। उपस्थितेऽतस्तद्वचनात् – उपस्थिते – ब्रह्मोपसंपन्ने,  अत: उपसंपत्तेरेव हेतो:। जक्षत्क्रीडन् रममाण इत्यादिना छन्दतो ज्ञात्यादिप्राप्त्यभिधानात्, साक्षान्मोक्षफलं तत् न सांसारिकफलमिति परविद्यैवैषा सगुणा॥४०  इति कामाद्यधिकरणम् १६

१७

            ३९५। तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् – उद्गीथाद्युपासनस्य क्रतुषु गोदोहनादिवदुपादानानियमः, तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्युद्गीथोपासनरहितस्यापि क्रत्वनुष्ठानदर्शनात्। यदेव विद्यया करोति तदेव वीर्यवत्तररम् इति वर्तमाननिर्देशेऽपि क्रतुवीर्यवत्तरत्वसाधनतयोपासनविधि: कल्प्यते। वीर्यवत्तरत्वं नाम प्रबलकर्मान्तराप्रतिबन्धेनाविलम्बितफलत्वम्। अत: क्रतुफलात्पृथक्फलमुद्गीथोपासनमित्यनियम: ॥४१  इति तन्निर्धारणानियमाधिकरणम ॥१८॥

१८

            ३९६। प्रदानवदेव तदुक्तम् – दहरविद्यायामपहतपाप्मत्वादिगुणविशिष्टोपासने, तत्तद्गुणविशिष्टस्वरूपभेदात् प्रतिगुणं गुण्यावृत्ति:। इन्द्राय राज्ञे इत्यादिषु विशिष्टस्वरूपभेदात्प्रदानावृत्तिवत्। तदुक्तम् नाना वा देवता पृथक्त्वात् इति॥४२ इति प्रदानाधिकरणम् १८

१९

            ३९७। लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपिसहस्रशीर्षं देवम् इत्यत्र नारायणशब्देन प्रकृतदहरविद्योपास्यमात्रं न विशेष्यते, अपि तु सर्वपरविद्यासूपास्यम्, तच्चिह्नभूतवाक्यभूयस्त्वादेव। अक्षरशिवशंभुपरब्रह्मादिशब्दैस्सर्वोपास्याननूद्य नारायणत्वं हि विधीयते। प्रकरणाद्धि वाक्यं बलीय:। तदपि श्रुतिलिङ्ग इत्यादिनोक्तम्॥४३॥ इति लिङ्गभूयस्त्वाधिकरणम् १९

२०

३९८। पूर्वविकल्प: प्रकरणात्स्यात् क्रियामानसवत् – मनश्चितो वाक्चित: प्राणचित: इत्यादिसांपादिकाग्नीनाम् असद्वा इदमग्र आसीत् इत्यादिना पूर्वप्रकृतेष्टकचिताग्निशेषिभूत- क्रियामयक्रत्वनुप्रवेशस्स्यात्। एषामग्नित्वेनेष्टकचिताग्निना विकल्प:। द्वादशाहाङ्गभूतमानसग्रहवत् एषां मानसानामपि क्रियामयक्रत्वङ्गत्वं न विरुद्धम्॥४४॥

३९९। अतिदेशाच्च –  तेषामेकैक एव तावान्यावानसौ पूर्व: इतीष्टकचिताग्निकार्यातिदेशाच्च तदङ्गत्वम्॥४५॥

४००। विद्यैव तु निर्धारणाद्दर्शनाच्च – विद्यैव एते, विद्यामयक्रत्वङ्गभूता इत्यर्थ:। सांपादिकाग्नित्वेनैषां विद्यामयत्वे सिद्धेऽपि ते हैते विद्याचित एव इति निर्धारणं  हि विद्यामयक्रत्वन्वयेन विद्यामयत्वख्यापनाय। दृश्यते चात्र विद्यामय: क्रतु: मनसैषु ग्रहा अगृह्यन्त इत्यादौ॥४६॥

४०१। श्रुत्यादिबलीयस्त्वाच्च बाध: – ते हैते विद्याचित एव विद्यया हैवैते एवं विदश्चिता भवन्ति इति श्रुत्या वाक्येन चावगतविद्यामयक्रत्वन्वयस्य दुर्बलप्रकरणेन न बाध:॥४७॥

४०२। अनुबन्धादिभ्य: प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम्मनसैषु ग्रहा अगृह्यन्त इत्यादिक्रत्वनुबन्धै:, ते हैते विद्याचित एव इति श्रुत्यादिभिश्चात्र विद्यामयक्रतुविधि: कल्प्यत इति दहरविद्यादीनां क्रियामयत्वात्पृथक्त्ववत्, अस्यापि विद्यामयक्रतोस्सानुबन्धै: पृथक्त्वमवगम्यते। दृष्टश्च अनुवादसरूपेऽपि विधि: यदेव विद्यया करोति इत्यादौ। तदुक्तम् वचनानि त्वपूर्वत्वात् इति॥४८॥

४०३। सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्ति: – तेषामेकैक एव तावान्यावानसौ इतीष्टकचिताग्निफलसामान्येनातिदेश: इष्टकचिताग्ने: स्वक्रतुद्वारेण यत्फलम्, तदेवैषां विद्यामयक्रत्वनुप्रवेशेन फलमिति; न पुनरिष्टकचितातिदेशत्वमप्येषामिति, केनापि सामान्यानातिदेशोपलब्धे:। यथा एष एव मृत्यु: एष एतस्मिन्मण्डले पुरुष इति सर्वहरत्वमात्रेण। न हि तत्र मण्डलपुरुषस्य मृत्युदेशत्वम्॥४९॥

४०४। परेण शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: – परेण च ब्राह्मणेनास्य मनश्चिदादिवाचिनश्शब्दस्य विद्यामयप्रतिपादित्वमवगम्यते अयं वा व लोक एषोऽग्निचितस्तस्याप एव इत्यादिना पृथक्फला विद्यैव विधीयते। क्रियाप्रकरणे अग्निरहस्ये मनश्चिदादीनामनुबन्धस्तु संपादनीयानामग्न्यङ्गानां भूयस्त्वात्॥५०  इति पूर्वविकल्पाधिकरणम्   २०

२१

            ४०५। एक आत्मनश्शरीरे भावात् – शरीरे वर्तमानत्वादुपासितु:। तस्य च कर्तृत्वभोक्तृत्वादि- स्वरूपत्वात्, तथावस्थितस्यात्मतया परविद्यासु परमात्मोपास्य इत्येके मन्यन्ते ॥५१

४०६। व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् – नैवम्, यत् कर्तृत्वादिस्वरूपस्यैवोपासितुः आत्मतया परमात्माऽनुसन्धेय इति। अपि तूपासितुस्सांसारिकस्वभावान्मुक्तस्वरूपस्य यो व्यतिरेक: अपहतपाप्मत्वादिगुणकत्वरूप:, सोऽनुसन्धेय:, तथानुसन्धानभावभावित्वात् तत्स्वरूपोपलब्धे:, यथावस्थित- स्वरूपब्रह्मानुसन्धानभाविनी हि ब्रह्मोपलब्धि:। तद्वत् यथाक्रतुरस्मिन् लोके पुरुष इत्यादिश्रुते:॥५२॥  इति शरीरे भावाधिकरणम् २१

२२

४०७। अङ्गावबद्धास्तु शाखासु हि प्रतिवेदम् – उद्गीथादिक्रत्वङ्गाश्रया उपासना: यासु शाखासु श्रूयन्ते, तास्वेव कार्या इति न ह्यस्ति नियामकम्; अत: उद्गीथानुबन्धित्वात् प्रतिशाखं कार्या:॥५३॥

४०८। मन्त्रादिवद्वाऽविरोध: – वाशब्दोऽवधारणे, यथा क्रत्वङ्गभूतानां मन्त्राणामेकैक- शाखागतानामपि सर्वशाखागतक्रत्वन्वयेनाविरोध:॥५४॥  इति अङ्गावबद्धाधिकरणम् २२

२३

४०९।  भूम्न: क्रतुवज्ज्यायस्वं तथा हि दर्शयति – वैश्वानरविद्यायां त्रैलोक्यशरीरतया उपास्यस्य स्वर्लोकादिपृथिव्यन्तानां वैश्वानरात्मनो मूर्धादिपादपर्यन्तावयवत्वमभिधाय, यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते सर्वेषु लोकेषु इत्यादिना ब्रह्मानुभव: फलं चाभिहितम्। तत्र मूर्धाद्यवयवोपासनात्, भूम्न: – समस्तोपासनस्य ज्यायस्त्वं – प्रामाणिकत्वमस्ति; तत्रैव ब्रह्मानुभवफलाभिधानात्। तत्रावयवोपासनम्, तत्र तत्र फलकीर्तनं च क्रताविव द्रष्टव्यम्। यथा वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते इत्युक्त्वा, यदष्टाकपालो भवति इत्यादौ। तथा, समस्तोपासनस्यैव श्रैष्ठ्यं दर्शयति श्रुति: दिवमेव भगवो राजन् इत्यवयवोपासनेऽभिहिते मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इत्यादिनानर्थं ब्रुवती॥५५॥  इति भूमज्यायस्त्वाधिकरणम् २३॥

२४

४१०।  नाना शब्दादिभेदात् – सद्विद्याभूमविद्यादीनां ब्रह्मण एकस्यैवोपास्यत्वे तत्प्राप्तेरेव फलत्वेऽप्युपास्यत्वप्रकारभेदाद्विद्याभेद:। प्रकारभेदश्च शब्दान्तराद्यनुबन्धभेदादवगम्यते। पूर्वकाण्डोदितमपि ज्ञानस्याविधेयत्वं ब्रुवतां निरसनाय पुनरारब्धम्॥५६॥ इति शब्दादिभेदाधिकरणम् ॥ २४ ॥

२५

४११। विकल्पोऽविशिष्टफलत्वात् – एकस्मिन्नुपासके सर्वासां परविद्यानां विकल्प:, अपरिच्छिन्नानन्दरूपब्रह्मानुभवफलस्याविशिष्टत्वात्॥५७॥

४१२। काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् – ब्रह्मव्यतिरिक्तविद्याफलस्य परिमितत्वात् भूयस्त्वापेक्षया समुच्चयस्संभवतीति यथाकामं समुच्चीयेरन् विकल्पेरन्वा॥५८॥ इति विकल्पाधिकरणम् २५

२६

४१३। अङ्गेषु यथाश्रयभाव: – उद्गीथमुपासीत इत्युद्गीथाद्यङ्गेष्वाश्रितानामुद्गीथादिवत् क्रत्वङ्गभाव एव। गोदोहनादिवत् स्ववाक्ये फलान्तराश्रवणात् उद्गीथादिसंबन्धितया क्रत्वङ्गभावो न विरुध्यत इति॥५९॥

४१४। शिष्टेश्चउद्गीथमुपासीत इति विधे:, यदेव विद्यया करोति इत्यत्र विध्यभावात् चाङ्गभावो न विरुद्ध:॥६०॥

            ४१५। समाहारात् – उद्गीथमनुसमाहरति इति वेदनहानावन्येन समाधानं ब्रुवत् वेदनस्याङ्गतां द्योतयति॥६१॥

४१६। गुणसाधारण्यश्रुतेश्च – प्रकृतोपासनस्यैव ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति इति सर्वत्र संचरत: प्रणवस्य गुणत्वेनोपासनस्यापि संचारादुपासनोपादाननियमो गम्यते। अत: पूर्वोक्तोपादानानियमो न संभवति॥६२॥

४१७। वा तत्सहभावाश्रुते: – नैतत्, अङ्गभावाश्रुते:। अङ्गभावो हि समभाव: यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति फलान्तरसाधकतयाऽवगतस्योपासनस्याङ्गभावासंभवात्, उद्गीथमुपासीतेत्युद्गीथाश्रयतामात्रप्रतिपादनात्॥६३॥

४१८। दर्शनाच्चएवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति इति ब्रह्मणो वेदनेन सर्वरक्षणं ब्रुवन्ती श्रुतिरुद्गातृप्रभृतीनां वेदनस्यानङ्गतां दर्शयतीति उपासनोपादानानियमस्सिद्ध:॥६४॥  इति यथाश्रयभावाधिकरणम् ॥२६॥

श्रीवेदान्तसारे तृतीयस्याध्यायस्य तृतीय: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.