श्रीवेदान्तसार: Ady 01 Pada 04

श्रीभगवद्रामानुजविरचित:

श्रीवेदान्तसार:

प्रथमाध्याये चतुर्थ: पाद:

११०। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च एकेषां कठानां शाखायाम् आनुमानिकं प्रधानमपि, जगत्कारणत्वेन, महत: परमव्यक्तम् इत्युच्यत इति चेत्,, पूर्वत्र आत्मानं रथिनं विद्धि इत्यादिषूपासनोपायेषु वशीकार्यत्वाय रथिरथादिरूपकविन्यस्तेषु शरीराख्यरूपकविन्यस्तस्यात्राव्यक्तशब्देन गृहीते:। इन्द्रियेभ्य: परा ह्यर्था: इत्यादिना हि वशीकार्यत्वेन हि परा उच्यन्ते तथा चोत्तरत्र श्रुतिरेव दर्शयति यच्छेद्वाङ्मनसी प्राज्ञ: इत्यादिना॥१॥

१११। सूक्ष्मं तु तदर्हात्वात् सूक्ष्मम् अव्यक्तमेव शरीरावस्थं कार्यार्हामित्यव्यक्तशब्देन शरीरमेव गृह्यते॥२॥

यदि रूपकविन्यस्तानामेव ग्रहणं, किमर्थम् अव्यक्तात्पुरुष: पर: इत्यत आह

११२। तदधीनत्वादर्थवत् पुरुषाधीनत्वादात्मशरीरादिकम्, अर्थवत् उपासननिर्वृत्तये भवति। पुरुषो ह्यन्तर्यामी सर्वमात्मादिकं प्रेरयन्, उपासनोपायत्वेन वशीकार्यकाष्ठा प्राप्यश्चेति सा काष्ठा सा परा गति: इत्युच्यते॥३॥

११३। ज्ञेयत्वावचनाच्च अत्राव्यक्तस्य ज्ञेयत्वावचनाच्च न कापिलमव्यक्तम्॥४॥

११४। वदतीति चेन्न प्राज्ञो हि प्रकरणात् अशब्दमस्पर्शम् इत्यारभ्य निचाय्य तम् इति वदतीति चेन्न तद्विष्णो: परमं पदम्, एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते इत्यादिना प्रकृत: प्राज्ञो हि निचाय्य तम् इति ज्ञेय उच्यते ॥५॥

११५। त्रयाणामेव चैव मुपन्यास: प्रश्नश्च उपास्योपासनोपासकानां त्रयाणामेवास्मिन्प्रकरणे ज्ञेयत्वेन उपन्यास: प्रश्नश्च न प्रधानादे:। अध्यात्मयोगाधिगमेन देवं मत्वा इत्यादिरुपन्यास:, येयं प्रेते विचिकित्सामनुष्ये अस्तित्येके इत्यादिकश्च प्रश्न: ॥६॥

११६। महद्वच्च बुद्धेरात्मा महान्पर: इत्यात्मशब्दाद्यथा न तान्त्रिको महान् तथाऽव्यक्तमपीति॥७॥ इति आनुमानिकाधिकरणम् ॥ १ 

११७। चमसवदविशेषात् अजामेकां, बह्वी: प्रजास्सृजमानाम् इत्यत्र न तन्त्रसिद्धा प्रकृति: कारणत्वेनोक्ता। जन्माभावयोगमात्रेण न तस्या एव प्रतीति:, अर्वाग्बिलश्चमस: इतिवत् प्रकरणे विशेषकाभावात्। यथेदं तच्छिर इति हि चमसो विशेष्यते यौगिकशब्दाद्विशेषप्रतीतिर्हि विशेषकापेक्षा॥८॥

११८। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ज्योति: ब्रह्म, ब्रह्मकारणिका इयमजा, तथा हि ब्रह्मकारणिकया एव प्रतिपादकमेतत्सरूपमन्त्रं च तैत्तिरीया अधीयते। अणोरणीयान्महतो महीयान् इत्यारभ्य, अतस्समुद्रा गिरयश्च इत्यादिना सर्वस्य ब्रह्मण उत्पत्त्या तदात्मकत्वप्रतिपादनसमये अजामेकाम् इति पठन्ति। अतस्तत्प्रत्यभिज्ञानादियं ब्रह्मकारणिकेति निश्चीयते ॥९॥

११९।    कल्पनोपदेशाच्च मध्वादिवदविरोध: कल्पना सृष्टि:, यथा सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति। अस्मान्मायी सृजते विश्वमेतत् इत्यादिना सृष्ट्युपदेशात् अजात्व ब्रह्मकार्यत्वयोरविरोधश्च, प्रलयकाले नामरूपे विहाय अचिद्वस्त्वपि सूक्ष्मरूपेण ब्रह्मशरीरतया तिष्ठतीत्यजात्त्वं, सृष्टिकाले नामरूपे भजमाना प्रकृति: ब्रह्मकारणिका। यथा आदित्यस्य सृष्टिकाले वस्वादिभोग्यरसाधारतया मधुत्वं कार्यत्वञ्च, तस्यैव प्रलयकाले मध्वादिव्यपदेशानर्ह-सूक्ष्मरूपेण अवस्थानमकार्यत्वञ्च मधुविद्यायां प्रतीयते असौ वा आदित्यो देवमधु, नैवोदेता नास्तमेता एकल एव मध्ये स्थाता इति, तद्वत् ॥१०॥  इति चमसाधिकरणम् ॥ २ ॥

१२०। न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च यस्मिन्पञ्चपञ्चजना: इत्यत्र पञ्चविंशतिसङ्ख्योपसङ्ग्रहादपि न तान्त्रिकाण्येतानि, यस्मिन् इति यच्छब्दनिर्दिष्टब्रह्माधारतया तेभ्य: पृथग्भावात्, एतेषां तत्त्वातिरेकाच्च, यच्छब्दनिर्दिष्टमाकाशश्चेति द्वयमतिरिक्तम्। संख्योपसंग्रहादपि इत्यपिशब्दान्नात्र पञ्चविंशतिसंख्यासंग्रह:, दिक्संख्ये संज्ञायाम् इति संज्ञाविषयोऽयं पञ्चजना इति। पञ्चजना नाम केचित्, ते पञ्चपञ्चजना इत्युच्यन्ते। सप्तसप्तर्षय: इतिवत् ॥११॥

१२१। प्राणादयो वाक्यशेषात् पञ्चजनसंज्ञिता: प्राणादय: पञ्चेन्द्रियाणीति प्राणस्य प्राणमुत चक्षुषश्चक्षु: इत्यादि वाक्यशेषादवगम्यते। चक्षुश्श्रोत्रसाहचर्यात् प्राणान्नशब्दावपि स्पर्शनादीन्द्रियविषयौ॥१२॥

१२२। ज्योतिषैकेषामसत्यन्ने एकेषां शाखिनां काण्वानाम् अन्नस्यान्नम् इत्यसति तं देवा ज्योतिषां ज्योति: इत्युपक्रमगतेन ज्योतिश्शब्देन पञ्चपञ्चजना: इन्द्रियाणीति ज्ञायन्ते। ज्योतिषां ज्योति: प्रकाशकानां प्रकाशकं ब्रह्मेत्युक्त्वा, अनन्तरं पञ्च पञ्चजना: इत्युक्ते: प्रकाशकानि पञ्चेन्द्रियाणीति गम्यते॥१३॥ इति संख्योपसङ्ग्रहाधिकरणम् ॥३॥

१२३। कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते: आकाशादिषु कार्यवर्गेषु कारणत्वेन सर्वत्र वेदान्तवाक्येषु असद्वा इदमग्र आसीत्, तद्धेदं तर्ह्यव्याकृतमासीत् इत्यादिष्वनिर्ज्ञातविशेषेषु आत्मा वा इदमेक एवाग्र आसीत्, स ईक्षत लोकान्नु सृजै इति विशेषवाचिवाक्यनिर्दिष्टस्यैवोक्ते:, न तान्त्रिकाव्याकृतादिकारणवादप्रसङ्ग:॥१४॥

१२४। समाकर्षात् सोऽकामयत, बहु स्यां प्रजायेय इति पूर्वनिर्दिष्टस्यैव सर्वज्ञस्य असद्वा इदमग्र आसीत् इत्यत्र समाकर्षाच्च स एवेति गम्यते। तद्धेदं तर्ह्यव्याकृतमासीत् इति निर्दिष्टस्यैव स एष इह प्रविष्ट: आनखाग्रेभ्य:, पश्यत्यक्षु: इत्यत्र समाकर्षात् एष एवाव्याकृत इति निश्चीयते। असदव्याकृतशब्दौ हि तदानीं नामरूपविभागाभावादुपपद्येते॥१५॥  इति कारणत्वाधिकरणम् ॥४॥

१२५। जगद्वाचित्वात् ब्रह्म ते ब्रवाणि इत्युपक्रम्य यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वै वेदितव्य: इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरण्येन क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम्॥१६॥

१२६। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् एतैरात्मभिर्भुङ्क्ते, अथास्मिन्प्राण एवैकधा भवति इति च जीवादिलिङ्गान्न पर इति चेत्, एतत् प्रतर्दनविद्यायामेव परिहृतम् पूर्वापरपर्यालोचनया ब्रह्मपरत्वे निश्चिते तदनुगुणतया नेयमन्यल्लिङ्गमिति॥१७॥

१२७।    अन्यार्थं तु जैमिनि: प्रश्नव्याख्यानाभ्यामपि चैवमेके तौ ह सुप्तं पुरुषमाजग्मतु: इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं तदतिरिक्तपरमात्मसद्भावज्ञापनार्थमिति क्वैष एतद्बालके पुरुषोऽशयिष्ट इति प्रश्नात् अथास्मिन्प्राण एवैकधा भवति, सता सोम्य तदा संपन्नो भवति इति वाक्यसमानार्थकात् प्रतिवचनाच्चावगम्यते। एके वाजसनेयिनोऽपि, एतत्प्रतिवचनरूपं वाक्यं स्पष्टमधीयते च, क्वैष एतत् इत्यादि य एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते इत्यन्तम्॥१८॥ इति जगद्वाचित्वाधिकरणम् ॥ ५ ॥

१२८। वाक्यान्वयात् न वा अरे पत्यु: कामाय पति: प्रियो भवति आत्मनस्तु कामाय इत्यारभ्य आत्मा वा अरे द्रष्टव्य इत्यादिनोपदिष्ट: परमात्मा, अमृतत्वस्य तु नाशाऽस्ति वित्तेन इत्यारभ्य। आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इत्यादि येनेदं सर्वं विजानाति इत्यन्तस्य कृत्स्नस्य वाक्यस्य परमात्मन्येवान्वयात्॥१९॥

अस्मिन्प्रकरणे प्रकरणान्तरे च जीववाचिशब्देन परमात्मनोऽभिधाने, तत्सामानाधिकरण्ये च कारणं मतान्तरेणाह

१२९। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य: आत्मनि खल्वरे दृष्टे इत्यादिना परमात्मज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये जीवस्य तत्कार्यतया तस्मादनतिरिक्तत्वं ज्ञापयितुं जीवशब्देन परमात्माभिधानमिति आश्मरथ्य:॥२०॥

१३०। उत्क्रमिष्यत एवं भावादित्यौडुलोमि: उत्क्रमिष्यत: मुक्तस्य, परमात्मस्वरूप भावादात्मशब्देन परमात्माभिधानमिति औडुलोमि:॥२१॥

१३१। अवस्थितेरिति काशकृत्स्न: य आत्मनि तिष्ठन्नात्मनोऽन्तर इत्यादिना जीवात्मनि परमात्मन आत्मतया अवस्थितेरिति काशकृत्स्न्नाचार्यो मन्यते। इदमेव मतं सूत्रकारस्स्वीकृतवानिति मतद्वयमुपन्यस्य तद्विरोध्येतदभिधानादन्यस्यानभिधानाच्च निश्चीयते॥२२॥  इति वाक्यान्वयाधिकरयणम् ॥६॥

१३२। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् जगदुपादानकारणमपि परं ब्रह्म न निमित्तमात्रम्, स्तब्धोऽस्युत तमादेशमप्राक्ष्य: येनाश्रुतं श्रुतं भवति इति येनादेष्ट्रा निमित्तभूतेन विज्ञातेन, चेतनाचेतनात्मकं  कृत्स्नं जगद्विज्ञातं भवतीति आदेष्टृ विज्ञानेन सर्वविज्ञानप्रतिज्ञा तदुपपादनरूपमृत्कार्यदृष्टान्तानुपरोधात्, आदिश्यते अनेनेत्यादेश इत्यादेशशब्देनादेष्टाभिधीयते। आदेश: प्रशासनम्, एतस्य वा अक्षरस्य प्रशासने गार्गी इत्यादिश्रुते:॥२३॥

१३३। अभिध्योपदेशाच्च तदैक्षत बहु स्यां प्रजायेय इति निमित्तभूतस्येक्षितु: विचित्र चिदचिद्रूपेण जगदाकारेणात्मनो बहुभवनसङ्कल्पोपदेशाच्च, उपादानमपीति विज्ञायते॥२४॥

१३४। साक्षाच्चोभयाम्नानात् ब्रह्मवनं ब्रह्म स वृक्ष आसीत्, ब्रह्माध्यतिष्ठद्भुवनानि धारयन् इति उपादानं निमित्तं च ब्रह्मैवेति स्वशब्देन उभयाम्नानाच्च॥२५॥

१३५।    आत्मकृते: सोऽकामयत इति निमित्तभूतस्य स्वस्यैव जगदाकारेण कृते: तदात्मानं स्वयमकुरुत इत्युपदिश्यमानाया:, परमपुरुषो जगन्निमित्तमुपादानं चेति विज्ञायते॥२६॥

परस्य ब्रह्मणो निरवद्यसत्यसङ्कल्पत्वादे: तद्विपरीतानन्तापुरुषार्थाश्रयजगदाकारेण आत्मकृतेश्च अविरोध: कथमित्याशङ्क्याह

१३६।    परिणामात् अत्रोपदिश्यमानात् परिणामात् तदविरोध एव । अविभक्तनामरूपाति सूक्ष्मचिदचिद्वस्तुशरीरक: कारणावस्थ: परमपुरुषस्स्वयमेव सोऽकामयत बहु स्यां प्रजायेय इति विभक्तनामरूपचिदचिद्वस्तु शरीरको भवेयम् इति सङ्कल्प्य, इदं सर्वमसृजत यदिदं किंच इति स्वशरीरभूतमतिसूक्ष्मं चिदचिद्वस्तु स्वस्माद्विभज्य तत्सृष्ट्वा तदेवानुप्राविशत् इति स्वस्माद्विभक्ते चिदचिद्वस्तुनि स्वयमेवात्मतयाऽनुप्रविश्य, सच्च त्यच्चाभवत्, निरुक्तं चानिरुक्तं च, निलयनं चानिलयनं च, विज्ञानं चाविज्ञानं च, सत्यं चानृतं च सत्यमभवत् इति हि स्वस्य बहुभवनरूपपरिणाम उपदिश्यते, अतो न कश्चिद्विरोध:। अविभागावस्थायामपि जीवस्तत्कर्म च सूक्ष्मरूपेण तिष्ठतीति वक्ष्यति न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च इति॥२७॥

१३७। योनिश्च हि गीयते यद्भूतयोनिम् इत्यादिषु योनिश्च गीयते, अतश्चोपादानमपि ॥२८॥  इति प्रकृत्यधिकरणम् ॥ ७ ॥

१३८। एतेन सर्वे व्याख्याता व्याख्याता: जन्माद्यस्य यत इत्यादिना एतदन्तेन न्यायेन सर्वे वेदान्ता: ब्रह्मपरा व्याख्याता:। द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय॥२९॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमाध्यायस्य चतुर्थ: पाद:

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.