श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः
रावणाज्ञया राक्षसीभिस्त्रिजटया सहसीतायाः पुष्पकारोपणपूर्वकं रणाङ्गणप्रापणेन -रामलक्ष्मणदुरवस्थाप्रदर्शनम् ॥ १ ॥ राक्षसभटैरावणनियोगेन लङ्कायांरामलक्ष्मणनियोगो -द्भाषणम् ॥ २ ॥
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ १ ॥
अथ सीतायै वीरशयनस्थरामलक्ष्मणप्रदर्शनं सप्तचत्वारिंशे – प्रतिप्रविष्ट इत्यादि ॥ १ ॥
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः ॥ २ ॥
ये ररक्षुस्तानाह – हनुमानित्यादिना ॥ २ ॥
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः।
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ ३ ॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।
आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥ ४ ॥
राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः ।
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ ५ ॥
अन्यान्वानरानाहव्यूढानीकाश्चेति ॥ व्यूढानीकाः कृतव्यूहसेनावन्तः। चेष्टत्सु चेष्टमानेषु ॥ ३ –५ ॥
हताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ ।
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ ६ ॥
आख्यात कथयत ॥ ६ ॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।
सोस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ ७ ॥
निर्विशङ्का निरूद्विग्ना निरपेक्षा च मैथिली ।
मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ ८ ॥
अवष्टब्धा गर्विता । निर्विशङ्का निर्विचारा । निरुद्विग्ना निःशोका । भावे निष्ठा । निरपेक्षा राम: समेष्यतीत्याशारहिता ।। ७-८ ॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।
अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ॥
निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः ।
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ॥ १० ॥
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।
अशोकवनिकास्थां तां मैथिलीं समुपानयन् ॥ ११ ॥
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ।
सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ १२ ॥
अद्येत्यादिसार्धश्लोक एकान्वयः ॥ अन्यां गतिं चापश्यती । आगमशासनस्यानित्यत्वान्नुमभावः । अन्यां मत्तोन्यां । गम्यत इति गतिः प्राप्यं । विनिवृत्ताशा रामाद्विनिवृत्तभावा ।। ९-१२ ॥
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ॥ १३ ॥
त्रिजटया सह सीतामारोप्य । उभयोरेव विमानारोहणमनुज्ञायेत्यर्थः । पुत्रीत्वान्निपुणतया च त्रिजटाया विमानारोहणानुज्ञा ॥ १३ ॥
रावणोकारयल्लङ्कां पताकाध्वजमालिनीम् ।
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १४ ॥
विमानेनापि सीता तु गत्वा त्रिजटया सह ।
ददर्श वानराणां तु सर्व सैन्यं निपातितम् ॥ १५ ॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।
वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः ॥ १६ ॥
इन्द्रजिता रण इत्यनन्तरमितिकरणं बोध्यं ॥ १४–१६ ॥
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।
लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडितौ ॥ १७ ॥
विध्वस्तकवचौ वीरौ विप्रविद्धरासनौ ।
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ १८ ॥
ततः सीतेत्यादिश्लोकद्वयं ॥ विप्रविद्धशरासनौ भ्रष्टचापौ । सायकैश्छिन्नसर्वाङ्गौ अतएव शरस्तम्बमयौ शरगुल्ममयौ । स्तम्ब: समूह इत्येके । क्षितौ शरतल्पयोः शयानाविति संबन्धः ॥ १७-१८ ॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ १९ ॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।
दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ॥ २० ॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।
प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ २१ ॥
तावित्यादिश्लोकद्वयं ॥ पावकी पावकपुत्रौ स्कन्दविशाखौ । अत्रोत्तरो वीरशब्दः कुमारावित्यस्य विशेषणं ॥ १९-२१ ॥
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।
वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ २२ ॥
सेति अत्र वीक्षणगदरूपक्रियाभेदात्तच्छब्दद्वयं ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ।।