श्रीवेदान्तसार: Ady 03 Pada 01

श्रीवेदान्तसार:

तृतीयाध्यायस्य प्रथम पाद:

२८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् – जीवो देहाद्देहान्तरप्राप्तौ भूतसूक्ष्मैस्संपरिष्वक्तो यातीति पञ्चाग्निविद्यायां प्रश्नप्रतिवचनाभ्यावगम्यते। वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्न:, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रतिवचनम्। उत्तरैस्सूत्रैरर्थोऽभिव्यज्यते। स चायमर्थ: ।  जीवो ब्राह्मणादिदेहस्थ: स्वाहादानादिकर्मकृत् तत्तत्फलभोगायास्माद्देहादुत्थाय गच्छन्, एतद्देहस्थाभि: भूतान्तरसंसृष्टाभि: सूक्ष्माकाराभिरद्भि: संपरिष्वक्तोऽग्नित्वेन निरूपितं द्युलोकं प्राप्य, ताभिरेवामृतमयदेहाकार-परिणताभिरद्भि: परिष्वक्तो देवानां शेषत्वमुपगम्य, तैस्सह तत्र भोगमनुभूय, कर्मावसाने भुक्तशिष्टब्राह्मणादियोनिप्रापककर्मणा सह पुनरपीमं कर्मलोकमागम्य, कर्मकर्तुं ताभि: परिष्वक्तोऽग्नित्वरूपितं पर्जन्यं प्राप्य, वर्षधाराभिस्सहाग्नित्व- निरूपितां पृथिवीमुपगम्य, व्रीह्यादिसस्येन संयुज्य, अन्नाकारपरिणतेन तेन सहाग्नित्वनिरूपितं पुरुषं प्राप्य, तत्र शुक्लाकारपरिणताभिस्ताभिरद्भि: परिष्वक्तोऽग्नित्वनिरूपितां योषितं प्राप्य, तत्र गर्भाकार परिणताभिस्ताभिरद्भि: पुरुषशब्दाभिलपनीयाभि: परिष्वक्त: कर्मानुरूपं ब्राह्मणादिरूपेण जायत इति॥१॥

२८९। त्र्यात्मकत्वात्तु भूयस्त्वात् – सर्वस्य त्रिवृत्करणेन त्र्यात्मकत्वात् भूतान्तरसंसृष्टा  एवापो भूयस्त्वेनाप्शब्देनोच्यन्ते॥२॥

२९०। प्राणगतेश्चप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति जीवेन सहेन्द्रियगते: तदाश्रयत्वेन देहगमनं प्रतीयते॥३॥

२९१। अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् – अग्निं वागप्येति इतीन्द्रियाणामग्न्यादि- गतिश्रुतेर्न जीवेन गमनमिति चेत्, न। वागाद्यभिमानिदेवतासु भाक्तत्वात् वागादिशब्दानाम्, ओषधीर्लोमानीति अनपियद्भिर्लोमादिभिस्सह पाठात्॥४॥

२९२। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: – प्रथमे – द्युलोकेऽपामश्रवणात् नापो गच्छन्ति। एतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति इति श्रद्धैव श्रुतेति चेत्, न – आप एव श्रद्धाशब्देनोच्यन्ते – इत्यप्सु पृष्टासु तदुत्तरत्वोपपत्तेर्गम्यते। श्रद्धा वा आप: इति श्रूयते॥५॥

२९३। अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: – अत्र प्रश्नप्रतिवचनयोराप एव प्रतीयन्ते, न तत्परिष्वक्तो जीव इति चेत्, न, उत्तरत्र। अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते इत्यादाविष्टादिकारिणां गमनप्रकारवचनात्। द्युलोकाग्निसम्बन्ध्यप्शब्दवाच्यस्य तस्या आहुतेस्सोमो राजा संभवति इति सोमभूतस्यैव, सोमोराज इति प्रत्यभिज्ञानादद्भि: परिष्वक्तस्तच्छरीरक एव आप इत्युच्यते इत्यवगम्यते॥६॥

२९४। भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयतिएष सोमो राजा तं देवा भक्षयन्ति इति  सोमापन्नस्य देवैर्भक्ष्यमाणत्ववचनं भाक्तम् – अनात्मवित्त्वेन देवोपकरणत्वाभिप्रायम्, तथा हि दर्शयति श्रुति:, यथा पशुरेवं देवानाम् इति पशुवद्देवोपकरणत्वं दर्शयति। तथा आत्मविदामनात्मविदां च परमपुरुषोपकरणत्वं देवोपकरणत्वं च स्मर्यते। देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि इति॥७॥ इति तदन्तरप्रतिपत्त्यधिकरणम् ॥ १ ॥

२९५। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं – कृतस्य कर्मणोऽन्ते निवर्तमानो भुक्तशिष्टकर्मवान्निवर्तत इति श्रुतिस्मृतिभ्यामवगम्यते। रमणीयचरणा: रमणीयां योनिमापद्यन्ते इति श्रुति:। तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपम् इत्यादिका स्मृति:, आरोहणप्रकारेण मार्गैकदेश:, प्रकारान्तरेण चैकदेश:॥८॥

२९६। चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि: – रमणीयचरणा: इति चरणशब्दात् नानुशय:, चरणशब्दस्य स्मार्ताचारविषयत्वादिति चेत्, न, अनुशयोपलक्षणार्था आचारश्रुति:, तस्यैव सुखसाधनत्वात्॥९॥

२९७। आनर्थक्यमिति चेन्न तदपेक्षत्वात् – स्मार्ताचारस्यानुपयोगात् आनर्थक्यमिति चेत्, न, तदपेक्षत्वात् सर्वस्य पुण्यकर्मण:। सन्ध्याहीनोऽशुचिर्नित्यमनर्हास्सर्वकर्मसु, इति वचनादिति कार्ष्णाजिनेर्मतम्॥१०॥

२९८। सुकृतदुष्कृते एवेति तु बादरि: – रमणीयचरणा: कपूयचरणा:, इति चरणशब्देन सुकृतदुष्कृते एवाभिधीयते। पुण्यं कर्माचरति इति प्रसिद्धेरिति बादरि:। एतदेव स्वीकृतम्। स्मार्ताचारापेक्षं सर्वं पुण्यं कर्मेति च स्वीकृतम्॥११॥ इति कृतात्ययाधिकरणम् ॥ २ ॥

२९९। अनिष्टादिकारिणामपि श्रुतम् – इष्टापूर्ताद्यकुर्वतामपि चन्द्रगमनमस्ति, ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते इत्यविशेषात्॥१२।

३००। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् इष्टापूर्ताद्यकुर्वतां यमसदने तत्फलमनुभूयारोहादि:, वैवस्वतं सङ्गमनं इत्यादौ तद्गतिदर्शनात्॥१३॥

३०१। स्मरन्ति – सर्वे चैते वशं यान्ति यमस्य, इति॥१४॥

३०२। अपि सप्त – सप्त रौरवादीनपि स्मरन्ति॥१५॥

३०३। तत्रापि तद्व्यापारादविरोध: – तत्रापि यमव्यापारादेव यमवश्यताया अविरोध:॥१६॥

३०४। विद्याकर्मणोरिति तु प्रकृतत्वात् –  विद्याकर्मणो: फलं ब्रह्मगमनं चन्द्रगमनं च। कथम्? तद्य इत्थं विदु: तेऽर्चिषमभिसंभवन्ति, इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति च, प्रकृतत्वात् ब्रह्मचन्द्रगमनयो: । अत: पापिनां न तद्गतिप्रसङ्ग:॥१७॥

३०५। तृतीये तथोपलब्धे: – न च पापिनां द्युलोकगमनाय चन्द्रलोकगमनापेक्षा, तेषां द्युलोकगमनाभावोपलब्धे:। अथैतयो: पथोर्न कतरेण इत्यारभ्य एतत्तृतीयं स्थानं तेनासौ लोको संपूर्यते इति। तृतीयस्थानमिति पापकर्माण उच्यन्ते॥१८॥

            ३०६। स्मर्यतेऽपि लोके – लोके च द्रौपद्यादीनां पुण्यकर्मणामपि पञ्चमाहुत्यनपेक्षदेहारम्भः स्मर्यते॥१९॥

३०७। दर्शनाच्च – तथा श्रुतावपि दृश्यते। भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवमुद्भिज्जम् इति स्वेदजोद्भिज्जयोस्तदनपेक्षत्वम्॥२०॥

३०८।    तृतीयशब्दावरोधस्संशोकजस्य – स्वेदजस्य उद्भिज्जशब्देन संग्रह इत्यर्थ:॥२१॥ इति अनिष्टादिकार्यधिकरणम् ॥ ३ ॥

३०९। तत्स्वाभाव्यापत्तिरुपपत्ते: – यथेतमाकाशम् इत्यादिना आकाशसादृश्यापत्ति:, प्रत्यवरोहत उपदिश्यते। तत्र तत्र सुखदु:खानुभवाभावोपपत्ते:। तदनुभवार्थं हि तत्तच्छरीरता॥२२॥ इति तत्स्वाभाव्यापत्त्यधिकरणम्

३१०। नातिचिरेण विशेषात् – व्रीह्यादिप्राप्ते: प्रागाकाशादिषु नातिचिरं तिष्ठति। अतो वै खलु दुर्निष्प्रपतरम् इति व्रीह्यदावेव विशेषवचनात्॥२३  इति नातिचिराधिकरणम्

            ३११। अन्याधिष्ठिते पूर्ववदभिलापात् इह व्रीहियवा इत्यादौ चान्यजीवाधिष्ठिते व्रीहियवादौ संश्लेषमात्रम्, अवरोहत: आकाशादिष्विव जननहेतुविरहिताभिलापात्। जायन्ते इति वचनमौपचारिकम्। यत्र ब्राह्मणादि जन्मास्ति तत्र रमणीयचरणा: इति हि हेतुरभिलप्यते॥२४॥

३१२। अशुद्धमिति चेन्न शब्दात् – अवरोहत: पूर्वानुष्ठितयागादिषु अग्नीषोमीयादि-हिंसागर्भत्वेन अशुद्धं कर्मास्तीति चेत्, न, हिरण्यशरीर ऊर्ध्वस्स्वर्गं लोकमेति, वा एतन्म्रियसे रिष्यसि इति पशुसंज्ञपनस्याहिंसात्वशब्दात्॥२५॥

३१३। रेतस्सिग्योगोऽथयो यो ह्यन्नमत्ति यो रेतस्सिञ्चति इति अन्नेन संसृष्टस्य रेतस्सिचा योगमात्रमनन्तरमुच्यते। अत: पूर्वमपि व्रीह्यादियोगमात्रम् ॥२६॥

३१४। योनेश्शरीरम् – योनिप्राप्ते: पश्चादेवावरोहता शरीरं प्राप्यते॥२७॥

इति श्री भगवद्रामानुजविरचिते श्री वेदान्तसारे तृतीयस्याध्यायस्य प्रथम: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.