श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः
रावणेन मन्त्रिणः प्रति हनुमत्कृतलकादहनादिदुष्करकर्मानुवाद पूर्वकं सैन्यैस्सहरा -मागमन -संभावनया तत्प्रतीकाराय मन्त्रिनियोजनम् ॥ १ ॥
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् ।
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ।
अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः ।। १ ।।
एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकालानन्तरकालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् इति विभक्त्येरलोपः ॥ १ ॥
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ।
तेन वानरमात्रेण दृष्टा सीता च जानकी ।। २ ।।
वानरमात्रेण वानरजातीयेन । वानरेष्वल्पेनेति यावत् ॥ २ ॥
प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः ।
आविला च पुरी लङ्का सर्वा हनुमता कृता ।। ३ ।।
चैत्यः प्रासादः नगरप्रधानभूतः प्रासादः । आविला दाहेन आकुला ॥ ३ ॥
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ।
उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ।। ४ ।।
अनन्तरं किं वा युक्तं यन्नः समर्थं हितं । समर्थस्त्रिपु शक्तिस्थे संबन्धार्थे हितेपि च इत्यमरः । यत्कृतं अनुष्ठितं । सुकृतं स्वनुष्ठितं । भवेत् फलवद्भवेत् । तादृशं किं उच्यतां करिष्यामि । वो भद्रमस्त्वित्यन्वयः ॥ ४ ॥
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः ।
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ।। ५ ।।
बलवतस्तव किं मन्त्रेणेत्याशंक्य सर्वेषामपि विजयस्य मन्त्रमूलत्वान्मयापि मन्त्रः करणीय इत्याह -मन्त्रमूलमिति ॥ ५ ॥
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ।
तेषां तु समवेतानां गुणदोषं वदाम्यहम् ।। ६ ।।
मन्त्रस्य करणीयत्वेपि स्वयमेव संमन्त्र्यतां किं बहुभिरित्यांक्शय बहुभिः सह मन्त्रयितुरेवोत्तमत्वं वक्तुं प्रतिज्ञापूर्वकं क्रमेण मन्त्रयितृभेदानाह – त्रिविधा इत्यादिना ॥ समवेतानां संकीर्णस्वरूपाणां । लक्षणज्ञानं विना विवेक्तुमशक्यानामित्यर्थ: । गुणदोषौ उत्तमलक्षणं गुणं अधमलक्षणं दोषं । मध्यमलक्षणं मिश्रणं ॥ ६ ॥
मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये ।
मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ।। ७ ।।
सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् ।
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ।। ८ ।।
हितसंयुक्तैः हितपरैः । समानार्थैः समानसुखदुःखैः । कर्मारम्भान् आरम्भणीयकर्माणि । दैवे दैवसमाश्रयणे । कुरुते ॥ ७–८ ॥
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ।। ९ ।।
धर्मे पूर्वोक्तदैवसमाश्रयणे । मनः मनःपूर्वं यत्नं ॥ ९ ॥
गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम् ।
करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ।। १० ।।
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ।
एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः ।। ११ ।।
गुणदोषौ हिताहिते । अनिश्चित्य दैवव्यपाश्रयं त्यक्त्वा करिष्यामीत्युपक्रम्ययः कार्यमुपेक्षेत् उपेक्षेतन समाप्नुयात् ॥ १० – ११ ॥
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् ।। १२ ।।
उक्तत्रैविध्यं मन्त्रेप्यतिदिशति – ऐकमत्यमिति ॥ ऐकमत्यं एकां मतिं उपागम्य । शास्त्रदृष्टेन स्वभ्यस्तशास्त्रेण । राजदन्तादित्वात्परनिपातः । तद्रूपेण चक्षुषा उपलक्षिताः मन्त्रिणः यत्रमन्त्रे निरताः तं उत्तममन्त्रमाहुः ॥ १२ ॥
बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये ।
पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः ।। १३ ।।
यत्र मन्त्रे । मन्त्रिणां मतयः बह्वयः बहुधा भूत्वापि । अर्थनिर्णये अर्थनिर्णयरूपफलविषये । एकतां प्राप्ता भवन्ति स मन्त्रो मध्यमः स्मृतः । नीतिज्ञैरितिशेषः ॥ १३ ॥
अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ।। १४ ।।
यत्र मन्त्रे । मन्त्रिभिः अन्योन्यं मतिं स्वां स्वां बुद्धिं । आस्थाय प्रधानीकृत्य । संप्रतिभाष्यते व्यवह्रियते । अनेनोत्तममन्त्रव्यावृत्तिरुक्ता । मध्यममन्त्रव्यावृत्त्यर्थमाह – न चेति । ऐकमत्ये तेषां मन्त्रिणां श्रेयश्च प्रीतिश्च नास्ति स मन्त्रोधम उच्यते ॥ १४ ॥
तस्मात्सुमन्त्रितं साधु भवन्तो मतिमत्तमाः ।
कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यं मतं मम ।। १५ ।।
सुमन्त्रितं सुनिश्चितं । साधु समीचीनं । कार्य संप्रतिपद्यन्तां ऐकमत्येन जानन्तु । एतत् ऐकमत्येन सुनिश्चितं कार्यं । मम कृत्यं अतिशयेन कर्तव्यं ।। १५ ।।
वानराणां हि वीराणां सहस्रैः परिवारितः ।
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ।। १६ ।।
गतं तु गतमेव किं मन्त्रकरणे इतः किं नश्छिन्नमित्यत आह -वानराणामिति ॥ अभ्येति अभ्येष्यति । वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमाननिर्देश: । उपरोधकः उपरोद्धुं । क्रियार्थायां क्रियायां ण्वुल् ।। १६ ।।
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ।
तरसा युक्तरूपेण सानुजः सबलानुगः ।
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ।। १७ ।।
[खरो येन हतः संख्ये तस्य वीर्येण लक्ष्यते] ।। १८ ।।
सागरे विद्यमाने कथमस्मानुपरोत्स्यति तत्राह – तरिष्यतीति सार्ध- श्लोकः ॥ उच्छोषयति उच्छोषयिष्यति । अन्यत्सेतु- बन्धादिकं वा । करोति करिष्यति ॥ १७-१८ ॥
अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह ।
हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ।। १९ ।।
अस्मिन् लङ्कानिरोधनरूपे कार्ये । एवंगते उक्तरीत्या प्रवृत्ते । वानरैः सह विरुद्धे विरोधे च प्राप्ते । भावे निष्ठा । पुरादिषु हितं यत्तत्सर्वं संमन्त्र्यतामित्यर्थः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः ॥ ४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥