श्रीवेदान्तसार: Ady 01 Pada 01

श्रीभगवद्रामानुजविरचित:

श्रीवेदान्तसार:

प्रथमाध्याये प्रथम: पाद:

समस्तचिदचिद्वस्तुशरीरायाखिलात्मने ।

श्रीमते निर्मलानन्दोदन्वते विष्णवे नम: ॥

परमपुरुषप्रसादात् वेदान्तसार उद्ध्रियते –

१-१-१

१। अथातो ब्रह्मजिज्ञासा –   अत्रायमथशब्द आनन्तर्ये वर्तते, अतश्शब्दशिरस्कत्वात्। अतश्शब्दश्च पूर्ववृत्तस्य हेतुभावे। पूर्ववृत्तं च कर्मज्ञानमिति विज्ञायते, आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वात्। अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वाद्वेदानां कर्मविचार: प्रथमं कार्यं इति अथातो धर्मजिज्ञासा इत्युक्तम्। कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूप- पुरुषार्थसाधनतानिश्चय: प्रभुत्वादार्त्विज्यम् इत्यन्तेन सूत्रकलापेन संकर्षेणेन कृत:। एवं वेदस्यार्थ- परत्वे कर्मणां च तदर्थत्वे तेषां च केवलानां त्रिवर्गफलत्वे निश्चिते सति, वेदैकदेशभूतवेदान्तभागे केवलकर्मणामल्पास्थिरफलत्वं ब्रह्मज्ञानस्य चानन्तस्थिरफलत्वमापाततो दृष्ट्वा, अनन्तरं मुमुक्षोरवधारितपरिनिष्पन्नवस्तुबोधजननशब्दशक्ते: पुरुषस्य ब्रह्मबुभुत्सा जायत इति अथातो ब्रह्मजिज्ञासा इति कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचार: कर्तव्य इत्युक्तं भवति। तदिदमाह श्रुति: – परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृत: कृतेन, तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम्, तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय, येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इति। ब्राह्मण: – वेदाभ्यासरत:। कर्मचितान् – कर्मणा संपादितान्, लोकान् – आराध्यक्षयिष्णुत्वेन क्षयस्वभावान्, कर्ममीमांसया परीक्ष्य, अकृत: – नित्य: परमपुरुष:, कृतेन – कर्मणा न संपाद्य इति, यो निर्वेदमायात्, स: तद्विज्ञानार्थं गुरुमेवाभिगच्छेत्, समित्पाणि:, श्रोत्रियं – वेदान्तवेदिनम्, ब्रह्मनिष्ठं – साक्षात्कृतपरमपुरुष स्वरूपम्। स: – गुरु: सम्यगुपसन्नाय तस्मै येन –  विद्याविशेषेण अक्षरं – सत्यम् परमपुरुषं, वेद – विद्यात्, तां ब्रह्मविद्यां प्रोवाच – प्रब्रूयात् इत्यर्थ:। स गुरुमेव  अभिगच्छेत्। तस्मै स विद्वान् प्रोवाच इत्यन्वयात् अप्राप्तत्वाच्च, विधावपि लिटो विधानात् – छन्दसि लुङ् लङ् लिट: इति॥१॥ इति जिज्ञासाधिकरणम् ॥ १॥

१-१-२

२। जन्माद्यस्य यत: –  अस्य विचित्रचिदचिन्मिश्रस्य व्यवस्थितसुखदु:खोपभोगस्य जगत:, जन्मस्थितिलया: यत:, तत् ब्रह्मेति प्रतिपादयति श्रुतिरित्यर्थ:, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म इति। सूत्रे यत इति हेतौ पञ्चमी, जनिस्थितिलयानां साधारणत्वात्। जनिहेतुत्वं च निमित्तोपादानरूपं विवक्षितम्। यत: इति हि श्रुति:, इहोभयविषया कथमिति चेत्, यतो वा इमानि इति प्रसिद्धवन्निर्देशात्, प्रसिद्धेश्च उभयविषयत्वात्। सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति। तत्तेजोऽसृजत इत्यत्र सदेवेदमग्र एकमेवासीदिति उपादानतां प्रतिपाद्य, अद्वितीयमिति अधिष्ठात्रन्तरनिवारणात् सच्छब्दवाच्यं ब्रह्मैव निमित्तमुपादानं चेति विज्ञायते। तथा तदैक्षत बहु स्यां प्रजायेय इत्यात्मन एव विचित्रस्थिरत्रसरूपेण बहुभवनं संकल्प्य तथैव सृष्टिवचनाच्च। अतश्श्रुतावपि यत: इति हेतौ पञ्चमी। अत्रैव ब्रह्मणो जगन्निमित्तत्वमुपादानत्वं च प्रतिपादितम्, अर्थविरोधात्, अस्मान्मायी सृजते विश्वमेतत् इत्यादि विशेषश्रुत्या चाक्षिप्य, प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, अभिध्योपदेशाच्च, साक्षाच्चोभयाम्नानात्, आत्मकृते: इत्यादिभि: सूत्रै: परिहरिष्यते॥२॥

ननु च सर्वज्ञं, सर्वशक्ति, सत्यसंकल्पं, निरवद्यतया निरस्तसमस्तापुरुषार्थगन्धं, ब्रह्मैवात्मानं विचित्रचिदचिन्मिश्रं जगद्रूपमिदं सर्वमसृजतेति कथमुपपद्यते? तदेतत् सूत्रकार: स्वयमेव परिचोद्य परिहरिष्यति। अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्, इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: इति चोद्यम्। परिहारस्तु  न तु दृष्टान्तभावात््, अधिकं तु भेदनिर्देशात्, इति च। क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्य:, सकारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप:, क्षरं प्रधानममृताक्षरं हर: क्षरात्मानावीशते देवएक:, अचिद्वर्गं स्वात्मनो भोग्यत्वेन हरतीति भोक्ता हर इत्युच्यते।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तम: । अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ इत्यादि श्रुतिस्मृतिगणै: प्रत्यगात्मनो ब्रह्मण: भेदेन निर्देशात्, परमपुरुषार्थभागिन: प्रत्यगात्मनोऽधिकमर्थान्तरभूतं ब्रह्म। तच्च प्रत्यगात्मशरीरकतया तदात्मभूतम्। प्रत्यगात्मनस्तच्छरीरत्वं ब्रह्मणस्तदात्मत्वञ्च य आत्मनि तिष्ठन्, यस्यात्मा शरीरम्, एष सर्वभूतान्तरात्मा, अपहतपाप्मा दिव्यो देव एको नारायण: इत्यादिश्रुतिशतसमधिगतम्। सशरीरस्यात्मन: कार्यावस्थाप्राप्तावपि गुणदोषव्यवस्थितेर्दृष्टान्तभावात् ब्रह्मणि न दोषप्रसक्ति:, इति नासामञ्जस्यं वेदान्तवाक्यस्येति न तु दृष्टान्तभावात् इत्युक्तम्। दृष्टान्तश्च देवमनुष्यादिशब्दवाच्यस्य सशरीरस्यात्मन: मनुष्यो बालो युवा स्थविर: इति नानावस्था- प्राप्तावपि बालत्वयुवत्वस्थविरत्वादय: शरीरगता दोषा नात्मानं स्पृशन्ति, आत्मगताश्च ज्ञानसुखादय: न शरीरमिति। अत: कार्यावस्थं कारणावस्थं च ब्रह्म प्रत्यगात्मशरीरतया तदात्मभूतमिति प्रत्यगात्मवाचिना शब्देन ब्रह्माभिधाने तच्छब्दसामानाधिकरण्ये च हेतुं वक्तुम्, निरसनीयं मतद्वयम् प्रतिज्ञासिद्धेः लिङ्गमाश्मरथ्य:, उत्क्रमिष्यत एवं भावादित्यौडुलोमि: इत्युपन्यस्य अवस्थितेरिति काशकृत्स्न: इति हेतुरुक्त:।

तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् इत्यादिना प्रत्यगात्मन आत्मतया अवस्थानात् ब्रह्मणस्तच्छब्देनाभिधानं, तत्सामानाधिकरण्येन व्यपदेशाच्चेत्युक्तम्। तथा वैषम्यनैर्घृण्ये न सापेक्षत्वात्, न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च इति देवमनुष्यादि विषमसृष्टेर्जीवकर्मनिमित्तत्वं जीवानां तत्तत्कर्मप्रवाहाणां चानादित्वं च प्रतिपाद्य, तदनादित्वं च नित्यो नित्यानां चेतनश्चेतनानाम्, ज्ञाज्ञौ द्वौ इत्यादि श्रुतिषूपलभ्यत इत्युक्त्वा, तदनादित्वेऽपि प्रलयकाले चिदचिद्वस्तुनोर्भोक्तृभोग्ययोर्नामरूपविभागाभावात्, आत्मा वा इदमेक एवाग्र आसीत्। नान्यत् किञ्चन मिषत् इत्यादावेकत्वावधारणमुपपद्यत इति सूत्रकारेण स्वयमेवोक्तम्। तथा च नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: इति प्रत्यगात्मनो नित्यत्वादनुत्पत्तिमुक्त्वा ज्ञोऽत एव इति तस्य ज्ञातृत्वमेव स्वरूपमित्युक्तम्। उत्क्रान्तिगत्यागतीनाम् इत्यादिनाऽणुत्वं चोक्तम्। तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत्, यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् इति ज्ञातुरेवात्मनो ज्ञानशब्देन व्यपदेशो ज्ञानगुणसारत्वात् ज्ञानैकनिरूपणीयस्वभावत्वाच्चेत्युक्तम्। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा इति ज्ञानमात्रस्वरूपात्मवादे हेत्वन्तरायत्तज्ञानवादे, सर्वगतात्मवादे च दोष उक्त:। कर्ता शास्त्रार्थवत्त्वात्, उपादानाद्विहारोपदेशाच्च, व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय:, उपलब्धिवदनियम:, शक्तिविपर्ययात्, समाध्यभावाच्च। यथा च तक्षोऽभयथा इत्यात्मन एव शुभाशुभेषु कर्मसु कर्तृत्वम्, प्रकृतेरकर्तृत्वम्, प्रकृतेश्च कर्तृत्वे तस्यास्साधारणत्वेन सर्वेषां फलानुभवप्रसङ्गादि च प्रतिपादितम्। परात्तु तच्छ्रुते:। कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य: इत्यात्मन एव कर्तृत्वं परमपुरुषानुमतिसहकृतमित्युक्तम्।

अंशो नानाव्यपदेशात्, अन्यथा चापि दाशकितवादित्वमधीयत एके, मन्त्रवर्णात्, अपि स्मर्यते, प्रकाशादिवत्तु नैवं पर:, स्मरन्ति च इति, अनीशया शोचति मुह्यमान:। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक:, क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्य:, प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेदनान्तरम्, तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति, ज्ञाज्ञौ द्वावजावीशनीशौ, पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति, यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्, तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति, स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप:, यस्सर्वज्ञस्सर्ववित्, पराऽस्यशक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, नित्यो नित्यानां  चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्, पतिं विश्वस्यात्मेश्वरम् इत्यादिषु प्रत्यगात्मन: परमात्मनश्च कर्मवश्यत्वेन शोचितृत्वेनासर्वज्ञत्वेन उपासनायत्तमुक्तित्वेन, निरवद्यत्वेन सर्वज्ञत्वेन सत्यसंकल्पत्वेन सर्वेश्वरत्वेन समस्तकल्याणगुणाकरत्वादिना च स्वरूपस्य स्वभावस्य नानात्वव्यपदेशात्। तयोरेव तत्वमसि, अयमात्मा ब्रह्म, योऽसौ सोऽहं योऽहं सोऽसौ, अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न सवेद, अकृत्स्नो ह्येष:, आत्मेत्येवोपासीत, ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवा: इति च सर्वजीवात्मव्यापित्वेनाभेदव्यपदेशाच्च। उभयव्यपदेशाविरोधेन परमात्मांशोजीवात्मेत्यभ्युपगन्तव्यम्।

न केवलं न्यायसिद्धमिदम्, श्रुतिस्मृतिभ्यां चांशत्वमुक्तं जीवात्मन: – पादोऽस्य विश्वाभूतानि, ममैवांशो जीवलोके जीवभूतस्सनातन: इति।  अंशत्वं नाम एकवस्त्वेकदेशत्वम्। तथा सत्युभयोरेकवस्तुत्वेनाविरोधो न स्यादित्याशङ्क्य प्रकाशादिवत्तु नैवं पर इति परिहरति, अन्यविशेषणतैकस्वभावप्रकाशजातिगुणशरीरविशिष्टानग्निव्यक्तिगुण्यात्मन: प्रति प्रकाशजातिगुण-शरीराणां यथा अंशत्वम्, एवं परमात्मानं प्रत्यगात्मशरीरकं प्रति प्रत्यगात्मनोऽशंत्वम्। एवमंशत्वे यत्स्वभाव: अंशभूतो जीव:, नैवमंशी परमात्मा, सर्वत्र विशेषणविशेष्ययोस्स्वरूपस्वभावभेदात्। एवञ्च कर्ता शास्त्रार्थवत्वात्, परात्तु तच्छ्रुते: इत्यनन्तरोक्तं च न विरुध्यते।

एवं प्रकाशशरीरवज्जीवात्मनामंशत्वं पराशरादय: स्मरन्ति च।

एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।

परस्य ब्रह्मण: शक्तिस्तथेयमखिलं जगत् ॥

यत्किंचित्सृज्यते येन सत्त्वजातेन वै द्विज ।

तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनु: ॥

ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवा: इति।

अन्यथा, पारमार्थिकापारमार्थिकोपाधिसमाश्रयणेन प्रत्यगात्मनोऽशंत्वे ब्रह्मण एव वेदान्तनिवर्त्याः सर्वे दोषा भवेयुरिति आभासा एव च इत्यादिसूत्रैरुक्तम्। अतस्सर्वदा चिदचिद्वस्तुशरीरकतया तदात्मभूतमेव ब्रह्म, कदाचिदविभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कारणावस्थम्; कदाचिच्च विभक्तनामरूपचिदचिद्वस्तुशरीरं तत्कार्यावस्थं ब्रह्म। सर्वदा चिदचिद्वस्तुशरीरकतया तद्विशिष्टत्वेद्मपि ब्रह्मण: परिणामित्वापुरुषार्थाश्रयत्वे शरीरभूतचेतनाचेतनवस्तुगते, आत्मभूतं ब्रह्म सर्वदा निरस्तनिखिल- दोषगन्धानवधिकातिशयासंख्येयज्ञानानन्दाद्यपरिमितोदारगुणसागरमवतिष्ठत इति ब्रह्मैव जगन्निमित्तमुपादानं चेति यतो वा इमानि इत्यादिवाक्यं प्रतिपादयत्येवेति जन्माद्यस्य यत: तत् ब्रह्मेति सुष्ठूक्तम्।

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तदैक्षत बहु स्यां प्रजायेय इत्यस्य चायमर्थ: – यस्यात्मा शरीरं, यस्याक्षरं शरीरं, यस्य पृथिवी शरीरं यस्याव्यक्तं शरीरं, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: इत्यादिश्रुते: ब्रह्मण: सर्वदा चिदचिद्वस्तुशरीरकत्वात् सदेवेदमिदानीं स्थूलचिदचिद्वस्तुशरीरकत्वेन विभक्तनामरूपम्, अग्रे – प्रलयकाले, सूक्ष्मदशापन्नचिदचिद्वस्तुशरीरकतया नामरूपविभागानर्हामेवासीत्। स्वयमेव ब्रह्म सर्वज्ञं सर्वशक्ति निमित्तान्तरानपेक्षमद्वितीयं चातिष्ठत्।

तदैक्षत बहु स्यां प्रजायेय इति तन्नामरूपविभागानर्हासूक्ष्मचिदचिद्वस्तुशरीरकतया एकमेवावस्थितं नामरूपविभागार्हास्थूलदशापत्त्या बहुप्रकारं स्यामिति ऐक्षत। स्याम् प्रजायेय इति व्यष्टिसमष्टिव्यपदेश:। चिदचितो: परस्य च प्रलयकालेऽपि व्यवहारानर्हासूक्ष्मभेद: सर्वैर्वेदान्तिभिरभ्युपगत:, अविद्याकृतभेदस्य उपाधिकृतभेदस्य च अनादित्वाभ्युपगमात्। इयांस्तु विशेष: – ब्रह्मैवाज्ञमुपाधिसंबद्धं चेति सर्वश्रुतिस्मृतिन्यायविरोधोऽन्येषाम्। तदभावादविरोधश्च अस्माकम् इति ॥२॥ इति जन्माद्यधिकरणम्॥२॥

१-१-३

३।  शास्त्रयोनित्वात्  –  एवं चिदचिद्वस्तुशरीरतया तद्विशिष्टस्य ब्रह्मण एव जगदुपादानत्वं निमितत्वं च नानुमानगम्यमिति शास्त्रैकप्रमाणकत्वात्तस्य यतो वा इमानि भूतानि इत्यादि वाक्यं निखिलजगदेककारणं ब्रह्म बोधयत्येवेति सिद्धम्॥३॥ इति शास्त्रयोनित्वाधिकरमम्॥

१-१-४

४। तत्तु समन्वयात् – पुरुषार्थतयाऽन्वय: समन्वय:, शास्त्राख्यप्रमाणस्य पुरुषार्थ-पर्यवसायित्वेऽपि, ब्रह्म स्वस्य परस्य चानुभवितु: अविशेषेण स्वरूपेण गुणै: विभूत्या च अनुभूयमानमनवधिकातिशयानन्दरूपमिति पुरुषार्थत्वेनाभिधेयतयाऽन्वयात् ब्रह्मणश्शास्त्र-प्रमाणकत्वमुपपन्नतरमिति निरवद्यं निखिलजगदेककारणं ब्रह्म वेदान्ता: प्रतिपादयन्तीत्युक्तम्। तस्यैकस्यैकदैव कृत्स्नजगन्निमित्तत्वं तस्यैवोपादानतया जगादात्मकत्वं च नानुमानादिगम्यमिति शास्त्रैकप्रमाणकत्वात्, तस्य चानवधिकातिशयानन्दरूपतया परमपुरुषार्थत्वाद्वेदान्ता: प्रतिपादयन्त्येव इति स्थिरीकृतम्॥४॥ इति समन्वयाधिकरणम् ॥ ४ ॥

अत: परं पादशेषेण जगत्कारणतया प्रधानपुरुषप्रतिपादनानर्हातया सर्वज्ञं सत्यसङ्कल्पं निरस्ताविद्यादि- समस्तदोषगन्धमपरिमितोदारगुणसागरं ब्रह्मैव वेदान्ता: प्रतिपादयन्तीत्युच्यते। तत्र तावत्प्रधानं वेदान्तप्रतिपादनानर्हामित्याह –

१-१-५

५। ईक्षतेर्नाशब्दम् – अशब्दम् – आनुमानिकं प्रधानम्, न तत् वेदान्तवेद्यम्। कुत:? ईक्षते: – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति प्रस्तुतजगत्कारणव्यापारवाचिन:  ईक्षतेर्धातो: श्रवणात् तदैक्षत बहु स्याम् इति॥५॥

६। गौणश्चेन्नात्मशब्दात् – तत्तेज ऐक्षत इत्यादिष्वचेतनेऽपि वस्तुनि ईक्षतिश्श्रूयते, तत्र गौण:, एवमत्रापि प्रधान एवेक्षतिर्गौण इति चेत्, नैतदुपपद्यते, प्रस्तुते सच्छब्दवाच्ये श्रूयमाणाच्चेतनवाचिन: आत्मशब्दात्; स आत्मा, तत्त्वमसि श्वेतकेतो इति ह्युत्तरत्र श्रूयते। तेज: प्रभृतिष्वपि न गौणमीक्षणम्। तेज: प्रभृतिशब्दैरपि तत्तच्छरीरकं ब्रह्मैवाभिधीयते अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति ब्रह्मात्मकजीवानुप्रवेशादेव सर्वस्य वस्तुनो नामरूपभाक्त्वात्। तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्चत्यच्चाभवत्, निरुक्तं चानिरुक्तं च, निलयनं चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत् इति चेतनमचेतनं च पृथङ्निर्दिश्य तदुभयमनुप्रविश्य, सत्यच्छब्दवाच्योऽभवदिति हि समानप्रकरणे स्पष्टमभिहितम्।

७। तन्निष्ठस्य मोक्षोपदेशात् – इतश्च प्रधानादर्थान्तरभूतं सच्छब्दाभिहितं जगत्कारणम्। सच्छब्दाभिहिततत्त्वनिष्ठस्य मोक्षोपदेशात्। तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति हि तन्निष्ठस्य मोक्ष उपदिश्यते। प्रधानकारणवादिनामपि हि प्रधाननिष्ठस्य मोक्षो नाभिमत:।

८। हेयत्वावचनाच्च – यदि प्रधानमत्र विवक्षितम्, तदा तस्य हेयत्वात् अध्येयत्वमुच्येत न तदुच्यते। मोक्षसाधनतया ध्येयत्वमेवात्रोच्यते तत्त्वमसि श्वेतकेतो इत्यादिना।

इतश्च न प्रधानम् –

९। प्रतिज्ञाविरोधात् – एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधात्। सच्छब्दवाच्यतत्त्वज्ञानेन तत्कार्यतया चेतनाचेतनसर्ववस्तुज्ञानम् येनाश्रुतं श्रुतं भवति इत्यादिना प्रतिज्ञातम्; तद्धि प्रधानकारणवादे विरुध्यते, चेतनस्य प्रधानकार्यत्वाभावात्। प्रधानादर्थान्तरभूतब्रह्मकारणवादे चिदचिद्वस्तुशरीरं ब्रहैव नामरूपविभागाविभागाभ्यां  कार्यं कारणं चेति ब्रह्मज्ञानेन कृत्स्नस्य ज्ञाततोपपद्यते।

इतश्च न प्रधानम् –

१०। स्वाप्ययात् –  स्वप्नान्तं मे सोम्य विजानीहि इति। यत्रैतत्पुरुषस्स्वपिति नाम  सता सोम्य तदा संपन्नो भवति। स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते। स्वं ह्यपीतो भवति इति जीवस्य चेतनस्य सुषुप्तस्य सता संपन्नस्य स्वाप्ययवचनात् प्रधानादर्थान्तरभूतं सच्छब्दवाच्यमिति विज्ञायते। स्वमपीतो भवति – आत्मानमेव जीवोऽपीतो भवतीत्यर्थ:। चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरणश्रुत्युक्तम्। तज्जीवशब्दाभिधेयं परं ब्रह्मैव सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति इत्युच्यते। तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इत्युच्यते। आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदय:। सुषुप्तिकाले हि नामरूपे विहाय सता संपरिष्वक्त: पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते; यथा सुप्त: स्वप्नं न कथञ्चन पश्यति अथास्मिन्प्राण एवैकधा भवति॥ एतस्मादात्मन: प्राणा यथायतनं विप्रतिष्ठन्ते, तथा त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा यद्यद्भवन्ति तथा भवन्ति इति॥१०॥

११। गतिसामान्यात्  – सकलोपनिषद्गतिसामान्यादस्यामप्युपनिषदि न प्रधानं कारणमिति ज्ञायते, आत्मा वा इदमेक एवाग्र आसीत्, नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति, स इमाल्लोकानसृजत, तस्माद्वा एतस्मादात्मन आकाशस्संभूत:, सकारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप: इत्यादि सकलोपनिषत्सु सर्वेश्वर एव हि जगत्कारणमिति प्रतिपाद्यते॥११॥

१२। श्रुतत्वाच्च –  श्रुतमेव ह्यस्यामुपनिषदि; आत्मत: प्राण:….आत्मन आकाश: इत्यादौ आत्मन एव सर्वोत्पत्ति:, अत: प्रधानादचेतनादर्थान्तरभूतस्सर्वज्ञ: पुरुषोत्तम एव जगत्कारणं ब्रह्मेति स्थितम्॥१२॥ इति ईक्षत्यधिकरणम् ॥  ५ ॥

१-१-६

१३। आनन्दमयोऽभ्यासात् – यद्यपि प्रधानादर्थान्तरभूतस्य प्रत्यगात्मनश्चेतनस्य ईक्षणगुणयोगः संभवति, तथाऽपि प्रत्यगात्मा बद्धो मुक्तश्च  न जगत्कारणम्। तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इत्यारभ्य तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योऽन्तर  आत्माऽऽनन्दमय: इत्यस्य आनन्दमयत्वप्रतिपादनात् कारणतयाव्यपदिष्टोऽयमानन्दमय: प्रत्यगात्मनोऽर्थान्तरभूत: सर्वज्ञ: परमात्मैव। कुत: अभ्यासात् – आनन्दमयस्य निरतिशयदशाशिरस्कानन्दमयत्वेनाभ्यासात्; ते ये शतं प्रजापतेरानन्दा:, स एको ब्रह्मण आनन्द: यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्, न बिभेति कुतश्चन इति हि वेद्यत्वेनायमानन्दमयोऽनवधिकातिशयोऽभ्यस्यते॥१३॥

१४। विकारशब्दान्नेति चेन्न प्राचुर्यात् – स वा एष पुरुषोऽन्नरसमय: इति विकारार्थमयट्प्रकरणात् आनन्दमय: इत्यस्यापि विकारार्थत्वं प्रतीयते। अतोऽयमानन्दमय: नाविकाररूप: परमात्मा, इति चेन्न अर्थविरोधात्, प्राचुर्यार्थ एवायं मयडिति विज्ञायते, तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इति ह्यविकार आत्मा प्रकृत:। प्रकरणे च विकारार्थत्वं प्राणमय एव परित्यक्तम्। उक्तेन न्यायेन आनन्दप्राचुर्यात् परमपुरुष्ा एवायमानन्दमय:।१४॥

१५। तद्धेतुव्यपदेशाच्च – एष ह्येवानन्दयाति इति जीवान्प्रत्यानन्दहेतुरयमानन्दमयो व्यपदिश्यते। अतश्चायं न प्रत्यगात्मा॥१५॥

१६। मान्त्रवर्णिकमेव च गीयते – सत्यं ज्ञानमनन्तं ब्रह्म इति मन्त्रवर्णोदितमेव तस्माद्वा एतस्मात् इत्यादिना आनन्दमय इति गीयते। अतश्च न प्रत्यगात्मा॥१६॥

१७। नेतरोऽनुपपत्ते: – इतर: – प्रत्यगात्मा, मन्त्रवर्णोदित इति नाशङ्कनीयम् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति प्रत्यगात्मनो बद्धस्य मुक्तस्य च ईदृश विपश्चित्त्वानुपपत्ते:। सोऽकामयत, बहु स्यां प्रजायेय इति विचित्रस्थिरत्रसरूपबहुभवनसङ्कल्परूपमिदं विपश्चित्त्वमिति ह्युत्तरत्र व्यज्यते। मुक्तस्य सर्वज्ञस्यापि जगद्व्यापाराभावादीदृश-विपश्चित्त्वासंभव:॥१७॥

इतश्च –

१८। भेदव्यपदेशाच्च – तस्माद्वा एतस्माद्विज्ञानमयात्, अन्योऽन्तर आत्माऽनन्दमय: इति हि विज्ञानमयात् प्रत्यगात्मनो भेदेनायमानन्दमयो व्यपदिश्यते। न च विज्ञानमयविषयतया उदाहृतश्लोके विज्ञानं यज्ञं तनुते इति व्यपदेशात् विज्ञानमयो बुद्धिमात्रमित्याशङ्कनीयम्, यतस्सूत्रकार एव इमां आशङ्कां परिहरिष्यति व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययय इति। विज्ञानं यज्ञं तनुते इति यज्ञादि क्रियायां जीवस्य कर्तृत्वव्यपदेशाच्च जीव: कर्ता। विज्ञान शब्देन जीवस्याव्यपदेशे बुद्धिमात्रव्यपदेशे च विज्ञानेनेति निर्देशविपर्ययस्स्यात्, बुद्धे: करणत्वादिति॥१८॥

इतश्च –

१९। कामाच्च नानुमानापेक्षा – सोऽकामयत, बहुस्याम् इति स्वकामादेवास्य जगत्सर्गश्श्रूयते, प्रत्यगात्मनो हि यस्य कस्यचित्सर्गे आनुमानापेक्षा दृश्यते। अनुमानगम्यं प्रधानम् आनुमानम्॥१९॥

इतश्च –

२०। अस्मिन्नस्य  च तद्योगं शास्ति – अस्मिन्  आनन्दमये, अस्य प्रत्यगात्मन:, आनन्दयोगं शास्ति रसो वै स:, रसं ह्येवायं  लब्ध्वाऽऽनन्दी भवति इति अत: प्रत्यगात्मनोऽर्थान्तरभूत: सर्वज्ञ: पुरुषोत्तम: जगत्कारणभूत: आनन्दमय:॥२०॥ इति आनन्दमयाधिकरणम् ॥ ६ ॥

१-१-७

२१। अन्तस्तद्धर्मोपदेशात् – अयं जगत्कारणभूत: विपश्चिदानन्दमय:, कश्चिदुपचित- पुण्यविशेषो जीवविशेष: देहयोगाद्विज्ञायते, नायं परमात्मेति नाशङ्कनीयम्, य एषोऽन्तरादित्ये हिरण्मय: पुरुष इत्यादौ श्रूयमाण: पुरुषाकार: परमात्मैव। कुत:? तद्धर्मोपदेशात् – स एष सर्वेषां लोकानामीश: सर्वेषां कामानाम्, तस्योदिति नाम स एष सर्वेभ्य: पाप्मभ्य उदित: इति निरुपाधिकसर्वलोकसर्वकामेशत्वं स्वत एवाकर्मवश्यत्वं च प्रत्यगात्मनोऽर्थान्तरभूतस्य हि परमपुरुषस्यैव धर्म: वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णं  तमस: परस्तात् इत्यादिषु त्रिगुणात्मकप्रकृत्यनन्तर्गत- अप्राकृतस्वासाधारणरूपवत्त्वं च ज्ञानादिगुणवत्तस्यैव हि श्रूयते। ज्ञानादयोऽपि सत्यं ज्ञानमनन्तं ब्रह्म, यस्ससर्वज्ञस्सर्ववित्, पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिषु श्रुतत्वात् तस्य गुणा विज्ञायन्ते। तथा, आदित्यवर्णं तमस: परस्तात् इत्यादिषु अप्राकृतस्वासाधारणरूपश्रवणात् तद्वत्ता च विज्ञायते। तदेतद्वाक्यकारश्चाह – हिरण्मय: पुरुषो दृश्यते इति, प्राज्ञस्सर्वान्तरस्स्यात् लोककामेशोपदेशात् तथोदयात्पाप्मनाम् इत्युक्त्वा, तद्रूपस्य कार्यत्वं मायामयत्वं वेति विचार्य, स्याद्रूपं कृतकमनुग्रहार्थं तच्चेतसामैश्वर्यात् इति निरसनीयं मतमुपन्यस्य, रूपं वातीन्द्रियम् अन्त: करणप्रत्यक्षनिर्देशात् इति। व्याख्यातं च द्रमिडाचार्यै:, न वा मायामात्रम् अञ्जसैव विश्वसृजो रूपम् तत्तु न चक्षुषा ग्राह्यम्, मनसा त्वकलुषेण साधनान्तरवता गृह्यते। न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धेन इति श्रुते:। न ह्यरूपाया देवताया रूपमुपदिश्यते। यथाभूतवादि हि शास्त्रम्। यथा माहारजनं वास: – वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णम् इति प्रकरणान्तरनिर्देशात् इति। साक्षिण इति हिरण्मय इति रूपसामान्याच्चन्द्रमुखवत् इति च वाक्यम्। तच्च व्याख्यातं तैरेव – न मयडत्र विकारमादाय प्रयुज्यते, अनारभ्यत्वादात्मन इत्यादिना। अत: प्रधानात् प्रत्यगात्मनश्चार्थान्तरभूतो निरुपाधिकविपश्चिदनवधिकातिशयानन्दोऽप्राकृतस्वासाधारणदिव्यरूप: पुरुषोत्तम: परं ब्रह्म जगत्कारणमिति वेदान्तै: प्रतिपाद्यत इति निरवद्यम्॥२१॥

२२। भेदव्यपदेशाच्चान्य: – य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं  य आदित्यमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम्, यश्चक्षुषि तिष्ठन् य आत्मनि तिष्ठन् इत्यध्यात्मम्,  यस्सर्वेषु लोकेषु तिष्ठन्नित्यधिलोकम्, यस्सर्वेषु भूतेषु तिष्ठन्नित्यधिभूतम्, यस्सर्वेषु वेदेषु तिष्ठन्नित्यधिवेदम्, यस्सर्वेषु यज्ञेषु तिष्ठन्नित्यधियज्ञम् इत्यन्तर्यामिब्राह्मणे, सुबालोपनिषदि च य: पृथिवीमन्तरे सञ्चरन् इत्यारभ्य योऽव्यक्तमन्तरे सञ्चरन्, योऽक्षरमन्तरे सञ्चरन्, यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरम् यं मृत्युर्न वेद एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: इति सर्वदेवसर्वलोकसर्वभूतसर्ववेद-सर्वयज्ञसर्वात्मोपरिवर्तमानतया तत्तच्छरीरतया तत्तदन्तरात्मतया तत्तदवेद्यतया तत्तन्नियन्तृतया चैभ्यस्सर्वेभ्य: भेदव्यपदेशाच्चायमपहतपाप्मा नारायण: प्रधानात्प्रत्यगात्मनश्चार्थान्तरभूतो निखिलजगदेककारणमिति सिद्धम्॥२२॥

१-१-८,९

२३,२४। आकाशस्तल्लिङ्गात्, अत एव प्राण: – सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमेवाभ्युज्जिहते इत्यादौ। सदेव सोम्येदमग्र आसीत् इत्यादिना सामान्येन निर्दिष्टस्य जगत्कारणस्य भूताकाशप्राणसहचारिजीववाचिशब्दाभ्यां विशेषनिर्णयशङ्कायाम् सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात् भूताकाशजीवाभ्यामर्थान्तरभूत: परमपुरुष एवात्र आकाशप्राणशब्दनिर्दिष्ट इति निश्चीयते। तत्प्रसिद्धिस्तु – बहुभवनरूपेक्षणानवधिकातिशयानन्दजीवानन्दहेतुत्व-विज्ञानमयविलक्षणत्व-निखिलभुवनभयाभयहेतुत्व-सर्वलोकसर्वकामेशत्व-सर्वपाप्मोदयाप्राकृत= स्वासाधरणरूपविशिष्टस्य रविकरविाकसितपुण्डरीकनयनस्य सर्वज्ञस्य सत्यसङ्कल्पस्य करणाधिपाधिपस्य परमपुरुषस्यैव निखिलजगदेककारणत्वादिति स एव आकाशप्राणशब्दाभ्यां जगत्कारणत्वेनाभिधीयत इति निर्णयो युक्त एव॥२३,२४॥ आकाशाधिकरणम्, प्राणाधिकरणम् च॥ ८,९॥

१-१-१०

२५। ज्योतिश्चरणाभिधानात् – अथ यदत: परो दिवो ज्योतिर्दीप्यते विश्वत: पृष्ठेषु सर्वत: पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु इदं वा व तद्यदिदमस्मिन्नन्त: पुरुषे ज्योति: इत्यत्र सर्वस्मात्परत्वेन निर्दिश्यमानतया सकलकारणभूतज्योतिष: कौक्षेयज्योतिषैक्याभिधानात्, स्ववाक्ये विरोधिलिङ्गादर्शनाच्च, प्रसिद्धमेव ज्योतिर्जगत्कारणत्वेन प्रतिपाद्यत इति शङ्कायाम्, यद्यपि स्ववाक्ये विरोधिलिङ्गं न दृश्यते। तथाऽपि पूर्वस्मिन् वाक्ये पादोऽस्य विश्वाभूतानि, त्रिपादस्यामृतं दिवि इति प्रतिपादितस्य सर्वभूतचरणस्य परमपुरुषस्यैव द्युसंबन्धितयाऽत्रापि प्रत्यभिज्ञानात् स एव ज्योतिश्शब्देन सर्वस्मात्परत्वेन सकलकारणतयाऽभीधीयते। अस्य च कौक्षेयज्योतिषैक्याभिधानं फलायोपदिश्यत इति न कश्चिद्विरोध:। अखिलजगदेककारणभूत: परमपुरुषोऽप्राकृतस्वासाधारण- दिव्यवर्णो दिव्यरूपस्तमस: परस्ताद्वर्तत इति तस्यैव निरतिशयदीप्तियोगात् ज्योतिश्शब्दाभिधेयत्वं विश्वत: पृष्ठेषु सर्वत: पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु वासश्च युज्यते॥२५॥

२६। छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगमात्तथा हि दर्शनम् – पूर्वत्र गायत्री वा इदं सर्वम् इति गायत्र्याख्यच्छन्द: प्रस्तुतमिति नात्र परमपुरुषाभिधानमिति चेत्, नैतत्, परमपुरुषस्यैव गायत्रीसादृश्यस्यानुसन्धानोपदेशत्वात्, तस्य छन्दोमात्रस्य सर्वभूतात्मकत्वानुपपत्तेरेवेति निगम्यते। अन्यत्रापि ह्यन्यस्य छन्दस्सादृश्यात् छन्दोनिर्देशो दृश्यते ते वा एते पञ्चान्ये इत्यारभ्य सैषा विराट् इत्यादौ   ॥२६॥

२७। भूतादिपादव्यपदेशोपपत्तेश्चैवम् – भूतपृथिवीशरीरहृदयैश्चतुष्पदेति व्यपदेशश्च परमपुरुषे गायत्रीशब्दनिर्दिष्टे ह्युपपद्यत इति पूर्वोक्तप्रकार एव समञ्जस:॥२७॥

२८। उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् – पूर्वत्र त्रिपादस्यामृतं दिवि इति परमपुरुषो व्यपदिश्यते। अत्र अथ यदत: परो दिव: इति पञ्चम्या निर्दिष्ट: द्युसम्बन्धिज्योतिरिति न प्रत्यभिज्ञेति चेत्, नैतत्, उभयस्मिन्नपि व्यपदेशे विरोधाभावात्, यथा वृक्षाग्रे श्येन:, वृक्षाग्रात्परतश्श्येन: इति व्यपदेश:। अत्र दिव: परत्वमेव उभयत्र विवक्षितमित्यर्थ:॥२८॥ इति ज्योतिरधिकरणम् ॥१०॥

१-१-११

२९। प्राणस्तथानुगमात् – आत्मनां हिततमरूपमोक्षसाधनोपासन कर्मतया प्रज्ञात जीवभावस्य इन्द्रस्य प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति विधानात् स एव जगत्कारणम्। कारणोपासनं हि मोक्षसाधनम्। तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये इति श्रुतेरिति नाशङ्कनीयम्। प्राणशब्दसमानाधिकरणेन्द्रशब्दनिर्दिष्टो जीवादर्थान्तरभूत: उक्तलक्षण: परमात्मैव। कुत:? तथाऽनुगमात् – परमात्मासाधारणानन्दाजरामृतादिष्वस्य इन्द्रप्राणशब्दनिर्दिष्टस्यानुगमो हि दृश्यते  स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृत इति॥२९॥

३०। न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् –  उपक्रमे हि मामेव विजानीहि इति त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्य इन्द्रस्योपदेशात्, उपसंहारस्तदनुगुणो वर्णनीय इति चेत्, नैतत् अध्यात्मसंबन्धभूमा ह्यस्मिन् । अध्यात्मम् – परमात्मधर्म:। परमात्मधर्मसंबन्ध- बहुत्वमस्मिन्निन्द्रशब्दाभिधेये वाक्योपक्रमप्रभृत्योपसंहाराद्दृश्यते। यं त्वं मनुष्याय हिततमं मन्यसे इति हिततमोपासनं प्रारब्धम्। तच्च परमात्मधर्म:। तमेवं विद्वानमृत इह भवति, नान्य: पन्था: इत्यादिश्रुते:। तथा एष एव साधु कर्म कारयति इत्यादिना सर्वस्य कारयितृत्वम्। एवमेवैता भूतमात्रा: इत्यारभ्य प्रज्ञामात्रा: प्राणेष्वर्पिता: इति सर्वाधारत्वं, तथाऽऽनन्दादयश्च; एष लोकाधिपति: इत्यादिना सर्वेश्वरत्वं च॥३०॥

३१। शास्त्रदृष्ट्या तूपदेशे वामदेववत् –  नामरूपव्याकरणादिशास्त्रात् सर्वशब्दै: परमात्मैवाभिधीयत इति दृष्ट्या तज्ज्ञापनायायमिन्द्रशब्देनपरमात्मोपदेश:। शास्त्रस्था हि वामदेवादय: तथैव वदन्ति – तद्धैतत्पश्यन् ऋषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्च इति॥३१॥

३२। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् – त्रिशीर्षाणं त्वाष्ट्रमहनम्, यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायु: इत्यादिजीवलिङ्गं मुख्यप्राणलिङ्गं चास्मिन् दृश्यते इति नैवमिति चेन्न। उपासात्रैविध्यात् हेतो:, जीवशब्देन प्राणशब्देन च परमात्मनोऽभिधानम्। अन्यत्रापि परमात्मन: स्वरूपेणोपासनं भोक्तृशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन इति त्रिविधं परमात्मोपासनमाश्रितम्। यथा सत्यं ज्ञानमनन्तं ब्रह्म इति स्वरूपेण, तदनुप्रविश्य, सच्चत्यच्चाभवत् इत्यादि सत्यं चानृतञ्च सत्यमभवत् इतिभोक्तृशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन च; इहापि तत्संभवादेवमुपदेश:, जन्माद्यस्य यत: इत्यादिषु सद्ब्रह्मात्मेति सामान्यशब्दैर्हि जगत्कारणं प्रकृतिपुरुषाभ्यामर्थान्तरभूतमिति साधितम्, ज्योतिश्चरणाभिधानात् इत्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगत्कारणमिति  विशेषतो निर्णीतम्। स एव प्रज्ञातजीववाचिभिरिन्द्रादिशब्दैरपि क्वचित्क्वचिच्छास्त्र- दृष्ट्या तत्तच्छरीरकतया चोपास्यत्वायोपदिश्यत इति शास्त्रदृष्ट्यातूपदेशो वामदेववत् इति उपासात्रैविध्यात् इति साधितम्॥३२॥ इति इन्द्रप्राणाधिकरणम् ॥ ११ ॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमाध्याये प्रथम: पाद: ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.