यादवाद्रिदर्शनम् Part 3

।। श्रीरस्तु ।।
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीमत्स्यपुराणान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्
हरिः ओम्
अथ प्रथमोऽध्यायः
शौनककृतयादवगिरिवैभवविषयकप्रश्नः

श्रीसूतः –
श्रीपुण्यारण्यशरणाः पुण्यशीला महाबुधाः ।

वैभवं क्षेत्रतीर्थानां वर्णितं पापनाशनम् ।। (१)

युष्मत्सन्निधिमात्रेण चोदितेन मया द्विजाः ।
दयाशीलाः प्रसन्नोऽहं किं भूयश्श्रोतुमर्हथ ।। (२)
शौनकः –
सा ते धर्मविशेषज्ञ सर्वशास्त्रविशारद ।
गङ्गादिसर्वतीर्थानां क्षेत्राणां पुष्करस्य च ।। (३)

कुरुक्षेत्रस्य माहात्म्यं मधुरायाश्च वैभवम् ।
वाराणस्याश्च माहात्म्यम् अयोध्यायाश्च वैभवम् ।। (४)

द्वारकाक्षेत्रमाहात्म्यं वेङ्कटाद्रेश्च वैभवम् ।
यादवाद्रेः प्रभावं च सह्याद्रेर्मलयस्य च ।। (५)

श्रीमुष्णक्षेत्रमाहात्म्यं रङ्गक्षेत्रस्य वैभवम् ।
अन्येषां क्षेत्रतीर्थानां वैभवं परमाद्भुतम् ।। (६)

पीतमस्माभिरमृतं त्वन्मुखाम्भोजनिस्सृतम् ।
परावरेषां क्षेत्राणां तीर्थानां च महामते ।। (७)

श्रुत्वा तु वैभवं तेषामत्यद्भुतमतृप्नुमः ।
तत्र यादवशैलस्य माहात्म्यश्रवणे विभो ।। (८)

कुतूहलाद्वयं सर्वे वर्णनेति कुतूहलाः ।
तस्मात्पृच्छामहे त्वां हि संशयं छिन्धि सुव्रत ।। (९)

रहस्यं च प्रकाशं च सर्वं जानासि सर्ववित् ।
पुरा यादवशैलस्य माहात्म्यश्रवणे त्वया ।। (१०)

प्रोक्तं मानवदेवैश्च दुर्घटं ब्रह्मरुद्रकैः ।
किरीटागमनं विष्णोः क्षीरसागरशायिनः ।। (११)

किमर्थमागतः कृष्णो द्वारकानिलयोऽच्युतः ।
कृष्णः किरीटं धृत्वा तु किमर्थं वसति प्रभुः ।। (१२)

द्वारकामपि सन्त्यज्य तत्र नित्यं प्रसन्नधीः ।
प्रह्लादवरदो विष्णुः नृहरिः कथमागतः ।। (१३)

कति तीर्थानि सन्त्यत्र कति चायतनानि च ।
आगता बदरीवृक्षाः कथं बदरिकाश्रमात् ।। (१४)

किमर्थमागताश्वेतमृत्तिका पावनी शुभा ।
एतदन्यच्च सर्वं वो वक्तुमर्हसि सुव्रत ।। (१५)

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।
श्रीसूतः –
साधु साधु द्विजश्रेष्ठाः कथां सारतरां शुभाम् ।। (१६)

सर्वपापप्रशमनीं सर्वमङ्गळवर्धिनीम् ।
पुरा कृतयुगे विप्रः धर्मज्ञः संशितव्रतः ।। (१७)

दीप्तिमानिति विख्यातः तपस्वी कृष्णभक्तिमान् ।
कुमारं परिपप्रच्छ सत्यलोके पुरानघः ।। (१८)

भवद्भिर्यदहं पृष्ट एतदेव द्विजर्षभाः ।
दीप्तिमान् –
सनत्कुमारसर्वज्ञ वदतां वद नो वर ।। (१९)

यादवाद्रेः प्रभावं च यत्र सन्निहितो हरिः ।

इत्येवमुक्तः करुणं कुमारो नारायणस्याङ्घ्रिनिविष्टचित्तः ।
दयाळुना दीतिमताऽतिहृष्टो व्याहर्तुमद्रेर्महिमानमुत्सुकः।। (२०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
शौनककृतयादवगिरिवैभवविषयकप्रश्नो नाम

प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः
श्रीकृष्णावतारकंसादिवधकथनम्

सनत्कुमारः –
दीप्तिमंस्ते प्रवक्ष्यामि यादवाद्रेश्च वैभवम् ।
अत्यद्भुतं महापुण्यं त्वमिहैकमनाः शृणु ।। (१)

भूमिर्भारेण सन्तप्ता कंसादीनां सुरद्विषाम् ।
गौस्सत्यपाद्रवद्भीता सर्वदेवगणैर्वृता ।। (२)

ब्रह्मणा चापि शर्वेण तीरं क्षीरपयोनिधेः ।
ब्रह्माऽस्तौद्रुद्रसहितश्श्यामलं शान्तविग्रहम् ।। (३)

विष्णुं वरेण्यं वरदं प्रभविष्णुमधीश्वरम् ।
प्रेमगद्गदया वाचा सारं सुष्ठु मितं मृदु ।। (४)

ब्रह्मा –
नमोऽस्तु नारायण विश्वमूर्ते
नमोऽस्तु ते शाश्वत शर्वयोगिन् ।
त्वमेव विश्वं सचराचरात्मकं
त्वय्येव विश्वं प्रवदन्ति सन्तः ।। (५)

नमोऽस्तु ते कारणकारणाय

नमोऽस्तु कैवल्यफलप्रदाय ।
नमो नमस्तेऽस्तु जगन्मयाय

वेदान्तवेद्याय नमो नमस्ते ।। (६)

कार्यक्रियाकारणमप्रमेयं

कविं पुराणं कमलायतेक्षणम् ।

कुमारवेद्यं करुणामयं तं

कल्पद्रुमं विष्णुमहं भजामि ।। (७)

त्रिलोकनाथं सरसीरुहाक्षं

दयानिधिं पद्मभवार्चिताङ्घ्रिम् ।

महाबलं वेदनिधिं सुरेशं

सनातनं विष्णुमहं भजामि ।। (८)

सनत्कुमारः –

इति स्तुत्वा रमानाथं ब्रह्मा तूष्णीमवस्थितः ।

ततः प्रादुरभूद्विष्णुः श्रीदेवः करुणानिधिः ।। (९)

ऊचे वाचं सुधाधारां ब्रह्माणं स भवं विभुः ।

अवधारितमेतन्मे भवतां मानसं हि यत् ।। (१०)

यदोः कुलेऽवतीर्णस्सन्भुवो भारं हराम्यहम् ।

तद्गच्छत महाभागाः कंसशङ्काभयोज्झिताः ।। (११)

इत्युक्त्वान्तर्दधे विष्णुः ब्रह्मा लोकपितामहः ।

देवीं भूमिं समाश्वास्य कर्तव्यं च निवेद्य च ।। (१२)

यापयित्वाथ सर्वांश्च स्वलोकमगमद्विभुः ।

अथ विष्णुस्सदानन्दः चिन्तयामास स द्विज ।। (१३)

जन्मक्षेत्रं शुभं देवः कुत इत्येव निश्चिते ।

यादवस्य शुभे क्षेत्रे वसुदेवस्य धीमतः ।। (१४)

अवतीर्य भुवो भारं हरिष्यामीति मे मतिः ।

एवं सङ्कल्प्य भगवान् स्वस्थाने पूर्ववत् स्थितः ।। (१५)

अथ शौरिः कृतोद्वाहः देवकीप्रमुखाः स्त्रियः ।

कंसस्तुष्टमना विप्र बहुमानपुरस्सरम् ।। (१६)

प्रेषयामास भगिनीं तूर्यघोषपुरस्सरम् ।

तदाह्यभून्नभोवाणी मेघनिर्ह्रादनादिता ।। (१७)

हन्ताऽस्याष्टमो गर्भः त्वां यां वहसि दुर्मते ।

श्रेयश्चिन्तय शीघ्रं त्वं स्वात्मनः कुमते ध्रुवम् ।। (१८)

इत्युक्त्वान्तर्दधे वाणी कंसो मूढमतिस्तदा ।

हन्तुमुद्युक्तवान् तां वै स्वार्थोन्मूलितसौहृदः ।।  (१९)

सन्धितो वसुदेवेन निवृत्तस्सारवाक्यवित् ।

अस्याः पुत्रान्प्रदास्यामि मोचयाशु शुभां स्त्रियम् ।। (२०)

इत्युक्तस्स तु सन्तुष्टः प्रेषयामास दम्पती ।

ततः काले तु संप्राप्ते देवकी सुषुवे प्रजाः ।। (२१)

कंसः पापमतिर्मोहात् नारदस्योपदेशतः ।

स्वसुस्सुतान् हनन्पापस्तौ च कारागृहे द्विज ।। (२२)

निगलैः बन्धयामास विष्णुमेव विचिन्तयन् ।

आस्ते गृहे दुर्मतिभिः मन्त्रिभिश्च परीवृतः ।। (२३)

सप्तमे निर्गते गर्भे भगवान् मधुसूदनः ।

आविरासीच्छुभायास्तु देवक्यास्तु शुभोदरे ।। (२४)

ताभ्यां स्तुतस्स भगवान् गोकुलं गोविभूषितम् ।

गतो नन्दं नन्दयितुं नन्दनन्दनभावतः ।। (२५)

कंसस्तु चण्डिकावाक्यं श्रुत्वा विस्मयमागतः ।

पूतना-शकटादींश्च प्रेषयामास तद्वधे ।। (२६)

आगतानहनत्कृष्णो रमयन् गोकुलं विभुः ।

ततस्समागत्य पुरं स कृष्णोऽ-

प्यक्रूरमित्रस्सबलस्सभाङ्गतः ।

चिकीर्षया शं स्वजनस्य पित्रोः

प्रासादजालैः बहुभिस्समावृतम् ।। (२७)

बलेन सहितो देवः पुरवीथीषु निर्गतः ।। (२८)

कुतूहलाद्-द्रष्टुकामो वयस्यैः पुरसंपदः ।

दृष्ट्वाऽतिविस्मितः कृष्णो युद्धलीलाकुतूहली ।। (२९)

रजकस्य तु धूर्तस्य कं हृत्वातिबलस्य च ।

पर्यधत्त वयस्यैश्च शाटीर्भूपसुभूषिताः ।। (३०)

सैरन्ध्र्याः कामतप्तायाः कृतवान् प्रीतिमद्भुताम् ।

पाटीरपङ्कसुप्रीतः सर्वकामफलप्रदः।। (३१)

कृत्वा तु धनुषो भङ्गं तत्रत्यानहनद्बली ।

ततः कुवलयापीडं हत्वा रङ्गं प्रविश्य च ।। (३२)

चाणूरमुष्टिकारिष्टतौसलादीन् महाबलान् ।

कृत्वा व्याजेन तान् हत्वा तदाचार्यानपि द्विज ।। (३३)

पुनः कुतूहलात्कृष्णो मञ्चमुत्तुङ्गमारुहत् ।

उत्तुङ्गमञ्चाद्रिपुयूथनाथं

कंसं निपात्याऽतिबलं ह्यधोऽधः ।

परेतमाकृष्य महासभायां

सुसाधुवादस्सुमहानभूत्तदा ।। (३४)

निगळान्मोचयामास पितरौ स दयानिधिः ।

सान्त्वयामास सान्त्वज्ञः सान्त्ववाक्यैर्विमोहकैः ।। (३५)

ततः कृष्णश्च रामश्च गायत्रीव्रतमास्थितौ ।

ततः सान्दीपनाद्विप्रात् चतुष्षष्टिकळामगात् ।। (३६)

दक्षिणां गुरवे दत्त्वा पितृस्थानात्तु पुत्रकम् ।

हतं जामातरं श्रुत्वा जरासंधो महाबलः ।। (३७)

त्रयो विंशतिभिस्सैन्यैः परिवार्यातिरुष्टधीः ।

अक्षौहिणीभिस्संख्यातैरागतो मधुरां पुरीम् ।। (३८)

विनिर्जितः कृष्णवलेन संयुगे

जरासुतो विस्मितनम्रकन्धरः ।

कृष्णं विदित्वातिबलं महामतिः

पुरं प्रविश्याथ व्यचिन्तयत्तदा ।। (३९)

एवं सप्तदशकृत्वस्तावदक्षौहिणीबलैः ।

पराजितस्ससैन्यश्च कृष्णेनाऽद्भुतकर्मणा ।। (४०)

अष्टादशमसङ्ग्रामो ह्यभवद्रोमहर्षणः ।

जरासन्धेन कृष्णोऽपि बलदेवेन संयुतः ।। (४१)

लोके चित्रगतिं चित्रकथां चाचिन्तयद्बुधः ।

नैकत्रास्ते जयो वापि ह्यजयो वापि भूतले ।। (४२)

इति प्रदर्शयन्कृष्णो ह्यपराजितविक्रमः ।

पराजित इव श्रीमान् अपलायत्सतां गतिः ।। (४३)

दक्षिणाभिमुखस्तूर्णम् अग्रजेन समन्वितः ।

जरासन्धोऽपि सैन्येन तमनुप्रविशत्क्रुधा ।। (४४)

द्विपमुद्दिश्य गच्छन्तं सिंहं क्षुद्रमृगो यथा ।

कृष्णो गिरिवरक्षेत्रं तुङ्गमारुहदद्भुतम् ।। (४५)

तमज्ञाय जरासन्धो गिरावग्निं समासृजत् ।

कृष्णरामौ तु तद्धित्वा द्वारका जग्मतुर्द्रतम् ।। (४६)

जरासुतोऽपि दुर्बुद्धिर्दग्धौ ताविति निश्चितः ।

परं गतस्ससैन्यश्च कृतार्थोऽहममन्यत ।। (४७)

जगज्जन्मादिलीलस्तु विप्रोद्धारे हितो महान् ।

मर्त्यलीलानुकरणस्सभां प्राविशदद्भुताम् ।। (४८)

वरासनगतश्श्रीमान् रामेण सहितो हरिः ।

सर्वानाहूय मन्त्रज्ञान्मन्त्रितुं जगदीश्वरः ।। (४९)

सात्यकिश्चोद्धवश्चैव ह्यरक्रूश्चैव बुद्धिमान् ।

उग्रसेनो महाभागो ये चान्ये यदुपुङ्गवाः ।। (५०)

समागतास्सभायां वै बुद्धिमन्तो विचक्षणाः ।

सभ्याश्शृण्वन्तु सद्वाचं मम प्रीतिकरां शुभाम् ।। (५१)

यस्मिन् देशे निवत्स्यामि भ्रातृव्यभयवर्जिते ।

पुण्यवृक्षलतोपेते पुण्यतीर्थसमन्विते ।। (५२)

पुण्यद्विजगणोपेते पुण्यामलजलाशये ।

तं देशं द्रष्टुकामोऽहं संकर्षणसहायवान् ।। (५३)

गच्छान्यद्यैव हे सभ्या रक्षध्वं द्वारकां शुभाम् ।

इत्युक्त्वा नगरात्प्रातः दक्षिणाभिमुखो ययौ ।। (५४)

बहून्देशानतिक्रम्य वनानि सरितो गिरीन् ।

गोमन्तं भूधरश्रेष्ठं तुङ्गद्रुमलताचितम् ।। (५५)

करवीरपुरं रम्यं तन्मूले सन्ददर्श ह ।

सृगालं वासुदेवेन रक्षितं बहुदुर्गमम् ।। (५६)

ददर्श भगवान् कृष्णो बलदेवेन विस्मितः ।

दुर्गद्वारं ततो गत्वा शङ्खमापूरयद्विभुः ।। (५७)

श्रुत्वा तु शङ्खध्वनिमापतन्तं

सृगालमत्यद्भुतवेषभूषणम् ।

हत्वा तदन्तःपुरमाविशद्धरिः

ततो गिरिं चारुहदद्भुतं द्विज ।। (५८)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीकृष्णावतारकंसादिवधकथनं नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणम्

हत्वा सृगालं कृष्णोऽपि रामश्चाद्भुतविक्रमः ।

गोमन्तं पर्वतश्रेष्ठं तुङ्गमारुहतां विभू ।। (१)

पारिजातैश्च मन्दारैश्चंपकैश्चैव पाटलैः ।

प्रियाळैश्चूतपोतैश्च सालतालैस्समावृतम् ।। (२)

मधुकैश्च तमालैश्च अर्जुनैर्वकुळैरपि ।

प्लक्षैर्वटैः शिंशुपैश्च ह्यरिष्टौदुंबरैरपि ।। (३)

चन्दनैः पिचुमन्दैश्च सरळैः कोविदारकैः ।

द्राक्षेक्षुभिश्च जंबूभी रंभाभिस्सुरदारुभिः ।। (४)

कपित्थैः बिल्वजातीभिः बदर्याक्षौभयामलैः ।

जंबीरैर्नारिकेळैश्च शोभितं तत्र तत्र ह ।। (५)

नीपैर्वञ्जुळकैश्चैव कदम्बैश्च विराजितम् ।

नळवेतसकुंदैश्च शिरीषाशोकमण्डितम् ।। (६)

कुब्जकैः कुटजैश्चैव स्वर्णयूधीभिरिङ्गुदैः ।

नागपुन्नागजात्यैश्च मल्लिकाशतपत्रिकैः ।। (७)

जालकैश्शोभितं विप्र नित्यर्तुभिरलंद्रुमैः ।

सरांसि सरितस्तस्मिन् निर्मलानि महान्ति च।। (८)

लसत्काञ्चनपद्मैश्च कह्लारैः कुमुदोत्पलैः ।

शोभितानि द्विजश्रेष्ठ तीरजैश्च सुमैरपि ।। (९)

षट्पदैर्मत्तशकुनैः कलनिस्स्वनमङ्गळैः ।

हंसकारंडचक्राह्वैः जलकुक्कुटसारसैः।। (१०)

शोभितानि सुपुण्यानि निर्मलोदवहानि च ।

ब्रह्मविद्भिस्सेवितानि महापापहराणि च ।। (११)

सन्ति तत्र द्विजश्रेष्ठ तस्मिन् शैलवरोत्तमे ।

तस्मिन् ददृशतुर्वीरौ प्रदेशे रामकेशवौ ।। (१२)

शृङ्गं प्रहर्षणं नाम ह्यतितुङ्गं महाद्भुतम् ।

आरुह्य जगतां नाथौ तत्र शृङ्गाग्रचारिणौ ।। (१३)

सर्वाश्चर्यतमं चापि पश्यन्तौ च दिशो दश ।

रममाणौ यथा काममूषतुः पर्वतोत्तमे।। (१४)

क्षीराब्धिनाथकिरीटागमनकथारंभः

दीप्तिमन् शृणु वक्ष्यामि किरीटागमनं यथा ।

काश्यपो नाम मेधावी तपस्वी बहुपुत्रकः ।। (१५)

तस्यासन् बहुपत्न्यस्तु तत्रैका च वरानना ।

दितिरित्यभिविख्याता भर्तृशुश्रूषणे रता ।। (१६)

तस्याः पुत्रास्तु बहवो ह्यासन् बलपराक्रमाः ।

विनिर्जिताः पलायन्त सपत्न्याः पुत्रकैः भृशम् ।। (१७)

तदा दितिस्तु भर्तारम् इन्द्रहर्तारमाहवे ।

प्रार्थयामास पुत्रं सा स्वार्थसाधनतत्परा ।। (१८)

सन्ध्याकालमजानन्ती केवलं काममोहिता ।

काश्यपस्तदुपाकर्ण्य विस्मितोऽभूद् द्विजोत्तम ।। (१९)

काश्यपः –

इदानीं होमकालं तु मुहूर्तं प्रतिपालय ।

ततः पुत्रं प्रदास्यामि सुव्रते धर्मचारिणि ।। (२०)

दितिः –

इदानीमेव मे पुत्रं दातुमर्हसि सुव्रत ।

सनत्कुमारः –

इत्युक्त्वाकृष्य भर्तारं रहसि प्रविवेश ह।। (२१)

ततः काश्यपविप्रेन्द्रः स्नात्वा तां कुपितोऽब्रवीत् ।

काश्यपः –

यस्मात् दारुणवेळायाम् आगतासि वरानने ।। (२२)

असुरौ तौ भवेतां द्वौ दारुणौ लोककण्टकौ ।

सनत्कुमारः –

इति भर्तुर्वचश्श्रुत्वा भयविह्वलमानसा ।। (२३)

भर्तारं प्रणिपत्याह सत्पुत्रं देहि मे प्रभो ।

इत्येवं याचितः पत्न्या काश्यपो वाक्यमब्रवीत् ।। (२४)

काश्यपः –

पौत्रस्तु भविता भद्रे साधूनां संमतस्सुधीः ।

प्रह्लाद इति विख्यातो नाम्ना भागवतः कृती ।। (२५)

प्रार्थ्यमानैः पुण्यगुणैः लोकानाह्लादयिष्यति ।

यस्मिन्विरुध्य जनको नृहरेर्मृत्युमेष्यति ।। (२६)

प्रह्लादपुत्रो मेधावी विरोचन इति श्रुतः ।

भविष्यति सुधर्मात्मा गोब्राह्मणसुपूजकः ।। (२७)

त्रैलोक्यलक्ष्मीं बुभुजे बहुदातेति विश्रुतः ।

इन्द्रो ब्राह्मणरूपेण मध्याह्नसमये सति ।। (२८)

याचयामास तं वीरम् अभीष्टं देहि मे प्रभो ।

विरोचनः –

दास्यामि यदभीष्टं ते ब्रह्मन्वरय वाञ्छितम् ।। (२९)

काश्यपः –

इत्युक्तस्तेन तस्यैव शिरस्संयाचयिष्यति ।

सोऽपि धीमान् शिरो दत्त्वा ब्रह्मलोकं गमिष्यति ।। (३०)

तस्य पुत्रो महाभागो महाभागवतो महान् ।

महाबलिरिति ख्यातो भविष्यति सुशोभने ।। (३१)

सनत्कुमारः-

इत्युक्त्वा विररामाऽथ गृहकर्मणि संस्थितः ।

सापि भर्तृवचश्श्रुत्वा मुमोद सुभृशं दितिः ।। (३२)

पुत्रौ सा सुषुवे चापि हिरण्याक्षं सुदारुणम् ।

हिरण्यकशिपुं चापि ह्यसुरं घोरदर्शनम् ।। (३३)

हिरण्यकशिपोः पुत्रः प्रह्लादोऽभून्महामतिः ।

विरोचनस्तु तत्पुत्रः तस्य पुत्रो महाबलः ।। (३४)

महाबलो महातेजा महाभागवतो महान् ।

अभूत् त्रयाणां लोकानां नाथः स्वाचार्यसेवया ।। (३५)

सूतः –

इतीदमाकर्ण्य वचस्तु दीप्तिमान्

आनन्दसन्दोहजले निमग्नः ।

पुनस्स पप्रच्छ तदेव पुण्यं

सनत्कुमारं भगवन्तमेव ।। (३६)

सनत्कुमारः –

साधु पृष्टं त्वया विप्र सारं सारविदां वर ।

अत्याश्चर्यतमं नृणां बलेश्चरितमद्भुतम् ।। (३७)

शृणु चित्तं समाधाय भक्तस्याद्भुतकर्मणः ।

माहात्म्यं विष्णुलीलाभिर्युतं सर्वफलप्रदम् ।। (३८)

विरोचनसुतः श्रीमान् पुण्यश्लोकशिखामणिः ।

बलिस्सुपुत्रो मेधावी किंचोदारश्रवा मुने ।। (३९)

स तु शुक्रं समाराध्य त्रैलोक्यां बुभुजे श्रियं ।

कौशिकप्रमुखान् देवान् विनिर्जित्य मृधेऽसुरः ।। (४०)

वामनावतारकथा

तदादितिस्तु भर्तारं प्रार्थयामास सुव्रता ।

पुत्रश्रेयांसि सुश्रोणी समाराध्य स्वधर्मतः ।। (४१)

काश्यपस्तां प्रहृष्टात्मा दुःखितां मोहितां सतीं ।

काश्यपः –

पयोव्रतमिदं भद्रे सर्वकामदमाचर ।। (४२)

सदा सतामृषीणां च सत्यं विष्णोः प्रसादकम् ।

तदनुष्ठानमात्रेण सर्वान्कामानवाप्नुहि ।। (४३)

सनत्कुमारः –

इत्युक्त्वा विधिपूर्वं तत्, उपदिश्य महामतिः ।

तया सह व्रतं चक्रे विष्णोः प्रीतिकरं शुभम् ।। (४४)

साकं महर्षिभिर्विप्र निर्मलैः संशितव्रतैः ।

ब्रह्मघोषाकुलायां हि शालायां सर्वविद्विभुः ।। (४५)

आविर्भूतो महाविष्णुर्दयानेत्रो दयाकृतिः ।

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।। (४६)

चतुर्भुजं विशालाक्षं गदाशङ्खाद्युदायुधम् ।

श्रीवत्सहारकेयूर-नूपुरादिविराजितम् ।। (४७)

काश्यपो मुनिभिस्साकं विस्मितो विस्मयाकृतिम् ।

दण्डवत्प्रणिपत्याथ परमानन्दनिर्वृतः ।। (४८)

उत्थाय प्राञ्जलिर्भूत्वा काश्यपो वाक्यमब्रवीत् ।

सारं सुष्ठु मितं हृद्यं पुण्यं श्रोत्रप्रियं महत् ।। (४९)

काश्यपः –

जय जय जगतां पतये नमस्ते

मम च जयं कुरु त्वं हि कल्पवृक्षः ।

सततमुरसि यस्य श्रीवधूस्सुखं

वसति तमेव हरिं शरणं व्रजे ।। (५०)

ऋषयः –

देव देव जगन्नाथ जगदीश जगन्मय ।

पाह्यस्मान्सर्वलोकेश तापत्रयमहानलात् ।। (५१)

श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे ।

श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ।। (५२)

गर्भजन्मजराव्याधिघोरसंसारसागरात् ।

अस्मानुद्धर गोविन्द कृष्ण विष्णो जनार्दन।। (५३)

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

तीर्थश्रवश्रवण मङ्गळनामधेय ।

शं नः कृधीश भगवन्नसि दीननाथ

आपन्न लोकवृजिनान्यपनोदयाद्य ।। (५४)

विश्वाय विश्वभुवनस्थितिसंयमाय

स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहित-पूर्णबोध

व्यापादितात्मतमसे हरये नमस्ते ।। (५५)

त्वामाश्रित्यैव भगवन् साधवो मृत्युपीडिताः ।

तरन्ति मृत्युं किमुत सपत्नांस्तृणसोदरान् ।। (५६)

विष्णुः –

देवमातर्भवत्याहं तोषितो व्रतचर्यया ।

अपत्यपालनं कुर्मि तव कल्याणि नित्यदा ।। (५७)

स्वांशेन तव पुत्रत्वम् उपेत्य च शुभानने ।

शत्रूनिर्जित्य सत्यं हि सदा गोप्तास्मि ते सुतान् ।। (५८)

इत्युक्त्वान्तर्दधे विष्णुः महाकारुणिकः प्रभुः ।

ततः प्रादुरभूद्देव्याम् अदित्यां विजयी हरिः ।। (५९)

सोऽपि वामनरूपी स्यात् महामुनिगणैर्हरिः ।

उपमानस्तु विधिवद्देवर्षिगणपूजितः ।। (६०)

लोकवृत्तान्तश्रवणव्याजेन स हरिस्तदा ।

महाबलिस्तु शुक्रादीनाराध्य यजनोत्सुकः ।। (६१)

अश्वमेधशतेनैव दीक्षितादारकीर्तिमान् ।

बहुदातेति चाकर्ण्य बलेरद्भुतकर्मणः ।। (६२)

ऋषीन् विसृज्य चैकाकी दण्डछत्राङ्कितो हरिः ।

तेजस्वी यशसा दीप्तो यज्ञशालामुपाविशत् ।। (६३)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणादिकथनं नाम

तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

श्रीवामनाय बलिकृतभूमिप्रदानम्

दीप्तिमान् –

ततः किमकरोद्विष्णुः वामनाकृतिरद्भुतम् ।

प्रविष्टो यज्ञशालायां बलेर्भक्तिमतो गुरौ ।। (१)

श्रद्दधानाय भक्ताय त्वयि चाधोक्षजेपि च ।

ब्रूहि स्निग्धाय शिष्याय चरितं वामनाकृतेः ।। (२)

सनत्कुमारः –

यदा प्रविष्टो भगवान् यज्ञशालां स वामनः ।

तदा तु साग्नयो विप्रा भृगवो ब्रह्मवादिनः ।। (३)

यजमानश्च सर्वेपि ऋत्विजो ये समागताः ।

उत्तस्थुर्मुनयस्सर्वे प्राणाः प्राण इवागते ।। (४)

यजमानः प्रमुदितः कृतार्थोऽसीति चिन्तयन् ।

प्रणनर्त मुहूर्तं तु ह्यात्मविस्मृतिपूर्वकम् ।। (५)

ततः कृत्वा मनोधैर्यं परिमृज्य च लोचने ।

उवाच मधुरं वाक्यं कृतार्थेनान्तरात्मना ।। (६)

विष्णुं वरेण्यं वरदं वामनं वटुरूपिणम् ।

स दण्ड-च्छत्र-सजल-कमण्डलु-विराजितम् ।। (७)

बलिः –

धन्योऽहं कृतकृत्योऽहं पुण्योऽहं द्विजसत्तम ।

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।। (८)

अद्य मे सफलं ज्ञानं यज्ञश्च सफलो मम ।

पितृदेवादयो मह्यं सुप्रीतास्तव दर्शनात् ।। (९)

इत्युक्त्वाऽसनमावेश्य पूजयित्वा यथाविधि ।

तत्पादशौच-सलिलम् आजिताळकबन्धनः ।। (१०)

यत्पादसलिलस्पर्श-विधूताशेषबन्धनाः ।

ब्रह्मरुद्रादयस्सर्वे ऋषयश्च तपस्विनः ।। (११)

द्विजवर्य महाभाग ह्यर्थिनं त्वां वितर्कये ।

ददामि वाञ्छितं सत्यं वटो कायं प्रतीच्छ मे ।। (१२)

वामनः-

वाञ्छितं यदि मे राजन् दास्यसि त्वं प्रदीयताम् ।

पदानि त्रीणि राजेन्द्र संमितानि पदा मम ।। (१३)

तपस्तप्तुमलं तेन सुप्रीतोऽस्मि न संशयः ।

सनत्कुमारः –

वामनाय महीं दातुम् उद्युक्तमसुरर्षभम् ।। (१४)

बद्धहस्तोऽथ भगवान् ग्रहणे शङ्कितोऽभवत् ।

नेत्रान्तसञ्ज्ञां गुरवे कृतवान् वामनो हरिः ।। (१५)

तां विलोक्याथ शुक्रोपि शिष्यं प्राह द्विजोत्तम ।

शुक्रः –

महाबले विमूढात्मन् विष्णुरेषस्सनातनः।। (१६)

कथं दास्यसि सुप्रीतो मामनादृत्य दुर्मते ।

पादेनैकेन भूलोकं द्वितीयेन च खं दिशः ।। (१७)

क्रमिष्यति न सन्देहो विश्वकायो दुरासदः ।

तार्तीयस्य गतिः कुत्र न तस्माद्देयमन्यथा ।। (१८)

वक्तव्यं तु त्वया राजन्नात्र दोषो न विद्यते ।

बलिः –

विष्णुश्चेत्पुण्यवानस्मि विप्रो यदि तथैव हि ।। (१९)

नान्यथा वक्तुमिच्छामि प्रसादं कुरु मे विभो ।

सनत्कुमारः –

शुक्रः क्रुद्ध उवाचेदं शिष्यं धीरं महाबलिम् ।। (२०)

ततस्त्वमसि दुर्बुद्धे श्रीमदाद्गुरुहेळनात् ।

सद्य एव हि मद्वाक्यादचिराद् भ्रंश्यसे श्रियः ।। (२१)

इत्युक्त्वा विररामाथ शुक्रो विष्णुप्रभाववित् ।

बलिरुद्युक्तवान्दातुं वामनाय महीं द्विज ।। (२२)

दत्तवान्विष्णवे भूमिमर्चित्त्वोदकपूर्वकम् ।

तोये तु पतिते हस्ते वामनोऽभूदवामनः ।। (२३)

एकेन भुवमाक्रम्य द्वितीयेन पदा दिवम् ।

ततश्च वामनो भूत्वा तृतीयमुपकल्पय ।। (२४)

इत्युक्तो बलिरप्याह शिरसि न्यस्यतां पदम् ।

तस्य मूर्ध्नि पदं न्यस्य ह्यात्मसात्कृत्य तं विभुः ।। (२५)

उवाच मधुरं वाक्यं प्रहृष्टो बलिमच्युतः ।

वामनः

भो भो वैरोचने त्वं हि भक्तानामग्रणीः मम ।। (२६)

सुतलं याहि धर्मज्ञ प्रह्लादेन मया सह ।

अहं सदा सन्निहितो दर्शनार्थं तवाऽनघ ।। (२७)

गदापाणिस्सदा वीर रक्षामि तव पत्तनम् ।

सनत्कुमारः –

इत्यादिश्यामरगणैः ऋषिभिश्च सहेश्वरः ।। (२८)

नर्मदायाश्शुभजले पुण्ये परमपावने ।

तस्मिन्नवभृथस्नानं चकार सुरसत्तमः ।। (२९)

ततः प्रह्लादसहितो बलिना चासुरैस्सह ।

सुतलं स्वगिभिः प्रार्थ्य प्रविवेश गदाधरः ।। (३०)

गदापाणिस्सदा देवस्सान्निध्यं कुरुते हरिः ।

तं पूजयन्महाभागो ह्यसुरो मुदमाप सः ।। (३१)

सूतः –

अतिचित्रमिदं कुमारमुख्यो

हरिगुणवर्णनतुष्टमानसः ।

हरिचरितमिदं पुनः प्रवक्तुं

ऋषिगणमध्यगतो ह्युपाक्रमत्

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

श्रीवामनाय बलिकृतभूमिप्रदानकथनं नाम

चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

गोमन्तपर्वतं प्रति नारदागमनम्

सनत्कुमारः –

गोमन्ते पर्वते रम्ये पुण्यतीर्थनिषेविते ।

पुण्यद्रुमलताजाले पुण्यामलजलाशये ।। (१)

पुण्यैर्मुनिगणैर्जुष्टे जुष्टे पुण्यमृगैर्द्विजैः ।

तस्मिन् गिरिवरे कृष्णो बलदेवेन संयुतः ।। (२)

तत्र तत्र प्रदेशेषु रम्येषूपवनेषु च ।

क्रीडन्नानन्दभरितः परमानन्दमाधवः (३)

अत्रैव वत्स्ये चिरकालमद्भुते

पुण्यैर्द्विजेन्द्रैरभिपूजितोऽहम् ।

देवैश्च नित्यं मुनिभिश्च सात्विकैः

ब्रह्मादिभिश्चापि सनन्दनैर्भुवि ।। (४)

इति निश्चित्य वैकुण्ठं द्वारकां सूर्यमण्डलम्।

रम्यं विष्णुपदं चापि क्षीराब्धिं सुमनोहरम् ।। (५)

सर्वमुक्तान्यनुक्तानि क्षेत्राणि च बहूनि च ।

पुण्यानि पुण्यतीर्थानि सर्वं विस्मृतवान् हरिः ।। (६)

तस्मिन्काले महाभागो लोकतत्त्वविचक्षणः ।

नारदो वरदं द्रष्टुं वैकुण्ठं परमं गतः ।। (७)

तत्रादृष्ट्वा जगन्नाथं ततो विष्णुपदं गतः ।

तत्राप्यदृष्ट्वा देवेशं मण्डलं भास्करस्य तु ।। (८)

तत्राप्यदृष्ट्वा क्षीराब्धिं श्वेतद्वीपं गतो मुनिः ।

तत्राप्यदृष्ट्वा दुःखार्तो नारदोभून्महामुनिः ।। (९)

तदा समीरितां वाणी गगने मेघनिस्वनाम् ।

गोमन्तपर्वते रम्ये क्रीडति स्म हरिर्मुने ।। (१०)

तत्र द्रक्ष्यसि देवेशं सत्यमेव न संशयः ।

इति प्रघोषितां देवीम् अरूपां श्रुतवान् मुनिः ।। (११)

श्रुत्वा तु परमानन्दमवाप मुनिसत्तमः ।

तदैव गतवांस्तत्र गोमन्ते पर्वतोऽत्तमे ।। (१२)

ददर्श यादवश्रेष्ठं कृष्णमत्यद्भुतं हरिम् ।

प्रणिपत्य प्रसन्नात्मा तुष्टाव मधुसूदनम् ।। (१३)

देव देव नमस्तेऽस्तु जगदीश जगन्मय ।

त्वामहं शरणं यामि प्रपन्नातिहरं हरिम् ।। (१४)

इति स्तुत्वा मुनिस्तूष्णीं विस्मितोऽभूद्धरिं वरम् ।

तदा हरिस्तु सुग्रीतः प्रोवाच मुनिपुङ्गवम् ।। (१५)

हरिः –

अत्रैव वसितुमिच्छामि गोमन्तगिरिसानुनि ।

तवागमार्थमेवात्र वैकुण्ठादिस्थलेष्वपि ।। (१६)

न मया दर्शनं तुभ्यं दत्तं स्वायम्भुवोत्तम ।

श्वेतद्वीपो मुनिश्रेष्ठ किरीटं रत्नभूषितम् ।। (१७)

क्षीराब्धिश्च महाभाग पुण्यकाननमेव च ।

तेषामागमनेऽप्यत्र कुरूपायं महामते ।। (१८)

सनत्कुमारः –

तथेति च मुनिर्हृष्टः परिक्रम्य प्रणम्य च ।

घटयामि मम स्वामिन् गतस्सुतलमद्भुतम् ।। (१९)

बलिना पूजितस्सम्यक् प्रह्लादेन महात्मना ।

उवाच नारदो भक्तं प्रह्लादं सबलिं द्विज ।। (२०)

नारदः –

धन्यस्त्वमसि लोकेऽस्मिन् पौत्रेण सह सुव्रत ।

यस्माद्धरिगदापाणिः आस्तेऽत्र पुरपालकः ।। (२१)

बलिः –

धन्योऽस्मि कृतकृत्योऽस्मि देवर्षे तव दर्शनात् ।

कस्मालोकादागतोऽसि किञ्चागमनकारणम् ।। (२२)

लोकवृत्तञ्च मे ब्रूहि वन्दनं तै करोम्यहम् ।

नारदः –

बहून्लोकान् हि गन्ताहं विष्णुसेवोत्सुको बले ।। (२३)

क्षीराब्धिं गतवांस्तत्र विष्णुमत्यद्भुताकृतिम् ।

नूपुरैः कटकैः भान्तं कटिसूत्राङ्गुळीयकैः ।। (२४)

अङ्गदैर्भूषितं रत्नरचितैः पीतवाससम् ।

मुक्ताहारैः हेममयैः मणिभिस्समलङ्कृतम् ।। (२५)

विनिर्मित-महारत्न-स्फुरन्मकरकुण्डलम् ।

चार्वायतभुजं मन्दस्मितमुन्नतनासिकम् ।। (२६)

सर्वरत्नसमायुक्तकिरीटवरभूषणम् ।

दृष्ट्वा तं विष्णुमव्यक्तं परमानन्दनिर्वृतः ।। (२७)

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।

तत्किरीटमपि स्मृत्वा मनो याति तदात्मताम् ।। (२८)

किरीटवरमाहात्म्यं किं वक्ष्यामि महाबले ।

तत्रैव वसितुमिच्छामि गच्छामीति ययौ मुनिः ।। (२९)

 

भगवत्किरीटानयनाय बलेः क्षीराब्धिगमनम्

सनत्कुमारः –

बलिः श्रुत्वा मुनेर्वाक्यं किरीटाहरणोत्सुकः ।

ततः प्रह्लादमामन्त्र्य तत्रत्यांश्च सुहृज्जनान् ।। (३०)

क्षीराब्धिस्थं हरिं दृष्ट्वागच्छामीति त्वरान्वितः ।

इत्युक्त्वामन्त्र्य तान् सर्वान् महाभागवतो महान् ।। (३१)

सुतलात्स विनिर्गत्य क्षीराब्धिं गतवान्बलिः ।

तत्र दृष्ट्वा महात्मानं देवदेवं वृषाकपिम् ।। (३२)

नारदोक्तगुणैर्युक्तं नारायणमनामयम् ।

बलिस्तु हृष्टहृदयः स्तोतुं समुपचक्रमे ।। (३३)

बलिः –

देव देवेश योगेश पुण्यश्रवणकीर्तन ।

भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ।। (३४)

परावरगतिज्ञाय नमस्ते कालरूपिणे ।

चतुर्विंशगुणज्ञाय पञ्चविंशात्मने नमः ।। (३५)

नमः कारणरूपाय परमानन्दमूर्तये ।

भक्ताय मेऽनुरक्ताय दयां कुरु कृपानिधे ।। (३६)

सनत्कुमारः –

इति स्तुतस्स भगवान् बलिना भक्तवत्सलः ।

उवाच स्मयमानस्तं बलिं भागवतोत्तमम् ।। (३७)

हरिः –

दास्यामि वाञ्छितं सर्वं त्वया भागवतोत्तम ।

स्तोत्रेणानेन सुप्रीतः त्वद्भक्त्या च विशेषतः ।। (३८)

बलिः –

देव देव सुरश्रेष्ठ किरीटं रत्नभूषितम् ।

गदाधराय देवेश स्वामिन् मल्लोकवासिने ।। (३९)

याचे नाथाय नाथस्त्वं लोकनाथ शिखामणे ।

ततः किरीटमादाय दत्त्वा हस्ते महाबलेः ।। (४०)

प्रेषयामास भगवान् गच्छ गच्छेति सादरम् ।

सनत्कुमारः –

ततः किरीटमादाय त्वरया स विनिर्गतः ।। (४१)

ततस्तर्क्षसुतो विप्र समीपं गतवान् हरेः ।

सर्वाभरणसंपन्नं किरीटेन विवर्जितम् ।। (४२)

दृष्ट्वा विस्मयमापन्नः पक्षौ धुन्वन्प्रकोपनः ।

किमिदं किमिदं केन हृतं सर्वे ब्रुवन्तु मे ।। (४३)

गरुडेन गोमन्तपर्वते श्रीकृष्णाय किरीटसमर्पणम्

 

इति ब्रुवन्नुत्पपात खं खगेन्द्रस्सवीर्यवान् ।

ऊर्ध्वदेशं ततो गत्वा दिशो दश विलोकयन् ।। (४४)

विलोक्य दक्षिणामाशां तस्यां दिशि महाद्भुतम् ।

दिव्यं विमानं गच्छन्तं ददर्श गरुडो महान् ।। (४५)

मनोजवस्तु वेगेन बलेरन्तिकमागमत् ।

तत्र युद्धमभूद्धोरं तुमुलं रोमहर्षणम् ।। (४६)

जित्वा कथञ्चित्पक्षीन्द्रो ह्यविषह्यं सुरद्विषम् ।

गृहीत्वा रत्ननिचयं किरीटं भास्करोपमम् ।। (४७)

ददर्श गरुडो मार्गे देवकीनन्दनं हरिम् ।

वसन्तं ऋषिभिस्सार्धं गोमन्ते पर्वतोत्तमे ।। (४८)

स एव हरिरत्रास्ते यत्र गन्तुं समुद्यतः ।

निश्चित्यैवं हरेः पार्श्वमुपागम्य विहङ्गराट् ।। (४९)

तस्य मूर्ध्नि निधायाशु किरीटं रत्नभूषितम् ।

इन्द्रनीलसहस्राढ्यं गोमेधिकशताचितम् ।। (५०)

पद्मरागमहानीलमुक्ताजालविराजितम् ।

पुष्यरागप्रवाळाढ्यं दिव्यकाञ्चननिर्मितम् ।। (५१)

प्रणम्य पादयोः मूर्ध्ना स्तोतुं समुपचक्रमे ।

तथैव पद्मोद्भवविष्णुपार्षदा

देवेन्द्रगन्धर्वसुरा महर्षयः ।

समीहिरे चानकशङ्खसंस्तवैः

प्रसूनवर्षैः ववृषुर्मुदान्विताः ।। (५२)

ब्रह्मादयस्तु तं दृष्ट्वा किरीटवरभूषितम् ।। (५३)

पृथक् स्तुवन्ति मुनयः सिद्धविद्याधरादयः

भूलोकभूषणं कृष्णं दयापूर्णं सुरेश्वरम् ।। (५४)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

गोमन्तं प्रति नारदागमनं नाम पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः

ब्रह्मकृतविष्णुस्तुतिः

ब्रह्मा –

नमो भगवते श्रीमन् नारायण नमोऽस्तु ते ।

नमोऽस्तु तेऽभिरामाय सत्यानन्दचिदात्मने ।। (१)

नमो देवादिदेवाय पञ्चाशद्वर्णरूपिणे ।

नमश्शान्ताय दान्ताय नमो रुद्रप्रियाय च ।। (२)

नमो विद्याधिराजाय हयग्रीवाय ते नमः।

देवानामधिराजाय ज्योतिषां पतये नमः ।। (३)

नमस्सहस्रहस्ताय सहस्रचरणाय च ।

नमो जीमूतवर्णाय नमस्ते विश्वतोमुख ।। (४)

अनन्ताय नमस्तुभ्यं नमस्ते शेषशायिने ।

नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः ।। (५)

नमो मूलप्रकृतये देवानां हितकारिणे ।

नमस्ते वेदगर्भाय ज्योतिषां ज्योतिषे नमः ।। (६)

नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।

शङ्खचक्रगदापद्म-किरीटवरधारिणे ।। (७)

नमोऽस्तु वासुदेवाय नमो रामाय ते नमः ।

नमो नमस्ते देवेश सर्वसम्पत्प्रदायक ।। (८)

नमः कारणरूपाय कैवल्यपतये नमः ।

यज्ञेशाय नमस्तुभ्यं समस्तक्रतुपालक ।। (९)

नमो नमः केशवाय नमः कृष्णाय शार्ङ्गिणे ।

गोविन्दाय नमस्तुभ्यं वेधसे परमात्मने ।। (१०)

नमो नमस्ते नाथाय नमस्ते मधुसूदन ।

त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः ।। (११)

अच्युताय नमस्तुभ्यं नमस्ते सेतुरक्षक ।

जनार्दन नमस्तेऽस्तु पुण्यश्लोकशिखामणे ।। (१२)

नमो वेदान्तसाराय ब्रह्मादिमुनिसेवित ।

नमो नित्याय शुद्धाय बुद्धाय ज्ञानरूपिणे ।। (१३)

नमो मुक्ताय सत्याय परमानन्दमूर्तये ।

नमो योगरहस्याय सहस्रज्योतिषे नमः ।। (१४)

सनत्कुमारः –

इति स्तुत्वा हरिं ब्रह्मा तूष्णीमासीत् द्विजोत्तम ।

अतिगुह्यतमं दिव्यं रहस्यमतिदुर्लभम् ।। (१५)

सर्वबाधापहरणं सर्वविद्याफलप्रदम् ।

अभीष्टफलदं पुण्यं सर्वलोकैकवश्यकम् ।। (१६)

विज्ञानदं सदा नृणां शृण्वतां पठतां सदा ।

गुरोस्सकाशात्सङ्गृह्य स्तोत्रमेतत्पठेद्विजः ।। (१७)

एवं रुद्रादयस्सर्वे गन्धर्वा मुनयोऽमलाः ।

पृथक् स्तुत्वा जगन्नाथं मुदमापुः सुरादयः ।। (१८)

ततः प्रहृष्टो गरुडः उस्थितस्सन्निधौ हरेः ।

प्राञ्जलिः प्रयतो भूत्वा स्तोतुं समुपचक्रमे ।। (१९)

गरुडः –

नमो नमः कारणपूरुषाय

नारायणायाखिलपूरुषाय ।

सुरारिसंमारणकारणाय

शेषासनायाखिलकर्मसाक्षिणे ।। (२०)

तं त्वां यदोर्वशकरं सुरेशं

जानेऽवतीर्णं भुवने वृषाकपिम् ।

अहं हि भृत्यस्तव वैनतेयः

ब्रूहि प्रियं किं करवाणि देव ।। (२१)

गरुडेन श्वेतमृत्तिकाद्याहरणम्

श्रीभगवान् –

अत्रैव वस्तुमिच्छामि भक्तसङ्घसमावृते ।

देशे सुपुण्ये गोमन्तप्रान्ते द्विजवरोत्तम ।। (२२)

तस्मादानीयतां क्षिप्रं गत्वा तु क्षीरसागरम् ।

क्षीरसागरतीर्थं च मम प्रीतिकरं शुभम् ।। (२३)

श्वेतद्वीपमृदं चैव कल्पपादपसञ्चयान् ।

एतान् सर्वान् समादाय द्रुतमागच्छ मत्प्रियान् ।। (२४)

सनत्कुमारः –

इत्युक्तस्सर्वदेवानामृषीणां चापि शृण्वताम् ।

ततो विराट् समुत्थाय सर्वमानीतवान् द्विज ।। (२५)

ततो मुनिगणा हृष्टा ऊचुः परमधार्मिकाः ।

क्षीरसागरसम्मिश्रश्वेतमृत्पादपा हरे ।। (२६)

किमर्थं ते समानीता ब्रूहि तत्कारणं विभो ।

अस्माभिः करणीयं किं तैस्सर्वगुणभूषण ।। (२७)

भगवान्परिपृष्टस्तैः उवाचातिप्रसन्नधीः ।

इतः परन्तु हे विप्रा गोमन्तो गिरिसत्तमः ।। (२८)

यादवाद्रिरिति ख्यातो भविष्यति न संशयः ।

क्षीराब्धितीर्थोऽतिमहान् कल्याणीति महत्सरः ।। (२९)

भविष्यति महापुण्या महापुण्यप्रदायिनी ।

एतेषामाश्रितास्सौम्यच्छायां क्षीराब्धिभूरुहाम् ।। (३०)

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।

विप्रा मन्त्रविदो युक्ताः करिष्यन्ति तपो महत् ।। (३१)

ऋषीन् प्रति भगवता श्वेतमृत्तिकादिमाहात्म्यकथनम्

 

धर्मार्थकाममोक्षांश्च प्राप्नुवन्ति न संशयः ।

महिमानं मृदो विप्राः प्रवक्ष्यामि तपोधनाः ।। (३२)

शृणुध्वमृषयस्सर्वे देवदैत्यादयोऽमलाः ।

कलौ तु विप्राः पापिष्ठे सर्वधर्मविवर्जिते ।। (३३)

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चैवान्यजातयः ।

देवासुरादयो वापि ब्रह्मरुद्रपुरस्सराः ।। (३४)

सर्वे स्नात्वा तु विधिवत्कल्याण्यास्तु शुभे जले ।

पुंड्रं श्वेतमृदा धृत्वा धृत्वा पद्माक्षमालिकाम् ।। (३५)

तुलसीकासंभूतमणिमालां मनोरमाम् ।

तां च धृत्वा कण्ठपूर्णां शुद्धान्त:करणामलाः ।। (३६)

प्रणम्य श्रद्धया विप्राः प्रसादोन्मुखमीश्वरम्।

सन्तं ह्यर्चास्वरूपेण मां प्रसन्नमुखांबुजम्।। (३७)

अनायासेन मुक्ताश्च भविष्यन्ति न संशयः।

श्वेतमृद्धारणेनैव यत्र कुत्र स्थिता द्विजाः ।। (३८)

मुक्ता एव न सन्देहो ह्यशक्ता दर्शने मम ।

ब्रह्मरुद्रद्विजश्श्रेष्ठाः मम हार्द्रसुखावहम् ।। (३९)

शृणुध्वं हि महाभागाः सत्यमेव ब्रवीम्यहम्।

अत्रैव निवसिष्यामि ह्यर्चारूपेण देवताः ।। (४०)

यूयमत्रैव सान्निध्यं कुरुध्वं यादवे गिरौ ।

इत्युक्त्वा स हरिस्तूष्णीं सर्वदेवर्षिसन्निधौ ।। (४१)

अर्चाविग्रहरूपेण स्थितः पर्वतसानुनि ।

अतिमानुषरूपेण श्रीकृष्णो द्वारकां गतः ।। (४२)

तदा ब्रह्मादयस्सर्वे परमानन्दनिर्वृताः ।

चक्रुः कुतूहलं ब्रह्मन् कर्तुमुत्सवमुत्सुकाः ।। (४३)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादगिरिमाहात्म्ये

ब्रह्मकृतविष्णस्तुत्यादिकथनं नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

पुरनिर्माणगङ्गाद्यानयनपूर्वकब्रह्मकृतभगवन्महोत्सवः

सनत्कुमारः –

ब्रह्मा तु विश्वकर्माणम् आहूय द्विजपुङ्गव ।

द्रुतमाज्ञापयामास कुरु मन्दिरमद्भुतम् ।। (१)

प्रासादगीपुरवरं कृष्णप्रीतिकरं शुभम् ।

तदाज्ञां शिरसा कृत्वा विश्वकर्मा महामतिः ।। (२)

कर्तव्यं श्रद्धया भक्त्या मया सन्तुष्टचेतसा ।

इति निश्चित्य कृतवान् मन्दिरं ह्यद्भुतं महत् ।। (३)

प्राकारगोपुरं रम्यं ध्वजतोरणशोभितम् ।

विमानं चाद्भुताकारं दिव्यकाञ्चननिर्मितम् ।। (४)

सर्वरत्नसमायुक्तं मुक्ताजालसुभूषितम् ।

मण्डपानि विचित्राणि हेमस्तंभयुतानि च ।। (५)

श्रीमद्वज्रकवाटानि वज्रसोपानवन्ति च ।

वाहनानि विचित्राणि हेमरत्नमयानि च ।। (६)

कृतवान्मन्दिरं दिव्यं क्षणादेव द्विजीतम ।

विश्वकर्मा –

ब्रह्मन्मम च सर्वस्वम् अत्र कार्त्स्न्येन दर्शितम् ।। (७)

यथेष्टं क्रियतां ब्रह्मन् उत्सवः श्रीहरेर्मुदा ।

सनत्कुमारः –

ब्रह्मा देवगणैस्सार्धं मुनिसङ्घसमावृतः ।। (८)

ब्राह्मणैः क्षत्रियैर्वेश्यैः शूद्रैस्सद्भिस्समावृतः ।

तदा चतुर्मुखो विप्र गङ्गां पादोदकां हरेः ।। (९)

विरजातीर्थसंमिश्रां स्मृतवान् लोकपावनीम् ।

पुरा त्रिविक्रमो देवः दिवमाक्रान्तवान् यदा ।। (१०)

तदा पादाग्रनिर्भिन्ना दण्डाद्बहिरवस्थिता ।

विरजान्तः प्रविष्टा सा कृपया लोकपावनी ।। (११)

हिमाद्रिकन्या गङ्गेति विधातुः कुण्डिके स्थिता ।

दुष्करं सा तपः कृत्वा ह्यापगा रूपमाश्रिता ।। (१२)

पूर्वमेवं गता ब्रह्मलोकं सा लोकपावनी ।

त्रिविक्रमपदं दृष्ट्वा खलोके तु पितामहः ।। (१३)

गङ्गादितीर्थपात्रे तु ह्यादाय विरजाजलम् ।

प्रक्षाल्य विधिवत्पादं त्रिविक्रमहरेर्मुदा ।। (१४)

मुमोद सुभृशं प्रीतः कमण्डलुगता च या ।

नदीरूपा हरेः पादशौचाद्याभूत्सरिद्दिवः ।। (१५)

इदानीं स्मृतवांस्तां वा उत्सवार्थं पितामहः ।

स्वर्धुन्याविर्बभूवाथ गोमन्तोत्तरपार्श्वके ।। (१६)

दृश्यतेऽद्यापि सा गङ्गा धारारूपेण वै द्विज ।

तदा तु मुनयस्सर्वे ब्रह्मलोकनिवासिनः ।। (१७)

गङ्गाजले निमज्जन्तो ब्रह्मलोकगते शुभे ।

यादवाद्रिस्थगङ्गायाम् उन्मज्जन्तो मुनीश्वराः ।। (१८)

गङ्गया चाभ्यषिञ्चन्तः विरजातीर्थमिश्रया ।

सुकुमारं तु सुस्नाताः स्वयं शुभजले द्विजाः ।। (१९)

ब्रह्मापि चोत्सवं कर्तुं चिन्तयामास स हिजैः ।

विना विमानं दिव्यन्तु प्रधानं किं करोम्यहम् ।। (२०)

तदाऽब्रवीन्नभोवाणी मेघगम्भीरनिस्वना ।

चिन्तां मा कुरु देवेश आगमिष्यति पद्मज ।। (२१)

वैकुण्ठाद्भूतले दिव्यं विमानं महदद्भुतम् ।

उक्तमाकर्ण्य देव्या तु उन्मुखस्सोऽवलोकयत् ।। (२२)

ददर्श दिवि देवेशो विद्युत्पुञ्जनिभं महत् ।

सहस्रार्कप्रतीकाशं दिव्यरत्नविभूषितम् ।। (२३)

तत्क्षणात्स ददर्शाऽथ सुनन्दकुमुदान्विधिः ।

उवाह तर्क्षपुत्रस्तु विमानं महदद्भुतम् ।। (२४)

श्वेतातपत्रं शेषस्तु दधार परया मुदा ।

वीजाते पार्श्वतो विप्र चन्द्रसूर्यौ तु चामरे ।। (२५)

दिव्यं विमानं तद्दृष्ट्वा तद्रूपञ्च महर्धिमत् ।

संभ्रमाविष्टहृदयो हृष्टः पुष्टः प्रजापतिः ।। (२६)

ननाम शिरसा भूमौ नमो नम इति ब्रुवन् ।

पुनः पुनः प्रणम्याऽथ ब्रह्मा पूर्णमनोरथः ।। (२७)

दिव्ये मुहूर्ते धर्मात्मा स्थापयामास तन्महत् ।

तदा दुन्दुभयो नेदुः तुष्टुवुस्सिद्धचारणाः ।। (२८)

ववृषुः पुष्पवर्षाणि सर्वे मुमुदिरे जनाः ।

अहो ब्रह्मविमानं तत् अहो यादवभूधरः ।। (२९)

अहोऽतिसुकुमारोऽसौ देवो नारायणः प्रभुः ।

अहो नारायणक्षेत्रं कल्याण्याश्च शुभोदकम् ।। (३०)

अहो गङ्गा महापुण्या कल्पभूरुह एव च |

इति कोलाहलश्शब्दो देवमानवघोषितः ।। (३१)

अभूत्त्रयाणां लोकानां मङ्गळं समभूत्ततः ।

ततस्तुष्टो द्विजश्रेष्ठ ब्रह्मा देवद्विजैर्वृतः ।। (३२)

फाल्गुनस्यामले पक्षे नवम्यामथ कर्कटे ।

आरभन्नुत्सवं ब्रह्मा दशरात्रं समागताः ।। (३३)

ब्रह्मघोषैः घोषयन्तः पुराणैः प्राकृतैरपि ।

कृत्वा दशदिनं धीरा महोत्सवमहो बुधाः ।। (३४)

श्वेतमृद्धारिणस्सर्वे सर्वे पद्माक्षमालिनः ।

तुलसीकाष्ठसंभूतमालाभिश्च सुभूषिताः ।। (३५)

शुभवस्त्राश्शुभाचाराः शुद्धान्तःकरणा द्विजाः ।

सर्वेष्ववभृथं चक्रुः कल्याण्यास्तु शुभे जले ।। (३६)

सुप्रसन्नोऽथ भगवान् सर्वान् देवान् द्विजोत्तमान् ।

भगवान् –

गमिष्यथ महाभागा ब्रह्मरुद्रेन्द्रदेवताः।। (३७)

प्रतिवर्षोत्सवार्थन्तु आगमिष्यथ सुव्रताः ।

सनत्कुमारः –

तथेति जग्मुस्ते सर्वे देवास्साग्निपुरोगमाः ।। (३८)

ब्रह्माणमग्रतः कृत्वा सभवं स्वं स्वमालयम् ।

एवं गतेषु सर्वेषु बलिश्चलितमानसः ।। (३९)

गन्तुं नैच्छत विप्रेन्द्र सकाशादद्भुताकृतेः ।

किरीटिनो हरेर्विप्र सर्वाभरणभूषितात् ।। (४०)

तदा नारायणो देवो बलिमाहातिविस्मितः ।

भगवान् –

बले गच्छ महाभाग सुतलं स्वर्गिवांच्छितम् ।। (४१)

किरीटिनं सदा मां हि तत्र पश्यसि सन्मते ।

प्रह्लादो मेऽतिदयितो महाभागवतोऽसुर ।। (४२)

तेन मां भज भृत्यैश्च पुत्रपौत्रादिमिर्वृतः ।

लसच्छ्वेतोर्ध्वपुण्ड्रा वै वैष्णवा मोक्षभागिनः ।। (४३)

त्वमपि श्रद्धया भक्त्या धृत्वा श्वेतमृदं शुभाम् ।

गच्छागच्छ महाभाग ह्युत्सुकः प्रतिवत्सरम् ।। (४४)

सनत्कुमारः –

इत्युक्त्वा प्रेषयामास हरिस्सर्वगुहाशयः ।

बलिभंगवता विन कथंचिद्विनिवर्तितः ।। (४५)

बलिश्चाऽपि गतश्श्रीमान् तत्रापि च किरीटिनम् ।

दृष्ट्वाऽतिहर्षाद्विप्रेन्द्र मुतले न्यवसत्सुखम् ।। (४६)

करवीरपुरं विप्र नारायणपदाश्रयात् ।

नारायणपुरं ख्यातं भविष्यति न संशयः ।। (४७)

अहो तीर्थस्य माहात्म्यं कल्याण्या भूधरस्य च ।

श्वेतद्वीपमृदश्चैव पादपानाञ्च वैभवम् ।। (४८)

विप्रवर्य गमिष्यामस्तत्रैव निवसामहे ।

अहो देवर्षयो धन्या अहो बलिरहो महान् ।। (४९)

शौनकः –

इतीव चित्रं हरिचेष्टितं भुवि

श्रुत्वातिहृद्यं खलु दीप्तिमान्महान् ।

ततः किमन्यत्तमपृच्छदग्रणीः

कुमारमुख्यं सुमहाप्रभावम् ।। (५०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

पुरनिर्माणगङ्गाद्यानयनपूर्वकब्रह्मकृतभगवन्महोत्सवो नाम

सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः

पिप्पलादोऽपाख्यानपूर्वकं कल्याणीतीर्थ-वैभवकथनम्

सूतः –

श्रुत्वा सनत्कुमारोक्तं हरेश्चरितमद्भुतम् ।

पुनः पप्रच्छ संहृष्टो दीप्तिमान् ब्रह्मपुत्रकम् ।। (१)

दीप्तिमान् –

सनत्कुमार सर्वज्ञ न तृप्यति मनो मम ।

यादवाद्रेः प्रभावं तु शृण्वतश्श्रद्धया गुरौ ।। (२)

कल्याणीति कथं जातं क्षीरकुण्डं दयानिधे ।

हरिर्नृसिंहरूपेण किमर्थं तत्र तिष्ठति ।। (३)

कति तीर्थानि तिष्ठन्ति किमन्यद्वैभवं मुने ।

तत्र सर्वं च मे ब्रूहि दयालुं त्वां नमाम्यहम् ।। (४)

सूतः –

इति पुत्रस्स आपृष्टो ब्रह्मणो ब्रह्मवित्तमः ।

प्रत्याह तं प्रीतमनाः कुमारस्तीर्थवैभवम् ।। (५)

सनत्कुमारः –

कल्याणीति यथा जातः श्रीमान् क्षीरसरोवरः ।

तद्रहस्यमपि ब्रूहि शृणु ते श्रद्धया द्विज ।। (६)

पिप्पलादो महाभागो भृगुवंश्यस्तपोधनः ।

हिमाद्रेरुत्तरे भागे पुष्पभद्रानदीतटे ।। (७)

अयुतायुतवर्षाणि तपः कुर्वन् स आस्थितः ।

बहुशिष्यो ब्रह्मविद्यापूर्णः पूर्णमनोरथः ।। (८)

तस्य प्रसन्नो भगवान् शङ्खचक्रधरो हरिः ।

तं दृष्ट्वा मेघसङ्काशं गरुडोपरि संस्थितम् ।। (९)

पिप्पलादस्तु संहृष्टः सहसोत्थाय दण्डवत् ।

प्रणिपत्याह धन्योऽस्मि कृतकृत्योऽस्मि सांप्रतम् ।।  (१०)

प्रपन्नो यदि मे देव मुक्तिर्मे संप्रदीयताम् ।

भगवान् –

पिप्पलाद महाभाग भृगुवंशविवर्धन ।। (११)

इतः परं त्वं कल्याण इति ख्यातो भविष्यसि ।

अस्ति दक्षिणदिग्भागे यादवाद्रिर्द्रुमाकुलः ।। (१२)

प्रख्यातस्त्रिषु लोकेषु महर्षिगणसेवितः ।

अस्ति क्षीरसरो नाम तन्मूले निर्मलोदकम् ।। (१३)

अनेकमुनिभिर्जुष्टं देवगन्धर्वसेवितम् ।

तत्र गच्छ महाभाग सच्छिष्यगणसंवृतः ।। (१४)

तत्रापि द्रक्ष्यसे मां तु बहुभक्तसमावृतम् ।

स्नात्वा सरोवरजले नित्यमर्चय मां जि ।। (१५)

कालेनाल्पेन विप्रर्षे मुक्तिं दास्यामि नान्यथा ।

सङ्गात् क्षीरसरश्चापि तव कल्याण नित्यदा ।।  (१६)

कल्याणीति समाख्याता भविष्यति न संशयः ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे विष्णुस्सोपि तत्र द्रुतं ययौ ।। (१७)

शिष्यैः परिवृतो गत्वा स्नात्वा तत्र सरोवरे ।

श्वेतमृत्तिकया चोर्ध्वपुंडूं धृत्वा सशिष्यका ।। (१८)

द्वादशाङ्गेषु मेधावी शुचिः पद्माक्षमालया ।

तुलसीकाष्ठसंभूतमालाभिः सुविभूषितः ।। (१९)

अर्चयामास देवेशं नित्यं विष्णुजनप्रियः ।

सुकुमारमभिख्यातं विष्णु भक्तजनप्रियम् ।। (२०)

एवं बहुतिथं काले तत्रैव न्यवसत्सुखम् ।

कल्याणगुणशीलत्वात् कल्याणमुनिसंश्रयात् ।। (२१)

कल्याणीति च विख्याता ह्यासीत्क्षीरसरोवरः ।

तदा प्रभृति विप्रेन्द्र कल्याणोऽपि यथाश्रुतः ।। (२२)

अपि मुक्तिमनादृत्य कल्याण्या तीरमाश्रितः ।

पुण्यं नारायणक्षेत्रं गन्तव्यं वैष्णवैर्द्विजैः ।। (२३)

शुभे जले च कल्याण्याः स्नातव्यं मुक्तिदं द्विज ।

सुकुमारस्सेवनीयो वैष्णवैः भक्तिसंयुतैः ।। (२४)

एकरात्रोषितो मर्त्यः क्षेत्रे नारायणाह्वये ।

मुक्त्वा शुभाऽशुभे याति तद्विष्णोः परमं पदम् ।। (२५)

महापुण्यप्रदे क्षेत्रे किं भूयो नित्यवासिनाम् ।

अशक्तः कीर्तयेत्क्षेत्रं कल्याणीति च कीर्तयेत् ।। (२६)

तस्यास्तीरे तु कल्याण्याः पुण्यवृक्षोऽतिविस्तरः ।

पिप्पलो नाम वृक्षेन्द्रः श्वेतद्वीपस्थितः पुरा ।। (२७)

गन्धच्छदोऽस्ति सुच्छायो देवगन्धर्वसेवितः ।

तं दृष्ट्वा मुच्यते पापैः स्पृष्ट्वा लक्ष्मीमवाप्नुयात् ।। (२८)

ज्ञानवान् स्यात्तदाश्लिष्य विद्यावांस्तु प्रदक्षिणात् ।

तच्छायायां कृतं होमं दानमर्चनमेव च ।। (२९)

पितॄणां पिण्डदानं च महदक्षयमुच्यते ।

कल्याणस्तु सदा तत्रैवास्ते मुनिकुलाग्रणीः ।। (३०)

चण्डः प्रचण्डोऽथ जयो विजयो विष्णुपार्षदाः ।

पुण्यशीला महाभागाः तीर्थं रक्षन्ति सर्वदा ।। (३१)

कृष्णो देव इति प्रोक्तो देवता तु प्रशस्यते ।।

गणनाथं नमस्कृत्य स्नात्वाचम्य यथाविधि ।। (३२)

कीर्तयित्वा तु कृष्णं तं मन्त्रमेतमुदाहरेत् ।

अशेषजगदाधार शङ्खचक्रगदाधर ।। (३३)

अनुज्ञां देहि मे देव युष्मत्तीर्थनिषेवणे ।

इत्युक्त्वा मूलमन्त्रेण सूक्तेन पुरुषस्य वा ।। (३४)

स्नात्वा सन्तर्पयेत्कृष्णम् ऋषिं कल्याणनामकम् ।

गणनाथं च चण्डादींस्तर्पयेत् तीर्थपालकान् ।। (३५)

दद्याच्च शक्तितो दानं सर्वपापापनुत्तये ।

तिलधेनुगुडाज्यानि धान्यवासोऽन्नकम्बळान् ।। (३६)

तिलदानं विशेषेण तस्मिन् क्षेत्रे प्रशस्यते ।

वक्तुं तीर्थस्य माहात्म्यं को वा शक्नोति भूतले ।। (३७)

संक्षेपेण मया प्रोक्तं तीर्थवैभवमद्भुतम् ।

किं वक्ष्यामि महाभाग दीप्तिमंस्तीर्थवैभवम् ।। (३८)

कल्याणीसरसः स्नानात् को वा पुण्यमिहेच्छति ।

दुश्शीलो दुर्भगो मूढः कदर्यो दुर्मतिर्द्विजः ।। (३९)

मूखोपि पुत्रकैर्भृत्यैः यज्जलस्पर्शमात्रतः ।

विशुद्धकरणश्शान्तो हरेः पादमवाप सः ।। (४०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

पिप्पलादोपाख्यानपूर्वकं कल्याणीतीर्थवैभवकथनं नाम अष्टमोऽध्यायः

अथ नवमोऽध्यायः

सत्यकामोपाख्यानम्

दीप्तिमान् –

आश्चर्यमेतच्छ्रोतव्यं पुण्यतीर्थस्य वैभवम् ।

यज्जलस्पर्शमात्रेण मुक्तो मूखोऽपि स द्विजः ।। (१)

द्विजः को वाथ कुत्रत्यः कस्य पुत्रोऽस्य नाम किम् ।

कीदृशी तस्य भार्या वा कति पुत्राश्च पापिनः ।। (२)

ब्रूहि तच्चरितं मह्यं स्वायंभुवगुरो मुने ।

सनत्कुमारः –

अग्रहारो महानासीन् नाम्ना कन्यापुरं स्मृतम् ।। (३)

पुण्ये सारस्वते देशे ब्राह्मणैर्बहुभिर्वृतः ।

तस्मिन् ग्रामे तु धर्मात्मा सत्यव्रत इति श्रुतः ।। (४)

तस्य भार्या विशालाक्षी गौतमी लोकविश्रुता ।

तया सहाचरत् धर्मान् गृहिणां निगमोदितान् ।। (५)

खधर्माचरणाद्विप्रः प्राप्तवांश्च धनं बहु ।

सत्यव्रतो महाभागो देवब्राह्मणपूजकः ।। (६)

तस्यासीत्तनुजो नाम्ना सत्यकाम इति श्रुतः ।

स तु स्वभावादारभ्य दुश्शीलोऽह्यजितेन्द्रियः ।। (७)

उपकुर्वन् हि योग्यानि कर्माणि सुखवन्ति च ।

तस्यापि ग्राहयामास दुर्विनीतस्य स द्विजः ।। (८)

विवाहं कारयामास कुलवृद्धीच्छया द्विजः ।

स्नुषा परमकल्याणी पतिव्रतपरायणा ।। (९)

नाम्ना कुमुद्वती देवी कुलधर्मपरायणा ।

दुश्शीलं शमितुं शक्तो नाभूत् सत्यव्रतो महान् ॥ (१०)

भार्यया सह धर्मात्मा वनमेव जगाम ह ।

सत्यकामस्तु दुष्टात्मा धर्मकामविवर्जितः ।। (११)

पितरि प्रस्थिते तस्मिन् ग्राम एव स्वभार्यया ।

पुत्रषट्कैर्द्विजश्रेष्ठ भृत्यैर्बहुभिरावृतः ।। (१२)

वार्तावृत्तिः कदर्यश्च मत्तो ह्याढ्यतमश्श्रिया ।

लुब्धः कामी च दुर्बुद्धिः धर्मश्रवणवर्जितः ।। (१३)

धर्मज्ञावमतोत्साहः दुराचारोऽतिकोपनः ।

दुश्शीलस्यास्य दुर्बुद्धेः द्रुह्यन्ते पुत्रबान्धवाः ।। (१४)

दाराः पुत्राश्च भृत्याश्च ब्राह्मणा ह्यन्यलिप्सवः ।

देवाश्च यज्ञभोक्तारो वाङ्मात्रेणाप्यनर्चिताः ।। (१५)

पतिव्रता पतिं प्राह धर्ममेव कुमुद्वती ।

कुमुद्वती –

भर्तः पिता ते धर्मात्मा सर्वधर्मविदां वरः ।। (१६)

असंख्येयधनं कीर्तिं प्राप्तवांश्च स्वधर्मतः ।

त्वमपि श्रद्धया भर्तस्सर्वधर्मपरो भव ।। (१७)

धर्मे नष्टेऽखिलं नष्टं भवत्येव धनादिकम् ।

तस्मात्सर्वात्मना धर्मं चर संपद्विवृद्धये ।। (१८)

अग्न्यर्कातिथि-गो-विप्र-पितृ-देवार्चनं तथा ।

सनत्कुमारः –

बहुमानं सतां चापि धनकीर्तिविवर्धनम् ।। (१९)

एवमुक्तोऽथ दुर्बुद्धिस्सत्या पुत्रैश्च कोपनः ।

वाक्छरैस्ताडयामास धनलोभेन पुत्रकान् ।। (२०)

एवं निर्भर्त्स्य दुष्टात्मा पीडयामास बान्धवान् ।

शून्यावसथ आत्मापि काले कामैरनर्चितः ।। (२१)

धर्मकामविहीनोऽयमिति मत्वा तु बान्धवाः ।

विषण्णा नाचरन्प्रीतिं किं कुर्म इति चावसन् ।। (२२)

एकदा नारदोऽभ्यागाद् गृहं तस्य दुरात्मनः ।

कृपाळुः कृपणं मत्वा सुखं बोधयितुं च तम् ।। (२३)

स तु विस्मित उत्थाय मत्वा तं नारदं मुनिम् ।

निष्प्रतिग्रहमद्वन्द्वं निरपेक्षं धनादिषु ।। (२४)

इति मत्वा ननामाथ किमागमनकारणम् ।

ब्रूहि मे मुनिशार्दूल वन्दनं ते करोम्यहम् ।। (२५)

नारदः –

शृणु विप्र प्रवक्ष्यामि विप्रैः कर्तव्यमेव हि ।

धनं च धर्मैकफलं यतो ज्ञानमवाप्नुयात् ।। (२६)

धनवान् धर्ममाप्नोति धर्मान्मुक्तिमवाप्नुयात् ।

सत्यव्रतसुतस्त्वं हि धनवान् बुद्धिमान् भव ।। (२७)

पित्रा पितामहेनापि लब्धं बहुधनं द्विज ।

धर्मेणैव कुलं श्रेष्ठं तस्माद्धर्मं समाचर ।। (२८)

देवद्विजगवां पूजा भूतेषु परमा दया ।

यस्माद्धरिर्न तुष्येत्तु तत्सर्वं व्यर्थमेव हि ।। (२९)

धर्मे नष्टे धनं नष्टं भवत्येव न संशयः ।

इत्युक्तस्स खलः पापस्सत्यकामस्स दुर्मतिः ।। (३०)

सत्यकामः –

भो भो नारद जानामि धर्मान्विष्णुप्रसादकान् ।

धनक्षयकरो धर्मो न कर्तव्यस्त्वया मुने ।। (३१)

न कर्तव्यं न कर्तव्यं मम प्राणहरं वचः ।

स्वभावोऽयं ब्राह्मणानां उपदेशो धनक्षयः ।। (३२)

भवत्येव न सन्देहो गच्छ गच्छ महामुने ।

इत्युक्त्वा गच्छ गच्छेति नारदं प्राह दुर्मतिः ।। (३३)

यदा विप्रकृतो विप्र देवर्षिः विस्मितोऽब्रवीत् ।

धनकामेष्वसङ्ग्रहः पुंसां यन्मायया कृतः ।। (३४)

विमोहितधियां दृष्टः तस्मै भगवते नमः ।

सनत्कुमारः –

इत्युक्त्वा प्रययौ देवमुनिः कारुण्यमेत्तवान् ।। (३५)

धर्मकामविहीनस्य मूढस्य धनकामिनः ।

किञ्चिज्जगृहुश्चोराः किञ्चित् ज्ञातय एव च ।। (३६)

दग्धं चैवाग्निना किञ्चिद्राज्ञा किञ्चित्तथैव हि ।

एवं नष्टं धनं सर्वं ब्रह्मबन्धोर्दुरात्मनः ।। (३७)

स एवं द्रविणे नष्टे चिन्तामाप दुरत्ययाम् ।

अहो कष्टं धनं नष्टं किं करोमीति चाब्रवीत् ।। (३८)

बन्धुभिश्च परित्यक्तो भार्यया चापि पुत्रकैः ।

यदा चोपेक्षितस्सद्भिर्मन्तुं स उपचक्रमे ।। (३९)

तदा महाकारुणिको महामुनिः

महानुभावो दयया सुविस्मितः ।

हरेरनन्तस्य हि मायया वृतं

संबोधितुं चाविरभूत्तदेव हि ।। (४०)

सत्यकामस्तु तं दृष्ट्वा संबोधयितुमागतम् ।

सत्यकामः –

कस्त्वं विप्र किमर्थं मां निर्धनं दुःखयस्यलम् ।। (४१)

किमागमनकार्यं ते बन्धुभिस्त्याजितोस्म्यहम् ।

येषां श्रियो विवृध्यर्थं धनं सञ्चितवानहम् ।। (४२)

तैरहं त्याजितो मूढः पुण्यलेशविवर्जितः ।

किं करोमि क्व गच्छामि ब्रह्महेव मृतश्श्वसन् ।। (४३)

पुरापि नारदेनोक्तं नागृहीषमसत्तमः ।

कामं चरन्त्यवनौ ब्राह्मणा भगवत्प्रियाः ।। (४४)

कृपार्द्रनयनाश्शान्ताः विष्णुपादाश्रयाश्शुभाः ।

बोधाय ग्राम्यबुद्धीनां मादृशां विगतसस्पृहाः ।। (४५)

ऋभुः कुमारो देवर्षिः अङ्गिरा देवलादयः ।

अन्ये च बहवो भक्ताः चरन्ति ज्ञानहेतवः ।। (४६)

यदिह्येकस्तेषु मध्ये मम ज्ञानमुदीर्यताम् ।

सनत्कुमारः –

सत्यव्रतस्य पुत्रेण दीक्षितस्य हरेर्मुने ।। (४७)

पादाश्रये तदीयानामेवमुक्तस्स नारदः ।

बोधयेतमितीवाशु निश्चित्य प्राह विस्मितः ।। (४८)

नारदः –

नारदोऽहमिह प्राप्तो दुःखान्मोचयितुं द्विज ।

इत्थं त्वां धनलोभेन मग्नं तमसि दुस्तरे ।। (४९)

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ।

अनुग्रहाय भवतः प्राप्तोऽहं ब्रह्मनन्दनः ।। (५०)

तदैव त्वं मयोक्तं तु श्रुतवान्नहि मोहितः ।

धनिनामधुना तापो भवतैवानुभूयते ।। (५१)

एवं रायश्च दाराश्च गृहाश्च सपरिच्छदाः ।

शब्दादयश्च विषयाश्चला राजविभूतयः ।। (५२)

अयं हि देहिनो द्रव्यज्ञानदेहक्रियात्मनः ।

आत्मनो विविधक्लेशसन्तापकृदुदाहृतः ।। (५३)

तस्माच्छुद्धेन मनसा विमृश्य मतिमात्मनः ।

देहेऽध्रुवार्थे विस्रंभं त्यजोपशममाविश ।। (५४)

सत्यकामः –

त्वत्पादपद्मयोरेव करोम्यात्मनिवेदनम् ।

गुरो ब्रूहि मम ज्ञानं वैतृष्ण्यं च दयानिधे ।। (५५)

विज्ञानं तत्त्वमार्गांश्च चेतनाऽचेतनात्मकान् ।

सनत्कुमारः –

एवं मुनिवरः पृष्टस्तुष्टो हृष्टं द्विजं मुने ।। (५६)

कृपया प्राह मुनिराट् जीवेश्वरगतिं यथा ।

अचेतनस्वरूपं च वैराग्यं च महामुनिः ।। (५७)

नारदः –

शृणु वत्स प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।

स्वरूपं तत्त्वतो वक्ष्ये सावधानमनाश्शृणु ।। (३८)

पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ।

संहृत्य कालकलया कल्पान्त इदमीश्वरः ।। (३९)

एक एवावशिष्टस्तु सर्वशेषीति कथ्यते ।

अनिर्विण्णो निशान्ते स स्रष्टुं समुपचक्रमे ।। (४०)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

सत्यकामोपाख्यानं नाम नवमोऽध्यायः

अथ दशमोऽध्यायः

जगत्सृष्ट्यादिक्रमः

नारदः –

विष्णुप्रधानपुरुषः सत्यसङ्कल्प ईश्वरः ।

कालेन क्षोभयामास प्रकृतिं त्रिगुणात्मिकाम् ।। (१)

सत्वं रजस्तम इति प्रकृतेरभवन्गुणाः ।

तेभ्यस्समभवत्सूत्रं महत्तत्वं हिरण्मयम् ।। (२)

महत्तत्वादहङ्कारः क्रियाशक्तिरजायत ।

वैकारिकतैजसश्च तामसश्चेत्यहं त्रिधा ।। (३)

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।

देवाश्च जज्ञिरे तस्माद्दश वैकारिकाश्च ये ।। (४)

तैजसाक्षुभिताद् ब्रह्मन्निन्द्रियाणि दशाभवन् ।

तामसादपि शब्दोऽभून्नमस्तस्मादजायत ।। (५)

अभवत्कालसंक्षोभात् ततस्स्पर्शगुणोऽनिलः ।

अनिलाद्रूपवत्तेजस्ततो रसगुणं जलम् ।। (६)

तस्माद्गन्धवती चेयं पृथिवी समजायत ।

नानात्वात्पौरुषान् स्रष्टुमनीशा हरिमब्रुवन् ।। (७)

देवाः –

देव देव जगद्व्यापिन् सर्वशक्तिधराव्यय ।

स्रष्टुं विराजं त्वत्स्थानमनीशा वयमच्युत ।। (८)

कुर्महे सर्वभूतात्मन्नाज्ञां तव यथा वयम् ।

तथा प्रसीद देवेश नमस्ते पुरुषोत्तम ।। (९)

नारदः –

एवं संप्रार्थितो विष्णुः कार्यकारणकारणः ।

चतुर्विंशतितत्त्वानां गणं युगपदादिशत् ।। (१०)

भिन्नं संयोजयामास गुप्तं कर्म प्रबोधयन् ।

ततो विनिमयं प्राप्य हरिणा ते परस्परम् ।। (११)

अण्डमुत्पादयामासुः यस्मिन् लोकाश्चराचराः ।

तस्मिन् शेते महाविष्णुः शेषभोगसुखासने ।। (१२)

तस्य नाभेरभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ।

जातो देवमनुष्यारिः पशुपक्षिद्रुमादयः ।। (१३)

जातास्तस्माद्वेदशास्त्रपुराणानि च सर्वशः ।

एवं प्रवर्तते सर्गः पौवीपर्येण नित्यशः ।। (१४)

अतो देहादिकं सर्वं प्रकृतेः कार्यमद्भुतम् ।

तस्मात्स्नेहं द्विजश्रेष्ठ देहादौ मोहजं त्यजेत् ।। (१५)

जन्मान्तरप्रतीक्षा तु कर्तव्या न कदाचन ।

मोक्षाय तत्त्वविद्भिस्तु तस्मादाशु भजाव्ययम् ।। (१६)

देहिनो जन्मादिदुःखनिरूपणम्

देहप्राप्तिं च वक्ष्यामि दुर्लभां दुःखसङ्कुलाम् ।

पापिष्ठाः खलु गच्छन्ति नरकं दुःखसङ्कुलम् ।। (१७)

यावन्तो निरयाः क्रूरास्तामिस्राद्यास्सुदारुणाः ।

तावन्तस्समनुक्रम्य पुनरत्र व्रजेच्छुचिः ।। (१८)

दयाळुः धर्मराजोपि पापिनः पुण्यवर्जितान् ।

भुञ्जन्तु भुवि तान्किञ्चित् शेषपापान्विसर्जयेत् ।। (१९)

श्वविड्वराहोष्ट्रखरक्रिमिकीटा भवन्त्विति ।

ते तु भूतलमासाद्य क्रिमिकीटा भवन्ति वै ।। (२०)

तान्दृष्ट्वा भीतभीतास्तु मनुजाः पापभीरवः ।

सन्तु धर्मरताश्चैव धर्मराजो दयानिधिः ।। (२१)

एवं व्यवस्य पापिष्ठान् लोकद्वयहितेच्छया ।

निर्गमय्य स्वलोकस्थान् सुखं वसति धर्मराट् ।। (२२)

भूलोकवासिनस्सर्वे धनकामविमोहिताः |

श्वविड्वराहान् दृष्ट्वापि न न्यवर्तन्त कश्मलात् ।। (२३)

पुण्यवान् स्वर्गलोके तु चिरं भुक्त्वा स्वकर्मजम् ।

क्षीणपुण्यः पतत्यर्वाङ्मूढः कालविचालितः ।। (२४)

पततीन्दुपदाद्भूमिं ततो नीहारसंयुतः ।

तिलमाषादिरूपेण भवत्येव न संशयः ।। (२५)

ततः पुरुषदेहे तु रेतोरूपो भविष्यति ।

ततः स्त्रियाः कुक्षिगतः पुंसः रेतः कणाश्रयः ।। (२६)

एकरात्रेण कलिलं पञ्चरात्रेण बुद्बुदम् ।

कर्कशश्च दशाहेन मासेन त्वङ्कुरादयः ।। (२७)

नखादीनि त्रिभिर्मासैः चतुर्भिः धातवोऽभवन् ।

षड्भिर्जरायुना वीतः सप्तमे रोमभिर्युतः ।। (२८)

अष्टमे देहसम्पूर्णः कुक्षौ भ्राम्यति दक्षिणे ।

नवमे जन्मकर्माणि गतानि स्मरते ऋषिः ।। (२९)

गर्ते विण्मूत्रयोश्शेते स जन्तुः जन्तुसोदरः ।

क्रिमिभिर्भक्ष्यते मूढः सौकुमार्यात् सुदुःखितः ।। (३०)

स एवं दुस्सहं दुःखं सहते पापकर्मकृत् ।

गर्भान्तरकृतं स्वेन सङ्कल्पं हरिसन्निधौ ।। (३१)

स्मृत्वा च दुःखसन्तप्तो लब्धबोधोऽतिवेषितः ।

अहो कष्टं पुनः प्राप्तं गर्भदुःखं महत्तरम् ।। (३२)

स्मरामि जन्मकर्माणि पापः पूर्वकृतानि च ।

अकर्माण्येव कृतवान् अकृतं ह्यात्मनो हितम् ।। (३३)

मया हि नाश्रितो विष्णुः तत्पराश्च कृपाळवः ।

इतः परं पदं विष्णोः तत्पराणां समाश्रये ।। (३४)

कदा निर्गमनं मे स्यात् गर्भान्निरयसन्निभात् ।

इत्येवं चिन्तयन्नास्ते दशमे सूतिवायुना ।। (३५)

स्पृष्टो नष्टस्मृतिर्जीवो निरस्तो बहिरेव हि ।

ततो बाल्यादिदुःखानि युववार्धिक्ययोरपि ।। (३६)

प्रळये करणाभावात् सृष्टाविन्द्रियकर्षणात् ।

कुतो भवेन्मतिस्तेषां विष्णोः पादोपसर्पणे ।। (३७)

अनेनैव तु देहेन विष्णुपादाश्रयो भवेत् ।

सम्यक्संप्रार्थयेत्सङ्गं तत्परेषु मुमुक्षुभिः ।। (३८)

तत्त्वत्रयनिरूपणम्

अथातश्शृणु वक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।

परमात्माव्ययश्शुद्धः सर्वाधारोऽखिलाश्रयः ।। (३९)

नारायणोऽव्यक्तगतिः भक्तानुग्रहविग्रहः ।

जीवोऽप्यविद्ययोत्पन्नदेहादिगुणवर्जितः ।। (४०)

नित्यशुद्धस्सदामुक्तः शुद्धतत्त्वमयः पुमान् ।

भगवन्मायया बद्धः पुत्रपौत्रधनादिमान् ।। (४१)

जन्ममृत्युजराव्याधिशोकमोहैश्च शोचति ।

यदा पुण्यविशेषेण महत्सङ्गो भवेद्द्विज ।। (४२)

तदा तु कृपया नामकीर्तने श्रवणे रतिः ।

ततो नवविधा भक्तिर्जायते दुर्लभापि सा ।। (४३)

यदा ह्येवंविधा भक्तिर्जायते ह्यम्बुजेक्षणे ।

किमन्यद्विष्णुभक्तानां दासानामवशिष्यते ।। (४४)

अनात्मा तु विकारी च परिणामी जडस्सदा ।

देवादिसकलान् जीवान्विमोहयति सर्वदा ।। (४५)

एतद्विज्ञाय सद्भक्तो मुच्यते नात्र संशयः।

सद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।। (४६)

न ज्ञानं न च मोक्षस्स्यात् तेषां जन्मशतैरपि ।

इदं रहस्यं परमार्थलक्षणं

मयैव साक्षात्कथितं तवानघ ।

सद्भक्तिहीनाय शठाय न त्वया

दातव्यमैन्द्रादपि राज्यतोऽधिकम् ।। (४७)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

जगत्सृष्ट्यादिकथनं नाम दशमोऽध्यायः

अथ एकादशोऽध्यायः

सत्यकामस्य नारदकृतमेधातिथ्युपाख्यानकथनपूर्वकयदुगिरिगमनोपदेशः

नारदः –

इतो गच्छ महाभाग त्यक्त्वा मोहं धनादिषु ।

सह्याद्रेः पूर्वदिग्भागे कावेर्या उत्तरे तटे ।। (१)

यादवाद्रिरिति ख्यातः पुण्यर्धिः पुण्यभूधरः ।

पुण्यद्रुमलताजालैः पुण्यामलजलाशयैः ।। (२)

पुण्यद्विजमृगैश्चापि संवृतः पुण्यतीर्थकैः ।

अस्ति तत्कटके तीर्थं कल्याणं पुण्यवर्धनम् ।। (३)

षट्षष्टिकोटितीर्थैश्च संवृतं मुक्तिदं द्विज ।

बहुभिर्विष्णुभक्तैश्च शरणागतरक्षकैः ।। (४)

सुकुमार इति श्रीमान् हरिर्नारायणोऽव्ययः ।

आस्ते दयानिधिर्ब्रह्मन् क्षेत्रे वैकुण्ठवर्धने ।। (५)

तत्र गत्वा जगन्नाथम् आराधय विशुद्धये ।

ख्यातं नारायणक्षेत्रमिति वैकुण्ठवर्धनम् ।। (६)

इति चासीद् द्विजश्रेष्ठ विमानं ब्रह्मनामकम् ।

आनन्दमिति चाप्युक्तं तीर्थं कल्याणनामकम् ।। (७)

कल्याणीति च विख्यातं तत्र गच्छ महामुने ।

तत्तीरवासिनां पुण्यं किं वक्ष्यामि कियानहम् ।। (८)

वैकुण्ठवर्धनक्षेत्रवासी कश्चिद् द्विजोत्तमः ।

नाम्ना मेधातिथिः धीमान् पुत्रवान्स गृहाश्रमी ।। (९)

विष्णोनामानि लीलाश्च कीर्तयन्श्रावयन्मुदा ।

नर्तयन्नर्तनं कुर्वन्नुत्सुको ह्युत्सवोन्मुखः ।। (१०)

एकदा पर्यटन्विप्रो लोकानुग्रहकाम्यया ।

कुटुम्बरक्षणार्थाय नित्यं तण्डुलयाचकः ।। (११)

देशाद् देशान्तरं गच्छन् ग्रामाद् ग्रामान्तरं गतः ।

कीर्तयन्श्रद्धया विष्णोः नामानि च कथाश्शुमाः ।। (१२)

विष्णौ सद्भक्तिभरिता बहवो वैष्णवाभवन् ।

सत्सङ्गाद् बहवो मुक्ता मुखबाहूरुपादजाः ।। (१३)

सौवीरदेशनृपतिः नाम्ना वीरव्रतो महान् ।

स्वदेशवासिभिः सद्भिः श्रुतवान् विप्रमागतम् ।। (१४)

वीरव्रतः –

हे सन्तः श्रूयतां श्रेष्ठाः कुतः कुत्रत्य एव वा।

आनीयतामतदशीघ्रम् अभिप्रायविदो मम ।। (१५)

ततो मेधातिथिं शान्तं सन्तं सन्तस्समानयन् ।

नृपस्तूर्णं समुत्थाय प्रणनाम स दण्डवत् ।। (१६)

रत्नसिंहासने वेश्य सभार्यं च सपुत्रकम् ।

पूजयामास विधिवत्पादौ प्रक्षाळ्य पूर्वतः ।। (१७)

तदपश्शिरसा धृत्वा सकुटुम्बो मुदं ययौ ।

क्षणान्मनस्समाधाय विप्रं प्राह नृपेश्वरः ।। (१८)

द्विजवर्य महाभाग जाने त्वां हरिमीश्वरम् ।

दर्शनात्तव विप्रेन्द्र विमुक्तोऽहं भवार्णवात् ।। (१९)

ब्रूहि भागवतान् धर्मान् कृपाळुरसि मे द्विज ।

मेधातिथिः –

नृपवर्य निबोधेदं तावकैस्सह सद्गुण ।। (२०)

दुर्लभं मानुषं जन्म ह्यध्रुवं चार्थदं नृप ।

शीघ्रं यतेत कुशलं सदा मृत्युवशं गतः ।। (२१)

कुशलेषु च सर्वेषु सापायेषु द्विजोत्तमाः ।

उपायद्वयमेवेह नृणां श्रेयःप्रदं नृप ।। (२२)

नामसङ्कीर्तनं त्वेकं लीलाश्रवणमेव च ।

एतद्द्वयं गुरोर्भक्त्या लब्ध्वा भक्तो भवेन्नृप ।। (२३)

अत्र ते वर्णयिष्यामि कथां पुण्यां सुपावनीम् ।

यस्य श्रवणमात्रेण कीर्तनश्रवणे रतिः ।। (२४)

भवत्येव न सन्देहः सत्यं सत्यं वदाम्यहम् ।

इदं भक्तप्रियं चित्रं शृणुष्व सुसमाहितः ।। (२५)

नारदेन कृतं पूर्वं मम लोकेऽतिकौतुकम् ।

एकदा नारदमुनिः विष्णुलोकमुपागतः ।। (२६)

अश्रौषीत्पुण्यनामानि हरेः भक्तिसमन्वितः ।

हरे मुकुन्द गोविन्द नारायण जनार्दन ।। (२७)

पाहि मां कृष्ण वाराह नारसिंह नमोस्तु ते ।

वासुदेवाच्युतानन्त शङ्ख-चक्र-गदाधर ।। (२८)

त्रिविक्रम त्रिलोकेश त्राहि मां विश्वरक्षक ।

अनादिमायाविध्वंसिन् संसारार्णवतारण ।। (२९)

तमोभञ्जन सर्वत्र पाहि पाहि जगद्गुरो ।

एकं नामामृतं पीत्वा सद्भक्तमुखनिस्सृतम् ।। (३०)

परमानन्दमापेदे नारदो मुनिसत्तमः ।

प्रदक्षिणीकृत्य हरेः प्रणम्य च पदं शुभम् ।। (३१)

मनसा चिन्तयन् कार्यं ययौ संयमनीपुरम् ।

निरीक्ष्य रौरवान् घोरान् नरकान् चातिभीषणान् ।। (३२)

नारकाणां कृपां चक्रे मनसा विस्मितो मुनिः ।

दृष्ट्वाद्रिप्रवरं शीघ्रं शतयोजनमुच्छ्रितम् ।। (३३)

तत्रोन्नतं शृङ्गमेकमारुह्य मुनिसत्तमः ।

भुजमुद्यम्य सन्तुष्टो वाक्यमेतदुवाच ह ।। (३४)

नारायणाच्युतानन्त वासुदेव जनार्दन ।

त्राहि पाहि जगन्नाथ शरणागतवत्सल ।। (३५)

एतच्छ्रुत्वा नारकास्ते सद्यो विगतकल्मषाः ।

समस्ता नरकात्सद्यो निर्जग्मुः नृपसत्तम ।। (३६)

पुण्यलोकाल्लब्धवन्तो दिव्यज्ञानसमन्विताः ।

तैः सर्वे हरिनामानि जल्पन्तो नारदं मुनिम् ।। (३७)

स्तुत्वा विमानान्यास्थाय जग्मुश्च सहसा दिवम् ।

वैकुण्ठलोकमासाद्य पपुर्नामामृतं नृप ।। (३८)

गतेषु तेषु सर्वेषु निर्जने पत्तने यमः ।

स्वकीयैश्च भटैस्सार्धं तस्थौ विस्मितमानसः ।। (३९)

पापिनां नरकस्थानामपि श्रवणमात्रतः ।

लीलायाश्चापि नाम्नां च ह्यञ्जसा मुक्तिसम्भवात् ।। (४०)

तस्मात्सङ्कीर्तनं विष्णोः कर्तव्यं लब्धजन्मभिः ।

त्वमपि श्रद्धया राजन् मुक्तिहेतोर्भजाव्ययम् ।। (४१)

नारायणं नृणां बन्धवारणं करुणार्णवम् ।

नारदः –

इत्युक्त्वा प्रययौ विप्रो नारायणपुरं प्रति ।। (४२)

वीरवरस्तु नृपतिः सङ्गान्मेधातिथेरभूत् ।

महाभागवतश्श्रीमान् स्वजनैः भृत्यपुत्रकैः ।। (४३)

शिक्षयन्मन्त्रिभिर्विप्रैः स्वदेशस्थाञ्जनान्विभुः।

हरिभक्ताद् द्विजश्रेष्ठ सर्वे युक्ता बभूविरे ।। (४४)

तत्क्षेत्रवासिनामेवं महिमानं महामते ।

को वा वर्णयितुं शक्तः सहस्रवदनोपि वा ।। (४५)

सत्यकामाशु गच्छ त्वं क्षेत्रं वैकुण्ठवर्धनम् ।

कल्याणतीर्थे गङ्गायां स्नात्वा देवं समर्चय ।। (४६)

भविष्यति परं श्रेयो भूयो भूयो वदामि ते ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे तस्य शृण्वतो नारदो महान् ।। (४७)

ततस्स सत्यकामोपि त्यक्त्वा मोहं धनादिषु ।

यादवाद्रिं गतो विप्र स्नात्वा कल्याणतीर्थके ।। (४८)

सुकुमारं च संपूज्य महामोदमवाप्तवान् ।

स्वाध्यायस्तुतिशीलानां तपश्शीलदयावताम् ।। (४९)

भक्तानां परिपूर्णानाम् आचार्योऽभून्महामतिः ।

पुत्रस्स्वल्पेन कालेन भार्या चैव तु तस्य वै ।। (५०)

चरन्तस्सकलान्देशान् यादवाद्रिमुपागमन् ।

पित्रा च सङ्गताः पुत्राः सङ्गता पतिना सती ।। (५१)

सत्यकामस्तु सन्तुष्टो भार्यापुत्रैर्मुमोद ह ।

श्रियं सुरवरैः प्रार्थ्यां ज्ञानं वैराग्यमेव च ।। (५२)

भक्तिं च परमां पुण्यां भक्तसङ्गरुचिं तथा ।

बहूंस्तनुभृतश्श्रीमान् उद्धरन्पुण्यकर्ममिः ।। (५३)

तत्रैव चिरकालं हि वासं चक्रे महामुनिः ।

देहावसाने काले तु तस्य प्रीतो हरिस्स्वयम् ।। (५४)

विष्णुः –

एकस्त्वं गच्छ विप्रेन्द्र भार्यया पुण्यशीलया ।

पुत्रास्तिष्ठन्तु लोकेस्मिन् कञ्चित्कालं कृपाळवः ।। (५५)

एतैर्जीवाश्च बहवो भविष्यन्ति विमोहिताः ।

तेषां तदाश्रयाणां च तत्पादाश्रयशालिनाम् ।। (५६)

मुक्तिं दास्याम्यसन्देहो गच्छ त्वं मत्पदं द्विज ।

सनत्कुमारः –

इत्युक्त्वा द्विजमुख्येन साकं धाम ययौ हरिः ।। (५७)

उक्तं पुण्यतमं विप्र यत्पृष्टोहमिह त्वया ।

सत्यकामस्य मूर्खस्य चरितं परमाद्भुतम् ।। (५८)

कल्याणीतीर्थमाहात्म्यं वक्तुं वर्षशतैरपि ।

कश्शक्तश्श्रोतुमपि वा सहस्रवदनोऽपि वा ।। (५९)

मयाप्युक्तो यथाशक्ति महिमा च तवानघ ।

कल्याणमुनियुक्तायाः कल्याण्या द्विजसत्तम ।। (६०)

श्रीसूतः –

कल्याणतीर्थमाहात्म्यम् अन्येषामपि वैभवम् ।

चक्रशङ्खादितीर्थानां वर्णितं भृगुनन्दन ।

दीप्तिमांस्तु कुमारेण श्रुत्वा हर्षमवाप सः ।। (६१)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

सत्यकामस्य नारदकृत मेधातिथ्युपाख्यानपूर्वकयदुगिरिगमनोपदेशो नाम एकादशोऽध्यायः

अथ द्वादशोऽध्यायः

यदुगिरौ बदरीनारायणसान्निध्यम्

शौनकः –

सूत सूत कुमारेण तीर्थमाहात्म्यमद्भुतम् ।

यथा दीप्तिमते प्रोक्तं तथा ब्रूहि क्रमान्मम ।। (१)

श्रीसूतः –

साधु पृष्टं त्वया ब्रह्मन् तीर्थमाहात्म्यमादरात् ।

अतोन्येषां प्रवक्ष्यामि कुमारोक्तक्रमादहम् ।। (२)

दीप्तिमान् –

कथं श्रीबदरीवृक्षा आगताः केन हेतुना ।

बृन्दावनान्महापुण्याः पुण्यभूसुरसेविताः ।। (३)

सनत्कुमारः –

पुरा कृतयुगे विप्र पुण्ये यादवभूधरे ।

आसीद् द्विजवरश्रेष्ठः शाण्डिल्य इति विश्रुतः ।। (४)

दर्भतीर्थे तपः कुर्वन् विष्णुव्रतपरायणः ।

आसीद्बहुतिथे काले गते नारायणः स्वयम् ।। (५)

आविर्बभूव सन्तुष्टः शाण्डिल्याग्रे महापतिः ।

नारायणः –

उत्तिष्ठोत्तिष्ठ भद्रं ते तपस्सिद्धोऽसि मे प्रियः ।। (६)

शाण्डिल्यः –

द्रष्टुमिच्छामि भो स्वामिन् नरनारायणाश्रयम् ।

तत्रैव बहुकालं वै नेतुमुत्सहते मनः ।। (७)

नारायणः –

स एवाहं मुनिश्रेष्ठ नरनारायणो हरिः ।

तत्र गन्तुमशक्ताश्च कलौ जीवा हिमार्दिताः ।। (८)

तस्मादत्रैव वत्स्यामि त्वमप्यत्र वसानघ ।

आराधय महायोगिन् सर्वकामवरप्रदम् ।। (९)

नयिष्यामि क्षणादेव बृन्दावनलतास्तरून् ।

सनत्कुमारः –

इत्युक्त्वान्तर्दधे विष्णुः बदरीनिलयो हरिः ।। (१०)

यादवाद्रिस्थ – उत्सवबेरमाहात्म्यम्

ऋषिरत्रैव निवसन् शाण्डिल्यो मुनिसत्तमः ।

दीप्तिमान् –

वर्णयोत्सवबेरस्य माहात्म्यं कृपया मुने ।। (११)

कैः कैश्चाराधितः पूर्वं कस्मादत्र समागतः ।

सनत्कुमारः –

पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ।। (१२)

संहृत्य कालकलया कल्पान्त इदमीश्वरः ।

आसीदेकस्तदा विष्णुः नान्यत्किञ्चन वस्तु च ।। (१३)

ततो निश्वाससम्भूतैः निगमैस्संस्तुतो हरिः ।

स्रष्टुं प्रचक्रमे विप्र ब्रह्माण्डं चेतनाश्रयम् ।। (१४)

प्रकृत्यादीनि तत्त्वानि सृष्ट्वा तैरसृजत्प्रभुः ।

अण्डं तदन्तरा ब्रह्मन् पौरुषं चासृजत्प्रभुः ।। (१५)

स्वसृष्टगर्भसलिले ह्यशयिष्ट कृपानिधिः ।

तस्य नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ।। (१६)

मरीचिस्तस्य पुत्रोभूत्तत्पुत्रोपि च काश्यपः ।

विवस्वांस्तस्य पुत्रोऽभूत्तस्य पुत्रो मनुर्महान् ।। (१७)

तस्यापि तु महाभागा दशपुत्राः प्रजज्ञिरे ।

इक्ष्वाकुरिति विख्यातो ज्येष्ठश्श्रेष्ठगुणो महान् ।। (१८)

तपः कुर्वन्महातेजा आसीद् बदरिकाश्रमे ।

आविरासीन्महाभागो ब्रह्मलोकपितामहः ।। (१९)

ससंभ्रमस्समुत्थाय ननामाङ्गेन दण्डवत् ।

तमुत्थाप्य महातेजा ब्रह्मा भूपतिमब्रवीत् ।। (२०)

ब्रह्मा –

किमर्थं कृतवान् भूप तपः परमदारुणम् ।

इत्याह तं चतुर्वक्त्रम् इक्ष्वाकुरपि हृष्टधीः ।। (२१)

याचते स्म चतुर्वक्त्रं वरदानोन्मुखं विभुम् ।

इक्ष्वाकुः –

विष्णोराराधनार्थाय प्रतिमा दीयतां शुभा ।। (२२)

ब्रह्मा –

बहुकालं तपस्तप्त्वा लब्धवान् परमाद्भुताम् ।

प्रतिमां पद्मनाभाद्धि तपसा तोषिताद्धरेः ।। (२३)

तां ददामि महायोगिन् मम प्राणात्प्रियङ्कराम् ।

सनत्कुमारः –

इत्युक्त्वा सुकुमाराख्यां प्रतिमां सुन्दराकृतिम् ।। (२४)

दत्त्वा तु प्रेषयामास सादरं स चतुर्मुखः ।

तपस्तप्तुं पुनर्विप्रगतवान् क्षीरसागरम् ।। (२५)

तत्र तप्त्वा पुनर्लब्ध्वा विमानं रङ्गसञ्ज्ञितम् ।

सत्यलोकं गतो ब्रह्मा मनुपुत्रः पुरं ययौ ।। (२६)

तद्वंशैरर्चितो विप्र सुकुमारस्सुपुण्यकैः ।

इक्ष्वाकुवंश्यश्चरमः सुमित्रो नाम विश्रुतः ।। (२७)

तत्र ब्रह्मा तु तं विप्र सुकुमारं द्विजोत्तमैः ।

आनीय यादवगिरौ स्थापयित्वातिसुन्दरम् ।। (२८)

उत्सवं कृतवान्ब्रह्मा देवर्षिपितृमानवैः ।

तदारभ्य तु तं देवं सुकुमारं द्विजोत्तमाः ।। (२९)

आराध्याभिमतान्कामान् लभन्ते च सुरोत्तमाः।

उक्तं तु परमाश्चर्यं श्रुत्वा हर्षाश्रुसंप्लतः ।। (३०)

सनत्कुमारः –

अथान्यान्यपि तीर्थानि प्रवक्ष्यामि द्विजोत्तम ।

परितो यादवगिरेः सप्ततीर्थानि सन्ति वै ।। (३१)

कल्याण्यास्तु पुरोभागे चक्रतीर्थमिति श्रुतम् ।

प्लक्षस्तिष्ठति तीरे तु ऋषिर्वेदशिरास्तथा ।। (३२)

महाबलस्तीर्थपालः केशवो नाम देवता ।

तिलान्न दानं शंसन्ति पितृणामक्षयं हि तत् ।। (३३)

शङ्खतीर्थमिति ख्यातमाग्नेय्यां दिशि तिष्ठति ।

आम्रो बोध्यो ऋषिस्तत्र बलस्तत्तीर्थपालकः ।। (३४)

देवो नारायणः प्रोक्तो ह्यन्नदानं प्रशस्यते ।

अस्ति दक्षिणदिग्भागे कापिलं तीर्थमुत्तमम् ।। (३५)

बिल्वो महीरुहस्तत्र ऋषिः कपिल एव च ।

कुमुदस्तीर्थपालश्च देवता माधवो हरिः ।। (३६)

भूमिदानं प्रशंसन्ति माधवप्रीतये मुने ।

आस्ते पुलहतीर्थं तु प्रतीचीं दिशमाश्रितम् ।। (३७)

वटो महीरुहस्तत्र ऋषिः पुलह एव च ।

देवो गोविन्द एवासीत् पालकः कुमुदेक्षणः ।। (३८)

शय्यादानं प्रशंसन्ति गोविन्दप्रीतये मुने ।

पुण्यं सुदासतीर्थं तु वायव्यां दिशमाश्रितम् ।। (३९)

शिंशुपो नाम वृक्षस्तु सुदासो नाम वै मुनिः ।

देवो विष्णुरिति ख्यातो वस्त्रदानं प्रशम्यते ।। (४०)

गोतीर्थं पुण्यसलिलसुदीचीं दिशमाश्रितम् ।

चन्दनो भूरुहस्तत्र गालवो नाम वै मुनिः ।। (४१)

मधुसूदनदेवोत्र विष्वक्सेनस्तु पालकः ।

गोदानं स्वर्णदानं च प्रशंसन्ति द्विजोत्तम ।। (४२)

गोतीर्थस्य पुरोमागे मनुतीर्थमनुत्तमम् ।

पलाशवृक्षस्तत्रापि भरद्वाजो महामुनिः ।। (४३)

गरुडः पालकस्तत्र देवता तु त्रिविक्रमः।

घृतं रजतधान्यादि दानं तत्र प्रशस्यते ।। (४४)

चक्रं शङ्खं च कपिलं सुदासं बभ्रुतीर्थकम् ।

मनुतीर्थं महापुण्यं पुण्यं पुलहनामकम् ।। (४५)

वेदयादवगर्भञ्च पालाशं पद्मतीर्थकम् ।

नारायणं च मैत्रेयं चतुर्दशं समीरितम् ।। (४६)

पुण्यां वैकुण्ठगङ्गां च धनुष्कोटीं तथैव च ।

कल्याणीति च विख्याता सर्वतीर्थसमन्विता ।। (४७)

एतानि पुण्यतीर्थानि यादवाद्रिस्थितानि च ।

तानि स्मृत्वा नरः पापान्मुच्यते नात्र संशयः ।। (४८)

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।

पितृभूतनृदेवेभ्यो यद्दत्तं तद्ध्यनश्वरम् ।। (४९)

उक्तानि सर्वतीर्थानि पुण्यानि च महामते ।

नृसिंहागमनं वक्ष्ये शृणु त्वं सावधानतः ।। (५०)

याववाद्रिस्थनृसिंहवैभवम्

काश्यपस्य सुतो वीरो हिरण्यकशिपुः पुरा ।

तपस्तप्त्वा वरं लेभे ह्यवध्यत्वं सुरासुरैः ।। (५१)

तस्य पुत्रास्तु चत्वारस्तेपा ज्येष्ठो महामतिः ।

प्रह्लाद इति विख्यातः सर्वाह्लादकरो महान् ।। (५२)

सत्सङ्गाभिरुचिर्नित्यं धृतिमान् सद्गुणालयः ।

तस्य भक्तिं दृढां दृष्ट्वा हरौ सर्वेश्वरेश्वरे ।। (५३)

हिरण्यकशिपुः द्वेषमकरोदात्मजे मुने ।

कदाचित्सुतमाहूय मामनादृत्य दुर्मते ।। (५४)

अन्यं भजसि शत्रुं स कुत्र तिष्ठति पुत्रक ।

इत्युक्तस्स तु हृष्टात्मा पितरं वाक्यमब्रवीत् ।। (५५)

प्रह्लादः –

योऽसौ सर्वगतो विष्णुः सर्वेषां बलिनां बली ।

त्वां च मां चाथ सर्वांश्च सदा रक्षति वै हरिः ।। (५६)

सर्वत्रास्ते सदा तात तं भजाम्यसुरोत्तमम् ।

त्वमपि श्रद्धया राजन्भज क्षेमाय कल्पसे ।। (५७)

सनत्कुमारः –

इत्युक्त्वोपरतं पुत्रं हन्तुमृद्युक्तवान्पिता ।

हिरण्यकशिपुः –

हे मूढ मन्द दुर्बुद्धे कं हरामि तवात्मज ।। (५८)

गोपायेत्स हरिस्त्वाद्य यं त्वं शरणमिच्छसि ।

सनत्कुमारः –

इत्युक्त्वा खड्गमुद्यम्य रुषा प्रस्फुरिताधरः ।। (५९)

विष्णुर्नृहरिरूपेण स्तम्भं निर्भिद्य निर्गतः ।

हिरण्यकशिपुं युद्धे गृहीत्वोत्सङ्गमात्मनः ।। (६०)

ददार करजैरेनमेरकान्कटकृद्यथा ।

तदा देवर्षिगन्धर्वा ब्रह्मरुद्रपुरस्सराः ।। (६१)

वाद्यं चक्रुस्तुष्टुवुश्च ववर्षुः कुसुमैस्सुराः ।

गन्धर्वा ननृतुर्हृष्टा अप्सरोभिः समन्ततः ।। (६२)

तैरयं प्रार्थितो देवो नृहरिः भक्तवत्सलः ।

गोमन्ते पर्वतश्रेष्ठ वसन्नित्यं कृपानिधिः ।। (६३)

नृहरिस्तैर्गिरिश्रेष्ठमागतो भक्तवत्सलः ।

कुर्वन्ननुग्रहं विष्णुरास्तेऽद्यापि द्विजोत्तम ।। (६४)

उक्तं नृसिंहागमनं द्विजश्रेष्ठ मयानघ ।

दीप्तिमान् –

धन्योऽस्मि कृतकृत्योऽस्मि श्रुतं त्वन्मुखनिस्सृतम् ।। (६५)

यादवाद्रेः प्रभावं तु अनुज्ञां दातुमर्हसि ।

गच्छामि यादवाद्रिं ते नमः कुर्यां मुनीश्वर ।। (६६)

श्रीसूतः –

इत्युक्त्वा दीप्तिमान्विप्रः तं प्रणम्य गतो मुनिः ।। (६७)

य एतच्यावयेन्नित्यं शृणुयाच्छूद्धयान्वितः ।

नन्दयेद्वन्दनं कुर्यात्सर्वपापैः प्रमुच्यते ।। (६८)

य एतत्क्षेत्रमाहात्म्यं वैष्णवेष्वमिधास्यति ।

स विष्णुं प्रीणयत्याशु सर्वकामफलप्रदम् ।। (६९)

वैष्णवानां समाजे वा कीर्तयित्वा सुखी भवेत् ।

नास्तिकाय न वक्तव्यं नाभागवतसन्निधौ ।। (७०)

नालसाय प्रडंभाय न वक्तव्यमसूयवे ।

न वक्तव्यं न वक्तव्यं न वक्तव्यं द्विजोत्तम ।। (७१)

शृण्वन् पठन् लिखन् बिभ्रन् क्षेत्रमाहात्म्यमद्भुतम् ।

मुक्त्वा शुभाशुभे याति तद्विष्णोः परमं पदम् ।। (७२)

इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये

बदरीनारायणसान्निध्यादिकथनं नाम द्वादशोऽध्यायः

 

इत्थं श्रीमत्स्यपुराणान्तर्गतः प्रथमप्रभृतिद्वादशपर्यन्त

द्वादशाध्यायात्मकः श्रीमद्यादवगिरिमाहात्म्यपरपुराणभागस्समाप्तिमगमत्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.