श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः
विभीषणेन मन्त्रिभिः सहगगनादवतीर्य श्रीरामचरणप्रणामपूर्वकं तंप्रति स्ववृत्तान्तनिषेदनेनस हस्वशरणागतिनिवेदनम् ॥ १ ॥ विभीषणेन रामचोदनयातंप्रतिरावण -कुंभकर्णादिपराक्रम निवेदनपूर्वकं यथाशक्तियुद्ध साहाय्यकरणप्रतिज्ञानम् ॥ २ ॥ रामेण विभीषणपरिष्वङ्ग पूर्वकंतस्य लक्ष्मणकरेणलङ्काराज्येऽभिषेचनम् ॥ ३ ॥ हनुमत्सुग्रीवाभ्यांसागरतरणोपायंपृष्टेनविभीषणेन तौप्रति रामेणसमुद्रंप्रतिशरणागतिकरणोक्तिः ॥ ४ ॥ रामेण लक्ष्मणसुग्रीवाद्यनुमत्यासमुद्रोपासनाय तत्तीरेसमास्तृतकुशोपरिशयनम् ॥ ५ ॥
राघवेणाभये दत्ते सन्नता रावणानुजः ।
विभीषणो महाप्राज्ञो भूमिं समवलोकयन् ।
खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।। १ ।।
एवं शरणस्य शरणागतसंगमरूपफलमुक्त्वा शरणागतस्य शरण्यसेवाख्य पुरुषार्थलाभमाह – राघवेणेत्यादि सार्घश्लोक एकान्वयः ।। अभये स्वापेक्षिते सर्वभूताभये दत्ते । सन्नतः । गुणैर्दास्यमुपागतः इति न्यायेन पूर्वश्रुतेभ्योप्यधिकानां रामकल्याणगुणानां साक्षात्कारेण सम्यक्प्रह्वीभूताङ्गः । महाप्राज्ञः । निरपायोपायपरिग्रहेण परमपुरुषार्थलाभाद्वेदशास्त्राभ्यासातिशयजनितप्रज्ञातिशयस्य फलमिदानींनिर्वृत्तमिति भावः । भूमिं समवलोकयन् । अन्तरङ्गसचिवसमूहसंमर्दनिरवकाशेपि रामपुरोदेशे सचिवैरेव सयूध्यतामापन्नस्य विभीषणस्य स्वपरिषन्मध्ये दत्तं भूतलावकाशं सम्यक्पश्यन् । खादवनीं पपातेति प्राथमिकोदूरप्रणाम उच्यते । प्रणामाद्ययोग्यस्थानमाकाशं परित्यज्य पाणिपादशिरःप्रभृतिभिरष्टाङ्गैर्भूमिं प्राप्तवानित्यर्थः । नन्वपेक्षितमभयं दत्तमेव पुनः किमर्थं प्रणनामेत्यत्राह- हृष्ट इति । रामस्य स्वरूपरूपगुणानुभवजनितहर्षविवशीकृतशरीर एव प्रणतः । नतु किमपि प्रयोजनमुद्दिश्येत्यर्थः । भक्तैरनुचरैः सहेति । राघवं शरणं गतः । निवेदयत मां इति विभीषणस्यैकस्यैवोपायानुष्ठानश्रवणेपि तदनुबन्धिनां तद्भक्तिवशादेव रामपरिचरणं समानमित्युच्यते । उक्त हि । पशुर्मनुष्य: पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदं इति ॥ १ ॥
स तु रामस्य धर्मात्मा निपपात विभीषणः ।
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।। २ ।।
पूर्वं वाचिका प्रपत्तिः कृता संप्रति कायिकशरणागतिं प्रयुङ्क्ते स त्विति ॥ स तु पूर्वस्माद्विलक्षण: । संशयविपर्ययनिवृत्त्या अनुकूलत्वनिर्णयविषय इत्यर्थः । धर्मात्मा सर्वावस्थास्वप्यप्रच्युतशरणागतिधर्मनिष्ठावान् । वध्यतामिति । शङ्कयतामिति । न त्यजेयमिति । आनयैनमिति अस्माभिस्तुल्यो भवत्विति चोक्तासु सर्वावस्थास्वप्यविचारेणैकरूपचित्त इत्यर्थः । अनेन विभीषणस्य महाविश्वास उक्त: । शरणान्वेषी कृतशरणवरण: । विभीषण: रामस्य स्वस्मिन्पक्षपातातिशयद्योतकाभिरामाकारस्य पादयोः स्तनन्धयस्य मातृस्तनवत् श्रीपादावेव स्वस्य भोग्यभूताविति पपात । अन्यैरागत्य प्रशिथिलानवयवान् सम्यग्योजयित्वा यथोत्थाप्येत तथा पपात । चतुर्भिः सह राक्षसैः । करचरणाद्यवयववत्तत्परतन्त्रैरित्यर्थः । तत्रानुकूल्यसंकल्पप्रातिकूल्यवर्जनवत्त्वमुक्तं । धर्मात्मेति महाविश्वासः शरणान्वेषीति गोप्तृत्ववरणं पपातेत्यात्मनिक्षेप इति साङ्गशरणागतिः कृता भवति ॥ २ ॥
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।। ३ ।।
एवं कायिकी शरणागतिरुक्ता । अथ वाचिकीं दर्शयति — अब्रवीदिति ॥ तदा पादपतनसमये । तत्र सुग्रीवादीनां सर्वेषामैकमत्यवति सदसि । रामं पूर्व सुग्रीवादिपुरुषकारभूतान् प्रति संप्रति शरण्यमेव धर्मयुक्तं शरणागत्यङ्गानुकूल सङ्कल्पादिधर्मयुक्तं । युक्तं समर्थकारुणिकशरण्यविषयतया योग्यं । सांप्रतं संप्रहर्षणं । पूर्वं राघवं शरणं गत इत्युक्तिदशायां सुग्रीवादीनां श्रुतिकटुकं जातं । इदानीं सर्वसंप्रहर्षणं ॥ ३ ॥
अनुजो रावणस्याहं तेन चाप्यवमानितः ।
भवन्तं सर्वभूतानां शरण्यं शरणागतः ।। ४ ।।
अनुज इति पूर्वं निवेदयतेत्यत्र पुरुषकारभूतान्प्रत्युक्तं । इदानीं साक्षाच्छरण्यं प्रतीति नपुनरुक्तिः । पूर्वार्धेन स्वदोष ख्यापनादाकिंचन्यमुक्तं । सर्वभूतानां शरण्यं रावणस्यापि शरणं भवामीति कृतसङ्कल्पं । भवन्तंज्ञानशक्त्यादिपरिपूर्ण ॥ ४ ॥
परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।
भवद्गतं मे राज्यं च जीवितं च सुखानि च ।। ५ ।।
अनन्तरं प्राप्यान्तर निरसनपूर्वकं त्वमेव प्राप्यइत्याह – परित्यक्तेति ॥ लङ्का वासस्थानं । मित्राणि सुहृदः । धनानि तद्वारा समागतानि सोपाधिकानि वस्तूनि प्राप्यान्तराणि व्यक्तानीत्यर्थः । भवद्गतं त्वदधीनं । राज्यमिति सर्वपरिग्रहोपलक्षणं । जीवितमिति धारकपोषकभोग्योपलक्षणं । सुखानि ऐहिकामुष्मिकरूपाणि । इदं सर्वं भवद्गतं भवतेकैंकर्यान्तर्गतं भवत्कैङ्कर्यविना अन्यन्नाहमभ्यर्थयामीत्यर्थः ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।। ६ ।।
तस्य सर्वपरिग्रहत्यागपूर्वकं रामेन्यस्तभरस्य । तद्वचनं रामकैङ्कर्यमेव सकलभोग्यजातमिति वाक्यं । सान्त्वयित्वा शरणं गत इत्युक्तिसमय एव स्वीकार्योसि एतावत्पर्यन्तं विलम्बः क्षन्तव्य इति सान्त्ववचनान्युक्त्वा । लोचनाभ्यां पिबन्निव सान्त्ववचनेन तस्य हृदयमार्द्रं कृत्वा अत्यादरेण विलोकयन्नित्यर्थः ॥ ६ ॥
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।। ७ ।।
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।। ८ ।।
एवं विभीषणेन कायिककैङ्कर्ये प्रार्थिते कायिककैङ्कर्यं पश्चाद्भविष्यतीति । संप्रति वाचिक कुर्विति दर्शयति – आख्याहीति ॥ अत्र भवदीयानामित्यनुक्त्वा राक्षसानामित्युक्तेरयं राक्षसजातिर्न भवति किन्त्विक्ष्वाकुवंश्य इति रामो मेने इतिगम्यते । भ्रमरकीटन्यायेन सद्यः स्वसाम्यप्रदंहि भगवदाश्रयणवैभवं ॥ ७-८ ॥
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् ।
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ।। ९ ।।
सर्वभूतानामित्येतत् गन्धर्वादिव्यतिरिक्तपरं । राजपुत्रेति संबुद्ध्या मानुषवध्यत्वं द्योतयति ॥ ९ ॥
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। १० ।।
प्रतिबल: समानबलः ॥ १० ॥
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।
कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ।। ११ ।।
कैलासे वर्तमान इति शेषः । माणिभद्रः कुबेरसेनापतिः यदिवा श्रुत इति । हनुमत इति शेषः ॥ ११ ॥
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ।। १२ ।।
बद्धेति । अङ्गुलीस्रायत इत्यङ्गुलित्राणं अङ्गुलिकवचं । गोधा तलं ज्याघातवारणे इत्यमरः । अनेन निरन्तरशरसन्धायीति गम्यते । अवध्यकवचः अभेद्यकवचः । युधि अदृश्यो भवतीत्यन्वयः । हनुमद्राहकत्वेन प्रसिद्धत्वात्तस्य रावणपुत्रत्वानुक्तिः ॥ १२ ॥
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ।। १३ ।।
कुतोस्यादृश्यत्वशक्तिः अदृश्यश्च किं करोतीत्याह– संग्रामेति ॥ संग्रामसमयकृतव्यूहे । तर्पयित्वा होमैः प्रीणयित्वा ॥ १३ ॥
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।
अनीकस्थास्तु तस्यैते लोकपालसमा युधि ।। १४ ।।
दशकोटिसहस्राणि रक्षसां कामरूपिणाम् ।
मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ।। १५ ।।
महोदर इत्यादि श्लोकद्वयं ॥ अनीकस्थाः सेनापतयः । एते महोदरादयः दशकोटिसहस्राणि सन्तीति शेष: ॥ १४-१५ ॥
स तैस्तु सहितो राजा लोकपालानयोधयत् ।। १६ ।।
स तैरित्यर्धं ॥ १६ ॥
सह देवैस्तु ते भग्ना रावणेन महात्मना ।। १७ ।।
न केवलं योधनं पराजिताश्च ते लोकपाला इत्याह – सह देवैरित्यर्धमेकं वाक्यं ॥ देवैः लोकपालभिन्नैः । ते लोकपालाः महामना महाधैर्येण ॥ १७ ॥
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।। १८ ।।
अन्वीक्ष्य आलोच्य सर्वं कर्तव्याकर्तव्यं ॥ १८ ॥
यानि कर्मापदानानि रावणस्य विभीषण ।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ।। १९ ।।
कर्मापदानानि । अपदानं कर्मवृत्तं इत्यमरः । करिकलभ इत्यत्रेव कर्मशब्दप्रयोगः । शौर्यकृतव्यापारा इत्यर्थः । अवगच्छामि अवधारयामीत्यर्थः ॥ १९ ॥
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।
राजानं त्वां करिष्यामि सत्यमेतद्ब्रवीमि ते ।। २० ।।
आलोचितमर्थमाह अहमित्यादिना ॥ २० ॥
रसातलं वा प्रविशेत्पातालं वाऽपि रावणः ।
पितामहसकाशं वा न मे जीवन्विमोक्ष्यते ।। २१ ।।
रसातलं भूमिवरं । पातालं अधोलोकं । पितामहसकाशं । स्ववरप्रदसमीपं उपरितनलोकावधिभूतं सत्यलोकं वा । मे मत्तः ॥ २१ ॥
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ।। २२ ।।
उक्तमर्थं व्यतिरेकमुखेन दृढयन् सत्यमेतद्ब्रवीमि त इत्युक्तं विवृणोति-अहत्वेति सङ्ख्ये युद्धे । तैः प्रसिद्धैः । भ्रातृभिरिति हेतुविक्षया तृतीया ॥ २२ ॥
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।
शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ।। २३ ।।
स्वानभिमतराज्यप्रदानप्रतिज्ञानात् वन्दनपूर्वकं स्वाभिमतं कैङ्कर्यमेव प्रयोजनान्तरनिवृत्तयेर्थयते – श्रुत्वेत्यादिना ॥ आवन्द्येतिच्छेदः ।। २३ ।।
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् ।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ।। २४ ।।
साह्यं साहाय्यं । सहशब्दः सहायवाची । यथाप्राणं यथाबलं ॥ २४ ॥
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ।। २५ ।।
एवं कैङ्कर्यव्यतिरिक्तफलमनाकाङ्क्षमाणं विभीषण परिष्वङ्गेन वशीकृत्यानुषङ्गिकमपि फलं मत्प्रदत्तमङ्गीकर्तव्यमित्यभिप्रायेण लक्ष्मणमादिशति – इतीति ॥ २५ ॥
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ।। २६ ।।
तेन समुद्रजलेन । महाप्राज्ञं कैङ्कर्यपर्यन्तस्वशेषत्वस्वरूपज्ञं । मयि प्रसन्ने सतीत्यनेन अभिषेको विभीषणेनानाकाङ्क्षितं इति गम्यते । मानद बहुमानप्रद । मत्प्रसादे सति फलप्रदस्त्वमिति भावः ॥ २६ ॥
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् ।
मध्ये वानरमुख्यानां राजानं राजशासनात् ।। २७ ।।
मध्ये वानरमुख्यानानित्यनेन महत्समाजे कृतमलङ्घनीयमिति द्योत्यते । राजशासनादित्य नेनालङ्घनीयं राजशासनमिति विभीषणोनुमेन इति भाव्यते ॥ २७ ॥
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।
प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ।। २८ ।।
प्रचुक्रुशुः हर्षनादं चक्रुः । महात्मानं रामं । अब्रुवन् प्राशंसन्नित्यर्थः ॥ २८ ॥
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।। २९ ।।
अथ समयान्तरे कुत्रचिदेकान्ते प्रदेशे हनुमत्सुग्रीवौ स्थलज्ञं विभीषणं वानरसेनातरणोपायमपृच्छतामित्याह – अब्रवीच्चेति ॥ इदमर्धमेकं वाक्यं ।। २९ ॥
कथं सागरमक्षोभ्यं तराम वरुणालयम् ।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ३० ।।
दुस्तरत्वे हेतुः अक्षोभ्यमिति तत्रापि हेतुर्वरुणालयमिति ॥ ३० ॥
उपायं नाधिगच्छामो यथा नदनदीपतिम् ।
तराम तरसा सर्वे ससैन्या वरुणालयम् ।
एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।। ३१ ।।
बुद्धिमन्तो भवन्त एव विचारयन्तीत्यत्राह – उपायं नाधिगच्छाम इति ॥ सर्वे । वयमितिशेषः ॥ ३१ ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ३२ ।।
समुद्रमित्य ॥ लक्ष्मणव्यावृत्तये राजेत्युक्तिः ॥ ३२ ॥
खानितः सगरेणायमप्रमेयो महोदधिः ।
कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ।। ३३ ।।
शरणवरणं व्याजीकृत्य समुद्रः प्रत्यासक्त्यतिशयात्सद्य उपाय दिशेदित्यभिप्रायेणाह– खानितइति ॥ खानितः स्वपुत्रैरिति शेषः । न केवलमुत्पत्तिमात्रं तन्मूलं किं त्वतिशयोपि तदधीन इत्याह – अप्रमेयो महोदधिरिति । सगरेण रामकूटस्थेन । महामतिः उपकारज्ञ इत्यर्थः ॥ ३३ ॥
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।। ३४ ।।
राक्षसेनेति स्थलज्ञतोक्ता । विपश्चितेति तात्कालिकबुद्धिमत्ता । आजगामेत्यनेन कालान्तरे देशान्तरे सुग्रीवादिप्रश्न इति गम्यते ॥ ३४ ॥
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।। ३५ ।।
विपुलग्रीव इत्यनेन कुतूहलित्वमुक्तं । आरेभइत्यनेन आरम्भमात्र एव सूक्ष्मज्ञतया रामेण सहसा सुग्रीवविवक्षितं ज्ञातमित्युच्यते । उपवेशनं उपासनं ॥ ३५ ॥
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ।। ३६ ।।
प्रकृत्येत्यर्धमेकं वाक्यं ॥ अरोचत तदुपवेशनमित्यनुषङ्गः ॥ ३६ ॥
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ।। ३७ ।।
विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते ।
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ।। ३८ ।।
महातेजाः तात्कालिकहर्षप्रकाशकदेहकान्तिमान् । अन्यान्विहाय सुग्रीवं प्रति वचने हेतुःहरीश्वरमिति । सत्क्रियार्थं विभीषणमन्त्रबहुमानार्थं । क्रियादक्षः स्वयं कार्यकरणसमर्थोपि ॥ ३७-३८ ॥
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ।। ३९ ।।
पण्डितः मन्त्रसमर्थः । उभाभ्यामिति चतुर्थी । अर्थ प्रयोजनं संप्रधार्य निश्चित्य । यत्कार्यमुभाभ्यां रोचते तदुच्यतामितिसंबन्धः ॥ ३९ ॥
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदं वचनमूचतुः ।। ४० ।।
समुदाचारः अञ्जलिबन्धाद्युपचार: तत्संयुक्तमिति क्रियाविशेषणं ॥ ४० ॥
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।
विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ।। ४१ ।।
अस्मिन्काले उपायमन्तरा दर्शनकाले । सुखावहं अयत्नेन कार्यसाधकं । नौआवयोः ॥ ४१ ॥
अबद्धा सागरे सेतुं घोरेऽस्मिन्वरुणालये ।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ४२ ।।
रामशरणागतेः फलं सेतुबन्धनमित्याशयेनाह – अब्रवेति ॥ घोरे तिमितिमिङ्गिलादिसत्त्वाधिष्ठितत्वेन दुस्तरे । सेन्द्रैरिति । किं पुनरस्माभिरिति भावः ॥ ४२ ॥
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।
अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ।
यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।। ४३ ।।
शूरस्य मन्त्रशूरस्य । यथार्थ परमाप्तोक्तत्वादिति । भावः । नियुज्यतां प्रार्थ्यतां । यथेति । तथा नियुज्यतामिति पूर्वेणान्वयः ॥ ४३ ।।
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।
संविवेश तदा रामो वेद्यामिव हुताशनः ।। ४४ ।।
संविवेश संवेशनमकरोत् । वेद्यामिव हुताशन इत्यनेन ज्वलिष्यमाणत्वं व्यज्यते ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशः सर्गः ।। १९ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥