द्रोणपर्वम् अध्यायः 51-70

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

051-अध्यायः

युधिष्ठिर उवाच||

त्वयि याते महाबाहो संशप्तकबलं प्रति |

प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ||१||

व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः |

प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ||२||

स वार्यमाणो रथिभी रक्षितेन मया तथा |

अस्मानपि जघानाशु पीडयन्निशितैः शरैः ||३||

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः |

प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ||४||

वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् |

उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ||५||

स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् |

असह्यमपि तं भारं वोढुमेवोपचक्रमे ||६||

स तवास्त्रोपदेशेन वीर्येण च समन्वितः |

प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ||७||

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे |

प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ||८||

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः |

वरदानेन रुद्रस्य सर्वान्नः समवारयत् ||९||

ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः |

कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ||१०||

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः |

यतमानः परं शक्त्या बहुभिर्विरथीकृतः ||११||

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् |

संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ||१२||

स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् |

राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ||१३||

बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह |

ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ||१४||

एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् |

स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ||१५||

सञ्जय उवाच||

ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् |

हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ||१६||

विषण्णवदनाः सर्वे परिगृह्य धनञ्जयम् |

नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ||१७||

प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः |

कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ||१८||

पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् |

उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ||१९||

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् |

न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ||२०||

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् |

भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ||२१||

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् |

पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ||२२||

रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन |

अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ||२३||

यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः |

मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ||२४||

ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् |

गुरुदारगामिनां ये च पिशुनानां च ये तथा ||२५||

साधूनसूयतां ये च ये चापि परिवादिनाम् |

ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ||२६||

भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् |

ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ||२७||

पायसं वा यवान्नं वा शाकं कृसरमेव वा |

संयावापूपमांसानि ये च लोका वृथाश्नताम् ||२८||

तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ||२८||

वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् |

अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ||२९||

स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् |

याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ||३०||

तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ||३०||

नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः |

उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ||३१||

आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ||३१||

भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा |

असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ||३२||

तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ||३२||

संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् |

न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ||३३||

अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च |

अनर्हते च यो दद्याद्वृषलीपत्युरेव च ||३४||

मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः |

तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ||३५||

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः |

ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ||३६||

यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ||३६||

इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत |

यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ||३७||

इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ||३७||

असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा |

चरमचरमपीदं यत्परं चापि तस्मा; त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ||३८||

यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा |

तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ||३९||

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् |

तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ||४०||

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः |

प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः ||४१||

स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः |

जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा ||४२||

ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः |

सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ||४३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

052-अध्यायः-प्रतिज्ञापर्व

सञ्जय उवाच||

श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् |

चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ||१||

शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् |

मज्जमान इवागाधे विपुले शोकसागरे ||२||

जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु |

स तेषां नरदेवानां सकाशे परिदेवयन् ||३||

अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् |

योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ||४||

स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् |

तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ||५||

अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः |

पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ||६||

द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः |

दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् ||७||

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता |

न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ||८||

प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् |

सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः ||९||

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना |

तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ||१०||

न देवा न च गन्धर्वा नासुरोरगराक्षसाः |

उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ||११||

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः |

अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ||१२||

एवं विलपमानं तं भयाद्व्याकुलचेतसम् |

आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ||१३||

न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ |

मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ||१४||

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः |

भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ||१५||

पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः |

सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ||१६||

दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः |

विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ||१७||

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः |

स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ||१८||

अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे |

यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ||१९||

एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः |

दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ||२०||

उपसङ्ग्रहणं कृत्वा द्रोणाय स विशां पते |

उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ||२१||

निमित्ते दूरपातित्वे लघुत्वे दृढवेधने |

मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ||२२||

विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः |

ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे ||२३||

द्रोण उवाच||

सममाचार्यकं तात तव चैवार्जुनस्य च |

योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ||२४||

न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन |

अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ||२५||

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि |

व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ||२६||

तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय |

पितृपैतामहं मार्गमनुयाहि नराधिप ||२७||

अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया |

इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ||२८||

दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु |

भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ||२९||

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः |

अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ||३०||

पर्यायेण वयं सर्वे कालेन बलिना हताः |

परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ||३१||

तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः |

क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् ||३२||

सञ्जय उवाच||

एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः |

अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

053-अध्यायः

सञ्जय उवाच||

प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा |

वासुदेवो महाबाहुर्धनञ्जयमभाषत ||१||

भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् |

सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ||२||

असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः |

कथं नु सर्वलोकस्य नावहास्या भवेमहि ||३||

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः |

त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ||४||

त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा |

सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ||५||

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः |

नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ||६||

सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज |

आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ||७||

अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जयः |

रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ||८||

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव |

प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ||९||

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव |

आसन्सुयोधनामात्याः स च राजा जयद्रथः ||१०||

अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः |

आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ||११||

स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः |

सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ||१२||

मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः |

प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ||१३||

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः |

उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ||१४||

ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः |

पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ||१५||

अथ रक्षा न मे सङ्ख्ये क्रियते कुरुनन्दन |

अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ||१६||

एवमुक्तस्त्ववाक्षीर्षो विमनाः स सुयोधनः |

श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ||१७||

तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः |

मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ||१८||

नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् |

योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ||१९||

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः |

कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ||२०||

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा |

पदातिना महातेजा गिरौ हिमवति प्रभुः ||२१||

दानवानां सहस्राणि हिरण्यपुरवासिनाम् |

जघानेकरथेनैव देवराजप्रचोदितः ||२२||

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता |

सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ||२३||

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना |

द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ||२४||

स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन |

संविधानं च विहितं रथाश्च किल सज्जिताः ||२५||

कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः |

कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ||२६||

शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः |

पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ||२७||

स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ||२७||

धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि |

अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ||२८||

एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ||२८||

तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय |

सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ||२९||

भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै |

मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ||३०||

अर्जुन उवाच||

षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् |

तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये ||३१||

अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन |

मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ||३२||

द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः |

मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ||३३||

यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः |

मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ||३४||

पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः |

द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ||३५||

ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च |

त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ||३६||

तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया |

सत्येन ते शपे कृष्ण तथैवायुधमालभे ||३७||

यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः |

तमेव प्रथमं द्रोणमभियास्यामि केशव ||३८||

तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः |

तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ||३९||

द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः |

शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ||४०||

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् |

पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ||४१||

गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे |

नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ||४२||

यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया |

उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ||४३||

ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे |

मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ||४४||

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः |

आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ||४५||

क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् |

सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् ||४६||

बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः |

मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ||४७||

सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे |

मया सराजका बाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः ||४८||

तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः |

नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ||४९||

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ |

त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ||५०||

यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् |

एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ||५१||

मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् |

मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ||५२||

यथा हि यात्वा सङ्ग्रामे न जीये विजयामि च |

तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ||५३||

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः |

श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ||५४||

सञ्जय उवाच||

एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना |

संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ||५५||

यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम |

तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ||५६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

054-अध्यायः

सञ्जय उवाच||

तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ |

निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ||१||

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः |

व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति ||२||

ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः |

सकबन्धस्तथादित्ये परिघः समदृश्यत ||३||

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः |

चचाल चापि पृथिवी सशैलवनकानना ||४||

चुक्षुभुश्च महाराज सागरा मकरालयाः |

प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ||५||

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् |

क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ||६||

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह |

तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ||७||

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ |

श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ||८||

अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः |

आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ||९||

स्नुषा श्वश्व्रानघायस्ते विशोके कुरु माधव |

साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो ||१०||

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः |

भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ||११||

मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा |

सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ||१२||

कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः |

सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ||१३||

दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः |

क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ||१४||

जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे |

गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ||१५||

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च |

सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ||१६||

वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा |

मा शुचस्तनयं भद्रे गतः स परमां गतिम् ||१७||

प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः |

अस्यावलेपस्य फलं ससुहृद्गणबान्धवः ||१८||

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् |

न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ||१९||

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् |

समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ||२०||

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् |

यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ||२१||

व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् |

गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ||२२||

अनु जातश्च पितरं मातृपक्षं च वीर्यवान् |

सहस्रशो रिपून्हत्वा हतः शूरो महारथः ||२३||

आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृषम् |

श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ||२४||

यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा |

चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ||२५||

यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च |

रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते ||२६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

055-अध्यायः

सञ्जय उवाच||

एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः |

सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ||१||

हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह |

निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः ||२||

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् |

मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ||३||

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् |

सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् ||४||

चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् |

भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् ||५||

शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् |

भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ||६||

योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः |

कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ||७||

योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः |

सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ||८||

पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो |

पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ||९||

अतृप्तदर्शना पुत्र दर्शनस्य तवानघ |

मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ||१०||

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च |

तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ||११||

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |

धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् ||१२||

धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् |

ये त्वा रणे गतं वीरं न जानन्ति निपातितम् ||१३||

अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् |

अभिमन्युमपश्यन्ती शोकव्याकुललोचना ||१४||

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः |

कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् ||१५||

हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे |

अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ||१६||

इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् |

कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ||१७||

अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक |

विहाय फलकाले मां सुगृद्धां तव दर्शने ||१८||

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा |

यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ||१९||

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् |

चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ||२०||

कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि |

सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ||२१||

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् |

हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज ||२२||

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः |

नैवेशिकं चाभिमतं ददतां या गतिः शुभा ||२३||

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रता |

एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ||२४||

राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती |

चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ||२५||

दीनानुकम्पिनां या च सततं संविभागिनाम् |

पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ||२६||

व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि |

अमोघातिथिनां या च तां गतिं व्रज पुत्रक ||२७||

ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् |

न चान्यदारसेवीनां तां गतिं व्रज पुत्रक ||२८||

साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः |

नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ||२९||

मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् |

परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ||३०||

ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः |

यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ||३१||

एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् |

अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा ||३२||

ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः |

उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ ||३३||

सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः |

सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ||३४||

विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् |

भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ||३५||

सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् |

गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ||३६||

ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने |

सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः ||३७||

कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः |

कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ||३८||

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् |

पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः ||३९||

ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः |

विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् ||४०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

056-अध्यायः

सञ्जय उवाच||

ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः |

स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ||१||

सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ||१||

ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः |

अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ||२||

ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः |

दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ||३||

ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् |

अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् ||४||

स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत |

सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ||५||

स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् |

दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ||६||

शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ||६||

न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् |

प्रजागरः सर्वजनमाविवेश विशां पते ||७||

पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना |

सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ||८||

तत्कथं नु महाबाहुर्वासविः परवीरहा |

प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ||९||

कष्टं हीदं व्यवसितं पाण्डवेन महात्मना |

पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ||१०||

भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च |

धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ||११||

स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः |

जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ||१२||

अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति |

न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः ||१३||

धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने |

तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ||१४||

यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि |

फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ||१५||

एवं कथयतां तेषां जयमाशंसतां प्रभो |

कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ||१६||

तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः |

स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ||१७||

अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना |

जयद्रथं हनिष्यामि श्वोभूत इति दारुक ||१८||

तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति |

यथा जयद्रथं पार्थो न हन्यादिति संयुगे ||१९||

अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् |

द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ||२०||

एको वीरः सहस्राक्षो दैत्यदानवमर्दिता |

सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ||२१||

सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |

अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ||२२||

न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः |

कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ||२३||

अनर्जुनमिमं लोकं मुहूर्तमपि दारुक |

उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ||२४||

अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः |

अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ||२५||

श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे |

धनञ्जयार्थं समरे पराक्रान्तस्य दारुक ||२६||

श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च |

साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ||२७||

श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् |

मया क्रुद्देन समरे पाण्डवार्थे निपातिताम् ||२८||

श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः |

ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ||२९||

यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु |

इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ||३०||

यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् |

कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ||३१||

गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् |

आरोप्य वै रथे सूत सर्वोपकरणानि च ||३२||

स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे |

वैनतेयस्य वीरस्य समरे रथशोभिनः ||३३||

छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः |

विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ||३४||

बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च |

युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ||३५||

पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् |

श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ||३६||

एकाह्नाहममर्षं च सर्वदुःखानि चैव ह |

भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ||३७||

सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे |

पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ||३८||

यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति |

आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ||३९||

दारुक उवाच||

जय एव ध्रुवस्तस्य कुत एव पराजयः |

यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ||४०||

एवं चैतत्करिष्यामि यथा मामनुशाससि |

सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ||४१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

057-अध्यायः

सञ्जय उवाच||

कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः |

प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ||१||

तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् |

आससाद महातेजा ध्यायन्तं गरुडध्वजः ||२||

प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जयः |

नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ||३||

प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ |

न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ||४||

ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् |

कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ||५||

मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः |

कालः सर्वाणि भूतानि नियच्छति परे विधौ ||६||

किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर |

न शोचितव्यं विदुषा शोकः कार्यविनाशनः ||७||

शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् |

क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ||८||

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः |

आबभाषे तदा विद्वानिदं वचनमर्थवत् ||९||

मया प्रतिज्ञा महती जयद्रथवधे कृता |

श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ||१०||

मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत |

पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ||११||

दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः |

प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ||१२||

दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते |

द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ||१३||

शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः |

संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ||१४||

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः |

हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ||१५||

पार्थ पाशुपतं नाम परमास्त्रं सनातनम् |

येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ||१६||

यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् |

अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ||१७||

तं देवं मनसा ध्यायञ्जोषमास्स्व धनञ्जय |

ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ||१८||

ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः |

भूमावासीन एकाग्रो जगाम मनसा भवम् ||१९||

ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे |

आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ||२०||

ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् |

वायुवेगगतिः पार्थः खं भेजे सहकेशवः ||२१||

केशवेन गृहीतः स दक्षिणे विभुना भुजे |

प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ||२२||

उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् |

कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ||२३||

सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् |

सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ||२४||

सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् |

पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ||२५||

मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् |

हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ||२६||

तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ||२६||

स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् |

पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ||२७||

ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ||२७||

सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च |

पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ||२८||

वृषदंशं च शैलेन्द्रं महामन्दरमेव च |

अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ||२९||

तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः |

शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ||३०||

चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् |

समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ||३१||

वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् |

विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ||३२||

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् |

अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ||३३||

समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् |

तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ||३४||

सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा |

शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ||३५||

नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् |

पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ||३६||

गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् |

वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ||३७||

स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः |

गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ||३८||

वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् |

पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ||३९||

लोकादिं विश्वकर्माणमजमीशानमव्ययम् |

मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ||४०||

स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् |

देवदानवयक्षाणां मानवानां च साधनम् ||४१||

योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् |

चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ||४२||

कालकोपं महात्मानं शक्रसूर्यगुणोदयम् |

अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ||४३||

यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः |

तमजं कारणात्मानं जग्मतुः शरणं भवम् ||४४||

अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत |

ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ||४५||

ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव |

स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ||४६||

किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ||४६||

येन कार्येण सम्प्राप्तौ युवां तत्साधयामि वाम् |

व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ||४७||

ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली |

वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ||४८||

नमो भवाय शर्वाय रुद्राय वरदाय च |

पशूनां पतये नित्यमुग्राय च कपर्दिने ||४९||

महादेवाय भीमाय त्र्यम्बकाय च शम्भवे |

ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ||५०||

कुमारगुरवे नित्यं नीलग्रीवाय वेधसे |

विलोहिताय धूम्राय व्याधायानपराजिते ||५१||

नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे |

हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ||५२||

अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च |

वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ||५३||

तप्यमानाय सलिले ब्रह्मण्यायाजिताय च |

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ||५४||

नमो नमस्ते सेव्याय भूतानां प्रभवे सदा |

ब्रह्मवक्त्राय शर्वाय शङ्कराय शिवाय च ||५५||

नमोऽस्तु वाचस्पतये प्रजानां पतये नमः |

नमो विश्वस्य पतये महतां पतये नमः ||५६||

नमः सहस्रशिरसे सहस्रभुजमन्यवे |

सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ||५७||

नमो हिरण्यवर्णाय हिरण्यकवचाय च |

भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ||५८||

एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः |

प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ||५९||

ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् |

ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ||६०||

तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः |

ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ||६१||

ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः |

इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ||६२||

ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः |

वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ||६३||

सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ |

तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ||६४||

येन देवारयः सर्वे मया युधि निपातिताः |

तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ||६५||

तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह |

प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ||६६||

निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् |

तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ||६७||

ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् |

नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ||६८||

द्वितीयं चापरं नागं सहस्रशिरसं वरम् |

वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ||६९||

ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली |

तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ||७०||

गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् |

अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ||७१||

ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ |

धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ||७२||

ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् |

आजह्रतुर्महात्मानौ ददतुश्च महात्मने ||७३||

ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत |

पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ||७४||

स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः |

व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ||७५||

तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः |

श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ||७६||

सरस्येव च तं बाणं मुमोचातिबलः प्रभुः |

चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ||७७||

ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा |

वरमारण्यकं दत्तं दर्शनं शङ्करस्य च ||७८||

मनसा चिन्तयामास तन्मे सम्पद्यतामिति ||७८||

तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः |

तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ||७९||

संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत |

ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ||८०||

अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ |

प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ||८१||

इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ||८१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

058-अध्यायः

सञ्जय उवाच||

तयोः संवदतोरेव कृष्णदारुकयोस्तदा |

सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ||१||

पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः |

वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ||२||

नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः |

कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ||३||

मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः |

आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ||४||

एवमेतानि सर्वाणि तथान्यान्यपि भारत |

वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ||५||

स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् |

पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ||६||

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे |

उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ||७||

ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् |

स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ||८||

भद्रासने सूपविष्टः परिधायाम्बरं लघु |

सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ||९||

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः |

आप्लुतः साधिवासेन जलेन च सुगन्धिना ||१०||

हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः |

स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ||११||

जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः |

ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ||१२||

समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा |

मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ||१३||

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः |

तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ||१४||

दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च |

सहस्रानुचरान्सौरानष्टौ दशशतानि च ||१५||

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः |

तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ||१६||

प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः |

अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ||१७||

तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः |

हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ||१८||

स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् |

माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ||१९||

पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा |

स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ||२०||

मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् |

दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ||२१||

ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः |

सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ||२२||

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् |

विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ||२३||

तत्र तस्योपविष्टस्य भूषणानि महात्मनः |

उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ||२४||

युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः |

रूपमासीन्महाराज द्विषतां शोकवर्धनम् ||२५||

पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः |

दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ||२६||

संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः |

उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ||२७||

ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् |

नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ||२८||

ह्रादेन गजघण्टानां शङ्खानां निनदेन च |

नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ||२९||

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः |

शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ||३०||

कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा |

अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ||३१||

न्यवेदयद्धृषीकेशमुपयातं महात्मने ||३१||

सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् |

अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ||३२||

ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने |

सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

059-अध्यायः

युधिष्ठिर उवाच||

सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन |

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ||१||

सञ्जय उवाच||

वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् |

ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः ||२||

अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् |

विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ||३||

शिखण्डिनं यमौ चैव चेकितानं च केकयान् |

युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ||४||

एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् |

उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ||५||

एकस्मिन्नासने वीरावुपविष्टौ महाबलौ |

कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ||६||

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् |

अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ||७||

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः |

प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ||८||

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् |

क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ||९||

त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल |

सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ||१०||

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम |

अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ||११||

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् |

पारं तितीर्षतामद्य प्लवो नो भव माधव ||१२||

न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि |

रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ||१३||

वासुदेव उवाच||

सामरेष्वपि लोकेषु सर्वेषु न तथाविधः |

शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ||१४||

वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः |

युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ||१५||

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः |

सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ||१६||

अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |

धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ||१७||

अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् |

अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ||१८||

तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा |

भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ||१९||

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ |

राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले ||२०||

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति |

विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ||२१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

060-अध्यायः

सञ्जय उवाच||

तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः |

दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ||१||

तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् |

समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ||२||

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना |

आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ||३||

व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् |

यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ||४||

तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् |

दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ||५||

ततस्तत्कथयामास यथादृष्टं धनञ्जयः |

आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ||६||

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः |

नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ||७||

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना |

त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ||८||

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः |

हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ||९||

रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ |

जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ||१०||

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् |

रथं रथवरस्याजौ वानरर्षभलक्षणम् ||११||

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः |

बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ||१२||

ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः |

कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ||१३||

तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् |

बाणबाणासनी वाहं प्रदक्षिणमवर्तत ||१४||

ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः |

स्तूयमानो जयाशीभिरारुरोह महारथम् ||१५||

जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् |

अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ||१६||

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः |

विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ||१७||

अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ |

शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ||१८||

अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः |

मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ||१९||

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः |

सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ||२०||

सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा |

सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ||२१||

ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः |

प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ||२२||

सजयाशीः सपुण्याहः सूतमागधनिस्वनः |

युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ||२३||

तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः |

ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ||२४||

प्रादुरासन्निमित्तानि विजयाय बहूनि च |

पाण्डवानां त्वदीयानां विपरीतानि मारिष ||२५||

दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् |

युयुधानं महेष्वासमिदं वचनमब्रवीत् ||२६||

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः |

यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ||२७||

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः |

यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ||२८||

यथा परमकं कृत्यं सैन्धवस्य वधे मम |

तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ||२९||

स त्वमद्य महाबाहो राजानं परिपालय |

यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ||३०||

त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे |

शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ||३१||

मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत |

राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ||३२||

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः |

किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ||३३||

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा |

तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ||३४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

061-अध्यायः-जयद्रथवधपर्व

धृतराष्ट्र उवाच||

श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः |

अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ||१||

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः |

कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ||२||

पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् |

आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ||३||

कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः |

दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ||४||

किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति |

परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ||५||

बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः |

न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ||६||

स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम |

सूतमागधसङ्घानां नर्तकानां च सर्वशः ||७||

शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः |

दीनानामद्य तं शब्दं न शृणोमि समीरितम् ||८||

निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय |

आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ||९||

तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् |

निवेशनं हतोत्साहं पुत्राणां मम लक्षये ||१०||

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः |

अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ||११||

ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते |

द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ||१२||

वितण्डालापसंलापैर्हुतयाचितवन्दितैः |

गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ||१३||

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः |

सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ||१४||

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये |

अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ||१५||

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः |

श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ||१६||

नित्यप्रमुदितानां च तालगीतस्वनो महान् |

नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ||१७||

सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः |

सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ||१८||

ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः |

द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ||१९||

नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः |

वादित्रनादितानां च सोऽद्य न श्रूयते महान् ||२०||

यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः |

आगतः सर्वभूतानामनुकम्पार्थमच्युतः ||२१||

ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा |

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ||२२||

कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः |

शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ||२३||

हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ||२३||

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् |

अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ||२४||

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः |

अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ||२५||

न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति |

सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ||२६||

शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा |

अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ||२७||

एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः |

सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ||२८||

श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः |

कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ||२९||

धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् |

प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ||३०||

अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः |

तेषामपि समुद्रान्ता पितृपैतामही मही ||३१||

नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि |

सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ||३२||

शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः |

द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ||३३||

अन्येषां चैव वृद्धानां भरतानां महात्मनाम् |

त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ||३४||

कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा |

कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ||३५||

मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् |

नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ||३६||

इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् |

न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ||३७||

वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः |

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ||३८||

धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः |

अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ||३९||

चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः |

द्रौपदेया विराटश्च द्रुपदश्च महारथः ||४०||

यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ||४०||

क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः |

दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ||४१||

अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् |

दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ||४२||

येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः |

संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ||४३||

तेषां मम विलापानां न हि दुर्योधनः स्मरेत् |

हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ||४४||

तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् |

दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ||४५||

हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् |

अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ||४६||

आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय |

यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ||४७||

अभिमन्यौ हते तात कथमासीन्मनो हि वः ||४७||

न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः |

अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ||४८||

किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् |

दुःशासनः सौबलश्च तेषामेवं गते अपि ||४९||

सर्वेषां समवेतानां पुत्राणां मम सञ्जय ||४९||

यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् |

लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ||५०||

राज्यकामस्य मूढस्य रागोपहतचेतसः |

दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ||५१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

062-अध्यायः

सञ्जय उवाच||

हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् |

शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ||१||

गतोदके सेतुबन्धो यादृक्तादृगयं तव |

विलापो निष्फलो राजन्मा शुचो भरतर्षभ ||२||

अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः |

मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ||३||

यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् |

निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ||४||

युद्धकाले पुनः प्राप्ते तदैव भवता यदि |

निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ||५||

दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि |

कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ||६||

तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः |

पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ||७||

स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे |

वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ||८||

त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् |

दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ||९||

तत्ते विलपितं सर्वं मया राजन्निशामितम् |

अर्थे निविशमानस्य विषमिश्रं यथा मधु ||१०||

न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा |

न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ||११||

व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् |

तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ||१२||

परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे |

तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ||१३||

पितृपैतामहं राज्यमपवृत्तं तदानघ |

अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ||१४||

पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा |

ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ||१५||

तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् |

यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ||१६||

यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप |

बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ||१७||

न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे |

चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ||१८||

यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ |

रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ||१९||

येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः |

येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ||२०||

को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः |

अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ||२१||

यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः |

क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ||२२||

यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् |

कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ||२३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

063-अध्यायः

सञ्जय उवाच||

तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः |

स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ||१||

शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् |

श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ||२||

विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च |

विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ||३||

विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् |

पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ||४||

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया |

सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ||५||

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः |

समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ||६||

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः |

चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ||७||

नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः |

सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ||८||

क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः |

क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा ||९||

ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् |

इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ||१०||

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु |

भारद्वाजो महाराज जयद्रथमथाब्रवीत् ||११||

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः |

अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ||१२||

शतं चाश्वसहस्राणां रथानामयुतानि षट् |

द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ||१३||

पदातीनां सहस्राणि दंशितान्येकविंशतिः |

गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत ||१४||

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः |

किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ||१५||

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः |

सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः ||१६||

वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ||१६||

चामरापीडिनः सर्वे जाम्बूनदविभूषिताः |

जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ||१७||

ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः ||१७||

मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः |

नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ||१८||

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव |

अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ||१९||

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ |

सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ||२०||

दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः |

व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः ||२१||

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः |

रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ||२२||

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः |

सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः ||२३||

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः |

सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ||२४||

अनन्तरं च काम्बोजो जलसन्धश्च मारिष |

दुर्योधनः सहामात्यस्तदनन्तरमेव च ||२५||

ततः शतसहस्राणि योधानामनिवर्तिनाम् |

व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः ||२६||

तेषां च पृष्ठतो राज बलेन महता वृतः |

जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः ||२७||

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः |

अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ||२८||

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः |

धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ||२९||

पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् |

द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ||३०||

सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् |

द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ||३१||

सशैलसागरवनां नानाजनपदाकुलाम् |

ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ||३२||

बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम् |

अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

064-अध्यायः

सञ्जय उवाच||

ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष |

ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ||१||

अनीकानां च संह्रादे वादित्राणां च निस्वने |

प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ||२||

अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु |

रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ||३||

वडानां वायसानां च पुरस्तात्सव्यसाचिनः |

बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ||४||

मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः |

दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ||५||

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः |

चचाल च मही कृत्स्ना भये घोरे समुत्थिते ||६||

विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |

ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ||७||

नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः |

पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ||८||

ततो रथसहस्रेण द्विरदानां शतेन च |

त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ||९||

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव |

अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ||१०||

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् |

अहमावारयिष्यामि वेलेव मकरालयम् ||११||

अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् |

विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ||१२||

एवं ब्रुवन्महाराज महात्मा स महामतिः |

महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ||१३||

ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः |

दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ||१४||

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव |

युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ||१५||

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः |

जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ||१६||

आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् |

शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ||१७||

रथप्रवरमास्थाय नरो नारायणानुगः |

विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ||१८||

सोऽग्रानीकस्य महत इषुपाते धनञ्जयः |

व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ||१९||

अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष |

प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ||२०||

तयोः शङ्खप्रणादेन तव सैन्ये विशां पते |

आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ||२१||

यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् |

तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ||२२||

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः |

एवं सवाहनं सर्वमाविग्नमभवद्बलम् ||२३||

व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष |

विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ||२४||

ततः कपिर्महानादं सह भूतैर्ध्वजालयैः |

अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ||२५||

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |

पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ||२६||

नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः |

सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ||२७||

तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने |

अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ||२८||

चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः |

एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ||२९||

एवमुक्तो महाबाहुः केशवः सव्यसाचिना |

अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ||३०||

स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः |

एकस्य च बहूनां च रथनागनरक्षयः ||३१||

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् |

परानवाकिरत्पार्थः पर्वतानिव नीरदः ||३२||

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् |

अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ ||३३||

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि |

शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ||३४||

उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः |

सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ||३५||

पुण्डरीकवनानीव विध्वस्तानि समन्ततः |

विनिकीर्णानि योधानां वदनानि चकाशिरे ||३६||

तपनीयविचित्राणि सिक्तानि रुधिरेण च |

अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ||३७||

शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले |

कालेन परिपक्वानां तालानां पततामिव ||३८||

ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति |

कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ||३९||

नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः |

अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः ||४०||

हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी |

बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ||४१||

अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो |

तव सैन्येषु योधानां पार्थभूतमिवाभवत् ||४२||

अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे |

पार्थभूतममन्यन्त जगत्कालेन मोहिताः ||४३||

निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः |

शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ||४४||

सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः |

सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ||४५||

सबाणवर्माभरणाः सगदाः साङ्गदा रणे |

महाभुजगसङ्काशा बाहवः परिघोपमाः ||४६||

उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः |

वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ||४७||

यो यः स्म समरे पार्थं प्रतिसंरभते नरः |

तस्य तस्यान्तको बाणः शरीरमुपसर्पति ||४८||

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा |

न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ||४९||

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् |

लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ||५०||

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च |

अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ||५१||

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः |

प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ||५२||

यथोदयन्वै गगने सूर्यो हन्ति महत्तमः |

तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ||५३||

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत |

अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ||५४||

यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा |

तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ||५५||

तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप |

प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ||५६||

मारुतेनेव महता मेघानीकं विधूयता |

प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ||५७||

प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः |

कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ||५८||

चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः |

सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ||५९||

पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे |

शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ||६०||

तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ||६०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

065-अध्यायः

धृतराष्ट्र उवाच||

तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना |

के नु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ||१||

आहो स्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः |

द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ||२||

सञ्जय उवाच||

तथार्जुनेन सम्भग्ने तस्मिंस्तव बले तदा |

हतवीरे हतोत्साहे पलायनकृतक्षणे ||३||

पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः |

न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ||४||

ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् |

दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ||५||

स काञ्चनविचित्रेण कवचेन समावृतः |

जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ||६||

नागानीकेन महता ग्रसन्निव महीमिमाम् |

दुःशासनो महाराज सव्यसाचिनमावृणोत् ||७||

ह्रादेन गजघण्टानां शङ्खानां निनदेन च |

ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ||८||

भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् |

स मुहूर्तं प्रतिभयो दारुणः समपद्यत ||९||

तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् |

व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ||१०||

सिंहनादेन महता नरसिंहो धनञ्जयः |

गजानीकममित्राणामभितो व्यधमच्छरैः ||११||

महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् |

किरीटी तद्गजानीकं प्राविशन्मकरो यथा ||१२||

काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षये |

ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ||१३||

खुरशब्देन चाश्वानां नेमिघोषेण तेन च |

तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ||१४||

देवदत्तस्य घोषेण गाण्डीवनिनदेन च ||१४||

मन्दवेगतरा नागा बभूवुस्ते विचेतसः |

शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ||१५||

ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः |

अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ||१६||

आरावं परमं कृत्वा वध्यमानाः किरीटिना |

निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ||१७||

अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च |

शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ||१८||

गजस्कन्धगतानां च पुरुषाणां किरीटिना |

आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||१९||

सकुण्डलानां पततां शिरसां धरणीतले |

पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ||२०||

यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः |

भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ||२१||

केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा |

द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ||२२||

मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च |

रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ||२३||

न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् |

मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ||२४||

अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः |

मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ||२५||

उत्थितान्यगणेयानि कबन्धानि समन्ततः |

अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||२६||

सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |

अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||२७||

सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः |

चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ||२८||

वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः |

स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ||२९||

निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः |

अदृश्यत मही तत्र दारुणप्रतिदर्शना ||३०||

एवं दुःशासनबलं वध्यमानं किरीटिना |

सम्प्राद्रवन्महाराज व्यथितं वै सनायकम् ||३१||

ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः |

द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ||३२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

066-अध्यायः

सञ्जय उवाच||

दुःशासनबलं हत्वा सव्यसाची धनञ्जयः |

सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ||१||

स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् |

कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ||२||

शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे |

भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ||३||

भवान्पितृसमो मह्यं धर्मराजसमोऽपि च |

तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ||४||

अश्वत्थामा यथा तात रक्षणीयस्तवानघ |

तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ||५||

तव प्रसादादिच्छामि सिन्धुराजानमाहवे |

निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ||६||

एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव |

मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ||७||

एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् |

सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ||८||

ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः |

द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः ||९||

विव्याध च रणे द्रोणमनुमान्य विशां पते |

क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ||१०||

तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ |

विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ||११||

इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् |

तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ||१२||

द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ||१२||

विव्याध च हयानस्य ध्वजं सारथिमेव च |

अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ||१३||

एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः |

विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ||१४||

मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ||१४||

पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् |

चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ||१५||

तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना |

मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ||१६||

विद्रुताश्च रणे पेतुः सञ्छिन्नायुधजीविताः |

रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ||१७||

चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः |

तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ||१८||

पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः |

हंसा हिमवतः पृष्ठे वारिविप्रहता इव ||१९||

रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः |

युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ||२०||

तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् |

स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् ||२१||

अथात्यर्थविसृष्टेन द्विषतामसुभोजिना |

आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ||२२||

स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः |

धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ||२३||

द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् |

अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ||२४||

विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी |

अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ||२५||

प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् |

मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ||२६||

तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ |

द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ||२७||

तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा |

वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ||२८||

ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः |

पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ||२९||

द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् |

पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ||३०||

ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः |

परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ||३१||

ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते |

ननु नाम रणे शत्रुमजित्वा न निवर्तसे ||३२||

अर्जुन उवाच||

गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते |

न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ||३३||

सञ्जय उवाच||

एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः |

त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ||३४||

तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ |

अन्वयातां महात्मानौ विशन्तं तावकं बलम् ||३५||

ततो जयो महाराज कृतवर्मा च सात्त्वतः |

काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ||३६||

तेषां दशसहस्राणि रथानामनुयायिनाम् |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||३७||

माचेल्लका ललित्थाश्च केकया मद्रकास्तथा |

नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ||३८||

कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः |

भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ||३९||

पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् |

त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् ||४०||

गाहमानमनीकानि मातङ्गमिव यूथपम् |

महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ||४१||

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |

अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ||४२||

जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् |

न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ||४३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

067-अध्यायः

सञ्जय उवाच||

संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः |

द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ||१||

किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः |

तापयामास तत्सैन्यं देहं व्याधिगणो यथा ||२||

अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः |

छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ||३||

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः |

इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ||४||

तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः |

अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ||५||

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः |

अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ||६||

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः |

अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् ||७||

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः |

अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ||८||

तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः |

प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ||९||

तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि |

यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ||१०||

क्षरन्निव महामेघो वारिधाराः सहस्रशः |

द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ||११||

अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष |

प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् ||१२||

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् |

वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ||१३||

पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् |

विसृजन्तं शितान्बाणानवारयत तं युधि ||१४||

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ |

आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ||१५||

वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् |

किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् ||१६||

सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् |

अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ||१७||

ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम |

अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ||१८||

तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा |

पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ||१९||

भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् |

एकैकं पञ्चविंशत्या सायकानां समार्पयत् ||२०||

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः |

शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ||२१||

अथान्यद्धनुरादाय कृतवर्मा महारथः |

पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ||२२||

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः |

तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ||२३||

विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति |

चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ||२४||

ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् |

कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय ||२५||

ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः |

अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ||२६||

अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने |

विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ||२७||

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ |

पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ||२८||

तावविध्यत्ततो भोजः सर्वपारशवैः शरैः |

त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ||२९||

तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः |

सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ||३०||

अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः |

कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ||३१||

तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः |

तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ||३२||

न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा |

धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ||३३||

अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः |

नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ||३४||

तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः |

अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ||३५||

स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् |

क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ||३६||

तमर्जुनो नवत्या तु शराणां नतपर्वणाम् |

आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||३७||

स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् |

अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ||३८||

तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च |

आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ||३९||

अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः |

वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||४०||

ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः |

शरैरनेकसाहस्रैः पीडयामास भारत ||४१||

अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः |

विव्याध चैनं सप्तत्या नाराचानां महाबलः ||४२||

हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः |

अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ||४३||

वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः |

पर्णाशा जननी यस्य शीततोया महानदी ||४४||

तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् |

अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ||४५||

वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् |

दिव्यमस्त्रं सुतस्तेऽयं यनावध्यो भविष्यति ||४६||

नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन |

सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ||४७||

दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा |

अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ||४८||

इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् |

यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ||४९||

उवाच चैनं भगवान्पुनरेव जलेश्वरः |

अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ||५०||

स तया वीरघातिन्या जनार्दनमताडयत् |

प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ||५१||

नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः |

प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता ||५२||

जघान चास्थितं वीरं श्रुतायुधममर्षणम् |

हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत ||५३||

हाहाकारो महांस्तत्र सैन्यानां समजायत |

स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् ||५४||

अयुध्यमानाय हि सा केशवाय नराधिप |

क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ||५५||

यथोक्तं वरुणेनाजौ तथा स निधनं गतः |

व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ||५६||

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः |

सम्भग्न इव वातेन बहुशाखो वनस्पतिः ||५७||

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः |

प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ||५८||

तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः |

अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ||५९||

तस्य पार्थः शरान्सप्त प्रेषयामास भारत |

ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ||६०||

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे |

अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ||६१||

वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः |

तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ||६२||

भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः |

स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ||६३||

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः |

सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ||६४||

सा ज्वलन्ती महोल्केव तमासाद्य महारथम् |

सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ||६५||

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः |

साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ||६६||

रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ||६६||

सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम् |

बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ||६७||

स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः |

पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ||६८||

गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः |

निर्भग्न इव वातेन कर्णिकारो हिमात्यये ||६९||

शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः |

सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ||७०||

पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ||७०||

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते |

हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ||७१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

068-अध्यायः

सञ्जय उवाच||

हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे |

जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ||१||

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः |

अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ||२||

तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः |

ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ||३||

ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् |

रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ||४||

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः |

शिरांसि पातयामास बाहूंश्चैव धनञ्जयः ||५||

शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा |

अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ||६||

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ |

श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ||७||

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ |

तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ||८||

त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः |

अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ||९||

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् |

पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ||१०||

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् |

आजघान रथश्रेष्ठः पीतेन निशितेन च ||११||

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |

आजगाम परं मोहं मोहयन्केशवं रणे ||१२||

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः |

शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ||१३||

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः |

पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ||१४||

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |

सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ||१५||

कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम् |

आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ||१६||

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् |

वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ||१७||

सचक्रकूबररथं साश्वध्वजपताकिनम् |

अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ||१८||

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत |

प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ||१९||

सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् |

शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ||२०||

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः |

तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ||२१||

ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् |

विचेरुराकाशगताः पार्थबाणविदारिताः ||२२||

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः |

प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ||२३||

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ |

वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ||२४||

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः |

लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ||२५||

तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् |

अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ||२६||

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् |

अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ||२७||

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः |

किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ||२८||

तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः |

प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ||२९||

लोडयन्तमनीकानि द्विपं पद्मसरो यथा |

नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ||३०||

अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् |

क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ||३१||

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः |

प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ||३२||

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः |

निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ||३३||

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः |

बभौ कनकपाषाणा भुजगैरिव संवृता ||३४||

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च |

च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ||३५||

शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः |

व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ||३६||

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः |

गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ||३७||

नानावेषधरा राजन्नानाशस्त्रौघसंवृताः |

रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ||३८||

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः |

सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ||३९||

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः |

भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ||४०||

सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ||४०||

विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः |

यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ||४१||

गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः |

दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ||४२||

न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः |

वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ||४३||

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः |

मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ||४४||

म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ||४४||

शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः |

प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ||४५||

गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः |

वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ||४६||

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् |

शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ||४७||

प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ||४७||

शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम् |

अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ||४८||

देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ||४८||

यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे |

तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ||४९||

षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् |

प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ||५०||

शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः |

शेरते भूमिमासाद्य शैला वज्रहता इव ||५१||

स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः |

प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा ||५२||

भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् |

निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ||५३||

सैन्यारण्यं तव तथा कृष्णानिलसमीरितः |

शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः ||५४||

शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् |

प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ||५५||

वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् |

प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ||५६||

तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ||५६||

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः |

न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष ||५७||

धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ||५७||

अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः |

आससाद रणे पार्थं केशवं च महारथम् ||५८||

ततः स प्रहसन्वीरो गदामुद्यम्य भारत |

रथमावार्य गदया केशवं समताडयत् ||५९||

गदया ताडितं दृष्ट्वा केशवं परवीरहा |

अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत ||६०||

ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् |

छादयामास समरे मेघः सूर्यमिवोदितम् ||६१||

ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः |

अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ||६२||

अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् |

अर्जुनं वासुदेवं च पुनः पुनरताडयत् ||६३||

तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ |

चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ||६४||

स पपात हतो राजन्वसुधामनुनादयन् |

इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ||६५||

रथानीकावगाढश्च वारणाश्वशतैर्वृतः |

सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ||६६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

069-अध्यायः

सञ्जय उवाच||

ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया |

द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ||१||

काम्बोजस्य च दायादे हते राजन्सुदक्षिणे |

श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ||२||

विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः |

प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ||३||

त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् |

गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ||४||

अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् |

अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ||५||

यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः |

तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ||६||

असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः |

सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ||७||

अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप |

जयद्रथस्य गोप्तारः संशयं परमं गताः ||८||

स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर |

नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ||९||

सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते |

सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ||१०||

जानामि त्वां महाभाग पाण्डवानां हिते रतम् |

तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ||११||

यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् |

प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ||१२||

अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम |

पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ||१३||

अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः |

न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ||१४||

नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे |

नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ||१५||

मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना |

आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ||१६||

यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः |

नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ||१७||

स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः |

मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ||१८||

द्रोण उवाच||

नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः |

सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ||१९||

सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः |

अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ||२०||

किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः |

पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ||२१||

न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः |

सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ||२२||

युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् |

एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ||२३||

धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे मम |

तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ||२४||

तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् |

गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ||२५||

राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः |

वीर स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः ||२६||

दुर्योधन उवाच||

कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः |

धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ||२७||

अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः |

नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ||२८||

येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः |

अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ||२९||

सुदक्षिणश्च निहतः स च राजा श्रुतायुधः |

श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ||३०||

तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् |

प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ||३१||

क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् |

परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ||३२||

द्रोण उवाच||

सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः |

अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ||३३||

अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः |

विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ||३४||

एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् |

यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ||३५||

यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः |

योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ||३६||

न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे |

शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ||३७||

स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् |

त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ||३८||

सञ्जय उवाच||

एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् |

आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ||३९||

रणे तस्मिन्सुमहति विजयाय सुतस्य ते |

विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ||४०||

द्रोण उवाच||

करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः |

सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ||४१||

ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः |

तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ||४२||

स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च |

स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ||४३||

स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा |

लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ||४४||

असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः |

वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ||४५||

धाता विधाता लोकेशो दिशश्च सदिगीश्वराः |

स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ||४६||

विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः |

दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ||४७||

अधस्ताद्धरणीं योऽसौ सदा धारयते नृप |

स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ||४८||

गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः |

पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ||४९||

हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः |

ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ||५०||

देवा ऊचुः||

प्रमर्दितानां वृत्रेण देवानां देवसत्तम |

गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ||५१||

द्रोण उवाच||

अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् |

प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ||५२||

रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः |

त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ||५३||

त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा |

वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ||५४||

स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली |

नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः ||५५||

दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् |

यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ||५६||

पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ||५६||

ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् |

अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ||५७||

सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् |

अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ||५८||

एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः |

तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ||५९||

मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः |

शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ||६०||

महेश्वर उवाच||

विदितं मे यथा देवाः कृत्येयं सुमहाबला |

त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ||६१||

अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् |

ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ||६२||

बधानानेन मन्त्रेण मानसेन सुरेश्वर ||६२||

द्रोण उवाच||

इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च |

स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ||६३||

नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे |

न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ||६४||

ततो जघान समरे वृत्रं देवपतिः स्वयम् |

तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ||६५||

अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः |

बृहस्पतिरथोवाच अग्निवेश्याय धीमते ||६६||

अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते |

तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ||६७||

सञ्जय उवाच||

एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः |

पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ||६८||

ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव |

हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ||६९||

यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये |

शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ||७०||

बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् |

प्रेषयामास राजानं युद्धाय महते द्विजः ||७१||

स संनद्धो महाबाहुराचार्येण महात्मना |

रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ||७२||

तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् |

अश्वानामयुतेनैव तथान्यैश्च महारथैः ||७३||

वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति |

नानावादित्रघोषेण यथा वैरोचनिस्तथा ||७४||

ततः शब्दो महानासीत्सैन्यानां तव भारत |

अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ||७५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

070-अध्यायः

सञ्जय उवाच||

प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा |

दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ||१||

जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च |

पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ||२||

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |

पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ||३||

राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् |

यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ||४||

धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः |

द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ||५||

वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् |

पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ||६||

महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये |

सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ||७||

समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् |

जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ||८||

नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः |

गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ||९||

भारद्वाजानिलोद्धूतः शरधारासहस्रवान् |

अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ||१०||

समुद्रमिव घर्मान्ते विवान्घोरो महानिलः |

व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ||११||

तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् |

बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ||१२||

वारयामास तान्द्रोणो जलौघानचलो यथा |

पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ||१३||

अथापरेऽपि राजानः परावृत्य समन्ततः |

महाबला रणे शूराः पाञ्चालानन्ववारयन् ||१४||

ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह |

सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ||१५||

यथैव शरवर्षाणि द्रोणो वर्षति पार्षते |

तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ||१६||

सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः |

ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ||१७||

शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् |

निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ||१८||

यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् |

ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ||१९||

तथा तु यतमानस्य द्रोणस्य युधि भारत |

धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ||२०||

भोजमेके न्यवर्तन्त जलसन्धमथापरे |

पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ||२१||

सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः |

व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ||२२||

धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः |

अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ||२३||

कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान् |

सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ||२४||

कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः |

द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ||२५||

अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च |

चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ||२६||

त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः |

अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ||२७||

मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः |

बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ||२८||

रथं नागं हयं चापि पत्तिनश्च विशां पते |

एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ||२९||

पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत |

दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ||३०||

तत्पच्यमानमर्केण द्रोणसायकतापितम् |

बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ||३१||

तथैव पार्षतेनापि काल्यमानं बलं तव |

अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ||३२||

वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः |

त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ||३३||

तावकानां परेषां च युध्यतां भरतर्षभ |

नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ||३४||

भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् |

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ||३५||

विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् |

त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ||३६||

बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः |

सहसेनः सहामात्यो द्रौपदेयानवारयत् ||३७||

शैब्यो गोवासनो राजा योधैर्दशशतावरैः |

काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ||३८||

अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् |

मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ||३९||

दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः |

सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ||४०||

स्वकेनाहमनीकेन संनद्धकवचावृतः |

चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ||४१||

शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् |

गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ||४२||

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् |

प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ||४३||

शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् |

बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ||४४||

धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः |

आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ||४५||

घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् |

अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ||४६||

अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः |

सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ||४७||

सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत |

रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ||४८||

तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ |

द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ||४९||

पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः |

कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ||५०||

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः |

सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ||५१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.