श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः
लक्ष्मणकृतेन्द्रजिद्वधश्रवणमुग्धेनरावणेनेन्द्रजितंप्रति शोचनपूर्वकं बहुधाविलापः ॥ १ ॥ तथामन्त्रिणःप्रति स्वप्रतापप्रशंसनेन रामादिवधप्रतिज्ञानम् ॥ २ ॥ तथा सीतावधप्रतिज्ञा -नेनाशोकवनिकांप्रतिजवादभिधावनम् ॥ ३ ॥ तदवलोकनभीतयासीतया बहुधाविलापः ॥ ४ ॥ अत्रान्तरे सुपार्श्वनाम्नासचिवेन युक्त्युपन्यासेनसान्त्वनपूर्वकं सीताबधोद्यमात्प्रतिनिवर्तनेन गृहंप्रतियापनम् ॥ ५ ॥
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् ।
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥
अथ सीतावधोद्योगपर्यन्तो रावणस्य पुत्रशोकातिशय उच्यते — ततः पौलस्त्यसचिवा इत्यादि । पौलस्त्यसचिवाः रावणागारवर्तिनः सहायभूताः । इन्द्रजितंहतं श्रुत्वा स्वयमभिज्ञाय साभिज्ञानं दृष्ट्वा । सव्यथाः सन्तो रावणाय आचचक्षुः आचचक्षिरे । अथवा अभिज्ञायेति चतुर्थी । पूर्वमेव यज्ञविघ्नेन निश्चिततद्वधायेत्यर्थः । अवज्ञायेति पाठेपि चतुर्थीपक्षे अयमेवार्थ: । पक्षान्तरे साक्षात्कारपर्यन्तदर्शनं प्राप्येत्यर्थः ॥ १ ॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।
विभीषणसहायेन मिषतां नो महाद्युतिः ॥ २ ॥
मिषतां नः अस्मासु पश्यत्सु सत्स्वित्यर्थः । अनन्तरयोजनायामस्मासु जीवत्स्वित्यर्थः । अनादरे षष्ठी ॥ २ ॥
शूरः शूरेण संगम्य संयुगेष्वपराजितः ।
लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् ॥
गतः स परमाँल्लोकाञ्शरैः संताप्य लक्ष्मणम् ॥ ३ ॥
शूर इत्यादिसार्धश्लोक एकान्वयः क्रियाभेदाच्छूरपदद्वयं । विबुधेन्द्रजित देवेन्द्रजित् ।। ३ ।।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।
घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ॥ ४ ॥
उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः ।
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ ५ ॥
हा राक्षसचमूमुख्य मम वत्स महारथ ।
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥ ६ ॥
दारुणं करुणं । घोरं तीक्ष्णं । कश्मलं मूर्च्छा । मूर्च्छा तु कश्मलं मोहः इत्यमरः ४–६ ॥
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥ ७ ॥
नन्वित्यामन्त्रणे । कालान्तकौ यमस्य मूर्तिभेदौ ॥ ७ ॥
अद्य वैवस्वतो राजा भूयो बहुमतो मम ।
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥ ८ ॥
भूयः अतिशयेन । कालधर्मणा मरणेन । आर्षोनिचू समासान्तः । संयुक्तः संयोजितः ॥ ८ ॥
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।
यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति ॥ ९ ॥
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥ १० ॥
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥ ११ ॥
युद्धमरणस्य सर्वाकाङ्क्षितत्वाद्युद्धहतं त्वां न शोचामीत्याह—एष इति । एषः युद्धमरणरूपः पन्थाः ॥ एवं यशस्यत्वादशोच्यत्वमुक्त्वा स्वर्ग्यत्वादशोच्यत्वमाह – य इति ॥ ९ – ११ ॥
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥ १२ ॥
लोकास्त्रय इत्युक्तावपि पृथिव्याः पृथगुपादानं प्राधान्यात् । यथा ब्राह्मणा आगता वसिष्ठोप्यागत इत्यादौ ॥ १२ ॥
यौवराज्यं च लङ्कां च रक्षांसि च परंतप ।
मातरं मां च भार्यां च क्व गतोसि विहाय नः ॥ १३ ॥
मम नाम त्वया वीर गतस्य यमसादनम् ।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ १४ ॥
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।
मम शल्यमनुद्धृत्य क्व गतोसि विहाय नः ॥ १५ ॥
एवमादिविलापार्तं रावणं राक्षसाधिपम् ।
आविवेश महान्कोपः पुत्रव्यसनसंभवः ॥ १६ ॥
नः सर्वानिति योजनीयं ॥ १३ – १६ ॥
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ।
दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः ॥ १७ ॥
प्रकृत्या कोपनमित्यस्य विवरणं दीप्तमिति । पुत्रस्य पुत्रसंबन्धिन्यः । पुत्रविषया इत्यर्थः । आधयः शोकाः । पुनः भूयः । संदीपयामासुः कोपयामासुः । अर्कपक्षे क्रूरयामासुरित्यर्थः ॥ १७ ॥
ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत ।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥ १८ ॥
कोपाद्विजृम्भमाणस्य वक्राद्व्यक्तमभिज्वलन् ।
उत्पपात स भूयोग्निर्वृत्रस्य वदनादिव ॥ १९ ॥
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ॥ २० ॥
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च ।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥ २१ ॥
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम् ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरीसदम् ॥ २२ ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रविन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ २३ ॥
भ्रुकुटीभिरिति बहुवचनं दशशिरकत्वात् ॥ १८-२३ ॥
दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ।
यत्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥ २४ ॥
आवेष्ट्यमानस्य भ्राम्यमाणस्य । यन्त्रस्य तिलपीडनयन्त्रस्य । दानवैर्बलवद्भिरित्यर्थः ॥ २४ ॥
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।। २५ ।।
संविलिल्यिरे । स्तम्भादिव्यवहिता बभूवुरित्यर्थः ॥ २५ ॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥ २६ ॥
चिखादिषुं संहर्तुमिच्छुमित्यर्थः । नोपचक्रमुः नोपसेदुः ।। २६ ।।
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।
अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ २७ ॥
संस्तम्भयिषुराहवे युद्धभीतान्राक्षसान् युद्धे स्थापयितुकाम: । सनि द्विवेचनाभाव आर्षः ॥ २७ ॥
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ।
तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः ॥ २८ ॥
अवकाशेषु तपः समाप्तिषु ।। २८ ।।
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः ।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥ २९ ॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥ ३० ॥
व्युष्टया समृद्ध्या । व्युष्टि: फले समृद्धौ च इत्यमरः । भयाभावे हेतुमाह—कवचमिति ।। यत् यस्मात् । कवचमस्ति तस्मादिति पूर्वेणान्वयः ॥ २९-३० ॥
तेन मामद्य संयुक्तं रथस्थमिहं संयुगे ।
प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः ॥ ३१ ॥
तेन कवचेन । संयुक्तं रथस्थं मां इह संयुगे कः प्रतीयात् आभिमुख्येनागच्छेत् । अद्य मामाजौ साक्षात्पुरन्दरोपि न प्रतीयादिति च योज्यं । अर्थसिद्धौ नञ् । क्रियापदमस्त्येव । अनेवंव्याख्याने अद्य मामाजाविति पुनरुक्तं स्यात् ॥ ३१ ॥
यत्तदाऽभिप्रसन्नेन सशरं कार्मुकं महत् ।
देवासुरविमर्देषु मम दत्तं स्वयंभुवा ॥ ३२ ॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ।
रामलक्ष्मणयोरेव वधाय परमाहवे ॥ ३३ ॥
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ ३४ ॥
यत्तदेत्यादिश्लोकद्वयमेकान्वयं ॥ देवासुरविमर्देषु विमर्दकाल इत्यर्थः । अद्य तूर्यशतैरित्यनेन इतः पूर्वमिदं धनुर्न नीतमिति गम्यते ॥ ३२–३४ ॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ।
दीनो दीनस्वरान्सर्वास्तानुवाच निशाचरान् ॥ ३५ ॥
सुघोरः सुघोरप्रकृतिः ॥ ३५ ॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।
किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ३६॥
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥ ३७ ॥
माययेत्यादिश्लोकद्वयमेकान्वयं ॥ सीतेयमिति दर्शितं किंचित् अलीकमेवेत्यर्थः ॥ ३६-३७ ।।
इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥ ३८ ॥
इत्येवमित्यर्धं ॥ परामृशत् आददे ॥ ३८ ॥
उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसम् ।
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ ३९ ॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः ।
संक्रुद्धः खङ्गमादाय सहसा यत्र मैथिली ॥ ४० ॥
उद्धृत्येत्यादिश्लोकद्वयमेकं वाक्यं ॥ गुणसंपन्नं माल्यालंकृतं । विमलाम्बरवर्चसं विमलाकाशसदृशं । खड्गमादाय कोशादुद्धृत्य । यत्र मैथिली तं देशंप्रति निष्पपातेत्यन्वयः ॥ ३९-४० ॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।
ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥ ४१ ॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥ ४२ ॥
बहवः शत्रवश्चापि संयुगेषु निपातिताः ।
त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥ ४३ ॥
तेषां संजल्पमानानामशोकवनिकां गताम् ।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥ ४४ ॥
व्रजन्तमित्यादिसार्घश्लोकत्रयमेकान्वयं ॥ रत्नानि श्रेष्ठवस्तूनि । रत्नं स्वजाति श्रेष्ठेपि इत्यमरः ॥ ४१–४४ ॥
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ४५ ॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ ४६ ॥
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।
निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् ।
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ ४७ ॥
ग्रहः अङ्गारकः ।। ४५–४७ ।।
यथाऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् ।
वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४८ ॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम् ।
भार्या मैव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥ ४९ ॥
यथा यस्मादित्यर्थः ॥ ४८-४९ ॥
सोयं ममानुपस्थाने व्यक्तं नैराश्यमागतः ।
क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ५० ॥
अनुपस्थाने अनुपस्थानात् ॥ ५० ॥
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।
मन्निमित्तमनार्येण समरेऽद्य निपातितौ ॥ ५१ ॥
[ भैरवो हि महान्नादो राक्षसानां श्रुतो मया ।
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम् ॥ ]
अहो धिङ्भन्निमित्तोयं विनाशो राजपुत्रयोः ॥ ५२ ।।
तौ निहत्य तेन निस्त्रिंशेन सह प्रवेशनमपि संभवतीत्यभिप्रायेणाह- अथवेत्यादि ॥ ५१ –५२ ॥
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥ ५३ ॥
अत्र निमित्तान्तरमाशङ्कते—अथवा पुत्रशोकेनेति ॥ अहत्वा हन्तुमशक्तो भूत्वा ।। ५३ ।।
हनुमतोपि यद्वाक्यं न कृतं क्षुद्रया मया ॥ ५४ ॥
हनूमत इत्यर्धं । क्षुद्रया विचारमूढया ॥ ५४ ॥
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता ।
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ५५ ॥
यायामनुशोचेयमिति हेतुहेतुमतोर्लिङ् इति लिङ् ॥ ५५ ॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ ५६ ॥
प्रथमपक्षानुसारेण शोचति – मन्य इति ॥ ५६ ॥
सा हि जन्म च बाल्यं च यौवनं च महात्मनः ।
धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ॥ ५७ ॥
धर्मकार्यानुरूपं धर्मकार्यानुरूपत्वं ॥ ५७ ॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ।
अग्निमारोक्ष्यते नूनमपो वाऽपि प्रवेक्ष्यति ॥ ५८ ॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।
यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ५९ ॥
अचेतना मूर्च्छिता ॥ ५८-५९ ॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।
रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ६० ॥
एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमाञ्शुचिः ।
सुपार्श्वो नाम मेघावी राक्षसो राक्षसेश्वरम् ।
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥ ६१ ॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।
हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ६२ ॥
वेदविद्याव्रतस्त्नातः स्वकर्मनिरतः सदा ।
स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ ६३ ॥
मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव ।
त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ ६४ ॥
मैथिलीं दृष्ट्वा रावणमब्रवीदित्यन्वयः ॥ ६०–६४ ॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।। ६५ ।।
शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ।
हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् ॥ ६६ ॥
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६७ ॥
अभ्युत्थानं युद्धनिर्याणप्रारम्भं । चतुर्दशीं चतुर्दश्यां । अमावास्यां अमावास्यायां । अनेन त्रयोदशयुद्धदिनान्यतीतानीत्यवगम्यते । तथाहि ततोस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तत इति वचनात् । पौर्णमास्यां सुवेलाप्रवेशः । ततः कृष्णपक्षप्रथमायां युद्धस्यारम्भः । तस्यामेव रात्रौ नागपाशबन्धतद्विमोक्षौ । द्वितीयायां धूम्राक्षस्य वधः । तृतीयायां वज्रदंष्ट्रस्य । चतुर्थ्यामकम्पनस्य । प्रहस्तस्य पञ्चम्यां । षष्ट्यां रावणमुकुटभङ्गः । सप्तम्यां कुम्भकर्णस्य वधः । अष्टम्यामतिकायादीनां । नवम्यां पुनरिन्द्रजिद्युद्धं । तस्यामेव रात्रौ कुम्भनिकुम्भादीनां वधः । दशम्यां मकराक्षस्य । एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिद्वधः । वस्तुतस्तु नवम्यां युद्धारम्भात्तदारभ्य दिनद्वयेन रावणेन्द्रजिन्मूलबलव्यतिरिक्तराक्षसनिबर्हणात् एकादशीद्वादशीत्रयोदशीभिरिन्द्रजिद्वध इति चतुर्दश्यामभ्युत्थानवचनं युज्यत एव ॥ ६५–६७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥