श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः
प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्यासेनयासह रणायनिर्याणं ॥ १ ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्न प्रदर्शन पूर्वकंतत्तन्नामनिर्देश: ॥ २ ॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादिविदारणं ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५॥ रावणकरतलाभिहतेनहनुमता स्वकरतलेन तदुरसि -ताडनं ॥ ६ ॥ तेन सश्लाधं मुष्ट्या हनुमत्ताडनं ॥ ७ ॥ तेन किञ्चिद्विह्वलेसति हनुमति रावणेन नीलंप्रत्यभियानं ॥ ८ ॥ नीले रावणशिरश्शरासनादिषु लाघवेनचपलतरंसंचरमाणे रावणेचालब्धलक्ष्ये हसत्सुकपिपुरुष्टेनतेनानेयास्त्रेण नीलनिपातन पूर्वकं लक्ष्मणाभिगमनं ॥ ९ ॥लक्ष्मणेनचापच्छेदनपूर्वकंशरताडितेनरावणेनब्रह्मदत्तयाशक्त्यालक्ष्मणवक्षस्ताडनं ॥ १० ॥ रावणेपतितमूर्छितलक्ष्मणोद्धरणेप्रयतनेनाप्यशक्नुवतिलक्ष्मणशरीराकर्षणरुष्टेन हनुमता -रावणोरसिमुष्टिघातनं ॥ १३ ॥ तेनसरुधिरोद्गारंमूर्छितेरावणेहनुम तालक्ष्मणस्य रामसमीप -प्रापणं ॥ १२ ॥ लब्धसंज्ञेरावणेऽभ्यागच्छतिहनुमत्प्रार्थनयात मारूढेनरामेणतदभियानं ॥ १२ ॥ रामेणशरनिकरैः रावणस्यविरथीकरणपूर्वकं विह्वलताप्रापणेनतरिकरीट कूटच्छेदनं ॥ १४ ॥ रामेणस्थादिसामग्रीसाहित्येनपु-रागमनचोदनपूर्वकंगृहगमनायाभ्यनुज्ञातेनरावणेन -लज्जयालङ्कागमनं ॥ १५ ॥
तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।
भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥
अथ रावणमुकुटभङ्ग एकोनषष्टितमे – तस्मिन्हत । इत्यादि ।। १ ।।
गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसुनुशस्तम् ।
तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥ २ ॥
संख्ये ग्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।
उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ॥ ३ ॥
पावकसूनुशस्तं पावकसूनुना नीलेन शस्तं हतं । तच्चापीत्यनेन रावणेन स्वप्नेपि न तच्चिन्तितमिति सूच्यते । यद्वा शत्रोरुपचये समाश्रयः कार्यइतिनीतिः । तथापि रावण: कालचोदिततया समाश्रयणं विहाय अस्थाने क्रोधवशं गत इत्यपिशब्देन सूच्यते ॥ २–३ ॥
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ४ ॥
रिपवे रामाय । नावज्ञा कार्या उपेक्षा न कर्तव्या । क्रियाग्रहणं कर्तव्यमिति चतुर्थी । यैश्च वानरैर्हेतुभिः । मम सैन्यपालः प्रहस्तः । सानुयात्रः सानुचरः । सकुञ्जरश्च सूदितः । तेभ्योपि । । नावज्ञाकार्येत्यर्थः । केचित्तु रिपवे रिपुभ्यः । अवज्ञा एते कपयः किं करिष्यन्तीत्येवंरूपा न कार्या । कुत इत्याह – यैरित्यादीत्याहुः ॥ ४ ॥
सोहं रिपुविनाशाय विजयायाविचारयन् ।
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ५ ।।
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।
निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥
[ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।
रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ७ ॥ ]
अद्भुतं दुर्बलैः प्रबलविनाशनादाश्चर्यं ॥ ५-७ ॥
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।
प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ८ ॥
तुरङ्गोत्तमराजैः तुरङ्गश्रेष्ठतमैः युक्तं । प्रकाशमानं अलङ्कारैर्भासमानं । वपुषा ज्वलन्तं स्वरूपत एव प्रकाशमानं ।। ८ ।।
स शङ्खभेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।
पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ९ ॥
आस्फोटितक्ष्वेलितसिंहनादैः आस्फोटितं भुजास्फालनं । क्ष्वेलितशब्द : शब्दमात्रपरः । आस्फोटितजनितशब्दैः सिंहनादैश्चेत्यर्थः । पुण्यैः चारुभिः ॥ ९ ॥
स शैलजीमूतनिकाश रूपैर्मांसादनैः पावकदीप्तनेत्रैः ।
बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र ईवासुरेशः ॥ १० ॥
स इति । काठिन्यसिद्धये शैलौपम्यं । संकोचविकासार्हत्वसिद्ध्यै मेघौपम्यं । रूपं शरीरं । रुद्रस्यासुरेश्वरत्वं तामसप्रकृतित्वात् । तदुक्तं मैत्रायणीयानामुपनिषदि — यो ह वा अस्य तामसोंशः सोसौ रुद्रः ।। इति ॥ १० ॥
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् । ११ ।।
महार्णवाभ्रस्तनितं महार्णवाभ्रयोरिव स्तनितं घोषो यस्येति तथा ॥ ११ ॥
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।
विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ १२ ॥
अतिप्रचण्ड अत्यन्तकोपनं । भुजगेन्द्रबाहु युद्धौत्सुक्येन प्रवर्धमानबाहुरित्यर्थ: । पृथुश्रीः युद्धहर्षेण संजातलक्ष्मीकः । सेनानुगतः स्वामिसंरक्षणाय सर्वतः समवेतसेनापरिवृतः । शस्त्रभृतां वरिष्ठं वीरभटतारतम्यज्ञमिति भावः ॥ १२ ॥
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।
सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १३ ॥
नानेति । पताकाध्वजयोर्मात्रया भेदः । प्रथमं शस्त्रशब्दउपात्त: प्रासादिभिन्नपरः । आयुधं धनुः । इन्द्रायुधमित्यादौ तथा प्रयोगात् । प्रासासिशूलायुधरूपैः शस्त्रैर्जुष्टमित्यर्थः । वज्रजुष्टमिति पाठान्तरं ॥ १३ ॥
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।
शशंस रोमस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ १४ ॥
शक्रसमानवीर्य इत्यनेन वक्ष्यमाणं न भीतिमूलमिति द्योत्यते । बलप्रवेकं बलप्रवरं । प्रवेकानुत्तमोत्तमाः इत्यमरः । महात्मनां महाधैर्याणां ॥ १४ ॥
योसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्रः ।
प्रकम्पयन्नागशिरोभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १५ ॥
महात्मा महाकाय: । नवोदितार्कोपमं ताम्रवक्रं यस्य स तथा । बालसूर्यमुखरागतुल्योस्य मुखराग इत्यर्थः । योसौ गजस्कन्धगतो दृश्यते स गजस्कन्धगतः स्वशरीरभारान्नागशिरः कम्पयन्नुपैति । एनमकम्पनं रावणपुत्रमवेहि ॥ १५ ॥
योसौ रथस्थो मृगराजकेतुर्धून्वन्धनुः शक्रधनुःप्रकाशम् ।
करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ १६ ॥
मृगराजकेतुः सिंहध्वजः । धनु: धून्वन्नित्यनेन भुजबलाधिक्यमुच्यते । करीवेत्यनेन कायबलं । करितुल्यत्वे हेतुरुग्रविवृत्तदंष्ट्र इति । वरप्रधानः ब्रह्मदत्तान्तर्धानवरप्रधानः । अनेन वरबलमुक्तं ॥ १६ ।।
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोतिरथोतिवीरः ।
विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोतिविवृद्धकायः ॥ १७ ॥
विन्ध्यादित्रयौपम्येन उन्नतत्वपरतेजोभिभावकत्वनिश्चलत्वान्युच्यन्ते । अतिरथः सहस्राश्वयुक्तत्वेनातिशयितरथः । अतिवीरः मायाबलाभावेपीन्द्रजितोप्यतिशयितवीर्यः । अतुल्यमानं अतिशयितपरिमाणं । चापं । विस्फारयन् आकर्षन्नित्यर्थः । अत्रासावित्यध्याहार्यं ॥ १७ ॥
योसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १८ ॥
नवार्कोदितताम्रचक्षुः नवोदितार्कताम्र चक्षुः । घण्टानिनदप्रणादं घण्टानिनदेन प्रकृष्टो नादः स्वनो यस्य तं । स्वरमिति क्रियाविशेषणं ॥ १८ ॥
योसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एपोशनितुल्यवेगः ॥ १९ ॥
काञ्चनचित्रभाण्डं काञ्चनमयनानाविधाश्वाभरणं । स्याद्भाण्डमश्वाभरणे इत्यमरः । अतएव सन्ध्याभ्रगिरिप्रकाशं सन्ध्याभ्रयुक्तगिरिप्रकाशं हयमारुह्य । मरीचिनद्धं किरणैर्बद्धं । प्रासमुद्यम्य गर्जतीति पूर्वश्लोकादनुषज्यते । एष पिशाच: पिशाचनामकः ॥ १९ ॥
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम् ।
वृषेन्द्रमास्थाय ‘गिरिप्रकाशमायाति योसौ त्रिशिरा यशस्वी ॥ २० ॥
किङ्करो वज्रवेगो यस्य तत् किङ्करवज्रवेगं वज्रवेगादप्यधिकवेगमित्यर्थः । वृषेन्द्रं वृषभेन्द्रं । योसौ प्रसिद्धोसावित्यर्थः । आयाति सोसौ त्रिशिरा इत्यपि पठन्ति ॥ २० ॥
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।
समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २१ ॥
पृथुव्यूढसुजातवक्षाः पृथु पीनं व्यूढं विशालं सुजातं सुन्दरं च वक्षो यस्य स तथोक्तः । समाहितः सन्नद्धः । धनुर्विस्फारयन् ज्यामवलम्ब्य कर्षन् । पुनर्लीलया विधून्वन् असौ कुम्भो भाति । अत्र यच्छन्दाप्रयोगः सन्निहितत्वादिति भाव्यं ॥ २१ ॥
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।
आयाति रक्षोबलकेतुभूतस्त्वसौ निक्कुम्भोद्भुतघोरकर्मा ॥ २२ ॥
जाम्बूनदवज्राभ्यामन्योन्यमिलिताभ्यां जुष्टं अतएव दीप्तं ज्वालायुक्तं । सधूमं सधूममिव स्थितं । अभेदनिर्देश: । सर्वथा सादृश्यप्रतिपत्तये । रक्षोबलकेतुभूतः रक्षोबलप्रधानभूतइत्यर्थः ॥ २२ ।।
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।
रथं समास्थाय विभात्युदग्रो नरान्तकोसौ नगशृङ्गयोधी ॥ २३ ॥
उग्रः उन्नतः । नगशृङ्गैः साधनैः युध्यत इति नगशृङ्गयोधी । प्रतियोद्भावात् भुजकण्डूनिवृत्यर्थं नगैः सह युध्यत इति वार्थः ॥ २३ ॥
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्रैः ।
भूतैर्वृतो भाति विवृत्तनेत्रैः सोसौ सुराणामपि दर्पहन्ता ॥ २४ ॥
यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।
अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ २५ ॥
अथ त्रिभिः रावणं दर्शयति – यश्चेति ॥ विवृत्तनेत्रैः घूर्णितनेत्रैः ॥ २४-२५ ॥
असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।
महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ २६ ॥
नगेन्द्रः हिमवान् ॥ २६ ॥
प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २७ ॥
दीप्तः कान्तिमान् । महातेजाः महाप्रतापः ॥ २७ ॥
आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।
सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २८ ॥
आदित्य इव रश्मिभिः दुष्प्रेक्षः प्रेक्षितुमशक्यः । अनयोरर्थयोर्भिन्नवाक्यत्वान्न पुनरुक्तिशङ्का ॥ २८ ॥
देवदानववीराणां वपुर्नैवंविधं भवेत् ।
यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २९ ॥
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः ।
सर्वे दीप्तायुधधरा योघाश्चास्य महौजसः ॥ ३० ॥
देवेत्यर्धद्वयमेकं वाक्यं ॥ २९-३० ॥
भाति राक्षसराजोसौ प्रदीप्तैर्भीमविक्रमैः ।
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३१ ॥
देहवद्भिः प्रशस्तदेहैः ॥ ३१ ॥
दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः ।
अद्य क्रोघं विमोक्ष्यामि सीताहरणसंभवम् ॥ ३२ ॥
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३३ ॥
क्रोधं विमोक्ष्यामि क्रोधं कार्यकरं करिष्यामीत्यर्थः । मम दृष्टिपथं गत इति पाठः ॥ ३२-३३ ॥
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।
द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३४ ॥
द्वारेषु अन्तर्द्वारेषु । चर्यायुक्ताः पुरद्वारेषु गोपुरपार्श्वयोः भटनिवासार्थं निर्मिता विशङ्कटा गृहाः चर्यागृहाः । सुनिर्वृताः अतिसुखिताः ॥ ३४ ॥
इहागतं मां सहितं भवद्भिर्वनौकसच्छिद्रमिदं विदित्वा ।
शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रघर्षयेयुः सहसा समेताः ॥ ३५ ॥
इहागतं मां विदित्वा इदं छिद्रं विदित्वेत्यन्वयः । प्रमध्य ध्वंसित्वा । प्रधर्षयेयुः अभिभवेयुः ।। ३५ ।।
विसर्जयित्वा सहितांस्ततस्तान्मतेषु रक्षस्सु यथानियोगम् ।
व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥ ३६ ॥
सहितान् संमिलितान् । महाझष: महामत्स्यः ॥ ३६ ॥
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।
महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥ ३७ ॥
दीप्ते इषुचापे यस्य स तथोक्तः । युधि संयुगनिमित्तं । सहसा आपतन्तं राक्षसेन्द्रं समीक्ष्य । महीधराग्रं पर्वतशृङ्गं । समुत्पाट्य हरीशः सुग्रीवः । रक्षोधिपतिं दुद्राव ॥ ३७ ॥
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।
तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३८ ॥
तस्मिन्प्रवृद्धोत्तमसानुवृक्षे विकीर्णे पतिते पृथिव्याम् ।
महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ॥ ३९ ॥
बहुवृक्षसानुं बहुतरुयुततटं । तपनीयं स्वर्णं ॥ ३८-३९ ।।
स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।
बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ४० ॥
महेन्द्राशनिः वज्रं । औत्पातिकाशनिव्यावृत्तये महेन्द्रपदं । यद्वा महेन्द्रसंबन्धोक्ति: अभ्यासवता मुक्तत्वेनातिवेगद्योतनाय ॥ ४० ॥
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।
सुग्रीवमासाद्य बिभेद वेगाद्गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ४१ ॥
शक्राशनिप्रख्यं शक्राशनितुल्यं वपुः यस्य । गुहः स्कन्दः ॥ ४१ ॥
स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ।
तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४२ ॥
विपरीतचेताः भ्रान्तचित्तः ॥ ४२ ॥
ततो गवालो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।
शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४३ ॥
तेषां प्रहारान्स चकार मोघान्रक्षोधिपो बाणगणैः शिवाग्रैः ।
तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४४ ॥
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिंना निपेतुर्भुवि भीमकायाः ।
तवस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४५ ॥
ज्योतिमुखः ज्योतिर्मुखः ॥ ४३–४५ ॥
ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।
शाखामृगा रावणसायकार्ता जम्मुः शरण्यं शरणं स्म रामम् ॥ ४६ ॥
ते प्रसिद्धा वानरेन्द्राः नतु क्षुद्राः । वध्यमानाः प्रथमं हिंस्यमानाः । ततः पतिताः रावणवेगेन भूमौ पतिताः । तदानीं रक्षकान्तरादर्शनान्नानद्यमानाः अतिशयेन नदन्तः । नदतेर्यङि सन्यङोः इत्यभ्यासदीर्घादिः । भयशल्यविद्धाः ताशहेतुना भयरूपशल्येन विद्धाः । शाखामृगाः वनचारित्वेनैतादृशभयानभिज्ञाः । उक्तप्रकारेण सायकार्ता:सन्तः शरण्यं सर्वलोकशरणार्हं । रामं शरणं जग्मुः । एतेनार्तिरेव शरणागतिप्रयोजिका नतुदेशकालाधिकारिफलनियमा इत्युक्तं ॥ ४६ ॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४७ ॥
शरणागतकृत्यमुक्त्वा शरण्यकृत्यमाह — तत इति ॥ अत्र प्रपत्तेरार्तप्रपत्तिरूपतया तस्याः सद्यः फलद्योतनाय तत इत्युक्तं । प्रपत्युत्तरक्षण इत्यर्थ: । महात्मा शरणागतितारतम्यज्ञः । धनुष्मान् प्रशस्तधनुष्कः । धनुयुद्धसमर्थ इत्यर्थः । सहसेत्यनेन लक्ष्मणः स्वयं गमिष्यामीति तत्पूर्वमेवाश्रितत्राणत्वरया सधनुः सन् जगामेत्युक्तं । तथैव घट्टकुट्यां प्रभातमित्याह – तमिति । तं आर्तत्राणत्वरया व्रजन्तं । लक्ष्मण: राम कैङ्कर्यलक्ष्मीसंपन्नः । अनतिक्रमणाय नाथं निगलयति – प्राञ्जलिरिति । अभ्युपेत्य अभितः उपेत्य । अनेन लक्ष्मणागमनमजानन्निव नानापार्श्वेषु रामोनेकधा जगामेत्यवगम्यते परमार्थयुक्तं न तूपचारयुक्तं । यद्वा परमार्थयुक्तं परमप्रयोजनयुक्तं । शेषिविषये कैङ्कर्यस्य शेषभूतं प्रति परमप्रयोजनत्वात् ॥ ४७ ॥
काममार्य सुपर्याप्तो वधायास्य दुरात्मनः ।
विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ ४८ ॥
हे आर्य, अस्य दुरात्मनः परदारापहरणविषयदुर्बुद्धेः । कामं प्रकामं । वधाय सुपर्याप्तः सुशक्तोसि । तथापि नीचं भवता योद्धुमनर्हं । अहं वधिष्यामि । महाबलेन भवता नीचोयं न योद्धुमर्ह इति भावः । यद्वा अस्य वधायाहं पर्याप्तोस्मीत्यर्थः । तर्हि स्वयमेव गम्यतामित्यत्राह – अनुजानीहीति । प्रभो शेषिन् । त्वं मां शेषभूतमनुजानीहि । भवदनुज्ञामन्तरेण मे कार्यकरणं स्वरूपहानिकरमितिभावः ॥ ४८ ॥
तमब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ ४९ ॥
तं विनयेनोक्तवन्तं । महातेजा: तादात्विकहर्षप्रकर्षावेदकसुषमाविशेषशाली । सति कस्मिंश्चिद्विधेयेसति । अपराक्रम: निवृत्तपराक्रमः । अब्रवीत् ॥ ४९ ॥
गच्छ यत्नपरषापि भव लक्ष्मण संयुगे ।
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।
त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ५० ॥
तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।
चक्षुषा धेनुषा यत्नाद्रक्षात्मानं समाहितः ॥ ५१ ॥
नीचपदसूचितमनादरं वारयति – यत्नपर इति । युद्धे यत्नपरश्चापि भव यथा युद्धपरोसि एवं यत्नपरो भव । यत्नस्यावश्यकर्तव्यत्वे हेतुमाह – रावण इति । अद्भुत पराक्रमः एवमस्त्रमादान इवापरं संधत्ते तत्संधान इवापरं मोक्षयतीत्यर्थः । त्रिलोक्येव त्रैलोक्यं तेन । युगपद्युद्धप्रवृत्तेनेत्यर्थः । यत्नपरत्वं दर्शयति – तस्येति ॥ चक्षुषा तस्य रावणस्य । छिद्राणि अनवधानादीनि । यत्नान्मार्गस्व अन्वेषयस्व । स्वच्छिद्राणि लक्षय काकान्पश्येतिवत् स्वस्य छिद्राणि यथा न भवन्ति तथा पश्येत्यर्थः । यद्वा लक्षय लक्षित्वा प्रच्छायेत्यर्थः । एवं समाहितः सावधान: सन् । धनुषा आसानं रक्ष ॥ ५०–५१ ॥
राघवस्य वचः श्रुत्वा पैरिष्वज्याभिपूज्य च ।
अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ५२ ।।
स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।
प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५३ ॥
अभिपूज्य प्रदक्षिणीकृत्येत्यर्थः ॥ ५२–५३ ॥
तमालोक्य महातेजा हनुमान्मारुतात्मजः ।
निवार्य शरजालानि प्रदुद्राव स रावणम् ।। ५४ ।।
रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।
त्रासयन्रावणं धीमान्हनुमान्वाक्यमब्रवीत् ।। ५५ ।।
तमालोक्येति भृत्ये मयि विद्यमाने कथमसौ समासीदतीति जगामेत्यर्थः ॥ ५४–५५ ॥
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।
अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ५६ ।।
भयं प्राप्तमिति शेषः ॥ ५६ ॥
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ ५७ ॥
श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५८ ॥
पञ्चशाखः पञ्चाङ्गुलिकः । भूतासानं विधमिष्यति निष्क्रामयिष्यति । धातूनामनेकार्थत्वात् ॥ ५७-५८ ॥
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।
ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ५९ ॥
स्थिरां कीर्तिमवाप्नुहीति सोपालम्भोक्तिः । हनुमान् रावणमुपसृत्य प्रहृतवानियेतादृशीं किर्तिमवाप्स्यसीत्यर्थः । ज्ञातविक्रान्तं ज्ञातविक्रमं । भावे क्तः ॥ ५९ ॥
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ।
प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ६० ॥
रावणवचनं ज्ञात्वा तदुचितमुत्तरमाह – प्रहृतं हीति ॥ ६० ॥
एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।
आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६१ ॥
एवमुक्तइति । मर्मोद्घाटनेन संजातरोष इत्यर्थः ॥ ६१ ॥
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।
स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥
आजधानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६२ ।।
तलेनेति । रावणेन तलेन प्रहरणात् स्वयमपि तलेनैवप्राहरदितिभावः ।। ६२ ॥
ततस्तलेनाभिहतो वानरेण महात्मना ।
दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ॥ ६३ ॥
संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ॥ ६४ ॥
अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।
साधु वानर वीर्येण श्लाघनीयोसि मे रिपुः ॥ ६५ ॥
समाधूत: कम्पितः । अभूत् । भूमिचले भूकम्पेसति । अचल: गिरिर्यथा ॥ ६३ – ६५ ॥
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।
धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ॥ ६६ ॥
वीर्येणेति द्वितीयाभाव आर्ष: । यस्त्वं जीवसि । मया प्रहृतोपीति शेषः ॥ ६६ ॥
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।
ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६७ ।।
सकृत्तु प्रहर । शत्रुणा प्रहृते पुनरात्मनः प्रहारो विक्रमपरिपाटीमाटीकत इति हनुमतो हृदयं । इदानीमिति । पूर्वं मदनवधानाज्जीवसीतिभावः । दुर्बुद्धे प्रहारतारतम्यानभिज्ञ । किं किमर्थं । विकत्थसे लाघसे । कत्थ श्लाघायां इति धातुः । यमक्षयं यमनिलयं । निलयापचयौक्षयौ इत्यमरः ।। ६७ ॥
ततो मारुतिवाक्येन क्रोधस्तस्य तदाऽज्वलत् ।
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।।
पातयामास बेगेन वानरोरसि वीर्यवान् ॥ ६८ ॥
ततः तेनेत्यर्थः । अन्यथा तदाशब्दोतिरिच्येत । अज्वलत् ववृध इत्यर्थः । वीर्यवान् बलवान् । वीर्य बले च इत्यमरः ॥ ६८ ॥
हनुमान्वक्षसि व्यूढे संचचाल हतः पुनः ॥ ६९ ॥
हनुमानित्यर्धं व्यूढे विशाले ॥ ६९ ॥
विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ७० ॥
विह्वलं मूर्च्छितं । महाबलं तदानीमपि परैरनभिभवनीयं ॥ ७० ॥
राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ॥
शरैरादीपयामास नीलं हरिचमूपतिम् ।। ७१ ॥
आदीपयामास आसमन्ताज्वालयामास ॥ ७१ ॥
स शरौघसमायस्तो नीलः कपिचमूपतिः ।
करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥ ७२ ॥
समायस्त : आयासवान् । एकेनेत्यनेन इतरेण शरवारणं गम्यते ॥ ७२ ॥
हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ७३ ।।
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।
अन्येन युध्यमानस्य न युक्तमभिधावनम् ।। ७४ ॥
रावणोपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।
आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ ७५ ॥
तद्विकीर्णं गिरेः शृङ्खं दृष्ट्वा हरिचमूपतिः ।
कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ ७६ ॥
सोश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् ।
अन्यांश्च विविधान्वृक्षान्नीलश्विक्षेप संयुगे ॥ ७७ ॥
रावणं अब्रवीदिति संबन्धः । अभिधावनं । अन्येन युध्यमानं प्रत्यभिधावनमित्यर्थः । अत्रेतिकरणं द्रष्टव्यं ॥ ७३–७७ ॥
स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ।
अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७८ ।।
अभिसृष्टः शरौघेण मेघेनेव महाचलः ।
हृस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ ७९ ॥
समासाद्य समीपंप्राप्य । पावकिं पावकपुत्रं ॥ ७८-७९ ।।
पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।
जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥ ८० ॥
ध्वजाग्रे धनुषथाग्रे किरीटाग्रे च तं हरिम् ।
लक्ष्मणोथ हनुमांच दृष्ट्वा रामश्च विस्मिताः ॥ ८१ ॥
जज्वाल चुक्रोधेत्यर्थः ॥ ८०-८१ ।।
रावणोपि महातेजाः कपिलाघवविस्मितः ।
अस्त्रमाहारयामास दीप्तमात्रेयमद्भुतम् ॥ ८२ ।।
आहारयामास आददे ।। ८२ ।।
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।
नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ॥ ८३ ॥
लब्धलक्षा: लब्धहर्षविषयाः । नीलमेव पश्यन्त इति वार्थः ॥ ८३ ॥
वानराणां च नादेन संरब्धो रावणस्तदा ।
संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८४ ॥
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ॥ ८५ ।।
वानराणां चेति चशब्देन नीललाघवं समुच्चीयते । संभ्रमः व्यग्रता । प्रत्यपद्यत अजानात् । आग्नेयेन आग्नेयमन्त्रेण । संयुक्तं अभिमंत्रितं ॥ ८४-८५ ॥
कपे लाघवयुक्तोसि मायया परयाऽनया ।
जीवितं खलु रक्षस्व यदि शक्तोसि वानर ॥ ८६ ॥
कपे चञ्चलप्रकृते इत्यर्थः । अतो न वानरपदेन पौनरुक्त्त्यं ॥ ८६ ॥
तानितान्यात्मरूपाणि सृजसि त्वमनेकशः ।
तथापि त्वां मया युक्तः सायकोस्रप्रयोजितः ॥
जीवितं परिरक्षन्तं जीविताद्भंशयिष्यति ॥ ८७ ॥
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।
संघाय बाणमस्त्रेण चमूपतिमताडयत् ।। ८८ ॥
सोस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।
निर्दह्यमानः सहसा निपपात महीतले ॥ ८९ ॥
तानि तान्यात्मरूपाणि सृजसि त्वमनेकश इति । लाघवातिशयेन सृजसीव दृश्यस इत्यर्थः । ननु तानि तानीत्यनेन रावणो नीलं नानातनुपरिग्रहृयुक्तं मन्यत इत्यवगम्यत इति चेन्न । कपे लाघव- युक्तोसीति पूर्वोक्तिविरोधात् । युक्तः प्रयुक्तः । अस्त्रप्रयोजितः अस्त्रमन्त्रेणाभिमन्त्रितः । जीवितं परिरक्षन्तं त्वां जीवितात् भ्रंशयिष्यतीत्यन्वयः ॥ ८७-८९ ॥
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।
जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ ९० ॥
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ९१ ॥
पितृमाहात्म्येति । पितृमाहात्म्यं अग्नेः पुत्रतया दयालुत्ववैभवं ।। ९०-९१ ॥
आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।
धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥ ९२ ॥
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।।
अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ॥ ९३ ॥
सौमित्रिमासाद्य । वारयित्वा सुग्रीवादीन्वारयित्वा । रणमध्ये ज्वलन् स्थितः धनुर्विस्फारयामासेत्यन्वयः ॥ ९२ – ९३ ।।
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।
आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ॥ ९४ ॥
रक्षः रक्षोरूपः । राजेत्यन्वयः ॥ १४ ॥
दिट्यासि मे राघव दृष्टिमार्गं प्राप्तोन्तगामी विपरीतबुद्धिः ।
अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९५ ॥
अन्तगामी विनाशेच्छु: । अतएव विपरीतबुद्धिः त्वं दिष्ट्या यह दृष्टिमार्गं प्राप्तोसि । संसाद्यमानः पीड्यमानः ।। ९५ ॥
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम् ।
राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ९६ ।।
अविस्मयानः तृणीकुर्वन्नित्यर्थ: । उद्वृत्तसिताग्रदंष्ट्रं उन्नतधवलाग्रदंष्ट्रं । न गर्जन्ति नात्मश्लाघां कुर्वन्तीत्यर्थः । पापकृतां वरिष्ठेति हेतुगर्भितविशेषणं पापकृद्वरिष्ठत्वाद्विकत्थस इत्यर्थः ॥ ९६ ॥
जानामि वीर्य तव राक्षसेन्द्र वलं प्रतापं च पराक्रमं च ।
अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९७ ॥
जानामीति सोपहासोक्तिः । तव विजने यतिवेषेण सीतामपहृतवतः । प्रतापं शत्रुभीषणत्वं । पराक्रमं शौर्य । शौर्योद्योगौपराक्रमौ इत्यमरः । मोघविकत्थनेन निष्फलश्लाघनेन ॥ ९७ ॥
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान्सुपुङ्खान् ।
ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥ ९८ ।।
निशिते अग्रधारे अग्रपार्श्वे येषां तैः ॥ ९८ ॥
तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।
लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ।। ९९ ॥
पृषत्कान् बाणान् ॥ ९९ ॥
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसंप्रयुक्तम् ।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ १०० ॥
कार्मुकसंप्रयुक्तं चापसंहितं । क्षुरेति । क्षुरैः नापितशस्त्राकारैः । अर्धचन्द्रैः अर्धचन्द्राकारमुखैः । उत्तमैः कर्णिभिः कर्णिशरैः । भल्लै : उभयपार्श्वधारैः । शरान् रावणशरान् । चिच्छेद । तथापि न चुक्षुभे न कलुषितहृदयोभूत् ॥ १०० ॥
स बाणजालान्यथ तानि तानि मोघानि पश्यंस्त्रिदशारिराजः ।
विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान्मुमोच ॥ १०१ ॥
स इति ॥ त्रिदशारिराज: राक्षसराजः ॥ १०१ ॥
स लक्ष्मणश्चाशु शराञ्शिताग्रान्महेन्द्रवज्राशनितुल्यवेगान् ।
संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोधिपतेर्वधाय ।। १०२ ॥
स तान्प्रचिच्छेद हि राक्षसेन्द्रश्छित्वा च ताँलक्ष्मणमाजघान ।
शरेण कालाग्रिसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। १०३ ।।
महेन्द्रवज्राशनितुल्यवेगान् महेन्द्रवज्रस्थाशनेश्च तुल्यवेगान् ॥ १०२ – १०३ ॥
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।
पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राचिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ १०४ ॥
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः ।
स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ १०५ ॥
शिथिलं यथा भवति तथा प्रगृह्य ॥१०४-१०५ ।।
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।
जग्राह शक्ति संमुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। १०६ ।।
मे देत्यकारान्तत्वमार्षं । समुदग्रशक्तिः समधिकसामर्थ्य: ॥ १०६ ।।
स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।
चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०७ ॥
राक्षसराष्ट्रनाथः राक्षससमूहनाथः ।। १०७ ।।
तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।
तथापि सा तस्य विवेश शैक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ॥ १०८ ॥
बाह्वन्तरंवक्षः ॥ १०८ ॥
स शक्तिमाञ्शक्तिसमाहतः सन्मुहुः प्रजज्वाल रघुप्रवीरः ।
तं विह्वलन्तं सहसाऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ १०९ ॥
विह्वलन्तं मुह्यन्तं ॥ १०९ ॥
हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।
शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः ॥ ११० ॥
लक्ष्मणं भुजाभ्यामुद्धर्तुमुद्युक्तं रावणमृषिः परिहसति — हिमवानिति ॥ शक्यमित्यव्ययं । हिमवान् धैर्येण हिमवानिवेति । समस्तधीरोपमानभूतो हिमवानपि रावणस्य भुजाभ्यामुद्धर्तुं शक्यं । तदेकदेशस्य कैलासस्य पुराचालितत्वात् । मन्दर: सकलसागरप्रधानगभीरतरक्षीरोदक्षोभणक्षमोपि मन्द्रो वा भुजाभ्यामुद्धर्तुं शक्यं । स्वनिर्जितैरेव निर्जरैरमृतमथने जर्झरितत्वात् । मेरुः सकलकुलाचलवलयललामभूतोपि मेरुस्तथा कर्तुं शक्यं । वायुनैव तच्छिखरस्य लङ्काया अकूपारकुक्षौ निक्षिप्तत्वात् । त्रैलोक्यं पञ्चाशत्कोटिविस्तीर्णमुत्तीर्णपरिमाणान्तरं त्रैलोक्यमपि तथा कर्तुंशक्यं । तदेकदेशधरण्या हिरण्याक्षेण कक्षीकृतत्वात् । सहामरैः त्रैलोक्यनिर्वाहकगीर्वाणैः सहितमपि तथा कर्तुं शक्यं । तदधिपतेर्निजतनुजेनैव निगृहीतत्वात् । भरतानुजः रामानुजानुजः । रामचतुर्थभागइत्यर्थ: । रामचतुर्थभागोद्धरणेप्यशक्तः कथं रामेण योद्धुं शक्नोतीति भावः । अयोध्याकाण्डे पञ्चपञ्चाशे सीतामादाय गच्छ त्वमग्रतो भरताग्रज इति वचनं बहुव्रीह्योक्तं । भुजाभ्यामित्यनेन हिमवदादयो द्वाभ्यामेवोद्धर्तुं शक्यं । अयं तु विंशतिभुजैरपि न शक्यत इति सूच्यते । रिपूणामप्रकम्प्योपीत्यनुवादात् सपरिकरेणापि रावणेन न शक्यमित्यपि सिद्धं । कथं तर्हि हनुमतोद्धृत इत्यत्राह — संख्य इति । दुर्हृदयैर्नोद्धंर्तु शक्य इत्यर्थः । अतएव वक्ष्यति–वायुसूनोः सुहृत्त्वेनेति । अनेन हिमवदादिभ्योपि संख्ये पतितस्य लक्ष्मणशरीरस्य गरीयस्तोक्ता ॥ ११० ॥
शक्त्या ब्राह्म्याऽपि सौमित्रिस्ताडितस्तुस्तनान्तरे ।
विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ॥ १११ ।।
कुतोस्येतादृशी गरीयस्तेत्यत्राह – शक्त्येति ॥ ब्राह्रयाब्रह्मसंबन्धिन्या । शक्त्या । स्तनान्तरे वक्षसि सौमित्रिस्ताडितः सन् विष्णोर्भागं अंशभूतं अचिन्त्यं ईदृक्तया इयत्तया च चिन्तयितुमशक्यं । स्वमात्मानं स्वस्वरूपं स्वामाप्येनं विगर्हते इति तथा प्रयोगात् । स्वात्मांश इति गुरुव्यवहाराच्च । प्रत्यनुस्मरत् स्मृतवान् । स्वस्वरूपस्मरणातिरिक्तव्यापाराकरणोक्त्या स्वाभाविक मेवास्येदं गुरुत्वमित्युक्तं । यत्तु स्वकीयांशस्मरणेन हेतुना लक्ष्मणेन स्वशरीरस्य गरीयस्त्वं संपादितमित्यनेनोक्तमिति । तन्न । अपदार्थत्वादवाक्यार्थत्वाच्च । स्वरूपस्मरणस्य गरीयस्त्वं प्रतिकारणताग्राहकप्रमाणाभावाच्च । यदपि विपत्परिहारार्थं भगवन्तं स्वमूलकारणं विष्णुमस्मरदित्यर्थ इति तदपि न । स्वस्यैव विष्णुरूपत्वेन विपत्परिहारान्तराभावात् । ननु मनुष्यभावना क्रियमाणा विरुध्येत यदि स्वतोगौरवं भजेत, अतो विष्णुस्मरणमिति चेन्न । मानसभावनाया अपि लौकिकैरज्ञातत्वेन एवमपि मनुष्यभावनाया अनुपायात् । अतः अपर्यनुयोग्यवस्तुस्वभावेनैव भक्ताभक्तेषु गरीयस्तागरीयस्ते । अतएवाऽचिन्त्यमित्युक्तं ॥ १११ ॥
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।
तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ।
अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ॥ ११२ ।।
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ११३ ।।
वस्तुस्वरूपस्यैवंविधत्वात्तोलयितुमशक्तोभवदित्युपसंहरति – तत इत्यादिसार्धश्लोक एकान्वयः ॥ यतः स्वाभाविकमेव गरीयस्त्वं ततो हेतोः । लङ्घने उद्धरणे । अप्रभुः असमर्थः । अथ – रणे पतनानन्तरं देवकण्टक: रावणः । मानुषंदेहमास्थितं दानवदर्पघ्नं वैष्णवं भागं सौमित्रिं । भुजाभ्यां पीडयित्वा । ततः वैष्णवभागरूपत्वाद्धेतोः लङ्घने अप्रभुरभवदित्यन्वयः । अत्रापि विशेषणसामर्थ्याद्वस्तुस्वरूपकृतमेवाकम्प्यत्वमित्युक्तं । ननु च कथमंशसंभवः विष्णुस्वरूपस्य निरवयवत्वात् । सत्यं । स्वरूपेण नांशत्वमुच्यते, किंतु गुणाविर्भावतारतम्यात् । गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुगयुगलैर्हि त्रिभिरभूत् । व्यवस्थायां चैषां ननु वरद साविष्कृतिवशाद्भवान्सर्वत्रैव त्वगणितमहामङ्गलगुण: इत्यभियुक्तैरुक्तत्वात् । मानुषरूपत्वं चास्य मानुषसमानाकृतिकत्वं ॥ ११२-११३ ॥
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।
जानुभ्यामपतद्भूमौ चचाल च पपात च ॥
आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ॥ ११४ ॥
जानुभ्य रथभूमावपतत् । अथ चचाल । ततः पपात अशयिष्ट । दशभिरास्यै रुधिरं ववाम । सनेत्रश्रवणैरित्यनेन नेत्रेभ्य: श्रवणेभ्यश्च रुधिरं ववामेत्युच्यते ॥ ११४ ॥
विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।
विसंज्ञो मूर्च्छितवासीन च स्थानं समालभत् ॥ ११५ ॥
किंचित्कालं विघूर्णमानः भ्रमन् । पुनर्निश्चेष्टः सन् रथोपस्थे रथमध्ये । उपाविशत् स्थितः । ततो मूर्च्छितः अतएव विसंज्ञः संज्ञाशून्यचासीत् । पुनः संज्ञां लब्ध्वापि स्थानं स्थितिं । नालभत् नालभत । चचालेत्यर्थः ॥ ११५ ॥
विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।
ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ११६ ।।
नेदुः हर्षेणेति शेष: ।। ११६ ।।
हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ ११७ ॥
अभ्याशं समीपं ॥ ११७ ॥
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।
शत्रूणामप्रकम्प्योपि लघुत्वमगमत्कपेः ॥ ११८ ॥
ननु पूर्वं हिमवानित्यादिना लक्ष्मणस्याकम्प्यत्वमुक्तं तादृशस्य । कपिना रामसमीपप्रापणं कथमित्याशय विरोधं परिहरति — वायुसूनोरिति ॥ सुहृत्त्वेन शोभनहृदयत्वेन । अनुकूलहृदयत्वेनेत्यर्थः । हृदयानुकूल्यमेवालं भक्तिस्त्वधिकेत्याह – भक्त्या परमया चेति । चशब्दोन्वाचये । स: लक्ष्मणः । शत्रूणां रावणस्य तत्परिकराणां चेत्यर्थः । अप्रकम्प्योपि कम्पितुमशक्योपि । कपे: कपेरपि । हनुमत एकस्य लघुत्वमगमत् लघुत्वमकरोत् । अनेन लघुत्वस्य बुद्धिपूर्वकत्वमुक्तं । शत्रुमित्रयोर्दुष्प्रापत्वसुप्रापत्वे स्वरूपप्रयुक्ते अस्येति भावः । मूर्च्छितस्यापि लक्ष्मणस्य ज्ञानशक्तिप्रतिपादनेन तत्र तत्र राघवयोरज्ञानाशक्तिप्रत्यायकानि वचनानि मानुषवेषनिर्वहणपराणीति मन्तव्यानि ॥ ११८ ॥
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।
रावणस्य रथे तसिन्स्थानं पुनरुपागता ॥ ११९ ॥
दुर्जयमिति हेतुगर्भं । तस्य दुर्जयस्वरूपत्वाच्छक्तिस्तं त्यक्त्वा गतेति भावः । एतच्छ्लोकानन्तरमाश्वस्त इति श्लोकः । ततो रावणोपीति श्लोकः पठनीयः ॥ ११९ ॥
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ १२० ॥
रावणोपि महातेजाः प्राप्य संज्ञां महाहवे ।
आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ १२१ ॥
आश्वस्त : लब्धसंज्ञः । विशल्यः प्ररूढव्रणमुखः । अभवदिति शेषः । अकाण्डे शक्तिनिर्गमाश्वासनविशल्यत्वेषु को हेतुरत आह – विष्णोरिति । विरोधिप्रत्यनीकस्वभावत्वादिति भावः । अमीमांस्यं अचिन्त्यं । अनुस्मरन्नित्यनेन साधनानुष्ठानं किमपि न कृतवानित्युक्तं ॥ १२० – १२१ ॥
निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ १२२ ॥
द्रवन्तीमिति । रावणस्य बाणसंधानदर्शनादिति भावः ॥ १२२ ॥
अथैनमुपसंगम्य हनुमान्वाक्यमब्रवीत् ।
मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥ १२३ ॥
अर्हसीत्यनन्तरमितिकरणं द्रष्टव्यं ॥ १२३ ॥
विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।।
आरुरोह महाशूरो बलवन्तं महाकपिम् ॥ १२४ ॥
विष्णुर्यथेति सार्धश्लोक एकान्वयः ॥ वायुपुत्रेण भाषितं तद्वाक्यं श्रुत्वा समाहितः सन् विष्णुर्गरुत्मन्तं यथा तथा महाकपिं हनुमन्तमारुरोहेति योजना ॥ १२४ ।।
रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥ १२५ ॥
रथस्थमित्यर्धमेकं वाक्यं ॥ १२५ ॥
तमालोक्य महातेजाः प्रदुद्राव से राघवः ।
वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ १२६ ॥
तमालोक्येत्यनुवादः अव्यवहितपूर्वकालद्योतनार्थ: । अभ्युद्यतायुधः क्रुद्धो राघवः विष्णुर्वैरोचनं बलिमिव । प्रदुद्राव । साग्रहगमनमात्रे दृष्टान्तः ॥ १२६ ॥
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ।
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १२७ ॥
वज्रनिष्पेष: स्फूर्जथुः । स्फूर्जथुर्वज्रनिष्पेषः इत्यमरः ।। १२७ ।।
तिष्ठतिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ।
क्वनु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १२८ ॥
ईदृशं लक्ष्मणप्रहाररूपं सीताहरणरूपं वा । मोक्षं मत्त इति शेषः ॥ १२८ ॥
यदीन्द्रवैवस्वतभास्करान्वा स्वयम्भुवैश्वानरशंकरान्वा ।
गमिष्यसि त्वं दश वा दिशोऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १२९ ॥
इन्द्रादीन्वा स्वयंभ्वादीन्वा यदि गमिष्यसि यद्यपि गमिष्यसि । तथापि अद्य । मत्समीपं गतस्त्वं । मे मत्तः । न विमोक्ष्यसे । दश वा दिशो वेत्यत्र एको वाकारश्चार्थः ॥ १२९ ॥
यश्चैव शक्त्याऽभिहतस्त्वयाऽद्य इच्छन्विषादं सहसाऽभ्युपेतः ।
स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ १३० ॥
अद्यय एष त्वया शक्त्याभिहतः स एषः तव विषादमिच्छन्सन् सपुत्रदारस्य तव मृत्युः सन् सहसा अभ्युपेतः अभ्युपागतप्रायः । अचिरादागमिष्यतीत्यर्थः । यद्वा अभेदेनोच्यते । यः शक्त्याभिहतः स एवाहमागतवानस्मि । लक्ष्मणं प्राहरमिति मा गा गर्वमिति भावः ।। १३० ।।
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।
चतुर्दशान्याचवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ १३१ ॥
लक्ष्मणेनाप्रहृतः कथं त्वया प्रहृतः स्यामित्याशङ्क्य स्वपराक्रमविशेषं दर्शयति – एतेनेति । एतच्छब्दः सन्निहितपरः एषोस्मीत्यादिप्रयोगात् अयं जन इति प्रयोगाच्च । मयेत्यर्थः । मृत्युशब्दापेक्षया वा एतेनेत्युक्तिः । चतुर्दशानि । चतुर्दशशब्दादर्शआद्यचि टिलोपे कृते जसि रूपं । यद्वा एतेनेति स्वाभेदेन लक्ष्मणो निर्दिश्यते ॥ १३१ ॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।
वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।।
[रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्] ।
आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १३२ ॥
राघवस्येत्याद्यर्धत्रयमेकं वाक्यं । वहन्तमिति । आत्मानं प्रहृत्य पुनरपि रामं वहतीति क्रोधादिति भावः ॥ १३२ ॥
राक्षसेनाहवे तस्य ताडितस्थापि सायकैः ।
स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ १३३ ॥
स्वभावतेज: स्वाभाविकतेजः ॥ १३३ ॥
ततो रामो महातेजा रावणेन कृतत्रणम् ।
दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ १३४ ॥
एयिवान् प्राप्तः ॥ १३४ ॥
तस्याभिचङ्कम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ १३५ ।।
अभिचङ्क्रम्य पौनःपुन्येन समीपं गत्वा ।। १३५ ॥
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ १३६ ॥
वज्राशनिसन्निभेनेति । बाणस्य वज्रसाम्यमुच्यते । वज्रेण मेरुं भगवानिवेन्द्र इचि प्रहर्तूरामस्येन्द्रसाम्यमित्यपुनरुक्ति: । भगवान् वीर्यवान् भगः श्रीकाममाहात्म्यवीर्ययत्नार्क -कीर्तिषु इत्यमरः ॥ १३६ ॥
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणामिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ १३७ ।।
यः पुरा । वज्रपातयुक्ताशनिसन्निपातादिति मध्यमपदलोपिसमासः । वज्रं इन्द्रायुधं । अशनि: औत्पातिकः । न चुक्षुभे नार्ति प्राप्तः । नापि चचाल नार्तिनिमित्तं चलनं प्राप्तः । राजा अन्यूनराजभावश्च स्थितः । सः रामबाणाभिहतः । भृशार्तभृशमार्त: क्षुब्धः । चचाल । वीरोपि चापं मुमोच । स्वस्य स्वरक्ष्यत्वान्वयं त्यक्तवान् रामैकरक्ष्यत्वद्योतनाय ॥ १३७ ॥
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।
तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ॥ १३८ ।।
विह्वलन्तं मूर्च्छितं । प्रसमीक्ष्य तस्यानन्यशरण्यत्वमवलोक्य । अर्धचन्द्रं अर्धचन्द्राकाराग्रं बाणं । आददे । तेन मुकुटं चिच्छेद । मानभङ्गमकरोदित्यर्थः । महात्मा महामनाः । दयालुरित्यर्थः । आभ्यांश्लोकाभ्यां भगवद्रक्षणे निमित्तं स्वयत्ननिवृत्तिरेवेत्युक्तं ॥ १३८ ॥
तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।
गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ १३९ ॥
तं त्यक्तचापं । अतएव निर्विषाशीविषसन्निकाशं निर्विषसर्पतुल्यं । अप्रकाशं निस्तेजस्कं । अतएव शान्तार्चिषं शान्तकिरणं सूर्यमिव स्थितं । कृत्तकिरीटकूटं छिन्नकिरीटसमूहं । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियां इत्यमरः । अतएव गतश्रियं निष्प्रभं उवाच ॥ १३९ ॥
कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ।
तस्मात्परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥ १४० ॥
महत् अनितरदुष्करं । सुभीमं कर्म युद्धं कृतं । किं चाहं हतलक्ष्मणादिप्रवीरश्च कृतोस्मि । तस्मात् अनेकवीरपतनावधिकरणकरणात् । त्वं परिश्रान्तः आयुधधारणेपि श्रान्त इति व्यवस्य निश्चित्य । त्वां मृत्युवशं मृत्योरधीनतां । ननयामि । चिररणपरिश्रान्तकृन्तनकृतापवादापनोदाय संप्रति भवतः प्राणापहरणकर्मणो विरमामीत्यर्थः ॥ १४० ॥
गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।
आश्वास्य निर्याहि रयी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥ १४१ ॥
रिपौ पुरो विलसति कथं गच्छेयमित्यत्राह – अनुजानामीति । रणार्दितः युद्धे श्रान्तः । रात्रिंचरराजकूटयोधिन्निति सापहासोक्तिः । आश्वास्य विश्रम्य । रथी धन्वी च सन्निर्याहि । स त्वं तदा तादृशं मे बलं रथस्थ इत्युपलक्षणं, धानुष्कञ्च सन् द्रक्ष्यसीत्यन्वयः ॥ १४१ ॥
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ॥ १४२ ॥
स इति । अत्र क्रियाभेदात्तच्छब्दत्रयमिति न तद्वैयर्थ्यं । सहसा मुकुटभङ्गकृतलज्जः येति भावः ॥ १४२ ॥
तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।
हरीन्विशल्यान्सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १४३ ॥
प्रविष्टे लङ्कामिति शेषः । दानवदेवशत्रावित्यनेन रावणनिर्गमो देवदानवहर्षहेतुरिति सूच्यते । सह लक्ष्मणेनेति । लक्ष्मणस्य पूर्वमेव विशल्यत्वेप्यादरात्पुनःकरणं । परमाहवाग्र इत्यनेन विशल्यकरणं विना सुग्रीवादीनां हरीणामन्यत्रानयनासंभवः सूच्यते ॥ १४३ ॥
तस्मिन्द्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।
ससागराः सर्षिमहोरगाव तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १४४ ॥
पूर्वसूचितं देवादिहर्षं प्रपञ्चयति — तस्मिन्निति ॥ प्रभिन्ने पराजिते । दिश: दिक्पाला: । सागरा: सागरवासिनः । अम्बुचराः सागरमिन्नाम्बुचराः । हृष्टाः बभूवुरिति शेष: । षष्ठयां रावणमुकुटभङ्गः ॥ १४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥