श्रीवेदान्तसार: Ady 04 Pada 04

श्रीवेदान्तसार:

अथ चतुर्थाध्याये चतुर्थ: पाद:

५२४। सम्पद्याविर्भावस्स्वेन शब्दात्एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रुपेणाभिनिष्पद्यते, इति सिद्धस्यैव प्रत्यगात्मस्वरूपस्य अनादिकर्मणा तिरोहितस्य परंज्योतिरुपसंपद्याविर्भाव उच्यते। स्वेन रूपेण इति विशिष्याभिधानात्॥१॥

५२५। मुक्त: प्रतिज्ञानात् – आत्मस्वरूपमात्रस्य प्रागेव सिद्धत्वेऽपि कर्मबन्धविनिर्मुक्ता- परिच्छिन्नज्ञानादिस्वरूपस्य ह्यत्राविर्भाव उच्यते। एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, इति जागरिताद्यवस्था तिरोधानविनिर्मुक्तस्यैव वक्तव्यतया प्रतिज्ञानात्॥२॥

५२६। आत्मा प्रकरणात्भूयोऽनुव्याख्यास्यामि इति प्रकृतापहतपाप्मत्वादिगुणक आत्मेति प्रकरणादवगम्यते, आत्माऽपहतपाप्मा इत्यारभ्य, सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्य:, इति प्रकृत्य, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इत्युक्तम्॥३॥  इति सम्पद्याविर्भावाधिकरणम्

५२७। अविभागेन दृष्टत्वात् – आविर्भूतस्वरूपोऽयं मुक्तात्मा स्वात्मशरीरकं परं ब्रह्म स्वात्मनोऽप्यात्मतया अहं ब्रह्मास्मीत्यविभागेनैवानुभवति आत्मेति तूपगच्छन्ति ग्राहयन्ति इति तथारूपोपासनेन तथाविधस्वरूपस्य दृष्टत्वात्, आत्मनि तिष्ठन्, यस्यात्मा शरीरम् आत्मा, तत्त्वमसि इत्यादिशास्त्रसिद्धमेव ह्युपासितम्॥४॥  इति अविभागेन दृष्टत्वाधिकरणम् ॥२॥

५२८। ब्राह्मेण जैमिनिरुपन्यासादिभ्य: – अस्य स्वरूपाविर्भाव: ब्राह्मेण – अपहतपाप्मत्वादि-गुणकस्वरूपेण। ते हि ब्रह्मगुणा: प्रत्यगात्मनोऽपि स्वाभाविका गुणा इति। आत्माऽपहतपाप्मा इत्यारभ्य उपन्यासादिभ्य: अवगम्यते। एव जक्षत्क्रीडन्रममाण:, इत्यादिनोच्यन्ते, इति जैमिनेर्मतम्॥५॥

५२९। चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: – विज्ञानघन एव इत्यवधारणात् विज्ञानमात्र-स्वरूप इत्यौडुलोमि:॥६॥

५३०। एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायण: – विज्ञानघन एव स्वप्रकाशस्वात्मस्वरूप इत्यवगतेऽपि, आत्माऽपहतपाप्मा, इत्युपन्यासादिना पूर्वेषामपहतपाप्मत्वादीनामपि सद्भावावगमादुभयश्रुत्यवगतोभयस्वरूपस्य परस्परविरोधाभावाद्रूपद्वयं नान्योन्यपरिहारीत्युभयरूप-समुच्चयं भगवान्बादरायणो मेने ॥७॥  इति ब्राह्माधिकरणम्

५३१। सङ्कल्पादेव तच्छ्रुते: – यदि पितृलोककाम इत्यादिनाऽवगता: पित्रादय:। सङ्कल्पादेवास्य इति श्रुतेस्सङ्कल्पादेव भवन्ति। यथा परमपुरुषस्य लीलाप्रवृत्तस्य दशरथ- वसुदेवादयस्सङ्कल्पादेव भवन्ति। एवमेव परमपुरुषलीलान्तर्गतस्य मुक्तस्यापि तदुपकरणभूता: पित्रादयस्सङ्कल्पादेव भवन्तीत्यर्थ:॥८॥

५३२। अत एव चानन्याधिपति: – अत एव – अपहतपाप्मा ….. सत्यसङ्कल्प: इत्यादि श्रुते:, न कदाचिदपि कर्माधीनोऽयम्॥९॥  इति सङ्कल्पाधिकरणम्

            ५३३। अभावं बादरिराह ह्येवम् – तस्य देहेन्द्रियाद्युपकरणाभावं बादरिर्मेने। वै सशरीरस्य इत्यादिर्हि तदभावमाह॥१०॥

५३४। भावं जैमिनिर्विकल्पामननात्एकधा भवति इत्यादिना देहेन्द्रियादिभिर्विविधता – श्रुते:, देहाद्युपकरणसद्भावं जैमिनिर्मेने॥११॥

५३५। द्वादशाहवदुभयविधं बादरायणोऽत: –  उभयश्रुतेस्सशरीरत्वमशरीरत्वं चेच्छात:, यथा द्वादशाहे उभयश्रुतेस्सत्रमहीनं च भवति॥१२॥

५३६। तन्वभावे सन्ध्यवदुपपत्ते: – स्वेनैव सृष्टतन्वाद्यभावे, स्वप्ने, अथ रथान् रथयोगान् पथस्सृजते इति परमपुरुषसृष्टैर्भोगवत् मुक्तोऽपि परमपुरुषसृष्टैरेव लीलारसं भुङ्क्ते॥१३॥

५३७। भावे जाग्रद्वत् – स्वेनैव सृष्टोपकरणभावे जाग्रत्पुरुषवत् भुङ्क्ते॥१४॥

५३८। प्रदीपवदावेशस्तथाहि दर्शयति – एकदेशस्थितस्यपि स्वप्रभारूपज्ञानव्याप्त्या सर्वानुभवस्सिद्ध्यति वालाग्रशतभागस्य इत्यारभ्य चानन्त्याय कल्पते इति हि दर्शयति॥१५॥

५३९। स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हिप्राज्ञेनात्मना संपरिष्वक्तो बाह्यं किञ्चन वेद नान्तरम् इति वेदनाभाववचनं सुषुप्तिमरणयोरन्यतरापेक्षमित्युक्तम्। नाह खल्वयमेवं संप्रत्यात्मानां जानात्ययमहमस्मि इत्यादिना सुषुप्त्यादावकिञ्चिज्ज्ञत्वमाविष्कृतं हि॥१६॥ इति अभावाधिकरणम्

५४०। जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च – अपहतपाप्मत्वादि सत्यसङ्कलत्व- पर्यन्तं मुक्तस्य जगज्जन्मादिकारणत्ववर्जम्; यतो वा इमानि भूतानि जायन्ते इत्यारभ्य तद्ब्रह्म इत्यादिजगत्सृष्ट्यादि परस्यैवेति प्रकरणादवगम्यते, सृष्ट्यादिप्रकरणेषु मुक्तस्यासन्निहितत्वाच्च। मुक्तस्यातिरोहितस्वमाहात्म्यस्य अनवधिकातिशयानन्दपरिपूर्णब्रहानुभव एव। ब्रह्मणोऽपि जगद्व्यापारो लीलामात्रमिति लोकवत्तु लीलाकैवल्यम् इत्युक्तम् ॥१७॥

५४१। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: – इमाल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्,  इत्युपदेशाज्जगद्व्यापारोऽस्तीति चेत्, न, हिरण्यगर्भाद्याधिकारिकमण्डलस्थभोगोक्ते:। न हि तत्र नियमनं श्रुतम्॥१८॥

५४२। विकारावर्ति तथा हि स्थितिमाह – विकारासंसृष्टपरिपूर्णपरब्रह्मानुभव एव तस्य सुखम्, तथाऽस्य स्थितिम्,  रसो वै : रसं ह्येवायं लब्ध्वाऽनन्दी भवति इत्याह॥१९॥

५४३। दर्शयतश्चैवं प्रत्यक्षानुमाने – उक्तमर्थं श्रुतिस्मृती च दर्शयत:, तस्माद्वा एतस्मादात्मन आकाशस्संभूत:, एतस्य वा अक्षरस्य प्रशासने इत्यादिका श्रुति:। स्मृतिरपि, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तत इति॥२०॥

५४४। भोगमात्रसाम्यलिङ्गाच्च – सोऽश्नुते सर्वान्कामान्सह, ब्रह्मणा विपश्चिता,  इति ब्रह्मानुभवरूपभोगमात्रसाम्यलिङ्गाच्च॥२१॥

५४५। अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् – स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते। न च पुनरावर्तत इति शब्दात् निवृत्तसमस्ततिरोधान: आविर्भूतापहतपाप्मत्वादिगुणगण:, अनवधिकतिशयानन्दं परं ब्रह्मानुभवति न च पुनरावर्तत इति निश्चीयत इति सर्वं समञ्जसम्॥२२  इति जगद्व्यापाराधिकरणम् ॥६॥

वेदान्तसारः समाप्तः डवे

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे चतुर्थस्याध्यायस्य चतुर्थ: पाद:

समाप्तश्चाध्याय: शास्त्रं परिसमाप्तम्। श्रीमते रामानुजाय नम:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.