श्रीवेदान्तसार: Ady 04 Pada 01

श्रीवेदान्तसार:

अथ श्रीवेदान्तसारे चतुर्थाध्याये प्रथम: पाद:

४७०। आवृत्तिरसकृदुपदेशात्ब्रह्मविदाप्नोति परम् इत्यादिषु मोक्षसाधनं वेदनमसकृदावृत्तम्, विद्यात्, उपासीत इति विद्युपास्योरुपक्रमोपसंहारयोर्व्यतिकरेणोपदेशात्॥१॥

४७१। लिङ्गाच्च – लिङ्गं स्मृति:, मां ध्यायन्त उपासते, तेषामहं समुद्धर्ता मृत्युसंसार सागरात्, तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा, तद्ध्यानं इत्यादिस्मृतेश्च॥२॥ इति आवृत्त्यधिकरणम्॥१॥

४७२। आत्मेति तूपगच्छन्ति ग्राहयन्ति – यद्यपि अधिकं तु भेदनिर्देशात्, अधिकोपदेशात् इत्यादिषु प्रत्यगात्मनोऽर्थान्तरत्वं ब्रह्मण: प्रतिपादितम्, तथाऽप्युपासिता अहं ब्रह्मास्मि इत्येवोपासीत, यत: पूर्वे उपासितार: त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते इत्यात्मेत्येवोपगच्छन्ति। उपासितुरर्थान्तरमपि ब्रह्म तानुपासितॄन् स्वात्मभूतं ग्राहयन्ति शास्त्राणि आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा वेद यस्यात्मा शरीरं यमात्मानमन्तरो यमयति आत्माऽन्तर्याम्यमृत इत्यादीनि। यथा मनुष्योऽहमिति मनुष्यशरीरस्य स्वात्मप्रकारतैकस्वभावतया प्रकारिणि स्वात्मनि अहं शब्दस्य तद्बुद्धेश्च पर्यवसानम्, तथा स्वात्मनोऽपि परमात्मशरीरतया तत्प्रकारस्वभावत्वेन अहं शब्दतद्बुद्ध्यो: परमात्मनि पर्यवसानमिति अहं ब्रह्म इत्येवोपास्यमिति॥३  इति आत्मत्वोपासनाधिकरणम्

            ४७३। प्रतीके हि :मनो ब्रह्म इत्यादि प्रतीके तु नात्मेति ग्रहणम्। न हि तत्र स: – परमात्मोपास्य:, परमात्मदृष्ट्या हि मन: प्रभृतीति॥४॥

४७४। ब्रह्मदृष्टिरुत्कर्षात् – ब्रह्मण उत्कृष्टत्वात्तद्दृष्ट्या मन आद्युपासनं ह्यभ्युदयाय भवतीति॥५॥  इति प्रतीकाधिकरणम् ॥३॥

४७५। आदित्यादिमतयश्चाङ्ग उपपत्ते: – एवासौ तपति तमुद्गीथमुपासीत इत्यादावपि आदित्यादेरेवोत्कृष्टत्वात् उद्गीथादौ तद्दृष्टय: कार्या:॥६॥  इति आदित्यादिमत्यधिकरणम् ॥४॥

४७६। आसीनस्संभवात् – आसीन उपासनं कुर्यात्, तस्यैवैकाग्र्यसंभवात्॥७॥

४७७। ध्यानाच्च – निदिध्यासितव्य इत्युपासनस्य ध्यानरूपत्वाच्चासीन:॥८॥

४७८। अचलत्वं चापेक्ष्य – पृथिव्यादेरचलत्वं चापेक्ष्य। ध्यायतीव पृथिवी इति प्रयोगात्। मनसो निश्चलत्वमासीनस्यैव॥९॥

४७९। स्मरन्ति – उपविश्यासने युञ्ज्यात्  इत्यादिना॥१०॥

४८०। यत्रैकाग्रता तत्राविशेषात् – यत्रैकाग्रता तत्र देशे तत्र काले उपासीतेति, देशकालविशेषाश्रवणात्॥११  इति आसीनाधिकरणम्

            ४८१। आप्रयाणात्तत्रापि हि दृष्टम् – अप्रयाणादहरहरुपासनं कार्यम्। खल्वेवं वर्तयन्यावदायुषं इति दर्शनात्॥१२॥

४८२। तदधिगम उत्तर पूर्वाघयोरश्लेष विनाशौ तद्व्यपदेशात् – उपासने प्रारब्धे तत्सामर्थ्यादेव पूर्वकृताघनाश:, उत्तराघाश्लेषश्च भवति। एवं  हास्य सर्वे पाप्मान: प्रदूयन्ते, एवमेवं विदि पापं कर्म श्लिष्यते इति श्रुते:॥१३॥  इति तदधिगमाधिकरणम् ॥७॥

४८३। इतरस्याप्येवमश्लेष: पाते तु – विदुष: पुण्यस्यापि मोक्षविरोधित्वेनानिष्टफलत्व- साम्यादेवमश्लेषविनाशौ, वृष्ट्यन्नायुरारोग्यादिविद्यानुगुणफलस्य कर्मण: शरीरपातादूर्ध्वं अफलत्वम्॥१४॥  इति इतराधिकरणम् ॥८॥

४८४। अनारब्धकार्ये एव तु पूर्वे तदवधे:  – विद्याधिगते: पूर्वकृते पुण्यपापे फलदानायाप्रवृत्ते एव विनश्यत:, तस्य तावदेव चिरं इति शरीरपातावधिश्रुते:॥१५॥  इति अनारब्धकार्याधिकरणम्॥९॥

१०

४८५।  अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् – अग्निहोत्राद्याश्रमकर्म, विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयम्। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिना विद्योत्पत्तिकार्यत्वं ह्याश्रमधर्मस्य दृष्टम्॥१६॥

४८६। अतोऽन्याऽपि ह्येकेषामुभयो: – तस्य पुत्रा दायमुपयन्ति। द्विषन्त: पापकृत्यां सुहृदस्साधुकृत्याम् इत्यादिवचनस्याग्निहोत्रादेरन्याऽप्यनादिकालप्रवृत्ता साधुकृत्या प्रबलकर्मप्रतिबद्ध-फला, उत्तरा वृष्ट्यन्नादिविद्यानुगुणफला प्रतिबद्धा चेति पूर्वोत्तरकृतयोरुभयोरप्यस्त्येव विषय:॥१७॥

४८७। यदेव विद्ययेति हियदेव विद्यया इत्यत्र फलप्रतिबन्धोऽस्तीति ह्युक्तम्॥१८॥

११

४८८। भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते –  आरब्धकार्ययो: पुण्यपापेयोर्यत्फलम्, तत् एकशरीरावसानमनेकशरीरावसानं वा भुक्त्वैव तदनन्तरं ब्रह्म प्राप्नोति॥१९॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य प्रथम: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.