यादवाद्रिदर्शनम् Part 9

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम्

अथ नवमोऽध्यायः

दत्तात्रेयकृत पाषण्डनिरसनम्

मुनयः –

आकर्णितो महाभाग वर्णितो भवता मुने ।

हरिभक्तापराधेषु परिहारोऽयमद्भुतः ।। (१)

दत्तात्रेयो मुनिश्रेष्ठः कथं पापण्डदर्शनम् ।

निराचक्रे सहाम्नायैः पुरा नारायणाचले ।। (२)

पुराणं वा कथं चक्रे तत्र पुण्यं पराशरः ।

उभयं चैतदाचक्ष्व महत्कौतूहलं हि नः ।। (३)

नारदः –

काणादशाक्यपाषण्डप्रमुखैर्दुष्टवादिभिः ।

नष्टं कदाचिद्विज्ञानं नारायणपदाश्रयम् ।। (४)

आत्मा देहात्परः कश्चिद्विपश्चिन्नहि विद्यते ।

केवलं देह एवायमहमित्यवगम्यते ।। (५)

तस्मादेहानुरूपेण वर्तितव्यं मनीषिभिः ।

न तपो नापि यज्ञादिर्न योगो नापि चार्चनम् ।। (६)

कर्तव्यानि वृथायासास्ते हि तत्त्वेन पश्यताम् ।

इति व्यामोहयामासुः केचित्सर्वान् महीतले ।। (७)

अन्यदेहाद्विमुक्तं तमात्मानं प्रतिपाद्य च ।

तस्य क्षणविनाशित्वमूचिरे तर्ककर्कशाः ।। (८)

परे देहाद्विमुक्तस्य स्थैर्यं तस्यानुमत्य च ।

अन्तर्यन्तारमेतस्य पुरुषं प्रतिचिक्षिपुः ।। (९)

अपरे तं च पुरुषं खीकृत्याशेषकारणम् ।

ब्रह्माणं वा तदन्यं वा यं कश्चित्प्रतिपेदिरे ।। (१०)

चिदचिद्रूपदेन जीवेश्वरविभागतः ।

प्रमाणसिद्धमखिलमेकमेवेतरे विदुः ।। (११)

आत्मचिन्मात्ररूपोऽयं न च जीवो न चेश्वरः ।

विविक्तमखिलं तस्मादधिकं केचिदभ्यधुः ।। (१२)

इत्थं व्यामोहितास्ते ते वादिनो विष्णुमायया ।

प्रतिभामात्रशरणाः प्रालपन्नवनीतले ।। (१३)

प्रवादुकानां वादास्ते प्रमाणपरिपन्थिनः ।

बभूवुर्बहुधा लोके निरालोके समन्ततः ।। (१४)

एवं हि विप्लुते ज्ञाने कदाचित्कलशाम्बुधौ ।

वेदा विष्णोः पदं प्राप्य विषण्णाश्चुक्रुशुभृशम् ।। (१५)

वेदाः –

समस्तचिदचिदस्तुशेषी त्वमसि माधव ।

भवामो मानमर्थेऽस्मिन्ननादिनिधना वयम् ।। (१६)

प्रमातारस्तु सत्त्वस्था भवन्ति पुरुषोत्तम ।

अधुना केन यत्क्लृतं दैवतं तन्निगद्यते ।। (१७)

प्रमाणमपि पाषण्डवादाः प्रागल्भ्यकल्पिताः ।

देशिकाश्चाभवन् सर्वे म्लेच्छदेशनिवासिनः ।। (१८)

विशुद्धस्यात्मनश्शुद्धिस्नानाद्यैः कीदृशी भवेत् ।

इति स्नानादिकं सर्वमिच्छावादाद्विलुप्यते ।। (१९)

त्यक्तो वर्णाश्रमाचारो दुर्विज्ञानानुवर्तिभिः ।

अध्यात्मज्ञानवादाश्च भवने भवनेऽन्यथा ।। (२०)

तस्मादुद्धर विज्ञानमस्मानपि जगद्गुरो ।

पाषण्डागमपङ्केऽस्मिन्नाभून्मज्जनमद्य नः ।। (२१)

नारदः –

इति विज्ञापितो वेदैर्वेदानाह श्रियःपतिः ।

अहं खलु भविष्यामि वसुधामण्डले गुरुः ।। (२२)

अन्तेवासित्वमास्थातुं यूयमेव ममार्हथ ।

इत्युक्त्वा भगवान्विष्णुः दत्तात्रेयोऽभवत्तदा ।। (२३)

दत्ताभयस्समस्तानां वेदानामनुकम्पया ।

पापाचाररतान्सर्वान् पापण्डागमवादिनः ।। (२४)

निराकर्तुं मनश्चक्रे स च सन्यासिरूपतः ।

सालग्रामादिकं सर्वं दृष्ट्वा दुष्टैरुपप्लुतम् ।। (२५)

नारायणस्य सान्निध्ये नित्यं सत्वोत्तरे पुनः ।

नारायणाचले चक्रे सन्यासाश्रमसङ्ग्रहम् ।। (२६)

उपवीतं त्रिदण्डञ्च कौपीनाच्छादनं तथा ।

शिष्यं च कवचञ्चैव पञ्चमात्रां दधौ च सः ।। (२७)

वेदपुष्करिणीतीरे विशाले च शिलातले ।

परिधानं स जग्राह काषायं परमः पुमान् ।। (२८)

वेदास्सच्छिष्यरूपेण तदा तञ्च सिषेविरे ।

वेदपुष्करिणीत्याख्या पुष्करिण्यास्तदाभवत् ।। (२९)

आम्नायाश्शिष्यभावेन सेवमानास्ततस्ततः ।

ऋग्वेदो सामगश्चेति यजुर्वेदिक एव च ।। (३०)

आथर्वणिक इत्येव नामानि प्रतिपेदिरे ।

अङ्गानि षट् च तच्छिष्यरूपमास्थाय भेजिरे ।। (३१)

वेदानेव हरेश्शिष्यभावेनैव व्यवस्थितान् ।

पुराणादीनि चत्वारि ततो मानवरूपतः ।। (३२)

बहुना शिष्यवर्गेण सेवितो भगवानपि ।

मुनिरूपधरो ज्ञानं स्थापयामास भूतले ।। (३३)

पाषण्डास्ते च सर्वेऽपि तत्र तत्र निराकृताः ।

पलायिष्यन्तपर्यन्तदेशेषु च ततस्ततः ।। (३४)

शाण्डिल्योऽपि मुनिश्रेष्ठो दर्भतीर्थस्थितस्सदा ।

प्रमाणैः पञ्चरात्रस्थैः वेदार्थव्यक्तिमातनोत् ।। (३५)

पाषण्डेपु निरस्तेषु प्रज्ञानं सर्वतोऽभवत् ।

न हि राहुविमुक्तोऽपि न चकास्ति निशकरः ।। (३६)

न च नीहारनाशेऽपि न प्रकाशेत भास्करः ।

आसमुद्रमतो गत्वा वेदाः पाषण्डखण्डनम् ।। (३७)

कृत्वा च सहसा जग्मुः कृतार्थास्सर्वतो जयात् ।

ततः कल्याणतीर्थस्य तीरे ददृशुरागताः ।। (३८)

शाण्डिल्येन सहासीनं दत्तात्रेयं महामुनिम् ।

भगवन् दृष्टमाश्चर्यमस्माभिरिति चाब्रुवन् ।। (३९)

व्याघ्रवानरसंवादः

किमाश्चर्यमिति प्राह जानन्नपि मुनीश्वरः ।

अथ विज्ञापयामासुराम्नाया दृष्टमद्भुतम् ।। (४०)

वेदाः –

अरण्ये वानरः कश्चिदध्यास्ताग्रं महातरोः ।

व्याघ्राद्भीतः किरातश्च तमारुक्षन्महीरुहम् ।। (४१)

ततो व्याघ्रस्समागत्य वानरं प्राह वाक्यतः ।

अहं बुभुक्षुरायातः किरातो मम भक्षणम् ।। (४२)

तस्मात्त्वं क्षिप शाखास्थं तमेनं वानरोत्तम ।

एवमुक्तस्तु तं प्राह व्याघ्रं शाखामृगस्ततः ।। (४३)

नाहं क्षिपामि मे वासं प्राप्तमेनं भयातुरम् ।

न हि प्रति प्रयच्छन्ति प्रपन्नं वध्यमुत्तमाः ।।  (४४)

ततः क्षणे व्यतीते तु कपिर्निद्रावशं गतः ।

अथ प्राह किरातं तं व्याघ्रः कुटिलमानसः ।। (४५)

मम भक्ष्यो भवान्मास्तु वानरस्तु भविष्यति ।

तस्मात्किरात शाखास्थं शाखामृगमिमं क्षिप ।। (४६)

इत्युक्तो लुब्धका लोके सहसैवाक्षिपत्कपिम् ।

भवन्ति लुब्धका लोके रक्षकाणां हि भक्षकाः ।। (४७)

कृत्याकृत्यविवेकान्धैः पातकं क्रियते न किम् ।

जग्राह पतितं व्याघ्रो वानरं प्रजहास च ।। (४८)

उवाच च तमालोक्य भवान् संरक्षकोऽभवत् ।

भवन्तं पातयामास किरातो दुर्मतिः पुनः ।। (४९)

अहं भवन्तं मुञ्चामि सहसारुह्य भूरुहम् ।

त्वं निपातय शाखाग्रात्किरातं तव वैरिणम् ।। (५०)

इत्युक्तस्तु तथेत्याह वानरः प्रीतमानसः ।

व्याघ्रान्मुक्तश्च सहसा तमारोहन्महीरुहम् ।। (५१)

न च तं पातयामास व्याधं वानरपुङ्गवः ।

व्याघ्रः पुनश्च तं प्राह किं न पातयते भवान् ।। (५२)

वानरः –

न त्वहं पातयिष्यामि ममावसथमागतम् ।

विरुद्धं वाऽविरुद्धं वा दीनं वा दृप्तमेव वा ।। (५३)

स्वगृहोपागतं यस्तु त्यजेत्स खलु पातकी ।

वेदाः –

इत्युक्त्वा सुखमेवास वानरः प्रीतमानसः ।। (५४)

अस्माभिर्दृष्टमाश्चर्यम् एतत्खलु मुनीश्वर ।

नारदः –

श्रुतीनां वचनं श्रुत्वा दत्तात्रेयो महामुनिः ।। (५५)

ततश्शाण्डिल्यवदनं स्मितपूर्वं व्यलोकयत् ।

शाण्डिल्योऽपि ततः प्राह भगवद्भावमुद्वहन् ।। (५६)

वेदान् विस्मयमापन्नान् विष्णोरन्तेनिवासिनः ।

शरणागतिधर्मोऽयं शाश्वतो हि निगद्यते ।। (५७)

भवतामभिभावस्थः सर्वधर्मोत्तरो हि सः ।

शाण्डिल्य भवता प्रोक्तं वाक्यं जानीमहे वयम् ।। (५८)

तथाप्येतादृशी बुद्धिस्तिरश्चामपि जायते ।

इति विस्मयमापन्ना वयं वानरकर्मणि ।। (५९)

नाळीकजङ्घोपाख्यानम्

शाण्डिल्यः –

तिरश्चामतिरश्चां वा साधारणमिदं खलु ।

शरणागतसन्त्राणधर्मस्य परिपालनम् ।। (६०)

आकर्ण्यतामिदं चापि मया यदभिधीयते ।

नाळीजङ्घ इति ख्यातो नाम्नाभूद्भुवि कश्चन ।। (६१)

राजहंसस्सखाऽऽसीच्च तस्य गन्धर्वभूपतिः ।

दारिद्य्रात् पर्यटन् कश्चित् तस्यान्तिकमुपागमत् ।। (६२)

नाळीजङ्घस्तु तं प्राह कस्त्वं द्विज इवेक्ष्यसे ।

आगतोऽसि कुतो हेतोः कर्तव्यं किञ्च ते मया ।। (६३)

इति पृष्टस्स दारिद्य्रमत्रबीद्राह्मणः पुनः ।

तदाकर्ण्य च हंसोऽयं वाचमेनामुवाच ह ।। (६४)

अस्ति गन्धर्वराजो मे सखा तस्यान्तिकं भवान् ।

यातु मत्प्रेषणं श्रुत्वा वाञ्छितं ते प्रदास्यति ।। (६५)

इति तद्वचनं श्रुत्वा ब्राह्मणस्सहसा ययौ ।

गन्धर्वराजसदनं गतदारिद्र्यचिन्तनः ।। (६६)

नाळीजङ्घस्य सख्येन गन्धर्वोऽपि धनं ददौ ।

वाञ्छितं वसु लब्ध्वाऽसौ वोढुं शक्यं समाययौ ।। (६७)

नाळीजङ्घस्य निलयं क्षुधितश्चाभवत्तदा ।

अथ निद्रापराधीनं नाळीजङ्घ निहत्य सः ।। (६८)

जघास ब्राह्मणस्तस्य मांसं क्षुत्पीडितो भृशम् ।

ततो गन्धर्वराजस्य भटास्तत्पक्षदर्शनात् ।। (६९)

तस्याप्यदर्शनात्सद्यः सर्वतोऽपि व्यचारयन् ।

तं दृष्ट्वा धनभारेण खिन्नं गच्छन्तमिङ्गितैः ।। (७०)

हन्तारमधिगम्याशु निजघ्नुः क्रोधसंयताः ।

नाळीजङ्घो दिवं प्राप नरकं प्राप स द्विजः ।। (७१)

अत्रान्तरे सुधर्मायां नाळीजङ्घस्सुराधिपान् ।

अप्राक्षीद्राह्मणः कुत्र वर्तते मम घातकः ।। (७२)

इति पृष्टास्सुरास्तेन भवतस्तेन किन्त्विति ।

अब्रुवन्नथ हंसोऽपि पुनः पप्रच्छ शङ्कया ।। (७३)

आहुस्तदा सुरज्येष्ठा नरके तस्य वर्तनम् ।

नाळीजङ्घोऽपि सहसा प्रणिपत्य सुरेश्वरान् ।। (७४)

मम सर्वेण धर्मेण ब्राह्मणो नरकान्तरात् ।

निर्गत्य निर्जरावासमागच्छत्वित्ययाचत ।। (७५)

तव हन्ता स पापिष्ठः कथं त्रिदिवमेष्यति ।

इति वारयतोऽप्येतान्ययाचे भूयसापि सः ।। (७६)

तन्निर्बन्धेन ते सर्वे तथेत्याहुस्सुराधिपाः ।

नरकान्निर्गतस्सोऽयं नाळीजङ्घपरिग्रहात् ।। (७७)

घातकब्राह्मणस्सद्यस्स्वर्गलोकमवाप सः ।

अतोऽनुकम्पसाराणां यस्सकृच्छरणं गतः ।। (७८)

स तु सर्वप्रकारेण संरक्ष्य इति हि व्रतम् ।

साक्षान्नारायणोक्तस्य पञ्चरात्रस्य कृत्स्नशः ।। (७९)

सारोऽयं खलु यत्वेतच्छरणागतरक्षणम् ।

नारदः –

एवमन्योन्यसल्लाप-सन्तोषोत्फुल्लचेतसाम् ।। (८०)

तेषामक्ष्णोरभूदग्रे सहशिष्यः पराशरः ।

साष्टाङ्गं प्रणनामाथ दत्तात्रेयं महामुनिम् ।। (८१)

उपमानमशेषाणां ज्ञानिनां स पराशरः ।

दत्तात्रेयः –

कुशलं ते मुनिश्रेष्ठ वसिष्ठ-कुलनन्दन ।। (८२)

अत्रागमनहेतुं ते वद तत्वविदां वर ।

मैत्रेयं प्रति पराशरकृतविष्णुपुराणोपदेशः

नारदः –

इत्युक्तो मुनिशार्दूलो भगवन्तमुवाच ह ।। (८३)

पुलस्त्यस्य वसिष्ठस्य वरदानान्ममाखिलम् ।

प्रकाशितमभूत्तत्वं श्रुतं सारस्वतादपि ।। (८४)

तच्छ्रोतुमिच्छा वत्सस्य मैत्रेयस्यास्य वर्तते ।

अहं सत्त्वोत्तरे देशे वक्तव्यमिति चेतसा ।। (८५)

प्राप्तो नारायणावासं रम्यं बदरिकाश्रमम् ।

तत्र नारायणश्श्रीमान् मामाह करुणानिधिः ।। (८६)

अस्ति कश्चिन्मुने स्थानादितोऽपि च मम प्रियम् ।

नारायणाद्रिरिति यत्प्रवदन्ति मनीषिणः ।। (८७)

तत्र गत्वा भवानस्य शिष्यस्य तव धीमतः ।

पुराणं वैष्णवं ब्रूयाद्वरेण्यं पुण्यशालिनः ।। (८८)

इति तद्वचनं श्रुत्वा भगवन्नहमागतः ।

पश्यामि च तमेवात्र भगवद्रूपेण भाग्यतः ।। (८९)

वेदशास्त्रपुराणादेस्सर्वस्यापि फलं भवान् ।

अभवत्पारणा दृष्ट्योर्वक्तुं किमवशिष्यते ।। (९०)

इत्युक्तवन्तं तं प्राह दत्तात्रेयः पराशरम् ।

तत्वं यथावद्गदितुं त्वत्तः कोऽन्यो विशारदः ।। (९१)

आचक्ष्व तस्मादापादचूडं सत्त्वोत्तरं प्रियम् ।

पुराणमहमप्यत्र लप्स्ये कर्णामृतं मुने ।। (९२)

नारदः –

अनुज्ञातस्ततस्तेन यतिना चक्रवर्तिना ।

व्याजहार पुराणं तद्विष्णोः पारम्यदर्शकम् ।। (९३)

मैत्रेयाय ततस्तत्र तत्वं प्राचीकशन्मुनिः ।

तस्मात्कल्याणतीर्थस्य किञ्चिदुत्तरभागतः ।। (९४)

पराशराश्रमो नाम स्थानं सर्वैरुदीर्यते ।

पञ्चभागवतस्थानं भागे भवति पश्चिमे ।। (९५)

पूर्वभागे तु वाराहं स्थानमुत्तममुच्यते

तीर्थस्य दक्षिणे भागे सीतारण्यं प्रचक्षते ।। (९६)

पुरा हि लक्ष्मणस्तत्र पर्णशालां मनोरमाम् ।

आतेने रघुनाथस्य सीतासन्तोषकारिणीम् ।। (९७)

स्थानान्येतानि चत्वारि तत्र सन्ति मुनीश्वराः ।

ततो मैत्रेयसहितस्तत्ववित्स पराशरः ।। (९८)

शाण्डिल्यं मुनिशार्दूलं पप्रच्छ विनयान्वितः ।

तुलसीमाहात्म्यम्

भगवन् पञ्चरात्रस्य प्रवक्तासि महामुने ।। (९९)

मम सर्वञ्च तत्रत्यं विशेषं वक्तुमर्हसि ।

श्रुतिष्वव्यक्तमर्थं हि व्यञ्जयिष्यन् परः पुमान् ।। (१००)

चक्रे नारायणश्श्रीमान् पञ्चरात्रमशेषतः ।

एकादश्याश्च माहात्म्यं तुलस्याश्च विशेषतः ।। (१०१)

तथा विष्णुप्रसादस्य तत्रोक्तं वक्तुमर्हसि ।

ततः प्रीतिसमायुक्तश्शाण्डिल्यश्शान्तमानसः ।। (१०२)

तेन पृष्टमशेषं तं वक्तुं समुपचक्रमे ।

अस्ति सर्वस्य जगतः कारणं भवतारणम् ।। (१०३)

शान्तानन्दमहानन्दं सत्यं ज्ञानमयं महः ।

ततोऽपि यत्प्रियतरं दृश्यं वैकुण्ठवासिनाम् ।। (१०४)

अद्भुतं गुणभूषाद्यैर्मूर्तं ब्रह्म तदुच्यते ।

रूपाण्यन्यानि दृश्यन्ते तत्राभिव्यक्तितः पुनः ।। (१०५)

यथा सुखं विचरतो विष्णोः दिव्याननेकशः ।

वासुदेवादयः केचित्कतिचित्केशवादयः ।। (१०६)

अपरे पद्मनाभाद्या रामकृष्णादयः परे ।

लक्ष्म्या गाढोपगूढानि रूपाण्यन्याननेकशः ।। (१०७)

अनुरूपेण रूपेण विभवेनापि युक्तया ।

लक्ष्म्या नारायणस्यापि दम्पत्योस्सर्वशेषिणोः ।। (१०८)

दासदासीगणाश्चान्ये ब्रह्माद्या देवता गणाः ।

स तु नारायणः श्रीमान् सृष्ट्वा संरक्ष्य चेतसा ।। (१०९)

विश्वं संहरते चान्ते लीला तत्र हि कारणम् ।

पितृयानघटीयन्त्रनित्यारोहावरोहणैः ।। (११०)

भ्रमतां कर्ममालायां छेत्ता चकायुधस्स्वयम् ।

तस्मात्तस्यैव चरणावर्चनीयौ दिने दिने ।। (१११)

नार्हा वर्णाश्रमाचारभ्रष्टा विष्णोस्समर्चने ।

विष्णोरभ्यर्चनायां तु तुलसीसाधनं परम् ।। (११२)

अलाभे तुलसीनां तु तन्नामग्रहणादपि ।

भगवानरविन्दाक्षः सन्तुष्यति सहस्रधा ।। (११३)

न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि ।

तथा तुष्यति गोविन्दो यथैव तुलसीदलैः ।। (११४)

धर्मकेतूपाख्यानम्

अत्रैव शृणु मत्तस्त्वं पुरा वृत्तं पराशर ।

धर्मकेतुरिति ख्यातः पूर्वमासीन्महीपतिः ।। (११५)

सार्वभौमो मुनिश्चक्रे स च धर्मानशेषतः ।

स पुरोहितमाहूय पुण्यकीर्तिमुवाच ह ।। (११६)

ब्रह्मन् धर्माः कृतास्सर्वे व्रतानि चरितानि च ।

नारायणार्चनं कार्यं नारायणगिरौ तु मे ।। (११७)

बहुष्वपि पुराणेषु विष्णोरर्चा प्रशस्यते ।

तत्र साधनमाचक्ष्व विष्णोस्सन्तोषकारणम् ।। (११८)

ततः पुरोहितो राज्ञे वाचमेतामुवाच ह ।

सुवर्णपुष्पैराराध्य सूक्तैर्नानाविधैर्हरिम् ।। (११९)

बहुव्यञ्जनसंयुक्तमन्नं तस्मै निवेदय ।

पुरोधसो वचश्श्रुत्वा पुण्यकर्मा महीपतिः ।। (१२०)

पद्मैः कल्हारपुष्पैश्च चम्पकैर्वकुळैरपि ।

मल्लीभिर्मालतीभिश्च पुन्नागैश्शतपत्रकैः ।। (१२१)

सहस्रसंख्यरेतैश्च प्रत्येकं हेमनिर्मितैः ।

सुवर्णमालया चापि नवरत्नविचित्रया ।। (१२२)

अर्चयित्वा दशदिनान्यथ नैवेद्यमद्भुतम् ।

सहस्रभारप्रमितं देवायान्ते न्यवेदयत् ।। (१२३)

अस्मिन्काले यथालाभ इति कश्चिद्द्विजोत्तमः ।

त्रिभिरन्तर्हिते देशे योजनानामवस्थितः ।। (१२४)

एकादश्यामुपोष्याथ द्वादश्यामर्चयद्धरिम् ।

तुलसीमालिकामेकां तुलसीदलमिश्रिताम् ।। (१२५)

प्रस्थप्रमाणप्रमितं नैवेद्यञ्च न्यवेदयत् ।

ततस्स तु महीपालः कृत्वा विष्णोर्महार्चनम् ।। (१२६)

भुक्त्वा सौधाग्रभागस्थो ब्राह्मणैः परिवारितः ।

आकर्णयन् हरिकथामध्यास्त परमासनम् ।। (१२७)

अत्रान्तरे समायातौ गन्धर्वौ द्वौ नभस्थले ।

कृत्वा नारायणस्याग्रे सेवागानं यथेप्सितम् ।। (१२८)

रत्नाङ्गदो विचित्राङ्ग इति नाम्ना च विश्रुतौ ।

आहतुस्तौ च गच्छन्तौ अन्योन्यालापतत्परौ ।। (१२९)

नारायणो न जग्राह राज्ञा दत्तमशेषतः ।

यथालाभेन यद्दत्तं तदेवाङ्गीचकार सः ।। (१३०)

मौलौ हि दृश्यते विष्णोस्तुलसीदलमालिका ।

नेक्ष्यन्ते हेमपुष्पाणि न च सौवर्णमालिकाः ।। (१३१)

धर्मकेतुस्ततः श्रुत्वा तयोर्वचनमद्भुतम् ।

यत्र नारायणः श्रीमानास्ते तत्र जगाम च ।। (१३२)

नापश्यद्धेमपुष्पाणि न च सौवर्णमालिकाः ।

ततो विस्मयमापन्नो यथालाभान्तिकं ययौ ।। (१३३)

ननाम ब्राह्मणश्रेष्ठं नारायणपरायणम् ।

मम वक्तुं महाभाग परिचर्यां त्वया कृताम् ।। (१३४)

अर्हसि त्वमशेषाणां गुरोर्दनुजवैरिणः ।

जगृहे त्वत्कृतां पूजां भगवान्न तु मत्कृताम् ।। (१३५)

इति पृष्टस्तु राजानं अब्रवीद्राह्मणोत्तमः ।

अहं दरिद्रस्स्वाभाव्यात् आर्जनेऽप्यक्षमः पुनः ।। (१३६)

किं मया क्रियते कर्म विष्णोराराधनात्मकम् ।

यद्यत्समर्प्यते किञ्चित्तत्तत्तस्यैव पूर्वतः ।। (१३७)

यो वा येनापि कुरुते स च तच्चापि तस्य हि ।

तस्मान्न हि महाराज कृतं किञ्चिदवेक्ष्यते ।। (१३८)

पुनरप्याहतं राजा पुरुषोत्तमयन्त्रितः ।

अकार्षीस्तं यदेतन्मे यथावद्वक्तुमर्हसि ।। (१३९)

यथालाभः –

निवेद्य तुलसीमालां नैवेद्यं तुलसीयुतम् ।

अष्टाक्षरेण मन्त्रेण राजन् विष्णोरसमर्पितम् ।। (१४०)

नारायणात्परं देवं मन्त्रमष्टाक्षरात्परम् ।

गुरुं तदुपदेष्टुश्च परं नोपलभे क्वचित् ।। (१४१)

वक्ष्यमाणमिदं सर्वं समाहितमनाः श्रुणु ।

प्रणाममेकहस्तेन वस्त्रेणोपरिवेष्टनम् ।। (१४२)

अभ्यञ्जनञ्च तैलेन कृष्णकम्बलधारणम् ।

नखकेशादिविक्षेपं तथा निष्ठीवनादिकम् ।। (१४३)

पर्यङ्कबन्धकरणं ताम्बूलस्यापि चर्वणम् ।

आसनं परिवृत्यापि तथासनपरिग्रहम् ।। (१४४)

लालाविसर्जनं विष्णोः कथास्वश्रवणं तथा ।

सन्ध्याहीनैरनाचारैरस्नातैरपि पूजनम् ।। (१४५)

अन्यदैवतपुष्पाद्यैरर्चनं तत्प्रशंसनम् ।

त्यक्त्वा मुखाम्बुजं विष्णोरन्यवक्त्रावलोकनम् ।। (१४६)

अकाले दर्शनञ्चैव सोपानत्कप्रवेशनम् ।

सङ्कीर्तनस्य विच्छेदं राजवार्तादिकीर्तनम् ।। (१४७)

हरिभक्तावमानञ्च तेषां पूजानिवर्तनम् ।

विष्णुभक्तेतरेषाञ्च सोपचारं वचस्तथा ।। (१४८)

कृत्वा श्मशानगमनम् अस्नात्वाभ्यर्चनं मदात् ।

प्रवेशनञ्च मूर्खाणां नैवेद्यस्यापि वीक्षणम् ।। (१४९)

निवेद्य कुसुमाघ्राणं पूजाद्रव्यापलापनम् ।

अनिबद्धय प्रलापञ्च कलहं येनकेनचित् ।। (१५०)

आरोप्य दीपमन्यत्र नयनं दृतभाषणम् ।

अनुत्थाय प्रसादस्य स्वीकारं शयनादिकम् ।। (१५१)

तुलसीमवमत्यान्यैः पुष्पैरभ्यर्चनं तथा ।

रहस्यकथनं चान्यैः पुत्रादीनाश्च चिन्तनम् ।। (१५२)

स्त्रीभिस्सम्भाषणं विष्णोरन्यगीतोपलालनम् ।

एवमादीनि कर्माणि यः कुर्याद्विष्णुमन्दिरे ।। (१५३)

स एव नरकं याति यावदाभूतसंप्लवम् ।

न तस्य पूजनं विष्णुः गृह्णाति वसुधाधिप ।। (१५४)

कथितेषु च दोषेषु कश्चिददोषोऽत्र भविष्यति ।

प्रायेण पृथिवीपाल त्वयि वा त्वद्भटेषु वा ।। (१५५)

तस्मात्प्रगल्भभावं त्वं मुक्त्वाऽभ्यर्चय केशवम् ।

तदा हि त्वत्कृतां पूजां स्वीकरिष्यति माधवः ।। (१५६)

शाण्डिल्यः –

इति तस्य वचश्श्रुत्वा राजा कौतूहलान्वितः ।

सङ्गृह्य तुलसीं भक्त्या सर्वाभीष्टफलप्रदाम् ।। (१५७)

तथैव नियतश्चके परिचर्याविधिं हरेः ।

लेभे च परमां प्रीतिं विष्णोस्सर्वफलप्रदाम् ।। (१५८)

तस्मात् तुलस्या सदृशं न च भूतं न भावि च ।

तुलसीकाननामोदवासिता यत्र मारुताः ।। (१५९)

न तत्र धरणीभागे चरन्ति यमकिङ्कराः ।

तुलसी तुलसीत्येवं नामान्यावर्तयन्ति ये ।। (१६०)

ते विष्णुलोकमासाद्य पश्यन्ति गरुडध्वजम् ।

दर्शनाच्छ्रवणात्स्पर्शात्स्मरणात्कीर्तनादपि ।। (१६१)

पुनाति तुलसी पुण्या दशपूर्वान् दशापरान् ।

तुलसीकाननं यत्र यत्र वा हरिकीर्तनम् ।। (१६२)

तत्रैवास्ते हरिश्श्रीमान् शङ्खचक्रगदाधरः ।

तस्मात्पराशर त्वं च सर्वदा तुलसीदलैः ।। (१६३)

नारायणमिहाराध्य प्राप्स्यसे परमं पदम् ।

एकादशीमाहात्म्यम्

यथा हि तुलसी मान्या विष्णोर्भवति सर्वदा ।। (१६४)

तथैकादशी विष्णुं सन्तोषयति सन्ततम् ।

एकादशीमुपोष्यैकां प्रसङ्गादपि मानवाः ।। (१६५)

न प्रयास्यन्ति नरकं यातनाशतदूषितम् ।

उत्थाने शयने चैव मदङ्गपरिवर्तने ।। (१६६)

उपवासमकुर्वाणो हृदि शल्यं ममार्पयेत् ।

इत्येतद्भगवद्वाक्यं न जानन्ति च ये नराः ।। (१६७)

हतसर्वगुणा नित्यं हरिबाह्या भवन्ति ते ।

एकादशीं परित्यज्य यः करोति व्रतान्तरम् ।। (१६८)

तस्य सर्वाणि कर्माणि भस्माहुतिरिति श्रुतिः ।

एकादशीपरित्यागं गुरोराज्ञातिलङ्घनम् ।। (१६९)

शरणागतघातञ्च तुल्यमाहुर्मनीषिणः ।

तस्मादेकादशीं सर्वां शुक्लां कृष्णामथापि वा ।। (१७०)

उपोष्य नियतं भक्त्या नारायणपरो भव ।

तुलसीदलसम्मिश्र तीर्थतोयेन संयुतम् ।। (१७१)

दिवसे दिवसे ये तु भुञ्जते ते हि वैष्णवाः ।

कौशातकमलाम्बुञ्च बिम्बजं तु फलं तथा ।। (१७२)

कलिङ्गं कतकञ्चैव नैव विष्णोस्समर्चयेत् ।

लशुनं भक्षयेद्या गौस्तस्याः क्षीरं घृतञ्च यत् ।। (१७३)

अहविष्यं हि तद्विष्णोर्न कदाचिन्निवेदयेत् ।

विष्णोः निवेदितेनैव कर्तव्यं च पराशर ।। (१७४)

प्राणाग्निहोत्रं सर्वेषाम् अन्यथा ह्यकृतं भवेत् ।

भक्त्या परमया ये तु नारायणनिवेदितम् ।। (१७५)

भुञ्जते ते हि संसारसागरोत्तारका नृणाम् ।

नारदः –

इति शाण्डिल्यवचनं श्रुत्वा स च पराशरः ।। (१७६)

यथोक्तमखिलं धर्मं यथावत्स्वयमाचरन् ।

नारायणाचलावासं नारायणमसेवत ।। (१७७)

दत्तात्रेयश्च शाण्डिल्यस्तौ मैत्रेयपराशरौ ।

सर्वे ते मुनयस्तत्र साकं वासं वितेनिरे ।। (१७८)

इति जितपरतन्त्रैः पञ्चरात्रैस्स्वतन्त्रैः

उपनिषदवतंसैरुक्तिवर्गैः मुनीनाम् ।

सुरभितहरिदन्ते यादवक्ष्माभृदग्रे

विहरति सह लक्ष्म्या विश्वहेतुर्मुरारिः ।। (१७९)

अधिगतपरमार्थः कोऽपि दृष्टया गुरूणां

यदुगिरितटवासी योगिनामग्रयायी ।

मधुरिपुगुणवादैर्मेदुरान्वेदवादान्

अवमतपरतन्त्रैः स्थापयामास वाक्यैः ।। (१८०)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये दत्तात्रेयकृतपाषण्डनिरसनादिकथनं नाम नवमोऽध्यायः

अथ दशमोऽध्यायः

विष्णुचित्तोपाख्यानम्

मुनयः –

नारद त्वं महाभाग नारायणकथामृतैः ।

संसारानलतप्तानां करोषि तापवारणम् ।। (१)

श्रुतं च सकलं त्वत्तो यत्पृष्टं क्रमतो मुने ।

इदमन्यत्पुनः प्रष्टुं वाञ्छामो वयमादरात् ।। (२)

वैकुण्ठगङ्गातीर्थेन क्षाळिताशेषकल्मषः ।

नारायणह्रदावासी कः प्राप परमं पदम् ।। (३)

नारदः –

आकर्णयत सर्व तदहमप्यस्य वर्णनात् ।

कृतार्थयामि मद्वाचं केशवाराधनात्मकात् ।। (४)

आचारपालको नाम कश्चिद्ब्राह्मणसत्तमः ।

आसीत्तस्याभवत्काचित्पत्नी चारित्रवर्धिनी ।। (५)

तावुभौ पुण्यकर्माणौ विष्णोराराधनात्मकम् ।

वर्णाश्रमोचितं कर्म पर्यपालयतां सदा ।। (६)

प्रतिषिद्धं च यच्छास्त्रे तच्च नैवान्वतिष्ठताम् ।

आज्ञाऽतिलङ्घनाद्विष्णोः सर्पादग्नेरिवानिशम् ।। (७)

भीतौ तौ चक्रतुर्नित्यं स्वधर्मस्यानुपालनम् ।

अनिषिद्धैः पदार्थैरप्याराध्य पुरुषोत्तमम् ।। (८)

प्रसादैरकृषातां तौ देहधारणमन्वहम् ।

केवलं पुण्डरीकाक्षगुणयन्त्र-नियन्त्रितौ ।। (९)

अभूतामप्रमत्तेन चेतसा कलितौ च तौ ।

चिरकालं तयोर्नासीत्तनयः तद्गुणोचितः ।। (१०)

परिपाके त्वभूत्कश्चित् प्रसादाच्छार्ङ्गधन्विनः ।

शान्तो दान्तस्सदाचारशीलस्सत्वाधिकश्च सः ।। (११)

साधुसेवी परित्यक्त-डम्भो नित्यं च निर्मलः ।

निरहङ्कारचेताश्च निरसूयो निराग्रहः ।। (१२)

केवलं विष्णुभक्त्यैकनिष्णात-हदयोऽभवत् ।

एवमादिगुणोपेतम् अपेतापरचिन्तनम् ।। (१३)

अवलोक्य जनास्सर्वे विष्णुचित्तं तमूचिरे ।

उपनीतस्ततः काले वेदाध्ययनमातनोत् ।। (१४)

वेदाङ्गानि च सर्वाणि जग्राह स तु मेधया ।

अध्यात्मशास्त्रमखिलं स च सर्वविदांवरात् ।। (१५)

आचार्यादथ जग्राह नाम्ना सन्मार्गदेशिकात् ।

मन्त्रमष्टाक्षरं लेभे नाम्ना सर्वार्थसाधकम् ।। (१६)

कृतविद्यस्य तस्याथ पितरौ कर्तुमुद्यतौ ।

वैवाहिकविधिं तौ च विष्णुचित्तस्ततोऽब्रवीत् ।। (१७)

उद्वाहं नाहमिच्छामि न पुत्रान्न च बान्धवान् ।

नारायणपदाम्भोजमहमिच्छामि केवलम् ।। (१८)

तातमातश्च यद्यस्ति तदुपायस्स एव मे ।

कर्तव्यो न तु संसारमार्गपान्थमनोरथः ।। (१९)

इत्युक्त्वा विष्णुचित्तोऽयं ततो विष्णुपरायणः ।

जगाम नैमिषारण्यं वरेण्यं मुनिभिर्वृतम् ।। (२०)

ततस्तत्रासने स्थित्वा प्राणायामादिसंयुतः ।

निदध्यौ पुण्डरीकाक्षं निरपायफलप्रदम् ।। (२१)

भगवद्ध्याननिष्ठोऽयं भक्त्या नित्यानुरञ्जितः ।

उपास्त सुचिरं तत्र विष्णुचित्तो विकल्मषः ।। (२२)

विष्णुवित्तकृनविक्रमाभरणतिरस्कारः

कदाचित्तत्र भूपालो मृगयासक्तमानसः ।

विक्रमाभरणो नाम विष्णुचित्तं ददर्श ह ।। (२३)

चिन्तयामास नृपतिः कोऽयं ब्राह्मणबालकः ।

ब्रह्मचारीति मन्ये तं मौजीकृष्णाजिनादिभिः ।। (२४)

सन्तानवृद्धये दास्ये मम सन्तानमञ्जरीम् ।

कन्याममुष्मै कल्याणरूपिणे धन्यरूपिणीम् ।। (२५)

इति सञ्चिन्त्य सहसा समीपं ब्रह्मचारिणः ।

आजगाम महीपालः कौतूहलसमन्वितः ।। (२६)

ततश्शुभतरं वाक्यं अब्रवीद्ब्रह्मचारिणम् ।

भूपालः –

अहं मनुकुलोद्भूतो महीपालो महीतलम् ।। (२७)

पालये मम कन्या तु काचिदस्ति मनोरमा ।

शुचिस्मिता विशालाक्षी सुकेशी मधुरस्वरा ।। (२८)

सुभ्रूः शोणाधरा तन्वी पूर्णचन्द्रनिभानना ।

वराङ्गी कम्बुकण्ठी च निम्ननाभिस्तलोदरी ।। (२९)

सा हि मे कन्यका काचिदङ्कूरितपयोधरा ।

बहुना किमिहोक्तेन भवतो भाग्यमञ्जरी ।। (३०)

तामेव ते प्रयच्छामि ब्रह्मचारिन्ननुत्तमाम् ।

परिगृह्य सुखं कन्यां वर्तस्व च मया सह ।। (३१)

राज्यमर्धं प्रदास्यामि मम पुत्रस्त्वमेव हि ।

नारदः –

इति तस्य वचश्श्रुत्वा हसन्नन्तस्तमब्रवीत् ।। (३२)

विष्णुचित्तः –

ब्रह्मचारी परब्रह्मचिन्तासन्तोपसन्ततः ।

नाहमिच्छामि भूपाल क्षत्रियाणां पदे स्थितम् ।। (३३)

शेरते ये तु समरे गृध्रपत्रातपत्रिणः ।

शृणोषि खलु राजेन्द्र सगरस्य सुतान्पुरा ।। (३४)

कपिलक्रोधदावाग्निशिखाभिर्भस्मसात्कृतान् ।

मान्धातापि महाराज चक्रवर्तिशिखामणिः ।। (३५)

लवणासुरशूलाग्रप्रोतगात्रः पुराभवत् ।

राजन्वद ममैतच्च रक्षो राजन्यखण्डनः ।। (३६)

कुठारच्छिन्नदोर्दण्डः कार्तवीर्यः क्व वर्तते ।

त्रिस्सप्तकृत्वो निहतः परश्वथ तपस्विना ।। (३७)

तव चेतसि वर्तन्ते न कथं वसुधाधिपाः ।

विरोचनसुतञ्चैव कैतवब्रह्मचारिणा ।। (३८)

पातालोदरकान्तारपातितं किं न बुद्ध्यसे ।

नहुषो नरपालानां शेखरस्त्रिदिवात् च्युतः ।। (३९)

आसीदजगरः पूर्वमित्युशन्ति पुराविदः ।

अतोऽहं नैव वाञ्छामि त्वद्राज्यं तव कन्यकाम् ।। (४०)

अन्यस्मै देहि तां कन्यां सा हि मे चर्मभस्त्रिका ।

अथवा वद राजेन्द्र तव कन्या तनुश्शुभा ।। (४१)

श्लेष्मासृक्पूयमांसास्थि-स्नाय्वादिभ्योऽतिरिच्यते ।

तस्मान्न कन्यां वाञ्छामि न च राज्यं महीपते ।। (४२)

किं तु वैकुण्ठकैङ्कर्यसाम्राज्ये वर्तते मनः ।

नारदः –

इति प्रतिहतो राजा स तेन ब्रह्मचारिणा ।। (४३)

जगाम स्वपुरं तस्मादरण्यात्सह सेनया ।

ततः पुनः प्रशान्तात्मा विष्णुचित्तस्तपश्चरन् ।। (४४)

पुरन्दरपुरोगाणाम् आशङ्कास्पदतां ययौ ।

आहूय सहसा शक्रयतमप्यप्सरसां गणम् ।। (४५)

विष्णुचित्तकृतेन्द्रतिरस्कारः

चोदयामामास भीतस्सन्विनिपातयितुं तपः ।

मन्दारमालिका रम्भा तथा कल्याणकौमुदी ।। (४६)

वसन्तवल्लरी चान्या तथा वीणाविनोदिनी ।

तिलोत्तमा रतिश्ललाघिन्युर्वश्यम्लानमालती ।। (४७)

मेनका च दशैताः खल्वग्रतो योषितां ययुः ।

मदनोऽपि महावीरो मानिनीजनसेवितः ।। (४८)

दत्तहस्तो वसन्तेन सह रत्या विनिर्ययौ ।

नैमिषारण्यमाजग्मुः सर्वे ते गर्वशालिनः ।। (४९)

शरण्यं सत्त्वनिष्ठानां वरेण्यं जगतामपि ।

स्वर्गलोकपुरन्ध्र्यश्च स्वाधीनविषमायुधाः ।। (५०)

विभ्रमैः विविधैश्चक्रुः विष्णुचित्तप्रलोभनम् ।

नृत्तं गीतञ्च वाद्यञ्च चक्रिरे वारयोषितः ।। (५१)

अग्रतो विष्णुचित्तस्य शृङ्गारोत्तुङ्गचेष्टिताः ।

तासामुत्तम्भनं चक्रे वसन्तः कालतल्लजः ।। (५२)

उदारकुमुमोद्भेदैः उल्लसन्नवपल्लवैः ।

अन्तः परभृतारावगर्भैः आरामभूररुहै ।। (५३)

मदनोऽपि महावीरो माकन्दकुसुमाङ्कुरैः ।

शरैः संहितकोदण्डश्चचार विपिनान्तरे ।। (५४)

विष्णुचित्तस्ततः किञ्चिन्न चचाल महापतिः ।

केशवार्पितचित्तानां किञ्चित्कामस्य डम्बरम् ।। (५५)

प्रशान्तहृदयस्सोऽयं प्रमदाजनमग्रतः ।

प्रलोभयन्तं वाक्येन वारयामास भूयसा ।। (५६)

क्रियासमभिहारेण कापेयकलहोद्यताः ।

शशाप कपिरूपेण वर्तध्वमिति योषितः ।। (५७)

ततो जनितलाङ्गूलास्तरुण्यो विकृताननाः ।

चक्रः किलकिलाशब्दं तरुषण्डेषु सर्वतः ।। (५८)

कामरूपधरा नार्यो यद्यद्रूपं वितेनिरे ।

तत्तद्रूपमशेषञ्च कपिरूपमभूत्पुनः ।। (५९)

ततस्तु मदनो दृष्ट्वा तासां वैरूप्यमग्रतः ।

लज्जानम्रमुखो भूत्वा जगाम विबुधालयम् ।। (६०)

प्रमदास्त्रिदिवं प्राप्य प्राविक्षन्नमरावतीम् ।

केवलं नन्दनोद्याने वासं चक्रुस्त्रपान्विताः ।। (६१)

वसन्तस्तु ततो गत्वा सुधर्मां धर्मसंयुताम् ।

सम्यगावेदयामास वृत्तं सर्वं विडौजसे ।। (६२)

सुपर्वणां सभामध्ये श्रुत्वा तच्छून्यमानसः ।

कर्तव्यमथवा चान्यन्न विवेद शचीपतिः ।। (६३)

ततो ब्राह्मणरूपेण शक्रस्तत्र जगाम च ।

यत्रास्ते स महाभागो विष्ण चित्तः समाहितः ।। (६४)

व्याहरत्तं मुनिश्रेष्ठं विष्णुचित्तं सुरेश्वरः ।

क्रोधोऽयं भवतः क्रूरो ब्रह्मचारिन्न युज्यते ।। (६५)

येनामरपुरन्ध्रीणामासीदाकृतिरन्यथा ।

ब्रह्मचारी ततः प्राह तासां कापेयदर्शनात् ।। (६६)

अवशेन मया प्रोक्तं क्रुद्धः किं न करिष्यति ।

इत्थं प्रसाद्य मघवान् सहसा ब्रह्मचारिणम् ।। (६७)

विहाय ब्राह्मणं रूपं निजरूपमदर्शयत् ।

अर्धासनमहं दास्ये ब्रह्मचारिन् सुरस्त्रियाम् ।। (६८)

विमोचय त्वं वैरूप्यमित्याह बलशासनः ।

एवं ब्रुवाणं वृत्रारिं बभाषे व्रतिनां वरः ।। (६९)

विष्णुचित्तः –

अर्धासनं तेन प्राप्यमहं स्वाराज्यमानतः ।

मन्ये नरकमेवान्यत् नानादुःखैरुपप्लुतम् ।। (७०)

विश्वरूपवधे जातं ब्रह्महत्यासमन्वयात् ।

न हि शक्नोमि सङ्ख्यातुं तव दुःखं भवानपि ।। (७१)

अवमानात्प्रसादस्य दुर्वासप्रतिघोद्भवम् ।

परिभूतिसहस्रं ते शक्र स्मरसि वा न वा ।। (७२)

अन्येन्द्रकं जगत्कर्तुमनिन्द्रं वा समुद्यतः ।

भवता हतचित्तेन कथं न स्मर्यते मुनिः ।। (७३)

नाहं वदामि तद्वृत्तं यत्त्वं बलनिषूदन ।

गौतमस्य मुनेश्शापादवक्तव्यां दशां गतः ।। (७४)

रक्षो बालेन केनापि गाढं बन्धो गळे भवान् ।

एवं बभाषिरे सर्वे सत्यासत्यं न वेद्म्यहम् ।। (७५)

अतस्ते नरकप्रायमर्धासनमहं कथम् ।

मघवन्नभिवाञ्छामि गच्छ गच्छ यथागतम् ।। (७६)

नारदः –

साधिक्षेपमिति प्रोक्तस्ततस्त्रिदशनायकः ।

शाखामृगत्वं यातानां शापावधिममयाचत ।। (७७)

दृष्ट्वा दैन्यं सुरेन्द्रस्य ब्रह्मचार्यवदत्ततः ।

दिनत्रयं ममातेनुः प्रलोभं त्रिदिवाङ्गनाः ।। (७८)

वर्षत्रयेण मोक्ष्यन्ते ततो वानररूपतः ।

ततस्सम्प्रीतहृदयश्शक्रः क्रतुभुजां वरः ।। (७९)

अधिरुह्य विमानं स्वमगमद्विबुधालयम् ।

विष्णुचित्तस्तु सततं विष्णोराराधने स्थितः ।। (८०)

निस्तरङ्ग इवाम्बोधिः नित्यपूर्णस्त्वयं बभौ ।

ततस्तु विष्णुचित्तस्य भावालोकनकौतुकी ।। (८१)

विष्णुभक्तिपरो नित्यमाजगाम वृषध्वजः ।

उपलाल्य गुणालापैरुवाच ब्रह्मचारिणम् ।। (८२)

ब्रह्मन् मुनिकुलोद्भूतब्रह्मचारिव्रते स्थित ।

अभीष्टं ते प्रयच्छामि मां वृणुष्व महापते ।। (८३)

ऐहलौकिकमैश्वर्यं पारलौकिकमेव च ।

सर्वं तवाहं यच्छामि मत्कं वा पदमुत्तमम् ।। (८४)

इत्युक्तवन्तं स मुनिः पुरशासनमब्रवीत् ।

नाहं सांसारिकं सौख्यं वाञ्छामि वृषभध्वज ।। (८५)

अपि त्वखिललोकानां नायकस्य हरेः पदम् ।

तत्रोपायं वद त्वं चेन्मयि स्निह्यसि तत्त्वतः ।। (८६)

ततः पुररिपुः प्राह साक्षान्मोक्षपदो हरिः ।

न ब्रवीमि तदेतत्ते नाहं न च पितामहः ।। (८७)

आब्रह्मस्तम्बपर्यन्तं सर्वमेतजगद्धरेः ।

स्वेच्छाविहारशीलस्य सूत्रयन्त्रितपुत्रिकाः ।। (८८)

सर्वपापविनिर्मोक्षं स एव कुरुते नृणाम् ।

ममापि पद्मजस्यापि रक्षको भगवान् हरिः ।। (८९)

तदा दर्शितकार्याणि स चाहं तन्वहे सदा ।

अकरोत्स हि मे पूर्वं ब्रह्म शापविमोक्षणम् ।। (९०)

विष्णुचित्तकृतकासुरोत्पन्नरुद्रावमाननिरसनम्

वृकासुरस्य निधनाद्वितेने मम पालनम् ।

आसीन्पुरा वृको नाम ब्रह्मचारिन्महासुरः ।। (९१)

मामुद्दिश्य तपश्चक्रे घोरं घोरविचेष्टितः ।

मयि प्रसने वव्रे च वरमेनं स दानवः ।। (९२)

येषां शिरस्यहं पाणिं निक्षिपामि महेश्वर ।

तेषां शिरस्तु सहसा शतधा भिद्यतामिति ।। (९३)

तथेत्युक्ते मया मत्कं शिरस्स्प्रष्टुं स चोद्यतः ।

अधावं सहसा चाहमन्वधावत्स चापि माम् ।। (९४)

तत्र तत्रागमत्सोऽपि यत्र यत्र पलायितः ।

अत्रान्तरे जगन्नाथो भगवान् भक्तवत्सलः ।। (९५)

मध्ये मार्गं समागम्य तमाह मधुरोक्तिभिः ।

असुरेन्द्र महावीर्य किमर्थं धावसि द्रुतम् ।। (९६)

इत्युक्तस्स तु वृत्तान्तं दुर्मतिदानवोऽब्रवीत् ।

आस्फाल्य-हस्तौ भगवान् हसित्वा च जगाद ह ।। (९७)

अहो भिक्षुकवाक्येन विप्रलब्धोऽसि दानव ।

सर्वथा स हि मिथ्यैव भाषते गच्छ न द्रुतम् ।। (९८)

अहं सत्यं वदाम्येव दनुजेन्द्र त्वया शपे ।

अथवा मढचस्सत्यं तद्वचो वेति दानव ।। (९९)

त्वच्छिरस्पर्शनादेव परीक्षस्व महापते ।

अहं तु भवता नैव स्प्रष्टव्यो मार्गदूषितः ।। (१००)

तपसा परिपूतस्त्वं त्वामेव स्प्रष्टुमर्हसि ।

एवं व्यामोहितो दैत्यास्स तु वैकुण्ठमायया ।। (१०१)

पस्पर्श स्वकरेणाथ स्वशिरः शतधाभवत् ।

एवमादीनि दिव्यानि भव्यान्यपि रमापतेः ।। (१०२)

श्रूयन्ते जगतां पत्युश्चरितानि सहस्रशः ।

तस्मात्त्वं मुक्तिकामश्चेन्नारायणपरो भव ।। (१०३)

इत्युक्त्वा च निजं वासं ययौ पुरनिषूदनः ।

ततः पितामहोप्येवमागतो ब्रह्मचारिणम् ।। (१०४)

अब्रवीत्स च तं प्राह सह देवैस्समागतम् ।

तव रक्षा यदायत्ता तमेवाहं पितामह ।। (१०५)

अभ्यर्थये सुरज्येष्ठ मधुकैटभमर्दनम् ।

पुनरावर्तिनो ब्रह्मन्भवन्ति त्वत्पदे स्थिताः ।। (१०६)

अहं त्वपुनरावृत्तिभाजां वाञ्छामि तत्पदम् ।

इति सर्वेषु भूतेषु दैवतेषु महामुनिः ।। (१०७)

स त्वनन्यमना भूत्वा नारायणपरोऽभवत् ।

तदा कृपापराधीनम् अपराधीनमच्युतम् ।। (१०८)

आश्रितं तं ददर्शाग्रे गुरुं सन्मार्गदेशिकम् ।

ततस्तु सहसोत्थाय विष्णुचित्तो महातपाः ।। (१०९)

गुरुं ववन्दे स च तं प्राह सन्तोषनिर्भरः ।

वत्स तुष्यामि वैराग्यनिष्ठाया च हरेः पदे ।। (११०)

अस्ति किञ्चिन्महत्क्षेत्रं नाम्ना वैकुण्ठवर्धनम् ।

तत्र सिद्धिं लभस्व त्वं वत्स नारायणाचले ।। (१११)

इत्युक्त्वान्तर्दधे सद्यस्स च सन्मार्गदेशिकः ।

विष्णुचित्तोऽपि सहसा गत्वा वैकुण्ठवर्धनम् ।। (११२)

नारायणहृदस्यान्ते निवासं विदधे च सः ।

एतस्मिन्नन्तरे काले श्वेतहीपनिवासिनः ।। (११३)

विष्णुचित्तप्रह्लादयोर्भगवत्साक्षाकारः

विदितं दिव्यया दृष्टया विष्णुचित्तस्य वैभवम् ।

मध्ये सभं मुकुन्दस्य प्रशशंसुर्मुनीश्वराः ।। (११४)

आकर्ण्य तच्छिरःकम्पैर्भगवानन्वमोदत ।

प्रह्लादस्तदिदं श्रुत्वा तद्दर्शनकुतूहलात् ।। (११५)

जगाम जगतां वन्द्यं नारायणगिरेस्तटम् ।

नासाग्रन्यस्तनयनो विष्णुचित्तश्श्रियान्वितम् ।। (११६)

ध्यायन्नारायणं देवं न विवेद तमागतम् ।

विष्णुचित्त महाभाग द्रष्टुं त्वामहमागतः ।। (११७)

प्रह्लादस्त्वं हि मे मान्यः पद्मनाभपरिग्रहात् ।

इति प्रह्लादवाक्येन प्रतिपन्नकुतूहलः ।। (११८)

उत्थाय सहसा सोऽयं सोपचारमभाषत ।

अथान्योन्यकथालापालिनोरनयोरभूत् ।। (११९)

निवासस्सुचिरं तत्र महाभागवरेण्ययोः ।

तत्र तुङ्गं गिरिं दृष्ट्वा प्रह्लादो मङ्गळाकृतिम् ।। (१२०)

तदग्रे स्थापयामास नरसिंहं मुदान्वितः ।

अतो वदन्ति सर्वेऽपि तं गिरिं सिंहभूधरम् ।। (१२१)

प्रयच्छति हरिस्तत्र प्रह्लादसदृशं सुतम् ।

आरोहन्ति गिरिं ये च ये च कुर्वन्ति पूजनम् ।। (१२२)

तेषामभिमतं कुर्वन्नास्ते तत्र सदा हरिः ।

तोषितो विष्णुचित्तस्य भक्त्या गरुडवाहनः ।। (१२३)

नारायणश्श्रिया सार्धमाजगाम ततः पुनः ।

किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ।। (१२४)

श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् ।

पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ।। (१२५)

इन्दीवरदलश्यामं पीतवस्त्रसमच्युतम् ।

पद्मच्छविपदद्वन्द्वं परमात्मानमीश्वरम् ।। (१२६)

आयुधैः शङ्खचक्राद्यैः अन्यैश्शेषासनादिभिः ।

जयशब्दं प्रयुञ्जानैः परितः परिवारितम् ।। (१२७)

अधिरुह्य गरुत्मन्तं सह लक्ष्म्या समागतम् ।

अग्रे नारायणं देवमपश्यत्स मुनीश्वरः ।। (१२८)

प्रणनाम च साष्टाङ्गं तुष्टाव च पुनः पुनः ।

विशेषात्परितोषेण विष्णुचित्तो ननर्त च ।। (१२९)

मन्त्रेण शरणं प्राप्य माधवस्य पदाम्बुजम् ।

सद्यो मुक्तिं ततः प्राप स तु सायुज्यलक्षणाम् ।। (१३०)

परिहृतनिखिलाशः प्राक्तनब्रह्मचारी

पदमपि च विधातुर्मन्यमानस्तृणाय ।

इति किल यदुशैले शार्ङ्गपाणेः पदाब्जं

शरणमुपगतोऽभूच्छाश्वतं धाम लेभे ।। (१३१)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये विष्णचित्तोपाख्यानं नाम दशमोऽध्यायः

अथ एकादशोऽध्यायः

वसिष्ठसुतशापविमोचनम्

मुनयः –

अहो नु विष्णुचित्तस्य माहात्म्यं भवतोदितम् ।

यदाकर्णनमात्रेण विष्णुचित्ताः कृता वयम् ।। (१)

सर्वं श्रुतं मुनिश्श्रेष्ठ भवतो भक्तिभाजनात् ।

अथाऽपि पृच्छ्यते किञ्चिदाचक्ष्व ज्ञानारिधे ।। (२)

वसिष्ठतनयास्तत्र पूता इति जगत्पतिः ।

प्राह नारायणः श्रीमान् तच्च नो वक्तुमर्हसि ।। (३)

पञ्च भागवतास्तत्र कथं विष्णुमुपासत ।

एतदन्यच्च यद्वाच्यं तदाचक्ष्व महामुने ।। (४)

नारदः –

विश्वामित्रेण शप्तास्ते पुरा वासिष्ठवंशजाः ।

चतुर्वेदिनमाकर्ण्य तत्र शापाद्विमोचितम् ।। (५)

पलाशतीर्थपर्यन्ते स्थित्वा भक्तिसमन्विताः ।

पान्थानां विष्णुभक्तानां यत्र यत्राङ्घ्रिरेणवः ।। (६)

पवनोत्थापिता जग्मुस्तत्र तत्र समाययुः ।

अपांसुलत्वं जग्मुस्ते पांसुभिः क्रमशः पुनः ।। (७)

वैकुण्ठाङ्घिरजः स्पर्शविरजस्काङ्घ्रिसङ्गिभिः ।

अधिकारोऽभवत्तेषां तीर्थतोयनिषेवणे ।। (८)

अणुः पर्वततामेति विष्णुभक्ताङ्घ्रिरेणुभिः ।

पर्वतोऽप्यणुतामेति विष्णुभक्तावमाननात् ।। (९)

ततः पलाशतीर्थस्य तीर्थे स्नानं वितेनिरे ।

तेनापि तेषामभवत् परिशुद्धिरघक्षयात् ।। (१०)

कतिचिद्दिवसांस्तत्र स्नात्वा तीर्थान्तरेष्वपि ।

दिनानि चक्रिरे स्नानं सप्त सप्त च सप्त च ।। (११)

ततः क्षाळितपापास्ते कल्याणतीर्थमाययुः ।

तपसा चरितेनापि विद्यया विष्णुभक्तितः ।। (१२)

वयसापि च तत्रैते वृद्धं ददृशुरग्रतः ।

प्रणेमुः पादयोरस्य परं प्रीतिसमन्विताः ।। (१३)

अन्वयुङ्क्त च तानेव मुनिस्तद्वत्तमादरात् ।

ऊचुस्ते पृच्छते तस्मै सर्वं वृत्तं चिरन्तनम् ।। (१४)

पञ्चभागवतक्षेत्रमहिमा

स मुनिस्तानिति प्राह क्षेत्रमेतन्महत्तरम् ।

अत्र भागवताः पञ्च निवासं चक्रिरे पुरा ।। (१५)

अहं च लोमशस्तेषां प्रभावात्प्रथितं भृशम् ।

क्षेत्रमेतदिहागम्य वर्ते धृत्या समन्वितः ।। (१६)

अम्बरीषो विकुक्षिश्च पुरा रुक्माङ्गदस्तथा ।

शुकश्च पुण्डरीकश्च पञ्च भागवताः स्मृताः ।। (१७)

स्वेषु स्वेषु च कालेषु ते च भागवतोत्तमाः ।

अज्ञानवारकस्यास्य तरोः दक्षिणभागतः ।। (१८)

स्थित्वा वराहरूपस्य देवस्य ध्यानमाचरन् ।

अस्य तीर्थस्य पूर्वत्र सन्निधत्ते सदा हरिः ।। (१९)

स्वेच्छावराहरूपेण वसुधाश्लेषचारुणा ।

अतो भागवतास्तत्र कुहनाकोलविग्रहात् ।। (२०)

विज्ञानं लेभिरे तस्मादज्ञानोन्मूलनक्षमम् ।

इहैव पोत्रिरूपेण विष्णुना प्रभविष्णुना ।। (२१)

श्लोकद्वयमुपादेशि भूम्यै भुवनमङ्गलम् ।

अद्यापि भक्तियोगेन ये च भावितचेतसः ।। (२२)

शरणागतिमाहात्म्यम्

तेषामाविर्भवन्नग्रे विज्ञानं सम्प्रयच्छति ।

अंबरीषः खलु पुरा ज्ञानिनामुत्तमोत्तमः ।। (२३)

भगवत्पादयोरेव निष्ठामात्यन्तिकीं व्यधात् ।

यस्येदं वाक्यमद्यापि पठ्यते भगवत्परः ।। (२४)

स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर ।

नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ।। (२५)

एवं भक्तिपराधीनमानसस्स महीपतिः ।

स्वेच्छा-वराहरूपस्य विष्णोस्सेवामिहातनोत् ।। (२६)

भगवानपि तस्याह सर्वान्धर्माननुत्तमान् ।

भगवान् –

शरणागतिधर्मञ्च ज्ञापयामास तत्त्वतः ।। (२७)

अम्बरीष महाभाग विद्यानामुत्तमोत्तम ।

न्यासविद्येति वेदेषु वेदान्तेषु च गीयते ।। (२८)

शरणागतिसन्यासत्यागप्रपदनोक्तिभिः ।

न्यास एव हि सर्वत्र पुराणादिषु पठ्यते ।। (२९)

पञ्चरात्रेषु सर्वत्र प्राचीकशमहं मुहुः ।

न्यास एव हि सर्वेषां धर्माणामुत्तमस्त्विति ।। (३०)

सत्याच्छ्रेष्ठं तपस्तस्माद्दमस्तस्माच्छमस्ततः ।

दानं धर्मस्ततो धर्माद्वरं प्रजननं ततः ।। (३१)

अग्नयोप्यग्निहोत्रञ्च तेभ्यस्तस्मान्मखस्ततः ।

मानसं मानसान्नयास इति हि श्रूयते बुधैः ।। (३२)

यथाहं सर्वदेवानामतिरिक्तो नृपोत्तम ।

यथा लक्ष्मीश्च सर्वानां नारीणामुत्तमोत्तमा ।। (३३)

तथा न्यासश्च धर्मेभ्यस्सर्वेभ्योऽप्यतिरिच्यते ।

कर्मिणो ज्ञाननिष्ठा वा नचैवार्हन्ति भूषते ।। (३४)

शरणागतिनिष्ठस्य कलां कोटितमीमपि ।

आकिञ्चन्यपुरस्कारात् विश्वासाच्च महत्तरात् ।। (३५)

शरणागतिनिष्ठायां चेतो मे प्रतितिष्ठति ।

मामेव शरणं प्राप्य वर्तते ये नराधिप ।। (३६)

तानेव शरणं प्राप्य तेषां हृदि वसाम्यहम् ।

मय्यर्पितभरा ये तु ते भवन्तीह निर्भराः ।। (३७)

इह वामुत्र वा नित्यं तेषां भारं वहाम्यहम् ।

रोमशः –

एवं भगवतो वाक्यादम्बरीषः कृतार्थधीः ।। (३८)

शरणागतिमाहात्म्यं सर्वदाप्यनुसन्दधे ।

चतुर्णामपि चान्येषां भगवद्-ज्ञानिनामिह ।। (३९)

वृत्तान्ता बहवस्सन्ति विस्तरानालपाम्यहम् ।

संसारमरुकान्तारसंतापार्तिप्रशान्तये ।। (४०)

इत्थं परश्शतं चान्ये निवासमिह चक्रिरे ।

तस्माद्यूयमिहावासात्सद्यः पूता भविष्यथ ।। (४१)

नारदः –

एवं रोमशवाक्येन वसिष्ठाः प्रीतचेतसः ।

तत्रोषित्वा विशुद्धिश्च संप्रापुर्मुनिसत्तमाः ।। (४२)

सीतारण्य-समुद्भूत-तुलसीदलसञ्चयैः ।

नारायणं समाराध्य सञ्जग्मुः परमां गतिम् ।। (४३)

नारदकृतभविष्यत्कलिधर्मोपदेशः

इति वृत्तमशेषञ्च भवतामीरितं मया ।

वर्तिष्यमाणमखिलं वदामि मुनिसत्तमाः ।। (४४)

कलिरेष महाभागाः क्रमशः परिपक्त्रिमः ।

पाषण्डवादैः प्रबलैर्वेदमार्गं निरोत्स्यति ।। (४५)

तत्त्वपाषण्डिनश्चैके वृत्तपाषण्डिनः परे ।

अपरे तत्त्ववृत्ताभ्यां त्रिधा पाषण्डिनः कलौ ।। (४६)

कर्मब्रह्मोभयेषाञ्च कथ्यन्ते तेऽपि वर्जनात् ।

अथवा विपरीतानां तेषामेव प्रकल्पनात् ।। (४७)

आपातज्ञानमात्रेण वैदिकाश्चाप्यवैदिकाः ।

अन्यदैवतसामान्यान् मंस्यन्ते मधुसूदनम् ।। (४८)

मीमांसायां कबन्धञ्च कथयिष्यन्ति केचन ।

राहुकल्पं शिरोभागं सङ्ग्रहिष्यन्ति चापरे ।। (४९)

यज्वानो नामयज्ञैश्च डम्भस्यैवान्यमूर्तयः ।

दण्डकुण्डलमात्रेण दर्शयिष्यन्ति योग्यताम् ।। (५०)

अन्तर्यामी समस्तानामाराध्यो भगवान् हरिः ।

वैदिकेषु च कर्मादिष्वन्तर्धास्यति वागियम् ।। (५१)

सन्यासिनोऽपि सर्वान्नभोजिनो नगरादिषु ।

म्लेच्छप्रायाश्चरिष्यन्ति मिथ्याचाराग्रयायिनः ।। (५२)

लक्ष्मणेन हतः पूर्वमाहवे राघवाज्ञया ।

मायावी पुनरुद्भूय करिष्यति कलेर्बलम् ।। (५३)

चरिष्यन्ति च सर्वत्र समिदाधानवर्जिताः ।

तुरङ्गब्रह्मचर्येण केवलं ब्रह्मचारिणः ।। (५४)

ब्राह्मणाश्च चरिष्यन्ति राज्ञामाज्ञानुवर्तिनः ।

आयोधनादिकं सर्वमकृत्यशतलम्पटाः ।। (५५)

धनमेव भवेत्पुंसामपराधः कलौ युगे ।

धनिनां दायमाप्स्यन्ति केवलं धरणीभुजः ।। (५६)

न गुरौ पुरुषाः केचिन्न पित्रोर्न च दैवते ।

प्राप्स्यन्ति तादृशीं भक्तिं यादृशीं प्रमदाजने ।। (५७)

न पुराणं न वेदाश्च नापि चाध्यात्मविस्तराः ।

भविष्यन्ति परं विद्या भरतादिः कलौ युगे ।। (५८)

नवयौवनदुर्दान्तमानसाश्च नतभ्रुवः ।

शश्वद्विडम्बयिष्यन्ति वृद्धश्वशुरचेष्टितम् ।। (५९)

गुणवत्सु च दारेषु विद्यमानेष्वपि द्विजाः ।

परदारानुरागेण पतिष्यन्ति कलौ युगे ।। (६०)

धर्मार्थं न प्रदास्यन्ति पात्रेषु कणिकामपि ।

प्रशंसार्थं प्रदास्यन्ति प्रभवो निखिलं धनम् ।। (६१)

न स्मरिष्यन्ति गोविन्दं नरकोत्तारकं जनाः ।

चरमेऽपि क्षणे सास्रं दारान् द्रक्ष्यन्ति विह्वलाः ।। (६२)

समृद्धशूद्रद्वारपालवेत्रचित्रासकारिभिः ।

द्वारभागे निरोत्स्यन्ते रागाद्दूरागता द्विजाः ।। (६३)

बहुना किमिहोक्तेन विष्णुभक्तिपरायणान् ।

अधिक्षेप्स्यन्ति भूपानां सेवोन्मत्तद्विजाधमाः ।। (६४)

नारायणं परित्यज्य देवतान्तरसेविनः ।

भविष्यन्ति जना नित्यमहो भाग्यस्य संक्षयः ।। (६५)

दुष्टैरेव कलौ द्रव्यैर्दुर्गाद्याराधनक्रियाम् ।

हरिबाद्याः करिष्यन्ति हत्वा भूतान्यपि द्विजाः ।। (६६)

श्मशानदेवतायाश्च करिष्यन्त्यर्चनं कलौ ।

पुत्रदारादिसंसर्गात्पुण्यपापविदोऽपि च ।। (६७)

परद्रव्यापहारेषु करिष्यन्ति परां रतिम् ।

न दैष्टिकान्न दाक्षिण्यशालिनो नापि चास्तिकान् ।। (६८)

राजानस्सङ्ग्रहिष्यन्ति ग्रहिष्यन्त्युद्भटान् द्विजान् ।

न श्रोष्यन्ति गुरोर्वाक्यं न ज्ञास्यन्ति हरेः पदम् ।। (६९)

यापयिष्यन्त्यहोरात्रमुदरम्भरयो नराः ।

समस्तजगतामीशे साक्षान्नारायणे स्थिते ।। (७०)

कवयः कथयिष्यन्ति यं कञ्चित्पुरुषाधमम् ।

योषिताञ्च कलौ रूपमदः केशैर्भविष्यति ।। (७१)

भर्तारं धनहीनं तु परित्यक्ष्यन्ति योषितः ।

प्रमदाश्च भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।। (७२)

पर्जन्यश्चाल्पवृष्टिस्तु सस्यं स्वल्पफलं तथा ।

अधर्मवृत्या लोकास्तु भविष्यन्त्यचिरायुषः ।। (७३)

एवं खलु मुनिश्रेष्ठाः कलिधर्मास्सहस्रशः ।

वर्तिष्यन्ते महीमध्ये वासुदेवस्य लीलया ।। (७४)

द्वापरान्ते कलिस्तत्र प्रवेष्टुं द्रुतमागतः ।

वेत्रदण्डधरैस्सद्यस्ताडितो विष्णुविङ्करैः ।। (७५)

तस्मात्कलिः यदुगिरिं न प्रवेक्ष्यति साध्वसात् ।

ततो वर्णाश्रमाचारपरा विष्णुपरायणाः ।। (७६)

सेविष्यन्ते यदुगिरौ देवं नारायणं प्रभुम् ।

साक्षादनन्तस्स गिरिस्सर्वदा सेवते हरिम् ।। (७७)

विशेषेणापि रूपेण सेवते च कृते कृते ।

लक्ष्मणाकतिमास्थाय त्रेतयामप्यसेवत ।। (७८)

सङ्कर्षणस्तु भगवान् सिषेवे द्वापरात्यये ।

सेविष्यते कलौ चैव तत्र शेषः श्रियः पतिम् ।। (७९)

तस्मान्नारायणं दृष्ट्वा तत्र यूयं मुनीश्वराः ।

शेषशेषाशनादीनामैश्वर्यं प्राप्स्यथ ध्रुवम् ।

एवं नारदवाक्येन सन्तोषं परमं ययुः ।। (८०)

इति किल मुनिपुत्रा विष्णुभक्ताङ्घ्रिरेणु-

स्पृशविगलितशापास्तीर्थसेवाधिकारम् ।

यदुगिरितटवासाद्रोमशस्योपसत्या-

परमपदमवापुश्चादरात्तेऽपि सर्वे ।। (८१)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये वसिष्ठसुतशापविमोचनादिकं नाम एकादशोऽध्यायः

अथ द्वादशोऽध्यायः

नारदादीनां गङ्गातरणपूर्वकं नारायणगिरिगमनम्

ततो नारदयुक्तास्ते मुनयः संश्रितव्रताः ।

नारायणगिरिं गन्तुमुपचक्रमिरे तदा ।। (१)

जग्मुर्भागीरथीं पूर्वं जातकौतूहला भृशम् ।

त्रिविक्रमपदाम्भोजमधुधारां मनोहराम् ।। (२)

बहुकल्लोलविस्तारबन्धुरां प्रेक्ष्य जाह्नवीम् ।

नाविकैरुपनीतां ते नावमारुरुहुर्मुदा ।। (३)

अत्रान्तरे महावातः पश्चिमस्सहसा ववौ ।

नावं च नाविका नेतुं नैव किश्चिदशक्नुवन् ।। (४)

सर्वे ते मुनयः प्रेक्ष्य तस्थुः सम्भ्रान्तचेतसः ।

अवदन् व्यासमालोक्य जातमत्याहितन्त्विदम् ।। (५)

नारायणाचलं गत्वा गळिताध्वपरिश्रमाः ।

वासुदेवपदाम्भोजं वयं लप्स्यामहे न किम् ।। (६)

इत्युक्तस्तैर्मुनिश्रेष्ठैर्मुहुः पर्याकुलेक्षणैः ।

व्यासस्तु पुण्डरीकाक्षसदासन्निधिनान्वितः ।। (७)

एतद्भगवतः कृत्यमित्यबोधि मुनीश्वरः ।

परमज्ञानसम्पन्नः पाराशर्यो मुनिस्ततः ।। (८)

नाविकान् प्राह नौरेषा नीयतां नीयतामिति ।

न शक्नुम इति प्राहुस्ते सर्वे नाविकाश्च तम् ।। (९)

ततोऽब्रवीन्महाभागः कृष्णद्वैपायनश्च तान् ।

भवद्भिर्नीयमानाया नावो नयनसाधनम् ।। (१०)

सर्वं क्षिपत गङ्गायामिति सर्वविदां वरः ।

प्रचिक्षिपुस्ततस्सर्वे तत्सर्वं जाह्नवीजले ।। (११)

व्यासवाक्यप्रमाणेन सहसा वीतसंशयाः ।

प्रापद्यत मुनिश्रेष्ठः प्रणतोत्तारकं हरिम् ।। (१२)

कूलान्तरं ततः प्राप सहसा नौरपि स्वयम् ।

ततस्ते मुनयस्सर्वे विस्मयं प्रतिपेदिरे ।। (१३)

अहो नु खलु माहात्म्यं व्यासस्येति बभाषिरे ।

पाराशर्यो मुनिः प्राह तान्सर्वान्मुनिपुङ्गवान् ।। (१४)

अस्मान्परीक्षमाणस्य विष्णोरेतद्विचेष्टितम् ।

आश्रितानां हि सर्वेषामवने नित्यकौतुकी ।। (१५)

आकिञ्चन्यपुरस्कारमवलोकयते हरिः ।

अध्यात्मशास्त्रसाराणामशेषगुणसम्पदाम् ।। (१६)

विश्वासस्तु महाविष्णोः प्रीतिहेतुर्मुनीश्वराः ।

सद्यस्तारयतो विष्णोस्संसारविषवारिधिम् ।। (१७)

अतिभारः किमस्माकम् आपगाया विलङ्घनम् ।

अवरुह्य ततस्सर्वे मुनयस्तोषिताशयाः ।। (१८)

विष्णुपद्या जले स्नात्वा चक्रिरे वैदिकीः क्रियाः ।

सर्वेष्वपि च मन्त्रेषु साक्षान्नारायणं हरिम् ।। (१९)

चिन्तयन्तो विशुद्धेन चेतसा ते वितेनिरे ।

अन्ये कुर्वन्ति कर्माणि केवलं विधिचोदिताः ।। (२०)

विष्णुभक्तास्तु कुर्वन्ति विष्णोराज्ञानुरूपतः ।

नर्मदामतिलङ्घ्याथ नलिनोत्पलगोभिताम् ।। (२१)

गोदावरीतटं प्रापुर्गोविन्दासक्तमानसाः ।

उञ्च्छवृत्यतिथिप्रियवृत्तान्तः

अतिथिप्रिय इत्येकस्तत्रावर्तत भूसुरः ।। (२२)

उञ्च्छवृत्तिरिति त्वन्यस्य च विष्णुपरायणः ।

अथ तान्यार्थयामास बहुशेऽप्यतिथिप्रियः ।। (२३)

भवनं मम युष्माभिरागन्तव्यं महात्मभिः ।

अहं सहस्रशो नित्यं ब्राह्मणान् भोजयामि च ।। (२४)

भवद्भिरपि भोक्तव्यं मद्गृहे महितैरिति ।

तं प्राहुर्मुनयस्सर्वे वयं तु तव मन्दिरे ।। (२५)

भोक्तुं नैवागमिव्यामो यत्त्वं न भजसे हरिम् ।

हरिभक्तेषु भक्ता ये हरेस्सेवाञ्च तन्वते ।। (२६)

ते हि नो बान्धवा ज्ञेया न तु सङ्कीर्णवृत्तयः ।

करवीरादिकं भुक्तं केवलं देहनाशनम् ।। (२७)

विष्णुभक्तिविहीनस्य देहिनञ्च विनाशयेत् ।

वरं देहपरित्यागो वरं वह्नेश्च भक्षणम् ।। (२८)

विष्णुभक्तिविहीनस्य न वरं भोजनं गृहे ।

अतिथिप्रियमित्युक्त्वा मुनयस्ते मुदान्विताः ।। (२९)

उञ्च्छवृत्तेर्गृहं प्रापुस्स्वयमेव कुतूहलात् ।

संपन्नं मां विलङ्घ्यैव ते दरिद्रगृहं गताः ।। (३०)

किं भोक्ष्यन्त इति स्वान्ते प्रजहासातिथिप्रियः ।

दृष्ट्वा तानुञ्च्छवृत्तिस्तु तुतोष भृशमुत्सुकः ।। (३१)

लब्धतुष्टेति तस्यासीत्पत्नी चारित्रशालिनी ।

सा मुनीनवलोक्यांश्चिन्ताव्याकुलिताभवत् ।। (३२)

उञ्च्छवृत्तिस्ततस्सर्वान्मुनीनुत्सुकमानसः ।

प्रणम्य शिरसा सद्यः प्रालपत्प्रीतमानसः ।। (३३)

शाककन्दफलादीनि यानि मे सन्ति तानि वः ।

निवेदयिष्ये भक्त्या किमलभ्यं भवादृशाम् ।। (३४)

इत्युक्त्वा मुनिशार्दूलान् इन्दिरारमणप्रियः ।

उञ्च्छवृत्तिः किमेतेषां दास्यामीति व्यचिन्तयत् ।। (३५)

आकिञ्चन्याभिभूतेन चिराय किल चेतसा ।

भक्ताराधनचित्तस्य भक्तस्य हृदयं च तत् ।। (३६)

दृष्ट्वा प्रसन्नवरदः प्राहसत्परमः पुमान् ।

प्रहसन्तं पतिं वीक्ष्य पद्मा पद्मेक्षणं पुनः ।। (३७)

अपृच्छद्धसनं किं ते तेनोक्तं भक्तकारणम् ।

ततस्तस्य गृहे विष्णोर्वल्लभा किल वीक्षणैः ।। (३८)

आवहस्त्रिदशेन्द्राणां अभिलाषपदां श्रियम् ।

यत्रायान्ति हरेर्भक्ता यत्र वा भुञ्जते प्रियात् ।। (३९)

स्वयमेव भविष्यन्ति तत्र वै सर्वसम्पदः ।

अकामोपनतां लब्ध्वा सम्पदं स मुनीश्वरान् ।। (४०)

सम्यगाराधयामास सन्तोषेण समन्वितः ।

ततस्तस्य गृहे भुक्त्वा तेषु संप्रीतबुद्धिषु ।। (४१)

आसनस्थेषु सव्रीडमाजगामातिथिप्रियः ।

प्रणनाम मुनिश्रेष्ठान् प्रभूतं प्रीतमानसः ।। (४२)

अतिथिप्रियं प्रति विश्वामित्रोपदिष्टभगवद्भक्तधर्माः

तमवेक्ष्य महाभागो विश्वामित्रो जगाद ह ।

उञ्छवृत्तेस्तु दारिद्र्यात् अहसस्त्वं पुरा मुनीन् ।। (४३)

चित्तेन गर्वसर्वस्वं भवतो वेद्मि खल्वहम् ।

नारायणपराणां हि संपत्तिस्सर्वतोमुखी ।। (४४)

स एव हि दरिद्रः स्याद्यस्त्वलक्ष्मीशसंश्रयः ।

केशवं यः परित्यज्य किंपचोऽन्यं निषेवते ।। (४५)

स हि कल्पद्रुमं त्यक्त्वा काङ्क्षते शाल्मलिद्रुमम् ।

नारायणं परित्यज्य योऽन्यमिच्छति सेवितुम् ।। (४६)

मुक्त्वा तेन सुधान्बोधिः मृग्यते लवणाकरः ।

विहाय माधवं यस्तु वीक्षते रक्षकान्तरम् ।। (४७)

स हि मन्दाकिनीतीरे मरीचिजलमिच्छति ।

गोविन्दं यः परित्यज्य गोप्त्रान्तरमपेक्षते ।। (४८)

त्यक्त्वा पोतं स भिन्नेन भाण्डेनोल्लङ्घयेन्नदीम् ।

यश्च विष्णुं विहायैव विचिनोत्यन्यदैवतम् ।। (४९)

लब्धचिन्तामणिं त्यक्त्वा कुरुविन्दं स वाञ्छति ।

याचते किञ्चिदपरं यस्त्यक्त्वा मधुसूदनम् ।। (५०)

सकृष्णमेघं सन्त्यज्य नीहारार्थी कृषीवलः ।

त्वचा त्रिविक्रमं यातु नेवते विदद्यान्तरम् ।। (५१)

सुरभिं स हि सन्त्यज्य सूकरं दोन्धुमिच्छति ।

अन्यमिच्छति यो देवमवमन्य तु वामनम् ।। (५२)

दीपं त्यक्त्वान्धतमसि खद्योतमनुधावति ।

यश्श्रीधरमतिक्रम्य श्रयते देवतान्तरम् ।। (५३)

शर्करां न विहायैव खादत्यूषस्मृत्तिकाम् ।

परित्यज्य हृषीकेशं परं यः प्रतिपद्यते ।। (५४)

चन्दनछायामुन्मुच्य स्निह्यति स्नुहि सञ्चये ।

विमुच्य पद्मनाभं यो विबुधान्तरमिच्छति ।। (५५)

निधिं निक्षिपति स्वान्तं त्यक्त्वा वै पैतृकं धनम् ।

त्यक्त्वा दामोदरं देवं सेवां योऽन्यत्र वाञ्छति ।। (५६)

लप्स्यते लाङ्गलीकन्दं मुक्त्वा कर्पूसञ्चयम् ।

विहाय वासुदेवं यस्सेवते देवतान्तरम् ।। (५७)

मुक्त्वेक्षुखण्डमेरण्डखण्डस्तेन हि खाद्यते ।

सङ्कर्षणं समुत्सृज्य तामसं दैवतं भजन् ।। (५८)

दिव्यौषधमनादृत्य करोति विषभक्षणम् ।

प्रद्युम्नं देवमुत्सृज्य राजसं दैवतं श्रितः ।। (५९)

विरक्तो हेमकूटे स्यादारकूटातिरागतः ।

अनिरुद्धमपेक्ष्याऽन्यं रक्षकान्तरमिच्छति ।। (६०)

मातुस्तन्यं हितं त्यक्त्वाऽजागळस्तनवाञ्छिता ।

शृणु चैतच्च विप्र त्वं यन्मया कथ्यते पुनः ।। (६१)

अगच्छं खल्वहं पूर्वं वसिष्ठस्याश्रमान्तिकम् ।

श्रुत्वा मामागतं प्राह स मुनिश्चाप्यरुन्धतीम् ।। (६२)

अरे गत्वा त्वया सद्यो योऽभूदध्वश्रमान्वितः ।

अन्नं सुपावनं तस्मै विश्वामित्राय दीयताम् ।। (६३)

इत्युक्तारुन्धती भी वसिष्ठेन महात्मना ।

आजगामान्नमादाय दातुं मह्यं मनस्विनी ।। (६४)

मध्ये मार्गं नदी काचित्प्रावहद्भीमदर्शना ।

निवृत्य भर्त्रे तद्वृत्तमाबभाषे मनस्विनी ।। (६५)

आचष्ट मुनिशार्दूलस्तामप्यथ महातपाः ।

वसिष्ठो ब्रह्मचारी चेन्नित्यं मार्गं प्रयच्छ मे ।। (६६)

इति त्वं वद ते मार्गं नदी दद्यान्न संशयः ।

इति भर्तुर्वचश्श्रुत्वा सहसागत्य साऽब्रवीत् ।। (६७)

तद्वाक्यात्सा नदी सद्यो मार्गं प्रादात्ततः परम् ।

दत्तमार्गा मुनिवधूरागत्यान्नं ममास्मृणोत् ।। (६८)

अभुञ्जि भगवद्भुक्तमन्नं धन्येन चेतसा ।

पुनर्जगाम सहसा पुण्यश्लोका तपस्विनी ।। (६९)

प्रववाह नदी भीमा मध्ये कल्लोलडम्बरैः ।

मत्सकाशमुपागम्य मह्यं तत्प्राह तापसी ।। (७०)

अहं नित्योपवासी चेमार्गं देहीति तां नदीम् ।

ब्रूहीत्यवदमाहैषा मार्गं प्रादाच्च सा नदी ।। (७१)

गत्वा तापसपत्नी सा जगाद मुनिपुङ्गवम् ।

मम भर्तुः कथं ते स्यात् ब्रह्मचर्यं मुनीश्वर ।। (७२)

मया भुक्तवतो दत्तं कथं नित्योपवासिता ।

उभाभ्यां खलु वाक्याभ्यां मार्गं प्रादाच्च सा नदी ।। (७३)

एवं वदन्तीमालोक्य व्याहरद्यमिनां वरः ।

स्वदारनिरतस्सोऽहं काले च परिगृह्यसे ।। (७४)

तन्नित्यब्रह्मचारित्वं मम तापसि युज्यते ।

विश्वामित्रोऽपि स मुनिः विष्णुभक्तिपरायणः ।। (७५)

जात्याश्रयनिमित्तैश्च नैव दुष्टं सुपावनम् ।

निवेद्य कमलाभर्तुः निरहङ्कारया धिया ।। (७६)

अनिषिद्धेषु कालेषु भुङ्क्ते गोविन्दनामतः ।

तस्मान्नित्योपवासित्वं तथ्यं तस्यापि मानिनि ।। (७७)

इत्थं वसिष्ठवाक्येन माभूत्सन्तोषशालिनी ।

तस्मात्त्वद्गृहभोक्तृत्वं नास्माकं द्विज युज्यते ।। (७८)

उञ्छवृत्तेः गृहे विष्णुभुक्तमन्नमभुञ्ज्महि ।

इति विश्वविदस्तस्य विश्वामित्रस्य भाषितम् ।। (७९)

श्रुत्वाऽतिथिप्रियस्सद्यः प्राप सत्त्वोत्तरां धियम् ।

जगाम परमां भक्तिं जगदीशे जनार्दने ।। (८०)

अतिथिप्रियः –

विश्वामित्र महाभाग मुनीनामुत्तमोत्तम ।

धन्योऽहमस्मि भवतो वाक्यैरिति तमब्रवीत् ।। (८१)

नारदः –

ततो गोदावरीतीरवासिनो हरिणान्मुनीन् ।

अवलोक्य परां प्रीतिं चक्षुषामुपलेभिरे ।। (८२)

मुनयोऽपि च तान्दृष्ट्वा मुदमन्तर्भृशं दधुः ।

हरिणानामहो भाग्यं परिपवित्रमचेतसाम् ।। (८३)

विमलं चाभवत् चित्तं विष्णुभक्तावलोकनात् ।

कृष्णवेणीं ततः प्रापुः कृष्णद्वैपायनादयः ।। (८४)

हरिणा हितचित्तास्ते हरिणैरपि संयुताः ।

तत्र वीरध्वजो नाम कश्चित् भागवतोत्तमः ।। (८५)

उपाचरन्मुनिश्रेष्ठानुत्तमैः द्रव्यसञ्चयैः ।

सुवर्णवस्त्ररत्नाद्यं सर्वं जगृहिरे च ते ।। (८६)

नारायणार्पणं कर्तुं मुनयो मुदिताशयाः ।

पाटच्चरास्ततः केचिद्गृहीतुं तत्समागताः ।। (८७)

विश्वामित्रस्तु तान्प्रेक्ष्य मुनिमन्त्रविदां वरः ।

वारयामास हस्तेन दक्षिणेन वनान्तरे ।। (८८)

सहस्रसंख्याश्शस्त्रैस्ते स्वैर्निजघ्नुः परस्परम् ।

हताः परस्परं ते च वसुधायामशेरत ।। (८९)

सर्वे ततो मुनिश्रेष्ठाः तेन सञ्जातविस्मयाः ।

प्रशशंसुः प्रभावं तं वहन्तं गाधिनन्दनम् ।। (९०)

यदुगिरिनारायणपुरवर्णनम्

ततो ददृशुरुत्तुङ्ग-शृङ्गमण्डलमण्डितम् ।

शाखिभिश्च कृतं विष्वक् शारिकाकुलसङ्कलैः ।। (९१)

निपतन्निर्झरा-रावमुखरी-कृतदिङ्मुखम् ।

शरण्यं देवतोपेतं शैलं भुवनपावनम् ।। (९२)

प्रणेमुः दूरतस्ते तु प्रणन्तव्यास्सुरैरपि ।

अयं हि परमो धर्मो यद्विष्णोर्धाम नन्दनम् ।। (९३)

आसेदुरथ शैलेन्द्रमाविर्भूतकुतूहलाः ।

अपिबन्त इवाक्षिभ्यामाद्यास्ते मुनिपुङ्गवाः ।। (९४)

अग्रे शैलस्य नगरीं शोभितामभितः श्रिया ।

सालेनावृतपर्यन्तां नागजालैरलङ्कृताम् ।। (९५)

नित्योत्सवप्रसङ्गेन दिक्षु दिक्षु ध्वजावृताम् ।

परीतां काहळीनादैः पचेळिमसुधारसैः ।। (९६)

आसिञ्चन्तीमशेषाणां श्रवरसोरन्तरं मुहुः ।

भेरीमर्दलमुख्यैश्च वाद्यैर्नादितदिङ्मुखाम् ।। (९७)

विततां जयशब्दैः च विष्णुभक्तमुखोद्गतैः ।

आम्नायघोषैरभितः परिपूरित-दिङ्मुखाम् ।। (९८)

सौधौ सौधे च सततं समारोपितदीपिकाम् ।

मणितोरणशृङ्गेषु बद्धमाल्यां मनोहराम् ।। (९९)

अभितः पाण्डरैश्छत्रैः आलोलैरपि चामरैः ।

श्वेतद्वीपश्रियं पुंसां वहन्तीमिव पश्यताम् ।। (१००)

ददृशुर्दिव्यवासानां मातृकां मुनिसत्तमाः ।

हरिणास्ते समागत्य हरिदर्शनलालसैः ।। (१०१)

मुनिभिर्नगरीमेनामपश्यन्नद्भुताकृतिम् ।

ततस्ते मुनयस्सर्वे हर्षोत्फुल्लविलोचनाः ।। (१०२)

श्रीमन्नारायणदिव्यमङ्गळविग्रहवर्णनम्

कल्याणरारसि स्नात्वा कृत्वा पौर्वाह्निकीः क्रियाः ।

आनन्दमयमध्यस्थं नारायणमनामयम् ।। (१०३)

ददृशुः भक्तिनम्रास्ते सौन्दर्यामृतवारिधिम् ।

लक्ष्मीलालितपादाब्जं रत्नमञ्जीरभूषितम् ।। (१०४)

आबद्धपीतवसनं बद्धकौशेयकोज्ज्वलम् ।

मध्ये जठरमाबद्धसौवर्णोदरबन्धनम् ।। (१०५)

उत्तरीयोपवीताभ्याम् उत्तरोत्तरमद्भुतम् ।

श्रीवत्सवैजयन्तीभ्यां श्रिया चोल्लसितोरसम् ।। (१०६)

कनकाङ्गदभूषाणां भुजानां भूषणान्तरैः ।

शङ्खचक्रगदा-पद्मैः आमोदितजगत्त्रयम् ।। (१०७)

विलसद्वदनाम्भोजं विस्फारितविलोचनम् ।

उल्लसद्गण्डफलकं रत्नकुण्डलमण्डितम् ।। (१०८)

रत्नैः विभ्राजमानेन मकुटेन विराजितम् ।

आपादचूडसौन्दर्यलहरीलङ्घनाक्षमैः ।। (१०९)

अक्षिभिः निगमान्तानामभितः परिवारितम् ।

पद्मायाः परमं भाग्यं पश्यतां नेत्रवारणम् ।। (११०)

श्रुतीनां मानसीं मूर्तिं सूरीणां कुलदैवतम् ।

अग्रस्थितं फलं पुंसाम् अपवर्गाभिलाषिणाम् ।। (१११)

अनुभूय समस्तास्ते भगवन्तं सनातनम् ।

ननन्दुः ननृतुश्चापि विधूताशेषकल्मषाः ।। (११२)

वीरध्वजेन दत्तं च तस्मै भगवते धनम् ।

न्यवेदयन् मुनिश्रेष्ठा निर्ममाः सर्वकर्मसु ।। (११३)

रत्नं सुवर्णं वस्त्राणि राजार्हमपि चासनम् ।

चामरं चन्दनाद्यं च छत्रं च विमलप्रभम् ।। (११४)

तीरे कल्याणतीर्थस्य मुनयस्ते सिषेविरे ।

त्रियुगं परया भक्त्या श्रीमन्नारायणं प्रभुम् ।। (११५)

भगवत्कृतकुशलप्रश्नपूर्वककल्याणतीरकरणीयदानप्रशंसा

पश्यन्नारायणश्श्रीमान् परितो मुनिपुङ्गवान् ।

प्रयतानब्रीदेतत् अनुकम्पामृताम्बुधिः ।। (११६)

भगवान् –

प्रीतोऽहं मुनिशार्दूला भवतामवलोकनात् ।

भक्तिसंभ्रान्तसर्वाङ्गा भक्ता एव हि मे धनम् ।। (११७)

कृपापरवशस्सोऽहं कृपा भक्तवशंवदा ।

भक्तभक्तिपराधीना भक्तिस्सा मत्प्रसादजा ।। (११८)

पारवश्यं हि भक्तेषु प्रभावं मम नेतरत् ।

नाहमिच्छामि युष्माभिः विना वैकुण्ठवैभवम् ।। (११९)

अत्र वा तत्र वा साकं युष्माभिस्सततं रमे ।

अधुना पुनरत्रैव वर्तध्वं मत्परायणाः ।। (१२०)

अधिकारावसाने तु वैकुण्ठे मामवाप्स्यथ ।

येऽमी केचन विन्ध्याद्रिमहारण्यनिवासिनः ।। (१२१)

हरिणा दूरमायातास्तेऽपि यान्तु परं पदम् ।

अयं प्रभावो भवतां पशवो भवदन्वयात् ।। (१२२)

स्वैरं यान्ति परं धाम सुराणामपि दुर्लभम् ।

चरन्त्विह तृणं ते च सञ्चरन्तु मदग्रतः ।। (१२३)

पिबन्तु तीर्थं कल्याणं न पिबन्तु पुनस्स्तनम् ।

वैकुण्ठवर्धनं ह्येतत् स्थानं नाम्नाऽभिधीयते ।। (१२४)

प्राज्ञो वा पामरो वाऽपि पशवो वाऽथ पक्षिणः ।

ये मामिह निषेवन्ते वैकुण्ठं वर्धयन्ति ते ।। (१२५)

ये तु कल्याणतीर्थस्य तीरे दानं वितन्वते ।

सहस्रगुणितं तेषां फलं सद्यो भविष्यति ।। (१२६)

एकां गां यो ददात्यत्र विधिवत् भक्तिसंयुतः ।

गवां कोटिप्रदानस्य पलं तेनाधिगम्यते ।। (१२७)

ब्राह्मणाय दरिद्राय विष्णुभक्ताय यः पुनः ।

तीरे कल्याणतीर्थस्य यत्क्षेत्रं संप्रयच्छति ।। (१२८)

तत्क्षेत्ररेणुसंख्यातान् वत्सरान् दिवि वर्तते ।

अनुभूयेप्सितान् भोगान अन्ते मामधिगच्छति ।। (१२९)

अथवा पुनराशायां सार्वभौमो भविष्यति ।

मामेव लप्स्यते पश्चात्सर्वथा न जहामि तम् ।। (१३०)

कल्याणतीर्थतीरे तु ब्राह्मणान् भोजयन्ति ये ।

चतुर्ष्वपि च कालेषु भविष्यन्ति चतुर्मुखाः ।। (१३१)

यो ददाति च वस्त्राणि तत्तीरे युक्तमानसः ।

श्रियं प्राप्स्यन्ति तद्वंश्या- सप्त सप्त च सप्त च ।। (१३२)

पर्याप्तं धनमेकस्मै कल्याणसरसस्तटे ।

यो दद्यात्स भवेदेव कल्पान्तरधनेश्वरः ।। (१३३)

अश्वं वा स्यन्दनं वात्र गजं वा यः प्रदास्यति ।

स्वराज्यमनुभूयान्ते स्वाराज्यमधिगच्छति ।। (१३४)

मुक्ताप्रदायिनस्तत्र मुक्तखेदाः सबान्धवाः ।

तारापथमवाप्स्यन्ति हारलङ्कृतवक्षसः ।। (१३५)

कांस्यं वा रजतं वापि ददते चात्र ये नराः ।

चन्द्रलोकमवाप्स्यन्ति तिष्ठन्त्याचन्द्र-तारकम् ।। (१३६)

कल्याणतीर्थसलिलं कुंभेनादाय ये नराः ।

संप्रयच्छन्ति पितरस्तेषां स्युः तृप्तचेतसः ।। (१३७)

अध्यापयन्ति ये बालाः तस्य तीर्थस्य सन्निधौ ।

लप्स्यन्ते वाग्मिनः पुत्रान् धन्यान्मेधाविनो बहून् ।। (१३८)

यो वा श्रावयते विद्यामध्यात्मज्ञानदायिनीम् ।

उपदेष्टृपदं नित्यं मत्सहायमवाप्स्यति ।। (१३९)

तिलदानानि तत्तीरे काले काले वितन्वते ।

पापानि तेषां तिलशो नश्यन्त्येव न संशयः ।। (१४०)

कन्यां कल्याणतीर्थस्य भूषितां कनकादिभिः ।

तीरे ददति ये तेषां शृणुध्वं फलमुत्तमम् ।। (१४१)

धनधान्यसमृद्धास्ते जीवित्वा धरणीतले ।

श्रीभूमिनीळासंयुक्तं मां प्राप्स्यन्ति च मत्पदे ।। (१४२)

तस्मादिहैव मुनयो यूयं भजत मामिति ।

उक्त्वा नारायणश्श्रीमान् आनन्दमयसञ्ज्ञिते ।। (१४३)

विमाने रमाया सार्धं मोदते स्म मनोहरे ।

ततस्तु नारदः प्राह मुनीन्मुदितचेतसः ।। (१४४)

श्रुतं समस्तं दृष्टञ्च मुनिभिर्दिव्यमद्भुतम् ।

चरितं वासुदेवस्य यादवाद्रि-निवासिनः ।। (१४५)

यादवाचलमाहात्म्यम् इदं पुण्यं पुरातनम् ।

यः पठेत् शृणुयाद्वापि स एव भगवत्परः ।। (१४६)

तस्य गेहे च लक्ष्मीश्च विद्यापि च विवर्धते ।

तं पूजयति यो नित्यं स फलं सर्वमृच्छति ।। (१४७)

यादवाचलमाहात्म्यं यस्य गेहे प्रवर्तते ।

आयुरारोग्यमैश्वर्यं सर्वं तस्य भविष्यति ।

पुत्राश्च पुण्यनिरता भविष्यन्ति पुनः पुनः ।। (१४८)

इति निखिलजनानामीप्सितार्थप्रदायी

कुलपतिरमराणां अब्धिकन्यापतिर्नः ।

यदुगिरितटभागे याच्यमानो ददाति

स्वपदकमलसेवाराज्यसाम्राज्यलक्ष्मीम् ।। (१४९)

दलमपि तुलसीनां देहिनो यादवाद्रौ

मधुरिपुपदपद्मे निक्षिपन्तः कदाचित् ।

मुहुरपि विबुधानां मुक्तिसोपानभाजां

सुरभित-हरिदन्तां पुष्पवृष्टिं लभन्ते ।। (१५०)

चरमचरमशेषं यः पुमान्वीक्ष्य निन्ये

परमपि पदं तत् पावनैरक्षिपातैः ।

यदुशिखरिनियन्तुः स्तेन नित्यार्चिताङ्घ्रे

हरिणकुल-मुमुक्षा हन्त तस्यैव शिक्षा ।। (१५१)

यदुगिरितटभाजः शृण्वते ये च विष्णोः

कलितनिगमवादान् काहळीनां प्रणादान् ।

करणविगमकाले ते हि वैकुण्ठसेना-

विजयपटहनादान् विष्वगाकर्णयन्ति ।। (१५२)

मरुदपि मुखमग्रे पश्यतां यादवाद्रौ

निखिलभुवनरक्षा निर्निमेषस्य विष्णोः ।

सुरभितहरिदन्तं स्वागतं धाम्नि दिव्ये

वदनकमलगन्धैर्वक्ति वैकुण्ठनाथः ।। (१५३)

क्षणमपि निवसन्तः केवलं यादवाद्रौ

दहरकुहरयाता देवयानप्रयाताः ।

सकलमपि च कालं सानुबन्धां लभन्ते

परमपुरुषगोष्ठीपङ्क्तिमध्ये निवासम् ।। (१५४)

मुनिवरगिरमेनां इत्थमाकर्ण्य केचिद्

व्यधिषत यदुशैले वीतरागा निवासम् ।

कतिचन सहमाद्यं धाम संप्राप्य विष्णोः

अकृषत सह सेवां शेषशेषाशनाद्यैः ।। (१५५)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये भगवत्सन्दर्शनं नाम द्वादशोऽध्यायः

इत्थं श्रीनारदपुराणान्तर्गतः प्रथमप्रभूतिद्वादशपर्यन्तद्वादशाध्यायात्मकश्रीमद्यादगिरिमाहात्म्यपरपुराणभागः समाप्तिमगमत्

।।श्रीरस्तु।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.