श्रीवेदान्तसार: Ady 03 Pada 04

श्रीवेदान्तसार:

अथ तृतीयाध्याये चतुर्थ: पाद:

४१९। पुरुषार्थोऽतश्शब्दादिति बादरायण: – विद्यात: पुरुषार्थ: इति भगवान् बादरायणो मेने, ब्रह्मविदाप्नोति परम्, यो वेद….सोऽश्नुते सर्वान् कामान् सह इत्यादिशब्दात्॥१॥

४२०। शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: – तत्त्वमसि इत्यादि सामानाधिकरण्येन कर्मसु कर्तुरेव ब्रह्मत्वावगमात्, तद्वेदनस्य तत्संस्कारतया  कर्मशेषत्वात्, द्रव्यादिष्विव फलश्रुतिरर्थवाद:॥२॥

४२१। आचारदर्शनात्यक्ष्यमाणो वै भगवन्तोऽहमस्मि इत्यादौ ब्रह्मविद: कर्मप्रधानाचार दर्शनात् विद्या कर्माङ्गम्॥३॥

४२२। तच्छ्रुते: – यदेव विद्यया करोति इति श्रुत्यैव विद्याया: कर्मसु विनियोगात्। यत्करोति तद्विद्यया इति हि श्रुति:। यद्विद्यया साधनभूतया कर्म करोति, तत्कर्म वीर्यवत्तरमिति वा॥४॥

४२३। समन्वारम्भणात्तं विद्याकर्मणी समन्वारभेते  इति विद्याकर्मणोरेकस्मिन्पुरुषे साहित्यदर्शनाच्च, विद्याकर्माङ्गम्॥५॥

४२४। तद्वतो विधानात्आचार्यकुलाद्वेदमधीत्य अभिसमावृत्य कुटुम्बे इत्यादावर्थज्ञान-पर्यन्ताध्ययनवत: कर्मविधानाच्च; अध्ययनं ह्यर्थज्ञानपर्यन्तम् ॥६॥

४२५। नियमात्कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: इत्यात्मविदो जीवस्य कर्मसु विनियोगाच्च॥७॥

४२६। अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् – न विद्या कर्माङ्गम्, अपि तु विद्यात: पुरुषार्थ इत्येवमेव भगवतो बादरायणस्य मतम्; कर्तु: प्रत्यगात्मनोऽर्थान्तरभूतस्यैव वेद्यतयोपदेशात्। तत्कथम्? बहु स्यां प्रजायेयेति कारणं करणाधिपाधिप: इत्यादिवाक्येषु वेद्यस्याधिकत्वदर्शनात्॥८॥

४२७। तुल्यं तु दर्शनम् – विद्याया: प्राधान्येऽपि तुल्यमाचारदर्शनम्। ऋषय: कावषेया: किमर्था वयमध्येष्यामह इत्यादौ ब्रह्मविदां कर्मत्यागो हि दृश्यते। अनुष्ठानं तु फलाभिसन्धिरहितस्य विद्याङ्गत्वेन; त्यागस्तु फलाभिसन्धियुक्तस्येति न विरोध:॥९॥

४२८। असार्वत्रिकी – यदेव विद्यया करोति इति न सार्वत्रिकी विद्योच्यते, यदेव विद्यया इति प्रसिद्धवन्निर्देशात्। प्रसिद्धिश्चोद्गीथविद्याया:। यदेव विद्यया करोति, तदेव वीर्यवत्तरम् भवति इति प्रकृतोद्गीथविद्यायुक्तस्य कर्मणो हि वीर्यवत्तरत्वसाधनभावो विधीयते॥१०॥

४२९। विभागश्शतवत्तं विद्याकर्मणी समन्वारभेते इति विद्याकर्मणोर्भिन्नफलत्वेन स्वस्मै फलायान्वेतीति विभाग:। यथा क्षेत्ररत्नविक्रयिणे शतद्वयमन्वेतीत्यत्र, क्षेत्रार्थं शतम्, रत्नार्थं शतमिति॥११॥

४३०। अध्ययनमात्रवत: – वेदमधीत्य इत्यध्ययनमात्रवत: कर्मविधानात् न विद्याकर्माङ्गम्। अध्ययनविधिर्हि अक्षरराशिग्रहणमात्रे पर्यवस्यतीत्युक्तम्। अर्थावबोधपर्यन्तत्वेऽप्यर्थज्ञानात् अर्थान्तरभूता विद्यात्, उपासीत इति विहिता विद्या प्रत्ययावृत्तिरूपा॥१२॥

४३१। नाविशेषात्कुर्वन्नेवेह कर्माणि इत्यत्र स्वतन्त्रे कर्मणि विद्वदायुषो विनियोग इति विशेषहेत्वभावात्। ईशावास्यमिदं सर्वम् इति प्रकरणाच्च विद्याङ्गभूतमेव च तत्कर्मेति ज्ञायते। अतो न विद्या कर्माङ्गम्॥१३॥

४३२। स्तुतयेऽनुमतिर्वा – विद्यास्तुतये कर्मानुमतिर्वा।  विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि तैर्न लिप्यत इति हि विद्या स्तुता स्यात्। न कर्म लिप्यते नरे इति च वाक्यशेष:॥१४॥

४३३। कामकारेण चैकेकिं प्रजया करिष्याम इत्यादिना कामकारेण गार्हास्थ्यत्यागमधीयत एके। अतश्च विद्यैव प्रधानभूता॥१५॥

४३४। उपमर्दं – विद्यया सर्वकर्मोपमर्दं चाधीयते। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इत्यादिना॥१६॥

४३५। ऊर्ध्वरेतस्सु शब्दे हि – ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्, तेषु चाग्निहोत्राद्यभावान्न विद्या कर्माङ्गम्। ते चाश्रमास्सन्त्येव; त्रयो धर्मस्कन्धा: इति वैदिक शब्दे हि दृश्यते॥१७॥

४३६। परामर्शं जैमिनिरचोदनाच्चापवदति हि – त्रयो धर्मस्कन्धा: इत्यत्र चोदनाभावादुपासना- स्तुत्यर्थमनुवादमेव जैमिनिर्मेने। वीरहा वा एष देवानां योऽग्निमुद्वासयत इत्यपवदति चाश्रमान्तरम्॥१८॥

४३७। अनुष्ठेयं बादरायणस्साम्यश्रुते: – गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयमिति बादरायणमतम्, त्रयो धर्मस्कन्धा: इति सर्वाश्रमसाम्यश्रुते:॥१९॥

४३८। विधिर्वा धारणवत् – उपरि हि देवेभ्यो धारयति इत्यप्राप्तत्वेन यथा विधि:, तद्वत्॥२०  इति पुरुषार्थाधिकरणम् २०॥

            ४३९। स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् – उद्गीथादिषु रसमतत्वादिदृष्टिविधिर्न संभवति, इयमेव जुहूस्स्वर्गो लोक आहवनीय: इतिवत्, कर्माङ्गभूतोद्गीथाद्युपादाय तस्य रसतमत्ववचनं तत्स्तुतिमात्रमिति चेत्, नैतत्। जुह्वादिविधिवदुद्गीथादिविधेरत्रासन्निधानात्। रसतमत्वादेश्चाप्राप्तत्वाद्रसतमत्वादि- दृष्टिविधिरेव॥२१॥

४४०। भावशब्दाच्च – उद्गीथमुपासीत इति विधिप्रत्ययाच्च॥२२॥ इति स्तुतिमात्राधिकरणम् ॥२॥

४४१। पारिप्लवार्था इति चेन्न विशेषितत्वात् – वेदान्तेषु तत्तद्विद्यारम्भेऽधीता: प्रतर्दनो वै इत्याद्याख्यायिका: पारिप्लवार्था:, आख्यानानि शंसन्ति इति तत्र विनियोगादिति चेत्, न, तत्रैव मनुर्वैवस्वत इत्याद्याख्यानानां विशेषितत्वात्तेषामेव तत्र विनियोग:॥२३॥

४४२। तथा चैकवाक्योपबन्धात् – विद्याविधिनैकवाक्यत्वाच्च। सोऽरोदीत् इत्यादिवत् विद्यास्तुत्यर्था एता:॥२४॥ इति पारिप्लवाधिकरणम् ॥३॥

४४३। अत एव चाग्नीन्धनाद्यनपेक्षाऊर्ध्वरेतसाम् एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति इत्यादिश्रुतेरेव विद्यावत्त्वात् तेष्वाधानाद्यनपेक्षा विद्या॥२५॥ इति अग्नीन्धनाद्यधिकरणम्॥४॥

४४४। सर्वापेक्षा यज्ञादिश्रुतेरश्ववत् – कर्मवत्सु गृहस्थेष्वग्निहोत्रादिसर्वकर्मापेक्षा विद्या। ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसाऽनाशकेन इत्यादिश्रुते:। यथा चाश्वो गमनसाधनभूतोऽपि स्वपरिकरबन्धापेक्षो गमने। ऊर्ध्वरेतस्सु च स्वाश्रमकर्मापेक्षा॥२६॥ इति सर्वापेक्षाधिकरणम् ५॥

४४५। शमदमाद्युपेतस्स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् – गृहस्थो विहितकर्मव्यापृतोऽपि शान्तो दान्त: इत्यादिना शमदमादिविधेस्तद्युक्तस्स्यात्, विद्यानिष्पत्तये शमदमादीनामवश्यानुष्ठेयत्वात्, शान्त्युपरतिप्रभृतिभिर्विना विद्यानिष्पत्त्य-नुपपत्ते:॥२७॥ इति शमदमाद्यधिकरणम्

४४६। सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्प्राणविद्यानिष्ठस्य वा एवं विदि किञ्चन नानन्नं भवति इति सर्वान्नानुमतिर्न सर्वदा, अपि तु प्राणात्ययापत्तावेव। अतिशयितशक्तेर्ब्रह्मविदोऽप्युच्छिष्टभक्षणादि: प्राणात्ययापत्तावेवेति दर्शनात्॥२८॥

४४७। अबाधाच्चआहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृति: इत्याहारशुद्धि- विधेरबाधाच्च प्राणसंशय एव॥२९॥

४४८। अपि स्मर्यते – प्राणसंशयमापन्नो योऽन्नमत्ति यतस्तत:, इत्यादिना स्मर्यते च प्राणसंशय एवेति॥३०॥

४४९। शब्दश्चातोऽकामकारेतस्माद्ब्राह्मणस्सुरां पिबति इति कामकारनिवृत्तिशब्दश्चात एव। यत: प्राणसंशय एव सर्वान्नानुमति: ॥३१  इति सर्वान्नानुमत्यधिकरणम्

            ४५०। विहितत्वाच्चाश्रमकर्मापि – यज्ञादिकर्म यावज्जीवमग्निहोत्रं जुहुयात् इत्यादिना विहितत्वात् विद्यारहितकेवलाश्रमिणामप्यनुष्ठेयम् ॥३२॥

४५१। सहकारित्वेन तमेतं वेदानुवचनेन इत्यादि श्रुतेर्विद्याङ्गतया विधेर्विद्या सहकारित्वेन विदुषा चानुष्ठेयम्॥३३॥

४५२। सर्वथाऽपि एवोभयलिङ्गात् – उभयत्र विनियोगेऽपि यज्ञादयस्त एव, उभयत्र प्रत्यभिज्ञानाख्याल्लिङ्गात्। कर्मस्वरूपैक्येऽपि विनियोगपृथक्त्वेन न विरोध:॥३४॥

४५३। अनभिभवं दर्शयति – धर्मेण पापमपनुदति इति विद्योत्पत्तिप्रतिबन्धक- पापनिवर्तनेन विद्याया अनभिभवं कर्मानुष्ठानकार्यं च दर्शयति॥३५॥ इति विहितत्वाधिकरणम् ॥८॥

४५४। अन्तरा चापि तु तद्दृष्टे: – आश्रमानन्तरा वर्तमानो विधुरादिरनाश्रमी। तस्यापि विद्याधिकारोऽस्ति, रैक्वादिष्वनाश्रमिषु ब्रह्मविद्याधिकारदर्शनात्॥३६॥

४५५। अपि स्मर्यते – अनाश्रमिणोऽपि जपादिना विद्यानुग्रह: स्मर्यते। जप्येनापि च संसिध्येत् इति॥३७॥

४५६। विशेषानुग्रहश्च – आश्रमानियतधर्मविशेषेण विद्यानुग्रहश्च श्रूयते। तपसा ब्रह्मचर्येण श्रद्धया विद्यया चाऽऽत्मानमन्विच्छेत् इत्यादिना॥३८॥

४५७। अतस्त्वितरज्ज्यायो लिङ्गाच्च – अनाश्रमित्वादाश्रमित्वं ज्याय:, धर्मभूयस्त्वात्, अनाश्रमी तिष्ठेत्तु इति स्मृतेश्च॥३९॥  इति विधुराधिकरणम् ॥९॥

१०

४५८। तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य: – नैष्ठिकादिनिष्ठस्य प्रच्युत्य स्थितिर्न संभवत्येव, नियमात्, तद्रूपनिवृत्तिभ्य:। यथा नियच्छन्ति हि अत्यन्तमात्मान माचार्यकुलेऽवसादयन् इति। अरण्यमियात्ततो पुनरेयात् इति च। संन्यस्याग्निं न पुनरावर्तयेत् इति च। अतस्तेषां प्रच्युत्य स्थित्यभावाद्विद्यानधिकार: जैमिनेरप्येवम् ॥४०॥

४५९। चाधिकारिकमपि पतनानुमानात्तदयोगात् – अवकीर्णिपशुश्च तद्वत् इत्यधिकारलक्षणोक्तं प्रायश्चित्तमपि तस्य न संभवति, तस्य प्रायश्चित्तानाधिकारस्मृते: तदसंभवात्। आरूढो नैष्ठिकं धर्मं इत्यारभ्य प्रायश्चित्तं पश्यामि इत्यादिस्मृते:॥४१॥

४६०। उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् – उपपातकत्वात् प्रायश्चित्तमेके मध्वशननिषेध- तत्प्रायश्चित्तवदिति। तदुक्तं उत्तरेषां चैतदविरोधि इति॥४२॥

४६१।  बहिस्तूभयथाऽपि स्मृतेचाराच्च – उपपातकत्वेऽपि अन्यथाऽपि कर्माधिकारबहिष्कृता एते, तथा स्मृते:। प्रायश्चितं पश्यामि येन शुद्ध्येत्स आत्महा इति, शिष्टबहिष्काराच्च॥४३॥ इति तद्भूताधिकरणम् ॥१०॥

११

४६२। स्वामिन: फलश्रुतेरित्यात्रेय: – उद्गीथाद्युपासनं यजमानेनानुष्ठेयम्, तस्यैव क्रतुवीर्यवत्तरत्वादिफलश्रुतेरित्यात्रेय: ॥४४॥

४६३। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते – कर्मस्वरूपवत्तदङ्गाश्रयमप्यार्त्विज्यम्। साङ्गफलसाधनकर्मानुष्ठानाय हि ऋत्विक्परिक्रियते॥४५॥  इति स्वाम्यधिकरणम् ११॥

१२

४६४। सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत्तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य इत्यारभ्य अथ मुनिइत्यत्र विद्यावतो यज्ञादिवत् बाल्यपाण्डित्ययोस्तृतीयं सहकार्यन्तरं मौनं विधीयते, पक्षेण प्रकृष्टमननशीले मुनिशब्दप्रयोगात्। विद्याभ्यासरूपमननमिदं अप्राप्तमेव॥४६॥

४६५। कृत्स्नभावात्तु गृहिणोपसंहार: – कृत्स्नेष्वाश्रमिषु विद्यासद्भावात् । छान्दोग्ये अभिसमावृत्य कुटुम्बे इत्यारभ्य खल्वेवं वर्तयन्यावदायुषं इति ब्रह्मलोकमभिसंपद्यते इति गृहिणोपसंहारस्सर्वेषां प्रदर्शनार्थ:। तु शब्दो हि गृहिण एवेति शङ्काव्यावृत्यर्थ:॥४७॥

४६६। मौनवदितरेषामप्युपदेशात्अथ मुनि: इत्यत्रापि अथ भिक्षाचर्यं चरति इति पारिव्राज्येनोपसंहार: प्रदर्शनार्थ:, मौनभिक्षाचर्यवदितराश्रमधर्माणां यज्ञादीनामप्युपदेशात्॥४८॥

१३

४६७। अनाविष्कुर्वन्नन्वयात् – पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् इति बाल्यमित्यविशेषेण श्रुतावपि बालकर्मस्वमाहात्म्यानाविष्काररूपं विद्यान्वययोग्यतया विधीयते॥४९॥

१४

४६८। ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् – अभ्युदयफलमुपासनं स्वसाधनभूतपुण्य-कर्मानन्तरमुत्पद्यत इति नायं नियम:। प्रबलकर्मान्तरप्रतिबन्धाभावे  तदनन्तरम्, प्रतिबन्धे तु तस्मिन् समाप्ते। तदेव वीर्यवत्तरम् इति प्रतिबन्धाभावे फलदर्शनात्॥५०॥ इति ऐहिकाधिकरणम् १४॥

१५

४६९। एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: – एवं मुक्तिफलोपासनस्यापि प्रतिबन्धभावाभावयोरित्यनियम:, प्रतिबन्धाभाव एवेति फलोदयावस्थावधृते:॥५१॥ इति मुक्तिफलाधिकरणम्॥१५॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य चतुर्थ पाद:

समाप्तश्चाध्याय:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.